"अग्निपुराणम्/अध्यायः २९४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
===नागलक्षणानि===
===मन्त्रपरिभाषा===
<poem>
<poem>
अग्निरुवाच
अग्निरुवाच
नागादयोऽथ भावादिदशस्थानानि कर्म्म च ।
मन्त्रविद्याहरिं वक्ष्ये भूक्तिमुक्तिप्रदं श्रृणु ।
सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते ।। २९४.१ ।।
विंशत्यर्णाधिका मन्त्रा मालामन्त्राः स्मृता द्विज ।। २९३.१ ।।

शेषवासुकितक्षाख्याः कर्कटोऽब्जो महाम्बुजः ।
दशाक्षराधिका मन्त्रास्तदर्वाग्वीजसंज्ञिताः ।
शङ्खपालश्च कुलिक इत्याष्टौ नागवर्य्यकाः ।। २९४.२ ।।
वार्द्धक्ये सिद्धिदा ह्येते मालामन्त्रास्तु यौवने ।। २९३.२ ।।

दशाष्टपञ्चत्रिगुणशतमूर्द्धान्वितौ क्रमात् ।
पञ्चाक्षराधिका मन्त्राः सिद्धिदाः सर्वदापरे ।
विप्रौ नृपो विशौ शूद्रौ द्वौ द्वौ नागेषु कीर्त्तितौ ।। २९४.३ ।।
स्त्रीपुंनपुसकत्वेन त्रिधाः स्युर्मन्त्रजातयः ।। २९३.३ ।।

तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः ।
स्त्रीमन्त्रा वह्निजायान्ता नमोन्ताश्च नपुंसकाः ।
फणिमण्डलिराजीलवातपित्तकफात्मकाः ।। २९४.४ ।।
शेषाः पुमांसस्ते शस्ता वश्योच्चाटविषेषु च ।। २९३.४ ।।

व्यन्तरा दोषमिश्रास्ते सर्पा दर्व्वीकराः समृताः ।
क्षुद्रक्रियामयध्वंसे स्त्रियोऽन्यत्र नपुंसकाः ।
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः ।। २९४.५ ।।
मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तार्द्वयोर्जपेत् ।। २९३.५ ।।

गोनसा मन्दगा दीर्घा मण्डलैर्विविधैस्चिताः ।
तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते ।
राजिलाश्चित्रिताः स्निग्धास्तिर्य्यगूद्‌र्ध्वञ्च वाजिभिः ।। २९४.६ ।।
शिष्टः सौम्यः प्रशस्तौ तौ कर्म्मणोः क्रूरसौम्ययोः ।। २९३.६ ।।

व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेयवायवः ।
आग्नेयमन्त्रः सौम्यः स्यात्प्रायशोऽन्ते नमोऽन्वितः ।
चतुर्विधास्ते षड्‌विंशभेदाः षोड़श गोनसाः ।। २९४.७ ।।
सौम्यमन्त्रस्तथाग्नेयः फट्‌कारेणान्ततो युतः ।। २९३.७ ।।

त्रयोदश च राजीला व्यन्तरा एकविशतिः ।
सुप्तः प्रवुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति ।
येऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः ।। २९४.८ ।।
स्वापकालो महावाहो जागरो दक्षिणावहः ।। २९३.८ ।।

आषाढादित्रिमासैः स्याद् गर्भो माषटतुष्टये ।
आग्नेयस्य मनोः सौम्यभन्त्रस्यैतद्विपर्य्ययात् ।
अण्डकानां शते द्वे च तत्वारिंशत् प्रसूयते ।। २९४.९ ।।
प्रबोधकालं जानीयादुभयोरुभयोहहः ।। २९३.९ ।।

सर्पा ग्रसन्ति सूतौघान् विना स्त्रीपुन्नपुंसकान् ।
दुष्टर्क्षराशिविद्वेषिवर्णादीन् वर्ज्जयेन्मनून् ।
उन्मीलतेऽक्षि सप्ताहात् कृष्णो मासाद्भवेद्वहिः ।। २९४.१० ।।
राज्यलाभोपकाराय प्रारभ्यारिः स्वरः कुरून् ।। २९३.१० ।।

द्वादशाहात् सुबोधः स्यात् दन्ताः स्युः सूर्य्यदर्शनात् ।
गोपालककुटीं प्रायात् पूर्णामित्युदिता लिपिः ।
द्वात्रिंशद्दिनविंशत्या चतुस्रस्तेषु दंष्ट्रिकाः ।। २९४.११ ।।
नक्षत्रेक्षक्रमाद्योज्या स्वरान्त्यौ रेवतीयुजौ ।। २९३.११ ।।

कराली मकरी कालरात्री च यमदूतिका ।
वेला गुरुः स्वराः शोणः कर्म्मणैवेतिभेदिताः ।
एतास्तीः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः ।। २९४.१२ ।।
लिप्यर्णा वशिषु ज्ञेया षष्ठेशादींश्च योजयेत् ।। २९३.१२ ।।

षण्मासान्मुच्यते कृत्तिं जीवेत्षष्टिसमाद्वयं ।
लिपौ चतुष्पथस्थायामाख्यवर्णपदान्तराः ।
नागाः सूर्य्यादिवारेशाः सप्त उक्ता दिवा निशि ।। २९४.१३ ।।
सिद्धाः साध्या द्वितीयस्थाः सुसिद्धा वैरिणः परे ।। २९३.१३ ।।

स्वेषां षट् प्रतिवारेषु कुलिकः सर्व्वसन्धिषु ।
सिद्धादीन् कल्पयेदेवं सिद्धात्यन्तगुणैरपि ।
शङ्खेन वा महाव्जेन सह तस्योदयोऽथवा ।। २९४. १४ ।।
सिद्दे सिद्धो जपात् साध्यो जपपूजाहुतादिना ।। २९३.१४ ।।

द्वयोर्व्वा नाड़िकामन्त्रमन्त्रकं कुलिकोदयः ।
सुसिद्धो द्यानमात्रेण साधकं नाशयेदरिः ।
दुष्टः स कालः सर्व्वत्र सर्पदंशे विशेषतः ।। २९४.१५ ।।
दुष्टार्णप्रचुरो यः स्यान्मन्त्रः सर्व्वविनिन्दितः ।। २९३.१५ ।।

कृत्तिका भरणी स्वाती मूलं पूर्व्वत्रयाश्विनी ।
प्रविश्य विधिवद्दीक्षामभिषेकावसानिकाम् ।
विशाखार्द्रा मघाश्लेषा श्रवणरोहिणो ।। २९४.१६ ।।
श्रुत्वा तन्त्रं गुरोर्ल्लब्धं साधयेदीप्सितं मनुम् ।। २९३.१६ ।।

हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः ।
धीरो दक्षः शुचिर्भक्तो जपध्यानादितत्परः ।
षष्ठी रिक्ता शिवा निन्द्या पञ्चमी च चतुर्द्दशी ।। २९४.१७ ।।
सिद्धस्तपस्वी कुशलस्तन्तज्ञः सत्यभाषणः ।। २९३.१७ ।।

सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश्च राशयः ।
निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ।
एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम् ।। २९४.१८ ।।
शान्तो दान्तः पटुश्चीर्णब्रह्मचर्य्यो हविष्यभुक् ।। २९३.१८ ।।

अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम् ।
कुर्वन्नाचार्य्यशुश्रूषां सिद्धोत्साही स शिष्यकः ।
त्रयो द्‌व्येकक्षता दंशा वेदना रुधिरोल्वणा ।। २९४.१९ ।।
स तूपदेश्यः पुत्रश्च विनयी वसुदस्तथा ।। २९३.१९ ।।

नक्तन्त्वेकाङ्‌घ्रिकूर्म्माबा दंशाश्च यमचोदिताः ।
मन्त्रन्दद्यात् सुमिद्धौ तु सहस्रं देशिकं जपेत् ।
दीहीपिपीलिकास्पर्शी कण्ठशोथरुजान्वितः ।। २९४.२० ।।
यद्दच्छया श्रुतं मन्त्रं छलेनाथ बलेन वा ।। २९३.२० ।।

सतोदो ग्रन्थितो दंशः सविषो न्यस्तनिर्व्विषः ।
पत्रे स्थितञ्च गाथाञ्च जजयेद्यद्यनर्थकम् ।
देवालये शून्यगृहे वल्मीकोद्यानकोटरे ।। २९४.२१ ।।
मनत्रं यः साधयेदेकं जपहोमार्च्चनादिभिः ।। २९३.२१ ।।

रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे ।
क्रियाभिर्भूरिभिस्तस्य सिध्यन्ते स्वल्पसाधनात् ।
द्वीपे चतुष्पथे सौधे गृहेऽब्जे पर्व्वताग्रतः ।। २९४.२२ ।।
सम्यक्‌सिद्धैकमन्त्रस्य नासाध्यमिह किञ्चन ।। २९३.२२ ।।

विलद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके ।
बहुमन्त्रवतः पुंसः का कथा शिव एव सः ।
शिग्रुश्लेष्मातकाक्षेषु जम्बू डुम्बरणेषु च ।। २९४.२३ ।।
दशलक्षजपादेकवर्णो मन्त्रः प्रसिध्यति ।। २९३.२३ ।।

वटे च जीर्णप्राकारे खास्यहृत्‌कक्षजत्रुणि ।
वर्णवृद्‌ध्या जपह्नासस्तेनान्येषां समूहयेत् ।
तालौ शङ्खे गले मूद्‌र्ध्नि चिवुके नाभिपादयोः ।। २९४.२४ ।।
वीजाद् द्वित्रिगुणान्मन्त्रान्मालामन्त्रे जपक्रिया ।। २९३.२४ ।।

दंशोऽशुभः शुभो दूनः पुष्पहस्तः सुवाक् सुधीः ।
सङ्‌ख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिषु ।
लिङ्गवर्णंसमानश्च शुक्लवस्त्रोऽमलः शुचिः ।। २९४.२५ ।।
जपाद्दशांशं सर्व्वत्र साभिषेकं हुतं विदुः ।। २९३.२५ ।।

अपद्वारगतः शस्त्री प्रमादी भूगतेक्ष्णः ।
द्रव्यानुक्तौ घृतं होमे जपोऽशक्तस्य सर्व्वतः ।
विवर्णवासाः पाशादिहस्तो गदगदवर्णभाक् ।। २९४.२६ ।।
मूलमन्त्राद्दशांशः स्यादह्गादीनां जपादिकम् ।। २९३.२६ ।।

शुष्ककाष्ठाश्रितः खिन्नस्तिलाक्तककरांशुकः ।
जपात्सशक्तिमन्त्रस्य कामदा मन्त्रदेवताः ।
आर्द्रवासाः कृष्णारक्तपुष्पयुक्तशिरोरुहः ।। २९४.२७ ।।
साधकस्य भवेत् तृप्ता ध्यानहोमार्च्चनादिना ।। २९३.२७ ।।

कुचमर्दीं नखच्छेदी गुदस्पृक् पादलेखकः ।
उच्चैर्ज्जपाद्विशिष्टः स्यादुपांशुर्द्दशभिर्गुणैः ।
केशमुञ्ची तृणच्छेदी दुष्टा दूतास्तथैकशः ।। २९४.२८ ।।
जिह्वाजपे शतगुणः सहस्रो मानसः स्मृतः ।। २९३.२८ ।।

इड़ान्या वा वहेद्‌द्वेधा यदि दूतस्य चात्मनः ।
प्राङ्‌मुखोऽवाङ्‌मुखो वापि मन्त्रकर्म्म समारभेत् ।
आभ्यां द्वाभ्यां पुष्टयास्मान् विद्यास्त्रीपुन्नपुंसकान् ।। २९४.२९ ।।
प्रणवाद्याः सर्व्वमन्त्रा वाग्यतो विहिताशनः ।। २९३.२९ ।।

दूतः स्पृशति यद्‌गात्रं तस्मिन् दंशमुदाहरेत् ।
आसीनस्तु जपेन्मन्त्रान्देवताचार्य्यतुल्यदृक् ।
दूताङ्‌घ्रिचलनं दुष्टमुत्थितिर्निश्चला शुभा ।। २९४.३० ।।
कुटीविविक्ता देशाः स्युर्देवालयनदीह्नदाः ।। २९३.३० ।।

जीवपार्श्वे शुभो दूतो दुष्टोऽन्यत्र समागतः ।
सिद्धौ यवागूपूपैर्व्वा पयो भक्ष्य हविष्यकम् ।
जीवो गतागतैर्दुष्टः शुभो दूतनिवेदने ।। २९४.३१ ।।
मन्त्रस्य देवता तावत् तिथिवारेषु वै जपेत् ।। २९३.३१ ।।

द्तस्य वाक् प्रदुष्टा सा पूर्व्वामजार्द्धनिन्दिता ।
कृष्णाष्टमीचतुर्द्दश्योर्ग्रहणादौ च साधकः ।
विभक्तैस्तस्य वाक्यान्तैर्विषैर्निर्व्विषकालता ।। २९४.३२ ।।
दस्रो यमोऽनलो धाता शशो रुद्रो गुरुर्दितिः ।। २९३.३२ ।।

आद्यैः स्वरैश्च काद्यैश्च वर्गैर्भिन्नलिपिर्द्विधा ।
सर्पाः पितरोऽथ भगोऽर्यमा शीतेतरद्युतिः ।
स्वरजो वसुमान्वर्गी इतिक्षेपा च मातृका ।। २९४.३३ ।।
त्वष्टा मरुत इन्द्राग्नी मित्रेन्द्रौ निर्ऋतिर्ज्जलम् ।। २९३.३३ ।।

वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम् ।
विश्वेदेवा हृषीकेशो वायवः सलिलाधिपः ।
नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः ।। २९४.३४ ।।
अजैकपादहिर्व्रध्नः पूषाश्विन्यादिदेवताः ।। २९३.३४ ।

दुष्टौ दूतस्य वाक्‌पादौ वातग्नी मध्यमो हरिः ।
अग्निदस्रावुमा निघ्नो नागश्चन्द्रो दिवाकरः ।
प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः ।। २९४.३५ ।।
मातृदुर्गा दिशामीशः कृष्णो वैवस्वतः शिवः ।। २९३.३५ ।।

प्रस्थाने मङ्गलं वाक्यं गर्ज्जितं मेघहस्तिनोः ।
पञ्चदश्याः शशाङ्कस्तु पितरस्तिथिदेवताः ।
प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितं ।। २९४.३६ ।।
हरो दुर्गा गुरुर्विष्णुर्ब्रह्मा लक्ष्मीर्धनेश्वरः ।। २९३.३६ ।।

शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये ।
एते सूर्य्यादिवारेशा लिपिन्यासोऽथ कथ्यते ।
अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम् ।। २९४.३७ ।।
केशान्तेषु च वृत्तेषु चक्षुषोः श्रवणद्वये ।। २९३.३७ ।।

वेश्या क्षुतो नृपः कन्या गौर्द्दन्ती मुरजध्वजौ ।
नासागण्डौष्ठदन्तानां द्वे द्वे मूर्द्धास्ययोः क्रमात् ।
क्षीराज्यदधिङ्खाम्बु छत्रं भेरी फलं सुराः ।। २९४.३८ ।।
वर्णान् पञ्चसुवर्णानां वाहुचरणसन्धिषु ।। २९३.३८ ।।

तण्डुला हेम रूप्यञ्च सिद्धयेऽभिमुखा अमी ।
पार्श्वयोः पृष्ठतो नाभौ हृदये च क्रमान्नयसेत् ।
सकाष्ठः सानलः कारुर्म्मलिनाम्बरभावभृत् ।। २९४.३९ ।।
यादींश्च हृदये न्यस्येदेषां स्युः सप्तधातवः ।। २९३.३९ ।।

गलस्थटङ्को गोमायुगृध्रोलूककपर्द्दिकाः ।
त्वगसृङ्मांसकस्नायुमेदोमज्जाशुक्राणि धातवः ।
तैलं कपालकार्पासा निषेधे भस्म नष्टये ।। २९४.४० ।।
वसाः पयो वासको लिख्यन्ते चैव लिपीश्वराः ।। २९३.४० ।।

विषरोगाश्च सप्त स्युर्धातोर्धात्वन्तराप्तितः ।
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्त्तिरमरेश्वरः ।
विषदंशो ललाटं यात्यतो नेत्रं ततो मुखम् ।
अग्निशो भावभूतिश्च तिथीशः स्थानुको हरः ।। २९३.४१ ।।

आस्याच्च वचनीनाड्यौ धातून् प्राप्नोति हि क्रमात् ।। २९४.४१ ।।
दण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः शरण्या देवता अमूः ।। २९३.४२ ।।

इत्यादिमहापुराणे आग्नेये नागलक्षणादिर्नाम चतुर्नवत्यधिकद्विशततमोऽध्यायः ।।
ततः क्रोधीशचण्डौ च पञ्चान्तकशिवोत्तमौ ।
तथैव रुद्रकूर्म्मौ च त्रिनेत्रौ चतुराननः ।। २९३.४३ ।।

अजेशः शर्म्मसोमेशौ तथा लाङ्गलिदारुकौ ।
अर्द्धनारीश्वरश्चोमा कान्तश्चाषाढिदण्डिनौ ।। २९३.४४ ।।

अत्रिर्म्मीनश्च मेषश्च लोहितश्च शिखी तथा ।
छगलण्डद्विरणअडौ द्वौ समहाकालवालिनौ ।। २९३.४५ ।।

भुजङ्गश्च पिनाकी च खड्गीशश्च वकः पुनः ।
स्वेतो भृगुर्लगुडीशाक्षश्च सम्बर्त्तकः स्मृतः ।। २९३.४६ ।।

रुद्रात्मशक्तान् लिखयादीन् नमोन्तान् विन्यसेत् क्रमात् ।
अङ्गनि विन्यसेत्सर्व्वे मन्त्राः साङ्गास्तु सिद्धिदाः ।। २९३.४७ ।।

हृल्लेखाव्योमसपूर्व्वाण्येतान्यङ्गानि विन्यसेत् ।
हृदादीन्यङ्गमन्त्रान्तैर्यो जपेद्‌धृदये नमः ।। २९३.४८ ।।

स्वाहा शिरस्यथ वषट्‌शिखायां कवचे च हूं ।
वौष्ट नेत्रेऽस्त्राय फट्स्यात् पञ्चाङ्गं नेत्रवर्जितम् ।। २९३.४९ ।।

निरङ्गस्यात्मना चाङ्गं न्यस्येमान्नियुतं जपेत् ।
क्रमाभ्यां देवीं वागीशीं यथोक्तांस्तु तिलान् हुनेत् ।। २९३.५० ।।

लिपिदेवी साक्षसूत्रकुम्भपुस्तकपद्मधृक् ।
कवित्वादि प्रयच्छेत् कर्म्मदौ सिद्धये न्यसेत् ।। २९३.५१ ।।

निष्कविर्निर्म्मलः सर्व्वे मन्त्राः सिध्यन्ति मातृभिः ।। २९३.५२ ।।

इत्यादिमहापुराणे आग्नेये मन्त्रपरिभाषा नाम त्रिनवत्यधिकद्विशततमोऽध्यायः ।।

</poem>
</poem>

०५:१९, १९ डिसेम्बर् २०११ इत्यस्य संस्करणं

नागलक्षणानि