"अग्निपुराणम्/अध्यायः २६६" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
===विनायकस्नानम्=== |
|||
<poem> |
<poem> |
||
पुष्कर उवाच |
|||
विनायकोपसृष्टानां स्नानं सर्वकरं वदे । |
|||
विनायकः कर्म्मविघ्नसिद्ध्यर्थं विनियोजितः ।। २६६.१ ।। |
|||
गणानामाधिपत्ये च केशवेशपितामहैः । |
|||
स्वप्नेवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।। २६६.२ ।। |
|||
विनायकोपसृष्टस्तु क्रव्यादानधिरोहति । |
|||
व्रजमानस्तथात्मानं मन्यतेऽनुगतम्परैः ।। २६६.३ ।। |
|||
विमना विफलारम्भः संसीदत्यनिमित्ततः । |
|||
कन्या वरं न चाप्नोति च चापत्यं वराङ्गना ।। २६६.४ ।। |
|||
आचार्य्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं लबेत् । |
|||
धनी न लाभमाप्नोति न कृषिञ्च कृषीबलः ।। २६६.५ ।। |
|||
राजा राज्यं न चाप्नोति स्नपननतस्य कारयेत् । |
|||
हस्तपुष्याश्वयुक्सौम्ये वैष्णवे भद्रपीठके ।। २६६.६ ।। |
|||
गौरसर्षपकल्केन साज्येनोत्सादितस्य च । |
|||
सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ।। २६६.७ ।। |
|||
चतुर्भिः कलसैः स्नानन्तेषु सर्वौषधीः क्षिपेत् । |
|||
अश्वस्थानाद्गजस्थानाद्वल्मीकात् सङ्गमाद्ध्रदात् ।। २६६.८ ।। |
|||
मृत्तिकां रोजनाङ्गन्धङ्गुग्गुलुन्तेषु निक्षिपेत् । |
|||
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।। २६६.९ ।। |
|||
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते । |
|||
भगन्ते वरुणो राजा भगं सूर्य्यो बृहस्पतिः ।। २६६.१० ।। |
|||
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः । |
|||
यक्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ।। २६६.११ ।। |
|||
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा । |
|||
दर्भपिञ्जलिमादाय वामहस्ते ततो गुरुः ।। २६६.१२ ।। |
|||
स्नातस्य सार्षपन्तैलं श्रुवेणौडुम्बरेण च । |
|||
जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृहाय च ।। २६६.१३ ।। |
|||
मितश्च सम्मितश्चैव तथा शालककण्टकौ । |
|||
कुष्माण्डो राजपुत्रश्च एतैः स्वाहासमन्वितैः ।। २६६.१४ ।। |
|||
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः । |
|||
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य्य सर्व्वतः ।। २६६.१५ ।। |
|||
कृताकृतांस्तण्डुलांश्च पललौदनमेव च । |
|||
मत्स्यान्पङ्कांस्तथैवामान् पुष्पं चित्रं सुरां त्रिधा ।। २६६.१६ ।। |
|||
मुलकं पूरिकां पूपांस्तथैवैण्डविकास्रजः । |
|||
दध्यन्नं पायसं पिष्टं मोदकं गुड़मर्पयेत् ।। २६६.१७ ।। |
|||
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकां । |
|||
दूर्व्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिं ।। २६६.१८ ।। |
|||
रूपं देहि यशो देहि सौभाग्यं सुभगे मम । |
|||
पुत्रं देहि धनं देहि सर्व्वान् कामांश्च देहि मे ।। २६६.१९ ।। |
|||
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि । |
|||
विनायकं ग्रहान्प्रार्च्य श्रियं कर्म्मफलं लभेत् ।। २६६.२० ।। |
|||
इत्यादिमहापुराणे आग्नेये विनायकस्नानं नाम षट्षष्ट्यधिकद्विशततमोऽध्यायः ।। |
|||
</poem> |
</poem> |
०८:०१, १७ डिसेम्बर् २०११ इत्यस्य संस्करणं
विनायकस्नानम्
पुष्कर उवाच
विनायकोपसृष्टानां स्नानं सर्वकरं वदे ।
विनायकः कर्म्मविघ्नसिद्ध्यर्थं विनियोजितः ।। २६६.१ ।।
गणानामाधिपत्ये च केशवेशपितामहैः ।
स्वप्नेवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।। २६६.२ ।।
विनायकोपसृष्टस्तु क्रव्यादानधिरोहति ।
व्रजमानस्तथात्मानं मन्यतेऽनुगतम्परैः ।। २६६.३ ।।
विमना विफलारम्भः संसीदत्यनिमित्ततः ।
कन्या वरं न चाप्नोति च चापत्यं वराङ्गना ।। २६६.४ ।।
आचार्य्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं लबेत् ।
धनी न लाभमाप्नोति न कृषिञ्च कृषीबलः ।। २६६.५ ।।
राजा राज्यं न चाप्नोति स्नपननतस्य कारयेत् ।
हस्तपुष्याश्वयुक्सौम्ये वैष्णवे भद्रपीठके ।। २६६.६ ।।
गौरसर्षपकल्केन साज्येनोत्सादितस्य च ।
सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ।। २६६.७ ।।
चतुर्भिः कलसैः स्नानन्तेषु सर्वौषधीः क्षिपेत् ।
अश्वस्थानाद्गजस्थानाद्वल्मीकात् सङ्गमाद्ध्रदात् ।। २६६.८ ।।
मृत्तिकां रोजनाङ्गन्धङ्गुग्गुलुन्तेषु निक्षिपेत् ।
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।। २६६.९ ।।
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ।
भगन्ते वरुणो राजा भगं सूर्य्यो बृहस्पतिः ।। २६६.१० ।।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।
यक्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ।। २६६.११ ।।
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ।
दर्भपिञ्जलिमादाय वामहस्ते ततो गुरुः ।। २६६.१२ ।।
स्नातस्य सार्षपन्तैलं श्रुवेणौडुम्बरेण च ।
जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृहाय च ।। २६६.१३ ।।
मितश्च सम्मितश्चैव तथा शालककण्टकौ ।
कुष्माण्डो राजपुत्रश्च एतैः स्वाहासमन्वितैः ।। २६६.१४ ।।
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य्य सर्व्वतः ।। २६६.१५ ।।
कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
मत्स्यान्पङ्कांस्तथैवामान् पुष्पं चित्रं सुरां त्रिधा ।। २६६.१६ ।।
मुलकं पूरिकां पूपांस्तथैवैण्डविकास्रजः ।
दध्यन्नं पायसं पिष्टं मोदकं गुड़मर्पयेत् ।। २६६.१७ ।।
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकां ।
दूर्व्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिं ।। २६६.१८ ।।
रूपं देहि यशो देहि सौभाग्यं सुभगे मम ।
पुत्रं देहि धनं देहि सर्व्वान् कामांश्च देहि मे ।। २६६.१९ ।।
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ।
विनायकं ग्रहान्प्रार्च्य श्रियं कर्म्मफलं लभेत् ।। २६६.२० ।।
इत्यादिमहापुराणे आग्नेये विनायकस्नानं नाम षट्षष्ट्यधिकद्विशततमोऽध्यायः ।।