"मत्स्यपुराणम्/अध्यायः २७३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>

कलौ भाविनृपान्वयवर्णनम्।

सूत उवाच।
काण्वायनास्ततो भूपाः सुशर्माणः प्रसह्यताम्।
शुङ्गानाञ्चैव यच्छेषं क्षपित्वा तु बलीयसः ।। २७३.१

शिशुकोन्ध्रः सजातीयः प्राप्स्यतीमां वसुन्धराम्।
त्रयोविंशत् समाराजा शिशुकस्तु भविष्यति ।। २७३.२

श्रीमल्लकर्णिर्भविता तस्य पुत्रस्तु वै दश।
पूर्णोत्संगस्ततो राजा वर्षाण्यष्टादशैव तु ।। २७३.३

पञ्चाशतं समाः षट्च शान्तकर्णिर्भविष्यति।
दशचाष्टौ च वर्षाणि तस्य लम्बोदरः सुतः ।। २७३.४

आपीतको दशद्वे च तस्य पुत्रो भविष्यति।
दशचाष्टौ च वर्षाणि मेधस्वातिर्भविष्यति ।। २७३.५

स्वातिश्च भविता राजा समास्त्वष्टादशैव तु।
स्कन्दस्वातिस्तथा राजा सप्तैव तु भविष्यति ।। २७३.६

मृगेन्द्रस्वातिकर्णस्तु भविष्यति समास्त्रयः।
कुन्तलः स्वातिकर्णस्तु भविताष्टौ समानृपः ।। २७३.७

एकसंवत्सरं राजा स्वातिवर्णो भविष्यति ।। २७३.८

भविता रिक्तवर्णस्तु वर्षाणि पञ्चविंशति।
ततः संवत्सरान् पञ्च हालो राजा भविष्यति ।। २७३.९

पञ्चमन्दुलको राजा भविष्यति समा नृप।
पुरीन्द्रसेनो भविता तस्मात् सौम्यो भविष्यति ।। २७३.१०

सुन्दरः सान्तिकर्णस्तु अब्दमेकं भविष्यति।
चकोरः स्वातिकर्णस्तु षण्मासान् वै भविष्यति ।। २७३.११

अष्टाविंशति वर्षाणि शिवस्वातिर्भविष्यति।
राजा च गौतमी पुत्रो ह्येकविंशत्यतो नृपः ।। २७३.१२

अष्टाविंशतिसुतस्तस्य सुलोमा वै भविष्यति।
शिवश्रीर्वै सुलोमात्तु सप्तैव भविता नृपः ।। २७३.१३

शिवस्कन्ध शान्तिकर्णाद् भविता ह्यात्मजः समाः।
नवविंशति वर्षाणि यज्ञः श्री शान्तिकर्णिकः ।। २७३.१४

षड़ेव भविता तस्या द्विजयस्तु समस्ततः।
चण्डश्रीः शान्तिकर्णस्तु तस्य पुत्र समादश ।। २७३.१५

सुलोमा सप्तवर्षाणि अन्यस्तेषां भविष्यति।
एकोनविंशतिर्ह्येते आन्ध्रा भोक्ष्यन्ति वै महीम् ।। २७३.१६

तेषां वर्षशतानि स्युः चत्वारि षष्टिरेव च।
आन्ध्राणां संस्थिता राज्ये तेषां भृत्यान्वये नृपाः ।। २७३.१७

सप्तैवान्ध्रा भविष्यन्ति दशाभीरास्तथा नृपाः।
सप्तगर्दभिलाश्चापि शकाश्चाष्टादशैव तु ।। २७३.१८

यवनाष्टौ भविष्यन्ति तुषाराश्च चतुर्दश।
त्रयोदश गु(मु)रुंडाश्च हूणाह्येकोनविंशातिः ।। २७३.१९

यवनाष्टौ भविष्यन्ति सप्ताशीति महीमिमाम्।
सप्तगर्द्दभिलाभूयो भोक्ष्यन्तीमां वसुन्धराम् ।। २७३.२०

सप्तवर्षसहस्राणि तुषाराणां मही स्मृता।
शतानि त्रीण्यशीतिञ्च शतान्यष्टादशैव तु ।। २७३.२१

शतान्यर्द्धञ्चतुष्काणि भवितव्यास्त्रयोदश।
गु(मु)रुण्डा वृषलैः सार्धं भोक्ष्यन्ते म्लेच्छसम्भवाः ।। २७३.२२

शतानि त्रीणि भोक्ष्यन्ते वर्षाण्येकादशैव तु।
आन्ध्राः श्रीपार्व्वतीयाश्च ते द्विपञ्चाशतं समाः ।। २७३.२३

सप्तषष्टिस्तु वर्षाणि दशाभीरास्तथैव च।
तेषूत्सन्नेषु कालेन ततः किलकिलानृपाः ।। २७३.२४

भविष्यन्तीह यवना धर्मतः कामतोऽर्थतः।
तैर्विमिश्रा जनपदा आर्य्याम्लेच्छाश्च सर्वशः।। २७३.२५

विपर्ययेण वर्तन्ते क्षयमेष्यन्ति वै प्रजाः।
लुब्धानृतब्रुवाश्चैव भवितारो नृपास्तथा ।। २७३.२६

कल्किनानिहताः सर्वे आर्य्या म्लेच्छाश्च सर्वतः।
अधार्मिकाश्चयेऽप्यर्थं पाषण्डाश्चैव सर्वशः ।। २७३.२७

प्रणष्टे नृपवंशे तु सन्ध्या शिष्टे कलौ युगे।
किञ्चिच्छिष्टाः प्रजास्ता वै धर्मे नष्टेऽपरिग्रहाः ।। २७३.२८

असाधवो ह्यसत्वाश्च व्याधिशोकेन पीड़िताः।
अनावृष्टिहताश्चैव परस्पर वधेप्सवः ।। २७३.२९

अशरण्याः परित्रस्ताः सङ्कटं घोरमाश्रिताः।
सरित्पर्वतवासिन्यो भविष्यन्त्यखिलाः प्रजाः ।। २७३.३०

पत्रमूलफलाहाराः चीरपत्राजिनाम्बराः।
वृत्त्यर्थमभिलिप्सन्त्यः चरिष्यन्ति वसुन्धराम् ।। २७३.३१

एवं कष्टमनुप्राप्ताः प्रजाकाले युगान्तके।
निःशेषास्तु भविष्यन्ति सार्द्धं कलियुगेन तु ।। २७३.३२

क्षीणे कलियुगे तस्मिन् दिव्ये वर्षसहस्रके।
ससन्ध्यांशे सुनिः शेषे कृतं तु प्रतिपत्स्यते ।। २७३.३३

एवं वंशक्रमः कृत्स्नः कीर्तितो यो मया क्रमात्।
अतीता वर्त्तमानाश्च तथैवानागताश्च ये ।। २७३.३४

महापद्माभिषेकात्तु यावज्जन्मपरीक्षितः।
एवं वर्षसहस्रन्तु ज्ञेयं पञ्चाशदुत्तरम् ।। २७३.३५

पौलौमास्तु तथान्ध्रास्तु महापद्मान्तरे पुनः।
अनन्तरं शतान्यष्टौ षट्त्रिंशत्तु समास्तथा ।। २७३.३६

तावत्कालान्तरं भाव्यमान्ध्रान्तादापरीक्षितः।
भविष्येते प्रसङ्ख्याताः पुराणज्ञैः श्रुतर्षिभिः ।। २७३.३७

सप्तर्षयस्तदा प्रांशु प्रदीप्तेनाग्निना समाः।
सप्तविंशति भाव्यानां आन्ध्राणान्तु यदा पुनः ।। २७३.३८

सप्तर्षयस्तु वर्त्तन्ते यत्र नक्षत्रमण्डले।
सप्तर्षयस्तु तिष्ठन्ति पर्य्यायेण शतं शतम्।। २७३.३९

सप्तर्षीणामुपर्ये तत् स्मृतं वै दिव्यसंज्ञया।
समादिव्याः स्मृता षष्टिर्दिव्याब्दानि तु सप्तभिः ।। २७३.४०

एभिः प्रवर्तते कालो दिव्यः सप्तर्षिभिस्तु वै।
सप्तर्षीणाञ्च यौ पूर्वौ दृश्येते ह्युदितौ निशि ।। २७३.४१

तयोर्मध्ये तु नक्षत्रं दृश्यते यत्समं दिवि।
तेन सप्तर्षयो ज्ञेया युक्ता व्योम्नि शतं समाः ।। २७३.४२

नक्षत्राणामृषीणाञ्च योगस्यैतन्निदर्शनम्।
सप्तर्षयो मघायुक्ताः काले पारिक्षिते शतम् ।। २७३.४३

ब्राह्मणस्तु चतुर्विंशा भविष्यति शतं समाः।
ततः प्रभृत्ययं सर्वो लोको व्यापत्स्यते भृशम् ।। २७३.४४

अनृतोपहता लुब्धा धर्मतः कामतोऽर्थतः।
श्रौतस्मार्तेति शिथिले नष्टवर्णाश्रमे तथा ।। २७३.४५

सङ्करं दुर्बलात्मानः प्रतिपत्स्यन्ति मोहिताः।
ब्राह्मणाः शूद्रयोनिस्थाः शूद्रा वै मन्त्रयोनयः ।। २७३.४६

उपस्थास्यन्ति तान्विप्रास्तदर्थमभिलिप्सवः।
क्रमेणैव च दृश्यन्ते स्ववर्णान्तरदायकम् ।। २७३.४७

क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये।
यस्मिन्कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि ।। २७३.४८

प्रतिपन्नं कलियुगं प्रमाणं तस्य मे श्रृणु।
चतुः शतसहस्रन्तु वर्षाणां वै स्मृतं बुधैः ।। २७३.४९

चत्वार्यष्टसहस्राणि सङ्ख्यातं मानुषेण तु।
दिव्यं वर्षसहस्रन्तु तदा सङ्ख्या प्रवर्तते ।। २७३.५०

निःशेषेतु तदा तस्मिन् कृतं वै प्रतिपत्स्यते।
ऐलश्चेक्ष्वाकुवंशश्च सहदेवः प्रकीर्त्तिताः ।। २७३.५१

इक्ष्वाकोः संस्मृतं क्षत्रं सुमित्रान्तं भविष्यति।
ऐलं क्षत्रंसमाक्रान्तं सोमवंशविदो विदुः ।। २७३.५२

एते विवस्वतः पुत्राः कीर्तिताः कीर्तिवर्धनाः।
अतीता वर्तमानाश्च तथैवानागताश्च ये ।। २७३.५३

ब्राह्मणाः क्षत्रिया वैश्यास्तथा शूद्राश्च वै स्मृताः।
वैवस्वतेऽन्तरे तस्मिन्निति वंशः समाप्यते ।। २७३.५४

देवापिः पौरवो राजा ऐक्ष्वाको यश्च ते मतः।
महायोगबलोपेतौ कलापग्राममाश्रितौ ।। २७३.५५

एतौ क्षत्रप्रणेतारौ नवविंशे चतुर्युगे।
सुवर्चा मनुपुत्रस्तु ऐक्ष्वाकाद्यो भविष्यति ।। २७३.५६

नवविंशे युगे सो वै वंशस्यादिर्भविष्यति।
देवापिपुत्रः सत्यस्तु ऐलानां भविता नृपः ।। २७३.५७

क्षत्रप्रवर्तकावेतौ भविष्ये तु चतुर्युगे।
एवं सर्वेषु विज्ञेयं सन्तानार्थन्तु लक्षणम् ।। २७३.५८

क्षीणे कलियुगेचैव तिष्ठन्तीति कृते युगे।
सप्तर्षयस्तु तैः सार्धं मध्ये त्रेतायुगे पुनः ।। २७३.५९

बीजार्थं वै भविष्यन्ति ब्रह्मक्षत्रस्तु वै पुनः।
एवमेवं तु सर्वेषु तिष्यान्तेष्वन्तरेषु च।। २७३.६०

सप्तर्षयो नृपैः सार्द्धं सन्तानार्थं युगे युगे।
एवं क्षत्रस्य चौत्सेधः सम्बन्धो वै द्विजैः स्मृतः ।। २७३.६१

मन्वन्तराणां सन्ताने सन्तानाश्च श्रुतौ स्मृताः।
अतिक्रान्तयुगाश्चैव ब्रह्मक्षत्रस्य सम्भवाः ।। २७३.६२

यथा प्रशान्तिस्तेषां वै प्रकृतीनां यथाक्षयः।
सप्तर्षयो विदुस्तेषां दीर्घायुस्त्वं क्षयोदयौ ।। २७३.६३

एतेन क्रमयोगेन ऐला इक्ष्वाकवो नृपाः।
उत्पद्यमानास्त्रेतायां क्षीयमाणाः कलौ युगे ।। २७३.६४

अनुयान्ति युगाख्यान्तु यावन्मन्वन्तरक्षयम्।
जामदग्न्येन रामेण क्षत्रेनिरवशेषिते ।। २७३.६५

रिक्तेयं वसुधा सर्वा क्षत्रियैर्वसुधाधिपैः।
द्विवंशकरणं सर्वं कीर्तयिष्ये निबोध मे ।। २७३.६६

ऐलञ्चेक्ष्वाकुवंशञ्च प्रकृतिं परिचक्षते।
राजानः श्रेणिबद्धाश्च तथान्ते क्षत्रिया भुवि ।। २७३.६७

ऐलवंशास्तु भूयांसो न तथेक्ष्वाकवो नृपाः।
एषामेकशतं पूर्णं कुलानामभिरोचते ।। २७३.६८

तावदेव तु भोजानां विस्ताराद् द्विगुणं स्मृतम्।
भोजानां द्विगुणां क्षत्रं चतुर्द्धा तद्यथा तथम् ।। २७३.६९

ते ह्यतीताः स नामानो ब्रुवतस्तान्निबोध मे।
शतं वै प्रतिविन्ध्यानां शतं नागाः शतं हयाः ।। २७३.७०

शतमेकं धार्तराष्ट्रा ह्यशीतिर्जनमेजयाः।
शतं वै ब्रह्मदत्तानां वीराणां कुरवः शतम् ।। २७३.७१

ततः शतञ्च पञ्चालाः शतं काशिकुशादयः।
तथापरे सहस्रे द्वे ये नीपाः शशबिन्दवः ।। २७३.७२

इष्टवन्तश्च ते सर्वे सर्वे नियुतदक्षिणाः।
एवं राजर्षयोऽतीताः शतशोऽथ सहस्रशः ।। २७३.७३

मनोर्वैवस्वतस्यासन् वर्तमानेऽन्तरे विभोः।
तेषां ते निधनोत्पत्तौ लोकसंस्थितयः स्थिताः ।। २७३.७४

न शक्यो विस्तरस्तेषां सन्तानस्य परस्परम्।
तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ।। २७३.७५

अष्टाविंशसमाख्याता गता वैवस्वतेऽन्तरे।
ऐते देवगणैः सार्द्धं शिष्टा ये तान्निबोधित ।। २७३.७६

चत्वारिंशत्त्रयश्चैव भविष्यास्ते महात्मनः।
अवशिष्टा युगाख्यास्ते ततो वैवस्वतो ह्ययम् ।। २७३.७७

एतद्वः राजर्षयो ये तु अतीतास्ते युगैः सह।
ये ते ययाति वंश्यानां ये च वंशा विशाम्पते ।। २७३.७८

कीर्तिता द्युतिमन्तस्ते य एतान् धारयेन्नरः।
लभते स वरान्पञ्च दुर्लभानिह लौकिकान् ।। २७३.७९

आयुः कीर्तिं धनं स्वर्गं पुत्रवांश्चाभिजायते।
धारणाच्छ्रवणाच्चैव परं स्वर्गस्य धीमतः ।। २७३.८०

</poem>
</poem>

१०:५०, २३ नवेम्बर् २०११ इत्यस्य संस्करणं