"अग्निपुराणम्/अध्यायः ३०४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
अग्निरुवाच
अग्निरुवाच
मेषः संज्ञा विषं साज्यमस्ति दीर्घेदकं रसः ।

एतत् पञ्चाक्षरं मन्त्रं शिवदञ्च शिवात्मकं ।। ३१४.१ ।।
एतत् पञ्चाक्षरं मन्त्रं शिवदञ्च शिवात्मकं ।। ३०४.१ ।।

तारकादि समभ्यर्च्च्य देवत्वादि समाप्नुयात् ।

ज्ञानात्मकं परं ब्रह्म परं बुद्धिः शिवो हृदि ।। ३१४.२ ।।
ज्ञानात्मकं परं ब्रह्म परं बुद्धिः शिवो हृदि ।। ३०४.२ ।।

तच्छक्तिभूतः सर्व्वेशो भिन्नो ब्रह्मादिमूर्त्तिभिः ।

मन्त्रार्णाः पञ्च भूतानि तन्मन्त्रा विषयास्तथा ।। ३१४.३ ।।
मन्त्रार्णाः पञ्च भूतानि तन्मन्त्रा विषयास्तथा ।। ३०४.३ ।।

प्राणादिवायवः पञ्च ज्ञानकर्म्मेन्द्रियाणि च ।

सर्वं पञ्चाक्षरं ब्रह्म तद्वदष्टाक्षरान्तकः ।। ३१४.४ ।।
सर्वं पञ्चाक्षरं ब्रह्म तद्वदष्टाक्षरान्तकः ।। ३०४.४ ।।

गव्येन प्रोक्षयेद्दीक्षास्थानं मन्त्रेण चोदितं ।

तन्त्रसम्भूतसम्भावः शिवमिष्ट्वा विधानतः ।। ३१४.५ ।।
तन्त्रसम्भूतसम्भावः शिवमिष्ट्वा विधानतः ।। ३०४.५ ।।

मूलमूर्त्त्यङ्गविद्याभिस्तण्डुलक्षेपणादिकम् ।

कृत्वा चरुञ्च यत् क्षीरं पुनस्तद्विभजेत् त्रिधा ।। ३१४.६ ।।
कृत्वा चरुञ्च यत् क्षीरं पुनस्तद्विभजेत् त्रिधा ।। ३०४.६ ।।

निवेद्यैकं परं हुत्वा सशिष्योऽन्यद् भजेद्‌गुरुः ।

आचम्य सकलीकृत्य दद्याच्छिष्याय देशिकः ।। ३१४.७ ।।
आचम्य सकलीकृत्य दद्याच्छिष्याय देशिकः ।। ३०४.७ ।।

दन्तकाष्ठं हृदा जप्तंक्षीरवृक्षादिसम्भवम् ।

संशोध्य दन्तान् संक्षीप्त्वा प्रक्षाल्यैतत् क्षिपेद्भुवि ।। ३१४.८ ।।
संशोध्य दन्तान् संक्षीप्त्वा प्रक्षाल्यैतत् क्षिपेद्भुवि ।। ३०४.८ ।।

पूर्व्वेण सौम्यवारीशगं शुभमतौ शुभम् ।
पूर्व्वेण सौम्यवारीशगं शुभमतौ शुभम् ।
पुनस्तं शिष्यमायान्तं शिखाबन्धादिरक्षितं ।। ३१४.९ ।।
पुनस्तं शिष्यमायान्तं शिखाबन्धादिरक्षितं ।। ३०४.९ ।।

कृत्वा वेद्यां सहानेन स्वपेद्दर्भास्तरे बुधः ।

सुपुप्तं कवीक्ष्यः प्रभाते श्रावयेद्‌गुरुं ।। ३१४.१० ।।
सुपुप्तं कवीक्ष्यः प्रभाते श्रावयेद्‌गुरुं ।। ३०४.०० ।।

शुभैः सिद्धिपदैर्भक्तिस्तैः पुनर्म्मण्डलार्च्चनम् ।

मण्डलं भद्रकाद्युक्तं पूजयेत्सर्व्वसिद्धिदं ।। ३१४.११ ।।
मण्डलं भद्रकाद्युक्तं पूजयेत्सर्व्वसिद्धिदं ।। ३०४.०१ ।।

स्नात्वात्तम्य मृदा देहं मन्त्रैरालिप्य कल्पय्ते ।

शिवतीर्थे नरः स्नायादघमर्षणपूर्वकम् ।। ३१४.१२ ।।
शिवतीर्थे नरः स्नायादघमर्षणपूर्वकम् ।। ३०४.०२ ।।

हस्ताभिषेकं कृत्वाथ प्रायात् पूजादिकं बुधः ।

मूलेनाव्जासनं कुर्य्यात्तेन पूरककुम्भकान् ।। ३१४.१३ ।।
मूलेनाव्जासनं कुर्य्यात्तेन पूरककुम्भकान् ।। ३०४.०३ ।।

आत्मानंयोजयित्वोद्‌र्ध्वं शिखान्ते कद्वादशाङ्गुले ।

संशोष्य दग्धवा स्वतनुं प्लावयेदमृतेन च ।। ३१४.१४ ।।
संशोष्य दग्धवा स्वतनुं प्लावयेदमृतेन च ।। ३०४.०४ ।।

ध्यात्वा दिव्यं वपुस्तस्मिन्नात्मानञ्च पुनर्नयेत् ।

कृत्वैवं चात्मशुद्धिः स्याद्विन्यस्यार्च्चनमारभेत् ।। ३१४.१५
कृत्वैवं चात्मशुद्धिः स्याद्विन्यस्यार्च्चनमारभेत् ।। ३०४.०५

क्रमात् कृष्णसितश्यामरक्तपीता नगादयः ।
क्रमात् कृष्णसितश्यामरक्तपीता नगादयः ।
मन्त्रार्णा दण्डिनाङ्गनि तेषु सर्व्वास्तु मूर्त्तयः ।। ३१४.१६ ।।
मन्त्रार्णा दण्डिनाङ्गनि तेषु सर्व्वास्तु मूर्त्तयः ।। ३०४.०६ ।।

अङ्गुष्ठादिकनिष्ठान्तं विन्यस्याङ्गानि सर्व्वतः ।

न्यसेन्मन्त्राक्षरं पादगुह्यहृद्वक्त्रमूर्द्धसु ।। ३१४.१७ ।।
न्यसेन्मन्त्राक्षरं पादगुह्यहृद्वक्त्रमूर्द्धसु ।। ३०४.०७ ।।

व्यापकं न्यस्य मूर्द्धादि मूलमङ्गानि विन्यसेत् ।

रक्तपीतस्यामसितान् पीठपादान् स्वकालजान् ।। ३१४.१८ ।।
रक्तपीतस्यामसितान् पीठपादान् स्वकालजान् ।। ३०४.०८ ।।

स्वाङ्गान्मन्त्रैर्न्यसेद्‌गात्राण्यधर्म्मादीनि दिक्षु च ।

तत्र पद्मञ्च सूर्य्यादिमण्डले त्रितयं गुणान् ।। ३१४.१९ ।।
तत्र पद्मञ्च सूर्य्यादिमण्डले त्रितयं गुणान् ।। ३०४.०९ ।।

पूर्व्वादिपत्रे कामाद्या नवकं कर्णिकोपरि ।

वामा ज्येष्ठा क्रमाद्रौद्री काली कलविंकारिणी ।। ३१४.२० ।।
वामा ज्येष्ठा क्रमाद्रौद्री काली कलविंकारिणी ।। ३०४.२० ।।

बलविकारिणी चाथ बलप्रमथनी तथा ।
बलविकारिणी चाथ बलप्रमथनी तथा ।
सर्व्वभूतदमनी च नवमी च मनोन्मनी ।। ३१४.२१ ।।
सर्व्वभूतदमनी च नवमी च मनोन्मनी ।। ३०४.२१ ।।

श्वेता रक्ता सिता पीता श्यामा वह्निनिभाषिता ।

कृष्णारुणाश्च ताः शक्तीर्ज्वालारूपाः स्मरेत् क्रमात् ।। ३१४.२२ ।।
कृष्णारुणाश्च ताः शक्तीर्ज्वालारूपाः स्मरेत् क्रमात् ।। ३०४.२२ ।।

अनन्तयोगपीठाय आवाह्याथ हृदब्जतः ।
अनन्तयोगपीठाय आवाह्याथ हृदब्जतः ।
स्फटिकाभं चतुर्व्वाहुं फलशूलधरं शिवम् ।। ३१४.२३ ।।
स्फटिकाभं चतुर्व्वाहुं फलशूलधरं शिवम् ।। ३०४.२३ ।।

साभयं वरदं पञ्चवदनञ्च त्रिलोचनम् ।
साभयं वरदं पञ्चवदनञ्च त्रिलोचनम् ।
पत्रेषु मूर्त्तयः पञ्च स्थाप्यास्ततपुरुषादयः ।। ३१४.२४ ।।
पत्रेषु मूर्त्तयः पञ्च स्थाप्यास्ततपुरुषादयः ।। ३०४.२४ ।।

पूर्व्वे तत्‌पुरुषः श्वेतो अघोरोऽष्ठभुजोऽसितः ।

चतुर्व्वाहुमुखः पीतः सद्योजातश्च पश्चिमे ।। ३१४.२५ ।।
चतुर्व्वाहुमुखः पीतः सद्योजातश्च पश्चिमे ।। ३०४.२५ ।।

वामदेवः स्त्रीविलासी चतुर्वक्त्रभुजोऽरुणः ।

सोग्ये पञ्चास्य ईशाने ईशनः सर्व्वदः सितः ।। ३१४.२६ ।।
सोग्ये पञ्चास्य ईशाने ईशनः सर्व्वदः सितः ।। ३०४.२६ ।।

इष्टाङ्गानि यथान्यायमनन्तं सूक्ष्म्मर्च्चयेत् ।

सिद्धेश्वरं त्वेकनेत्रं पूर्व्वादौ दिशि पूजयेत् ।। ३१४.२७ ।।
सिद्धेश्वरं त्वेकनेत्रं पूर्व्वादौ दिशि पूजयेत् ।। ३०४.२७ ।।

एकरुद्रं त्रिनेत्रञ्च श्रीकण्ठञ्च शिखण्डिनम् ।

ऐशान्यादिविदिक्ष्वेते विद्येशाः कमलासनाः ।। ३१४.२८ ।।
ऐशान्यादिविदिक्ष्वेते विद्येशाः कमलासनाः ।। ३०४.२८ ।।

श्वेतः पीतः सितो रक्तो धूम्रो रक्तोऽरुणः शितः ।

शूलाशनिशरेष्वासवाहवश्चतुराननाः ।। ३१४.२९ ।।
शूलाशनिशरेष्वासवाहवश्चतुराननाः ।। ३०४.२९ ।।

उमा चण्डेशनन्दीशौ महाकालो गणेश्वरः ।
उमा चण्डेशनन्दीशौ महाकालो गणेश्वरः ।
वृषो भृङ्गरिटिस्कन्दानुत्तरादौ प्रपूजयेत् ।। ३१४.३० ।।
वृषो भृङ्गरिटिस्कन्दानुत्तरादौ प्रपूजयेत् ।। ३०४.३० ।।

कुलिशं शक्तिदण्डौ च खड्गपाशध्वजौ गदां ।
कुलिशं शक्तिदण्डौ च खड्गपाशध्वजौ गदां ।
शूलं चक्रं यजेत् पद्मं पूर्व्वादौ देवमर्च्य च ।। ३१४.३१ ।।
शूलं चक्रं यजेत् पद्मं पूर्व्वादौ देवमर्च्य च ।। ३०४.३१ ।।

ततोऽधीवासितं शिष्यं पाययेद्‌ गव्यपञ्चकम् ।

आचान्तं प्रोक्ष्य नेत्रान्तैर्नेत्रे नेत्रेण बन्धयेत् ।। ३१४.३२ ।।
आचान्तं प्रोक्ष्य नेत्रान्तैर्नेत्रे नेत्रेण बन्धयेत् ।। ३०४.३२ ।।

द्वारं प्रवेशयेच्छिष्यं मण्डपस्याथ दक्षिणे ।

सासनादिकुशासीनं तत्र संशोधयेद्‌गरुः ।। ३१४.३३ ।।
सासनादिकुशासीनं तत्र संशोधयेद्‌गरुः ।। ३०४.३३ ।।

आदितत्त्वानि संहृत्य परमार्थे लयः क्रमात् ।

पुनरुत्‌पादयेच्छिष्यं सृष्टिमार्गेण देशिकः ।। ३१४.३४ ।।
पुनरुत्‌पादयेच्छिष्यं सृष्टिमार्गेण देशिकः ।। ३०४.३४ ।।

न्यासं शिष्ये ततः कृत्वा ते प्रदक्षिणमानयेत् ।

पश्चिमद्वारमानीय क्षेपयेत् कुसुमाञ्जलिम् ।। ३१४.३५ ।।
पश्चिमद्वारमानीय क्षेपयेत् कुसुमाञ्जलिम् ।। ३०४.३५ ।।

यस्मिन् पन्ति पुष्पाणि तन्नामाद्यं विनिर्द्दिशेत् ।

पार्श्वे यागभुवः खाते कुण्डे सन्नाभिमेखले३ ।। ३१४.३६ ।।
पार्श्वे यागभुवः खाते कुण्डे सन्नाभिमेखले३ ।। ३०४.३६ ।।

शिवाग्निं जनयित्वेष्ट्वा पुनः शिष्येण चार्च्चयेत् ।

ध्यानेनात्मनिभं शिष्यं संहृत्य प्रलयः क्रमात् ।। ३१४.३७ ।।
ध्यानेनात्मनिभं शिष्यं संहृत्य प्रलयः क्रमात् ।। ३०४.३७ ।।

पुनरुत्‌पाद्य तत्‌पाणौ दद्याद्दर्भांश्च मन्त्रितान् ।

पृथिव्यादीनि तत्त्वानि जुहुयाद्‌धृदयादिभिः ।। ३१४.३८ ।।
पृथिव्यादीनि तत्त्वानि जुहुयाद्‌धृदयादिभिः ।। ३०४.३८ ।।

एकैकस्य शतं हुत्वा व्योममूलेन होमयेत् ।
एकैकस्य शतं हुत्वा व्योममूलेन होमयेत् ।
हुत्वा पूर्णाहुतिं कुर्य्यादस्त्रेणाष्टाहुतीर्हुनेत् ।। ३१४.३९ ।।
हुत्वा पूर्णाहुतिं कुर्य्यादस्त्रेणाष्टाहुतीर्हुनेत् ।। ३०४.३९ ।।

प्रायश्चित्तं विशुद्ध्यर्थं शेषं समापयेत् ।

कुम्भं समन्त्रितं प्रार्च्यं शिशुं पीठेऽभिषेचयेत् ।। ३१४.४० ।।
कुम्भं समन्त्रितं प्रार्च्यं शिशुं पीठेऽभिषेचयेत् ।। ३०४.४० ।।

शिष्ये तु समयं दत्वा स्वर्णाद्यैः स्वगुरुं यजेत् ।

दीक्षा पञ्चाक्षरस्योक्ता विष्ण्वादेरेवमेव हि ।। ३१४.४१ ।।
दीक्षा पञ्चाक्षरस्योक्ता विष्ण्वादेरेवमेव हि ।। ३०४.४० ।।

इत्यादिमहापुराणे आग्नेये पञ्चाक्षरादि पूजामन्त्रा नाम चतुरधिकत्रिशततमोऽध्यायः ।।

०८:४७, १९ डिसेम्बर् २०११ इत्यस्य संस्करणं

पञ्चाक्षरादिपूजामन्त्राः