"अग्निपुराणम्/अध्यायः २६९" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
===छत्रादिमन्त्रादयः=== |
|||
<poem> |
<poem> |
||
पुष्कर उवाच |
|||
छत्रादिमन्त्रान् वक्ष्यामि यैस्तत् पूज्य जयादिकम् । |
|||
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।। २६९.१ ।। |
|||
सूर्य्यस्य च प्रबावेन वर्द्धस्व त्वं महामते । |
|||
पाण्डराभप्रतीकाश हिमकुन्देन्दुसुप्रभ ।। २६९.२ ।। |
|||
यथाम्बुदश्छादयते शिवायैनां वसुन्धरां । |
|||
तथाच्छादय राजानं विजयारोग्यवृद्धये ।। २६९.३ ।। |
|||
गन्धर्वकुलजातस्त्वं माभूयाः कुलदूषकः । |
|||
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।। २६९.४ ।। |
|||
प्रभावाच्च हुताशस्य वर्द्धस्व त्वं तुरङ्गम । |
|||
तेजसा चैव सूर्य्यस्य मुनीनां तपसा तथा ।। २६९.५ ।। |
|||
रुद्रस्य ब्रह्मचर्य्येण पवनस्य बलेन च । |
|||
स्मर त्वं राजपुत्रोऽसि कौस्तुभन्तु मणिं स्मर ।। २६९.६ ।। |
|||
यां गतिं ब्रहाहा गच्छेत् पितृहा मातृहा मातृहा तथा । |
|||
भूम्यर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ।। २६९.७ ।। |
|||
ब्रजेस्त्वन्तां गतिं क्षिप्रं मा तत् पापं भवेत्तव । |
|||
विकृतिं मापगच्छेस्त्वं युद्धेऽध्वनि तुरङ्गम ।। २६९.८ ।। |
|||
रिपून् विनिघ्नन् समरे सह भर्त्रा सुखी भव । |
|||
शक्रकेतो महावीर्य्यः सुवर्णस्त्वामुपाश्रितः ।। २६९.९ ।। |
|||
पतत्रिराड्वैनतेयस्तथा नारायणध्वजः । |
|||
काश्यपेयोऽमृताहर्त्ता नागादिर्विष्णुवाहनः ।। २६९.१० ।। |
|||
अप्रमेयो दुराधर्षो रणे देवारिसूदनः । |
|||
महाबलो महावेगे महाकायोऽमृताशनः ।। २६९.११ ।। |
|||
गरुत्माम्मारुतगतिस्त्वयि सन्निहितः स्थितः । |
|||
विष्णुना देवदेवेन शक्रार्थं स्थापितो ह्यसि ।। २६९.१२ ।। |
|||
जयाय भव मे नित्यं वृद्धयेऽथ बलस्य च । |
|||
साश्ववर्मायुधान्योधान् रक्षास्माकं रिपून् दह ।। २६९.१३ ।। |
|||
जयाय भव मे नित्यं वृद्धयेऽथ वामनः । |
|||
सुप्रतीकोऽञ्चनो नील एतेऽष्टौ देवयोनयः ।। २६९.१४ ।। |
|||
तेषां पुत्राश्च पौत्राश्च बलान्यष्टौ समाश्रिताः । |
|||
भद्रो भन्दो मृगश्चैव गजः संकीर्ण एव च ।। २६९.१५ ।। |
|||
वने वने प्रसूतास्ते स्मरयोनिं महागजाः । |
|||
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ।। २६९.१६ ।। |
|||
भर्त्तारं रक्ष नागेन्द्र समयः परिपाल्यतां । |
|||
ऐरावताधिरूढ़स्तु वज्रहस्तः शतक्रतुः ।। २६९.१७ ।। |
|||
पृष्ठतोऽनुगतस्त्वेष रक्षतु त्वां स देवराट् । |
|||
अवाप्नुहि जयं युद्धे सुस्थश्चैव सदा व्रज ।। २६९.१८ ।। |
|||
अवाप्नुहि बलञ्चैव ऐरावतसमं युधि । |
|||
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्य्याज्जवोऽनिलात् ।। २६९.१९ ।। |
|||
स्थैर्य्यं गिरेर्जयं रुद्राद् यशो देवात् पुरन्दरात् । |
|||
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ।। २६९.२० ।। |
|||
अश्विनौ सह गन्धरेवैः पान्तु त्वां सर्वतो दिशः । |
|||
मनवो वसवो रुद्रा वायुः सोमो महर्षयः ।। २६९.२१ ।। |
|||
नागकिन्नरगन्धर्वयक्षभूतगणा ग्रहाः । |
|||
प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह ।। २६९.२२ ।। |
|||
शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि । |
|||
प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु ।। २६९.२३ ।। |
|||
यानि प्रयुक्तान्यरिभिर्भूषणानि समन्ततः । |
|||
पतन्तु तव शत्रणां हतानि तव तेजसा ।। २६९.२४ ।। |
|||
कालनेमिबधे यद्वत् युद्धे त्रिपुरघातने । |
|||
हिरण्यकशिपोर्युद्धे बधे सर्वासुरेषु च ।। २६९.२५ ।। |
|||
शोभितासि तथैवाद्य शोभस्व समयं स्मर । |
|||
नीलस्वेतामिमान्दृष्ट्वा नश्यन्त्वाशु नृपारयः ।। २६९.२६ ।। |
|||
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्ज्जिताः । |
|||
पूतना रेवती लेखा कालरात्रीति पठ्यते ।। २६९.२७ ।। |
|||
दहन्त्वाशु रिपून् सर्वान् पताके त्वामुपाश्रिताः । |
|||
सर्वमेधे महायज्ञे देवदेवेन शूलिना ।। २६९.२८ ।। |
|||
शर्वेण जगतश्चैव सारेण त्वं विनिर्म्मितः । |
|||
नन्दकस्यापरां मूर्त्तिं स्मर शत्रुनिवर्हण ।। २६९.२९ ।। |
|||
नीलोत्पलदलश्याम कृष्ण दुःस्वप्ननाशन । |
|||
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ।। २६९.३० ।। |
|||
औगर्भो विजयश्चैव धर्म्मपालस्तथैव च । |
|||
इत्यष्टौ तव नामानि पुरोक्तानि स्वयम्भुवा ।। २६९.३१ ।। |
|||
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । |
|||
हिरण्यञ्च शरीरन्ते दैवतन्ते जनार्दनः ।। २६९.३२ ।। |
|||
राजानं रक्ष निस्त्रिंशं सबलं सपुरन्तथा । |
|||
पिता पितामहो देवः स त्वं पालय सर्वदा ।। २६९.३३ ।। |
|||
शर्मप्रदस्त्वं समरे वर्मन् सैन्ये यशोऽद्य मे । |
|||
रक्ष मां रक्षणीयोऽहन्तवानघ नमोऽस्तुते ।। २६९.३४ । |
|||
दुन्दुभे त्वं सप्त्नानां घोषाद्धृदयकम्पनः । |
|||
भव भूमिपसैन्यानां यथा विजयवर्द्धनः ।। २६९.३५ ।। |
|||
यथा जीमूतघोषेण हृष्यन्ति वरवारणाः । |
|||
तथास्तु तव शब्देन हर्षोऽस्माकं मुदावह ।। २६९.३६ ।। |
|||
यथा जीमूतशब्देन स्त्रीणं त्रासोऽभिजायते । |
|||
तथा तु तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे ।। २६९.३७ ।। |
|||
मन्त्रैः सदार्च्चनीयास्ते योजनीया जयादिषु । |
|||
घृतकम्बलविष्णादेस्त्वभिषेकञ्च वत्सरे ।। २६९.३८ ।। |
|||
राज्ञोऽभिषेकः कर्त्तव्यो दैवज्ञेन पुरोधसा । |
|||
इत्यादिम्हापुराणए आग्नेये छत्रादिमन्त्रादयो नाम ऊनषष्ट्यधिकद्विशततमोऽध्यायः । । |
|||
</poem> |
</poem> |
०८:२८, १७ डिसेम्बर् २०११ इत्यस्य संस्करणं
छत्रादिमन्त्रादयः
पुष्कर उवाच
छत्रादिमन्त्रान् वक्ष्यामि यैस्तत् पूज्य जयादिकम् ।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।। २६९.१ ।।
सूर्य्यस्य च प्रबावेन वर्द्धस्व त्वं महामते ।
पाण्डराभप्रतीकाश हिमकुन्देन्दुसुप्रभ ।। २६९.२ ।।
यथाम्बुदश्छादयते शिवायैनां वसुन्धरां ।
तथाच्छादय राजानं विजयारोग्यवृद्धये ।। २६९.३ ।।
गन्धर्वकुलजातस्त्वं माभूयाः कुलदूषकः ।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।। २६९.४ ।।
प्रभावाच्च हुताशस्य वर्द्धस्व त्वं तुरङ्गम ।
तेजसा चैव सूर्य्यस्य मुनीनां तपसा तथा ।। २६९.५ ।।
रुद्रस्य ब्रह्मचर्य्येण पवनस्य बलेन च ।
स्मर त्वं राजपुत्रोऽसि कौस्तुभन्तु मणिं स्मर ।। २६९.६ ।।
यां गतिं ब्रहाहा गच्छेत् पितृहा मातृहा मातृहा तथा ।
भूम्यर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ।। २६९.७ ।।
ब्रजेस्त्वन्तां गतिं क्षिप्रं मा तत् पापं भवेत्तव ।
विकृतिं मापगच्छेस्त्वं युद्धेऽध्वनि तुरङ्गम ।। २६९.८ ।।
रिपून् विनिघ्नन् समरे सह भर्त्रा सुखी भव ।
शक्रकेतो महावीर्य्यः सुवर्णस्त्वामुपाश्रितः ।। २६९.९ ।।
पतत्रिराड्वैनतेयस्तथा नारायणध्वजः ।
काश्यपेयोऽमृताहर्त्ता नागादिर्विष्णुवाहनः ।। २६९.१० ।।
अप्रमेयो दुराधर्षो रणे देवारिसूदनः ।
महाबलो महावेगे महाकायोऽमृताशनः ।। २६९.११ ।।
गरुत्माम्मारुतगतिस्त्वयि सन्निहितः स्थितः ।
विष्णुना देवदेवेन शक्रार्थं स्थापितो ह्यसि ।। २६९.१२ ।।
जयाय भव मे नित्यं वृद्धयेऽथ बलस्य च ।
साश्ववर्मायुधान्योधान् रक्षास्माकं रिपून् दह ।। २६९.१३ ।।
जयाय भव मे नित्यं वृद्धयेऽथ वामनः ।
सुप्रतीकोऽञ्चनो नील एतेऽष्टौ देवयोनयः ।। २६९.१४ ।।
तेषां पुत्राश्च पौत्राश्च बलान्यष्टौ समाश्रिताः ।
भद्रो भन्दो मृगश्चैव गजः संकीर्ण एव च ।। २६९.१५ ।।
वने वने प्रसूतास्ते स्मरयोनिं महागजाः ।
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ।। २६९.१६ ।।
भर्त्तारं रक्ष नागेन्द्र समयः परिपाल्यतां ।
ऐरावताधिरूढ़स्तु वज्रहस्तः शतक्रतुः ।। २६९.१७ ।।
पृष्ठतोऽनुगतस्त्वेष रक्षतु त्वां स देवराट् ।
अवाप्नुहि जयं युद्धे सुस्थश्चैव सदा व्रज ।। २६९.१८ ।।
अवाप्नुहि बलञ्चैव ऐरावतसमं युधि ।
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्य्याज्जवोऽनिलात् ।। २६९.१९ ।।
स्थैर्य्यं गिरेर्जयं रुद्राद् यशो देवात् पुरन्दरात् ।
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ।। २६९.२० ।।
अश्विनौ सह गन्धरेवैः पान्तु त्वां सर्वतो दिशः ।
मनवो वसवो रुद्रा वायुः सोमो महर्षयः ।। २६९.२१ ।।
नागकिन्नरगन्धर्वयक्षभूतगणा ग्रहाः ।
प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह ।। २६९.२२ ।।
शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि ।
प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु ।। २६९.२३ ।।
यानि प्रयुक्तान्यरिभिर्भूषणानि समन्ततः ।
पतन्तु तव शत्रणां हतानि तव तेजसा ।। २६९.२४ ।।
कालनेमिबधे यद्वत् युद्धे त्रिपुरघातने ।
हिरण्यकशिपोर्युद्धे बधे सर्वासुरेषु च ।। २६९.२५ ।।
शोभितासि तथैवाद्य शोभस्व समयं स्मर ।
नीलस्वेतामिमान्दृष्ट्वा नश्यन्त्वाशु नृपारयः ।। २६९.२६ ।।
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्ज्जिताः ।
पूतना रेवती लेखा कालरात्रीति पठ्यते ।। २६९.२७ ।।
दहन्त्वाशु रिपून् सर्वान् पताके त्वामुपाश्रिताः ।
सर्वमेधे महायज्ञे देवदेवेन शूलिना ।। २६९.२८ ।।
शर्वेण जगतश्चैव सारेण त्वं विनिर्म्मितः ।
नन्दकस्यापरां मूर्त्तिं स्मर शत्रुनिवर्हण ।। २६९.२९ ।।
नीलोत्पलदलश्याम कृष्ण दुःस्वप्ननाशन ।
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ।। २६९.३० ।।
औगर्भो विजयश्चैव धर्म्मपालस्तथैव च ।
इत्यष्टौ तव नामानि पुरोक्तानि स्वयम्भुवा ।। २६९.३१ ।।
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ।
हिरण्यञ्च शरीरन्ते दैवतन्ते जनार्दनः ।। २६९.३२ ।।
राजानं रक्ष निस्त्रिंशं सबलं सपुरन्तथा ।
पिता पितामहो देवः स त्वं पालय सर्वदा ।। २६९.३३ ।।
शर्मप्रदस्त्वं समरे वर्मन् सैन्ये यशोऽद्य मे ।
रक्ष मां रक्षणीयोऽहन्तवानघ नमोऽस्तुते ।। २६९.३४ ।
दुन्दुभे त्वं सप्त्नानां घोषाद्धृदयकम्पनः ।
भव भूमिपसैन्यानां यथा विजयवर्द्धनः ।। २६९.३५ ।।
यथा जीमूतघोषेण हृष्यन्ति वरवारणाः ।
तथास्तु तव शब्देन हर्षोऽस्माकं मुदावह ।। २६९.३६ ।।
यथा जीमूतशब्देन स्त्रीणं त्रासोऽभिजायते ।
तथा तु तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे ।। २६९.३७ ।।
मन्त्रैः सदार्च्चनीयास्ते योजनीया जयादिषु ।
घृतकम्बलविष्णादेस्त्वभिषेकञ्च वत्सरे ।। २६९.३८ ।।
राज्ञोऽभिषेकः कर्त्तव्यो दैवज्ञेन पुरोधसा ।
इत्यादिम्हापुराणए आग्नेये छत्रादिमन्त्रादयो नाम ऊनषष्ट्यधिकद्विशततमोऽध्यायः । ।