"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १२३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
 
पङ्क्तिः १०: पङ्क्तिः १०:
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
अथ रासेश्वरि राधे! प्रातः स्नात्वा हरेर्जनाः ।
अथ रासेश्वरि राधे! प्रातः स्नात्वा हरेर्जनाः ।
पूजयित्वा वालकृष्णमूर्तिं प्रद्युम्नमित्यपि ।। १ ।।
पूजयित्वा बालकृष्णमूर्तिं प्रद्युम्नमित्यपि ।। १ ।।
देवतायतनं चापि हितां चक्रुर्विचारणाम् ।
देवतायतनं चापि हितां चक्रुर्विचारणाम् ।
मेषायनाद्याः ऋषयः थर्कूटस्थनृपादयः ।। २ । ।
मेषायनाद्याः ऋषयः थर्कूटस्थनृपादयः ।। २ । ।

११:४६, १४ डिसेम्बर् २०१९ समयस्य संस्करणम्

← अध्यायः १२२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १२३
[[लेखकः :|]]
अध्यायः १२४ →

श्रीकृष्ण उवाच-
अथ रासेश्वरि राधे! प्रातः स्नात्वा हरेर्जनाः ।
पूजयित्वा बालकृष्णमूर्तिं प्रद्युम्नमित्यपि ।। १ ।।
देवतायतनं चापि हितां चक्रुर्विचारणाम् ।
मेषायनाद्याः ऋषयः थर्कूटस्थनृपादयः ।। २ । ।
राशियानप्रदेशानां भक्ताग्र्याः सात्त्वतोत्तमाः ।
श्रुत्वा पुरा क्रतुं चक्रे भगवान् लाशहातटे ।। ३ । ।
शालावत्यास्तटे चापि पिंगदेशेषु तत्प्रजाः ।
कृपया पावयामास बालकृष्णः परेश्वरः ।। ४ । ।
स्वयमागत्य देवैश्च ब्रह्मप्रियादिभिः सह ।
पितृभ्यां सहितश्चापि तीर्थीचकार तद्भुवम् ।। ५ ।।
तथा चात्र समागच्छेद् भवेयुस्तीर्थभूमयः ।
पवित्राः सुखदा सर्वपापप्रणाशशक्तयः ।। ६ ।।
सर्वदेवनिवासार्हाः सर्वपूज्याः प्रमोक्षदाः ।
सर्वनद्यो भवेयुश्च भगवत्पादपाविताः ।। ७ ।।
तस्माद् यज्ञान् करिष्यामः पञ्च श्रीवैष्णवान् शुभान् ।
आद्यं मखं शिबिराज्ये बालकृष्णसरस्तटे ।। ८ ।।
थर्कूटस्थभूपराज्ये द्वितीयं च क्रतुं शुभम् ।
वीरजारमहाराजराज्ये क्रतुं तृतीयकम् ।। ९ । ।
शक्त्यक्षिनृपराज्ये च मखं चतुर्थकं शुभम् ।
कालिमाशनृपराज्ये मखं श्रेष्ठं च पञ्चमम् ।। 2.123.१० ।।
करिष्यामो धनाद्यैश्चार्पणैः सर्वप्रसाधनैः ।
मुक्तान् तथाऽताराँश्च ईश्वरान् पार्षदाँस्तथा ।। ११ । ।
ईश्वरीर्देवदेवीश्च पितॄन् सिद्धर्षिपुंगवान् ।
मानवान् जडचैतन्याश्रयान् सर्वान् हि देहिनः ।। १२ ।।
तीर्थानि लोकपालाद्यानाह्वयिष्याम एव च ।
कारयिष्याम उप्कृष्टान्मखान् कृष्णस्य तुष्टये ।। १३ ।।
तस्मान्नारायणस्वामी बालकृष्णो जनार्दनः ।
समागच्छेच्च नो देशेष्वेवं भक्तविधीयताम् ।। १४।।
इत्युक्तो देवसदृशो देवतायतनो मुनिः ।
बाढं बाढमुवाचैतान् मुमुक्षून् वैष्णवाँस्तदा ।। १ ५।।
क्षणं विश्रमितुं त्वाज्ञां प्रचकार च भक्तराट् ।
गत्वा श्रीबालकृष्णाख्यसरस्तटे नृपादिकान् ।। १६ ।।
ऋषयश्च नृपाद्याश्च देवायतनको मुनिः ।
ययुर्विमानमार्गेण बालकृष्णसरोवरम् ।। १ ७।।
अवतेरुश्च ते भूमौ विमानेनोत्तरे तटे ।
चत्वारोऽपि च राजानो द्वादशाऽपि महर्षयः ।। १८ ।।
तथा प्रजाग्रमान्याश्च सहस्रशो धनान्विताः ।
वैष्णवास्तेऽवतेरुश्च यज्ञार्थं कृतनिश्चयाः ।। १ ९।।
प्रद्युम्नश्च ऋषीन् प्राह कुर्वन्तु घोषणां भुवि ।
यज्ञो वै वैष्णवः कार्यो बालकृप्णसरस्तटे ।।2.123.२०।।
उत्तरे प्रथमः पश्चाद् द्वितीयस्तु क्रतूत्तमः ।
द्विकलाख्यसरस्तीरे थर्कूटभूभृता पुनः ।।।२ १ ।।
तृतीयश्च क्रतुः कार्यो वीरजारेण भूभृता ।
ओबीरात्रीशनद्योश्च संगमे क्षितिविस्तरे ।।२२।।
चतुर्थस्तु क्रतुः कार्यः शक्त्यक्षिभूभृता शुभः ।
आलनौकाब्धिसंयोगे विशाले भूतले तथा ।।२३ ।।
पञ्चमस्तु क्रतुः कार्यः कालिमाशेन भूभृता ।
कालिमासागरयोगे तेष्वायान्तु हि वैष्णवाः ।।२४।।
तत्राऽनादिकृष्णनारायणः श्रीपुरुषोत्तमः ।
अक्षराधिपतिः श्रीमान् परमात्मा परेश्वरः ।। २५।।
बालकृष्णो हि भगवानस्माकमिष्टदेवता ।
कुंकुमवापिकाक्षेत्रात् स्वयं चैवागमिष्यति ।। २६ ।।
दर्शनार्थं च सेवार्थं समागन्तव्यमेव ह ।
पूर्णिमावधिपर्यन्तं दत्ता दीक्षा स्थले स्थले ।। २७।।
अथेदानीं मार्गशीर्षे कृष्णैकादशिकादिने ।
प्रथमस्य मखस्यैवारम्भः सम्यग् भविष्यति ।।२८।।
साप्तदैनस्य यज्ञस्य कार्यं कृष्णः करिष्यति ।
द्वितीयस्य तु यज्ञस्य मार्गे वै पञ्चमीदिने ।।२९।।
समारम्भः समाप्तिश्च ह्येकादश्यां सिते दले ।
तृतीयस्य क्रतोश्चाप्यारंभो व तृतीयातिथौ ।।2.123.३ ०।।
पौषकृष्णे समाप्तिश्च नवम्यां संभविष्यति ।
चतुर्थयज्ञारम्भस्तु एकादश्यां भविष्यति ।।३ १ ।।
शुक्लायां तु द्वितीयायां समाप्तिश्च भविष्यति ।
पञ्चमस्य तु यज्ञस्याऽऽरम्भो वै पञ्चमीदिने ।।३ २।।
एकादश्यां समाप्तिश्च भविष्यतीति निश्चितम् ।
इत्येवं घोषयन्त्वेव राशियानेषु सर्वथा ।।३३ ।।
इत्युक्ता राजवर्गाश्च तथा तत्तन्महर्षयः ।
उद्घोषणां तथा चक्रुः स्वस्वदेशेषु सत्वरम् ।।३४।।
वैहायसा तु यानेन ततो राजादयश्च ते ।
शोधयामासुरत्यर्थं सामग्रीर्विविधाः शुभाः ।।३५।।
कारयामासुरेवात्र सञ्चिताः सर्वतो दिशः ।
मण्डपादीँस्तथा शाला निवासान् शिबिराणि च ।।३६।।
दशयोजनभूमौ च कारयामासुरुत्सुकाः ।
प्रद्युम्नः कारयामास यथायोग्यं निरीक्षकः ।।३७।।
देवतायतनश्चापि द्वादशर्षय एव ते ।
विमानेन ययुः श्रीमत्कृष्णनारायणं प्रति ।।३८।।
प्रार्थयामासुरीशेशेश्वरं कृष्णनरायणम्।
तथाऽस्त्वेवं हरिः प्राह प्रसन्नः पितृदेशितः ।। ३९ ।।
लोमशेन तथाऽऽज्ञप्तो देवतायतनो मुनिः ।
ऋषीन् सहस्रशो नीत्वा विमाने प्रययौ क्रतुम् ।।2.123.४०।।
ते सर्वे कारयामासुर्बालकृष्णसरस्तटे ।
कुण्डान् विविधान् वेदीश्च स्थापनार्थं च वेदिकाः ।।४१ ।।
शालाः क्रतोर्वासशाला महीमानाश्रयाँस्तथा ।
मुक्तानां चालयान रम्यानवतारालयाँस्तथा ।।४२।।
ईश्वराणामालयाँश्चेश्वरीणामालयाँस्तथा ।
पितॄणां च तथर्षीणां ब्रह्मप्रियालयाँस्तथा ।।४३ ।।
ब्रह्मसरसामालयाँश्चाप्सरसामालयाँस्तथा ।
देवानां बहुजातीनामालयान् विविधाँस्तथा ।।४४।।
दासानामालयाँश्चापि भुवर्लोकनिवासिनाम् ।
मानवानां च तीर्थानां स्थावराणां तथालयान् ।।४५।।।
अतलादिनिवासानामालयान् बहुभूमिकान् ।
विशाले भूतले चापि व्योम्नि चापि व्यधुस्तदा ।।४९ ।।
मण्डपं साप्तभौमं च विशालं दशयोजनम् ।
व्यधुस्तु विश्वकर्माणः प्रद्युम्नस्य निदेशतः ।।४७।।
पञ्चाशद्योजने भागे महीमानाश्रयान् व्यधुः ।
प्रत्याश्रयं प्रदीपाश्च मणीनां तु स्वभावजाः ।।४८।।
शीतोष्णादिजलानां च कुल्याः स्वभावजास्तथा ।
पयोदधिवृतानां च कुल्याश्चापि स्वभावजाः ।।४९।।
मधूनां शर्कराणां च रसकुल्याः स्वभावजाः ।
पेयानां शीततोयानां ह्रदाश्चामृतसंज्ञकाः ।।2.123.५०।।
ब्रह्मह्रदास्तथा गोपहृदा नारायणह्रदाः ।
सत्यह्रदास्तथा देवह्रदाश्च निहिता ध्रुवाः ।।५१ ।।
यथापेक्षमनलानां कुण्ठाश्च कुण्डिकाः कृताः ।
नैसर्गा दुग्धपाकाश्च दुग्धसारा निसर्गजाः ।।५२।।
कामधेनुसमूहाश्च रसवल्लीद्रुमालयाः ।
रसशालाः सर्वसृष्टिभोज्यपानप्रदाः शुभाः ।।५३ ।।
वस्त्राभूषणशृंगारभोग्यद्रव्यादिपेटिकाः ।
गन्धसारप्रचूर्णादिकज्जलालक्तवार्पिकाः ।।५४।।
वाद्यगायननृत्यादिप्रदर्शनप्रदर्शिकाः ।
मनोरञ्जनजालाद्याः प्रस्फोटकानलानिलाः ।।५५ ।।
यानवाहनशिबिकागारुडहंसगोवृषाः ।
शय्यापर्यंकवितानोल्लोचपटादिभित्तिकाः ।।५६।।
उद्यानानि विचित्राणि सर्वौषधिप्रवाटिकाः ।
भोज्यपेयादिवस्तूनां पर्वता इव सञ्चयाः ।।५७।।
हव्यानां च कणानां च फलानां सञ्चयास्तथा ।
पत्राणां च रसानां च समिधां संचयास्तथा ।।५८ ।।
व्रीहीणां च यवानां च मुन्यन्नानां विशेषतः ।
तिलानां घृतभागानां पक्वान्नानां समुच्छ्रयाः । । ५९ ।।
दूरश्रवणयन्त्राणां दूरदर्शनकारिणाम् ।
चन्द्राणां दूरवेधानां स्पर्शबोधनकारिणाम् ।।2.123.६ ० ।।
ऋतुबोधकराणां च गोलकान्तरबोधिनाम् ।
वार्तातारगृहाणां च क्लृप्तनं वै स्थले स्थले ।। ६१ । ।
दासीनां सेवकानां च निसर्गलेखकारिणाम् ।
क्लृप्तना कारिता तत्र मखभूमौ स्थले स्थले । । ६२ ।।
राजमार्गा देवमार्गा हस्त्यश्वहंसगारुडाः ।
येषु प्रयान्ति सुखतस्तथा वै निर्मितास्तदा ।। ६३ ।।
दक्षिणार्थं द्रव्यशाला यज्ञार्थं पात्रमन्दिरम् ।
दानार्थं वस्त्रशालाश्च देवपूजार्हशालिकाः । ।६४।।
सर्वोपचारशालाश्च निर्मिता विश्वकर्मभिः ।
स्थाने स्थाने कल्पलताः कोणे कोणे मणिप्रभाः । । ६५ । ।
चिन्तामणिप्रधानाश्च वासाः सर्वसुखप्रदाः ।
मुक्तानां धवले व्योम्नि चान्तरीक्षे तु नाकिनाम् । । ६६ ।।
भौमानां भूमिभागेषु भूस्तरे त्वन्यदेहिनाम् ।
निर्मिताः सुखदा वासा बालकृष्णमखोत्सवे । । ६७ । ।
इत्येवं सर्वथा भूमिः शृंगारिता महालयैः ।
मण्डपस्य शिरोभागे ध्वजोऽष्टशतहस्तकः ।।।६८ । ।
सहस्रं कलशानां तु सौवर्णानां च रोपितम् ।
वेदमन्त्रा झल्लरीषु तोरणेषु प्रलेखिताः ।। ६९ ।।
रंगरंगोलिकाशोभाः स्वर्गोद्यानसमाः कृताः ।
एवं वै भ्राजमानेषु निवासेषु मखाभितः ।। 2.123.७० ।।
आययुश्च महीमानाः पत्रैश्चामन्त्रितास्तदा ।
यज्ञोऽयं श्रीकृष्णनारायणः कारयति स्वयम् ।।७ १ ।।
शिबिदेवनृपद्वारा सर्वैर्गन्तव्यमादरात् ।
इदानीं मार्गशीर्षे वै कृष्णैकादशिकादिने ।। ७२ ।।
बालकृष्णसरस्तीरे यज्ञारंभो विलोक्यताम् ।
अनादिश्रीकृष्णनारायणस्य पटहो महान् ।।७३ ।।
व्यनदत् सर्वलोकेषु हरिणाऽऽज्ञापितः शुभः ।
दशम्यां सर्वलोकस्थाः श्रुत्वा क्रतुं समाययुः ।।।७४।।
अक्षरब्रह्मलोकाद्वै मुक्ताः सर्वे समाययुः ।
धामानि चापि सर्वाणि भगवन्तस्तदाश्रिताः ।।७५ ।।
भगवत्यः समाजग्मुर्मुक्तान्यश्चाप्यसंख्यिकाः ।
ईश्वरा ईश्वराण्यश्च पितरो मुनयस्तथा ।।।७६ ।।
सिद्धा ब्रह्मप्रशीलाश्च सुराः सुराण्य एव तु।
ब्रह्मसरसोऽप्सरसो देव्यो दिक्पालपुंगवाः ।।७७।।
सांख्ययोगिन्य एवापि भुवर्लोकसुरास्तथा ।
मानवाः ऋषयो विप्राः कुंकुमवापिकाजनाः ।।७८।।
अब्रिक्तजाश्चाजनाभा उरष्ट्रालयादिवासिनः ।
आययुस्तलवासाश्च भूविवरनिवासिनः ।।७९।।
नदा नद्यः समुद्राश्च वृक्षा वल्लय इत्यपि ।
तीर्थानि पशवः पक्षवन्तस्तिर्यक्प्रजातयः ।।2.123.८०।।
पार्थिवाश्च जलीयाश्च वाह्नेया वायवीयकाः ।
देहिनश्चाययुस्तत्र यज्ञार्थं कृतनिश्चयाः ।।८ १।।
देवदानवदैत्याश्च रुद्राश्च वसवस्तथा ।
विश्वेदेवास्तथा साध्या मनवो ब्रह्मपुत्रकाः ।।८२।।
सनकाद्या साधवश्च नारदाद्या महार्षयः ।
ब्रह्मपुत्रप्रपौत्राद्याश्चाययुस्त्वध्वरे हरेः ।।८३ ।।
विनेदुश्च दिशः सर्वा विमानानां समागमैः ।
राजानो राशिवर्गाश्च ददुर्वासानि चादरात् ।।८४।।
तावद्देवायनर्षिश्च विमाने कामगे शुभे ।
सर्वस्मृद्धिप्रपूर्णे तु शातभौमे महायते ।।८५।।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
ब्रह्मप्रियास्तथा सर्वाः सर्वं कुटुम्बमित्यपि ।।८६।।
लोमशादीन् सप्तर्षींश्च विप्रान् नराँश्च योषितः ।
मातापितरौ देवादीन् तीर्थानि शंकरादिकान् ।।८७।।
क्षेत्रपान् सेविका देवीर्देवताश्चेश्वरादिकान् ।
तत्रत्यदिव्यदेहाँश्च नीत्वा व्योम्ना समाययौ ।।८८।।
अवाद्यन्त सुवाद्यानि जयशब्दास्तदाऽभवन् ।
लाजापुष्पाक्षतैः सर्वे वर्धयामासुरेव तत् ।।८९।।
नेमुश्च परितः सर्वे कोटिसूर्योज्ज्वलं शुभम् ।
विमानं परमेशस्याऽक्षरतुल्यं महोज्ज्वलम् ।।2.123.९०।।
दिव्यहस्तिसुशोभाढ्यं दिव्यहंसविराजितम् ।
दिव्यध्वजसुकलशैः राजितं कामगं सुखम् ।। ९ १।।
यत्पार्श्वे सुविमानानि सुप्रयान्ति सहस्रशः ।
अशब्दं चाऽऽगतं मेघादूर्ध्वं द्विपञ्चयोजनम् ।।९२।।
आकाशे स्थैर्यमापन्नं तस्माद्वै भगवान् स्वयम् ।
अवाततार सहसा कोट्यब्जसार्थशोभितः ।।९३ ।।
विद्युद्यन्त्रादिनिर्घोषा अवाद्यन्त च सूचकाः ।
आकाशो मूर्तिमान् भूत्वा कृष्णगीतिमगायत ।।९४।।
रागाश्चापि च रागिण्यः सरस्वत्यश्च शारदाः ।
विद्याः सर्वास्तदा कृष्णकृतेऽगायन्त चत्सुकाः ।।९५।।
लक्ष्मीगंगाविरजासुललिताविजयाजयाः ।।९६।।
सुशीलाद्याश्च वै गीतिं तदा चक्रुर्मनोहराम् ।
गन्धर्वा गायनं चक्रुस्तदा कृष्णस्य तुष्टये ।।९७।।
ऋषयो वेदनिर्घोषाँश्चक्रुर्घनरवादिभिः ।
वह्न्याद्या देवताश्चापि जयशब्दान् प्रचक्रिरे ।।९८।।
शिष्याद्याश्च ऋषयश्च सन्मानं दण्डवत्पुरः ।
चक्रुः सर्वे जय कृष्णनारायणेति संजगुः ।।९९।।
तावद्धरिः पृथिव्यां वै सभामण्डपमागमत् ।
पुष्पहारान् ददुस्तस्मै शेखरान् गुच्छकान् ददुः ।। 2.123.१०० ।।
पुष्पाणां सञ्चयैः सर्वे वर्धयामासुरच्युतम् ।
मातरं पितरं चापि भगवन्तं शुकं तथा ।। १०१ ।।
सन्तुष्टां चामृतां चापि देवायतनकं मुनिम् ।
हेमन्तं च भगवन्तं लोमशं शंभुविष्ण्वजान् ।। १ ०२।।
ब्रह्मप्रियादिका राधे! कुंकुमवापिकाप्रजाः ।
वर्धयामासुरत्यर्थं राशियानप्रजा मुहुः ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णसरोवरतटे यज्ञमण्डपादिकरणं महीमानागमो बालकृष्णाद्यागमश्चेत्यादिनिरूपणनामा त्रयोविंशत्य-
धिकशततमोऽध्यायः ।। १२३ ।।