"मत्स्यपुराणम्/अध्यायः २३१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>

शान्तिविधानवर्णनम्
गर्ग उवाच।
अनग्निर्दीप्यते यत्र राष्ट्रे यस्य निरन्धनः।
न दीप्यते चेन्धनवान् तद्राष्ट्रं पीड्यते नृपैः ।। २३१.१ ।।

प्रज्वलेदप्सु मांसं वा तथार्द्रं वापि किञ्चन।
प्राकारं तोरणं द्वारं नृपवेश्म सुरालयम् ।। २३१.२ ।।

एतानि यत्र दीप्यन्ते तत्र राज्ञो भयं भवेत्।
विद्युता वा प्रदह्यन्ते तदापि नृपतेर्भयम् ।। २३१.३ ।।

अनैशानि तमांसि स्युर्विना पांसुरजांसि च।
धूमश्चानग्निजो यत्र तत्र विन्द्यन्महाभयम् ।। २३१.४ ।।

तडित्त्वनभ्रे गगने भयं स्यादृक्षवर्जिते।
दिवा सतारे गगने तथैव भयमादिशेत् ।। २३१.५ ।।

ग्रहनक्षत्र-वैकृत्ये ताराविषमदर्शने।
पुरुवाहन-यानेषु चतुष्पान्मृगपक्षिषु ।। २३१.६ ।।

आयुधेषु च दीप्तेषु धूमायत्सु तथैव च।
निर्गमत्सु च कोशाच्च संग्रामस्तुमुलो भवेत् ।। २३१.७ ।।

विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कुत्रचित्।
स्वभावाच्चापि पूर्यन्ते धनूंषिं विकृतानि च ।। २३१.८ ।।

विकारश्चायुधानं स्यात् तत्र संग्राममादिशेत्।
त्रिरात्रो पोषितश्चात्र पुरोधाः सुसमाहितः ।। २३१.९ ।।

समिद्भिः क्षीरवृक्षाणां सर्षपैश्च घृतेन च।
होमं कुर्यादग्निमन्त्रैः ब्राह्मणांश्चैव भोजयेत् ।। २३१.१० ।।

दद्यात्सुवर्णञ्च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवञ्च।
एवं कृते पापमुपैति नाशं यदग्नि-वैकृत्यभवं द्विजेन्द्र! ।। २३१.११ ।।

</poem>
</poem>

१८:१७, २४ नवेम्बर् २०११ इत्यस्य संस्करणं