"ऋग्वेदः सूक्तं ४.१५" इत्यस्य संस्करणे भेदः

नेविगेशन पर जाएँ खोज पर जाएँ
सम्पादनसारांशरहितः
No edit summary
No edit summary
 
अ॒ग्निः । होता॑ । नः॒ । अ॒ध्व॒रे । वा॒जी । सन् । परि॑ । नी॒य॒ते॒ ।
 
दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥१
 
अग्निः । होता । नः । अध्वरे । वाजी । सन् । परि । नीयते ।
 
देवः । देवेषु । यज्ञियः ॥१
 
“होता देवानामाह्वाता होमनिष्पादको वा “अग्निः “नः अस्मदीये “अध्वरे यागे । वाजीत्येतत् लुप्तोपमाकम् । “वाजी शीघ्रगामी वोढाश्व इव तथा देवेभ्यो हविर्वाहकः “सन् “परि “णीयते परितः समन्तात् प्राप्यते । तथा ब्राह्मणं च भवति - ’वाजी सन्परि णीयत इति वाजिनमिव ह्येनं सन्तं परिणयन्ति ' ( ऐ. ब्रा. २.५ ) इति । कीदृशोऽग्निः । “देवेषु द्योतमानेष्विन्द्रादिषु मध्ये “देवः द्योतमानः “यज्ञियः यज्ञार्हः ॥
परि॑ । त्रि॒ऽवि॒ष्टि । अ॒ध्व॒रम् । याति॑ । अ॒ग्निः । र॒थीःऽइ॑व ।
 
आ । दे॒वेषु॑ । प्रयः॑ । दध॑त् ॥२
 
परि । त्रिऽविष्टि । अध्वरम् । याति । अग्निः । रथीःऽइव ।
 
आ । देवेषु । प्रयः । दधत् ॥२
 
“देवेषु द्योतमानेष्विन्द्रादिषु । प्रयः इत्यन्ननामेदम् । "प्रयः यजमानैर्दत्तं हवीरूपमन्नम् आ “दधत् आ समन्ताद्धारयन् “अग्निः अङ्गनादिगुणविशिष्टोऽग्निः “त्रिविष्टि त्रिवारम् ।सवनत्रयेऽपीत्यर्थः । “परि परितः समन्तात् “अध्वरं यजमानैः कृतं यागं “याति गच्छति । परिगमने दृष्टान्तः । “रथीरिव । रथवान् पुरुषो यथा शीघ्रं याति तद्वत् । तथा च ब्राह्मणं - ’परि त्रिविष्ट्यध्वरं यास्यग्नी रथीरिवेत्येष हि रथीरिवाध्वरं पर्येति' ( ऐ. बा. २. ५) इति ॥
परि॑ । वाज॑ऽपतिः । क॒विः । अ॒ग्निः । ह॒व्यानि॑ । अ॒क्र॒मी॒त् ।
 
दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥३
 
परि । वाजऽपतिः । कविः । अग्निः । हव्यानि । अक्रमीत् ।
 
दधत् । रत्नानि । दाशुषे ॥३
 
“वाजपतिः वाजानामन्नानां पतिः पालकः । ‘परि वाजपतिः कविरित्येष हि वाजानां पतिः (ऐ. ब्रा, २. ५) इति ब्राह्मणम् । “कविः क्रान्तदर्शी मेधावी वा “दाशुषे हविर्दत्तवते यजमानाय “रत्नानि रमणीयानि धनानि “दधत् प्रयच्छन् “अग्निः “हव्यानि हवींषि “परि “अक्रमीत् परितः क्रामति । व्याप्नोति ॥
अ॒यम् । यः । सृञ्ज॑ये । पु॒रः । दै॒व॒ऽवा॒ते । स॒म्ऽइ॒ध्यते॑ ।
 
द्यु॒ऽमान् । अ॒मि॒त्र॒ऽदम्भ॑नः ॥४
 
अयम् । यः । सृञ्जये । पुरः । दैवऽवाते । सम्ऽइध्यते ।
 
द्युऽमान् । अमित्रऽदम्भनः ॥४
 
“यः प्रसिद्धः "अयं प्रत्यक्षेणोपलभ्यमानोऽग्निः “दैववाते देववातस्य पुत्रे "सृञ्जये । सृञ्जयो नाम कश्चित्सोमयाजी । तस्मिन्निमित्तभूते सति । तद्यागार्थमित्यर्थः । सृञ्जयस्य यष्टृत्वं तैत्तिरीया आमनन्ति-- ’वासिष्ठो ह सात्यहव्यो देवभागं पप्रच्छ यत्सृञ्जयान्बहुयाजिनोऽयीयजः' (तै. सं. ६. ६.२.२ ) इति । “पुरः पूर्वस्यां दिशि स्थितायामुत्तरवेद्यां “समिध्यते सम्यग्दीप्यते । "अमित्रदम्भनः शत्रूणां हिंसकः सोऽग्निः “द्युमान् दीप्तिमान् भवतीति शेषः ॥
अस्य॑ । घ॒ । वी॒रः । ईव॑तः । अ॒ग्नेः । ई॒शी॒त॒ । मर्त्यः॑ ।
 
ति॒ग्मऽज॑म्भस्य । मी॒ळ्हुषः॑ ॥५
 
अस्य । घ । वीरः । ईवतः । अग्नेः । ईशीत । मर्त्यः ।
 
तिग्मऽजम्भस्य । मीळ्हुषः ॥५
 
“वीरः स्तुतौ विक्रान्तः “मर्त्यः मरणधर्मा यजमानः “तिग्मजम्भस्य तीक्ष्णतेजसः “मीळ्हुषः अभिलषितफलानां सेक्तुः “ईवतः गमनवतः “अस्य अग्नेः "ईशीत ईश्वरो भवेत् । “घ इति पादपूरणः । एतेन यजमानः आत्माभीष्टफलं कारयितुं समर्थो भवतीत्यर्थः ॥ ॥ १५ ॥
तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । अ॒रु॒षम् । न । दि॒वः । शिशु॑म् ।
 
म॒र्मृ॒ज्यन्ते॑ । दि॒वेऽदि॑वे ॥६
 
तम् । अर्वन्तम् । न । सानसिम् । अरुषम् । न । दिवः । शिशुम् ।
 
मर्मृज्यन्ते । दिवेऽदिवे ॥६
 
यजमानाः "अर्वन्तं न शीघ्रगामिनमश्वमिव "सानसिं संभजनीयं “दिवः “शिशु “न द्युलोकस्य पुत्रभूतं सूर्यमिव “अरुषम् आरोचमानं “तम् अग्निं “दिवेदिवे प्रतिदिनं “मर्मृज्यन्ते भृशं परिचरणं कुर्वन्ति ॥
बोध॑त् । यत् । मा॒ । हरि॑ऽभ्याम् । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।
 
अच्छ॑ । न । हू॒तः । उत् । अ॒र॒म् ॥७
 
बोधत् । यत् । मा । हरिऽभ्याम् । कुमारः । साहऽदेव्यः ।
 
अच्छ । न । हूतः । उत् । अरम् ॥७
 
“साहदेव्यः सहदेवनाम्नो राज्ञः पुत्रः “कुमारः सोमकाभिधो राजा “हरिभ्याम् अश्वाभ्याम् अश्वौ दातुं "मा मां “यत् यदा “बोधत् बोधयामास इमौ तवाश्वाविति । तदा अहम् "अच्छ आभिमुख्येन कुमारेण “हूतः सन् "न “उदरं तावश्वावलब्ध्वा न निर्गतवानस्मि ।
उ॒त । त्या । य॒ज॒ता । हरी॒ इति॑ । कु॒मा॒रात् । सा॒ह॒ऽदे॒व्यात् ।
 
प्रऽय॑ता । स॒द्यः । आ । द॒दे॒ ॥८
 
उत । त्या । यजता । हरी इति । कुमारात् । साहऽदेव्यात् ।
 
प्रऽयता । सद्यः । आ । ददे ॥८
 
"उत अपि च "साहदेव्यात् सहदेवस्य पुत्रात् “कुमारात् सोमकाख्यात् राज्ञः “यजता पूजनीयौ “प्रयता प्रयतौ “त्या त्यौ तौ प्रसिद्धौ “हरी अश्वौ “सद्यः यस्मिन् दिने तेनाहूतस्तस्मिन्नेव दिने “आ “ददे अदत्तवानस्मि । मन्त्रद्रष्टा ऋषिः ‘बोधत्' इत्यृग्द्वयेन कुमारमश्वेप्सयाभ्युपगम्य अश्वौ एतस्मात् लब्ध्वा प्रीतोऽभवदित्यर्थः ॥
ए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।
 
दी॒र्घऽआ॑युः । अ॒स्तु॒ । सोम॑कः ॥९
 
एषः । वाम् । देवौ । अश्विना । कुमारः । साहऽदेव्यः ।
 
दीर्घऽआयुः । अस्तु । सोमकः ॥९
 
“देवौ द्योतमानौ हे “अश्विना अश्विनौ "वां युवां तर्पकः "साहदेव्यः सहदेवस्य पुत्रः "कुमारः सोमकः सोमकाभिधानः “एषः राजा “दीर्घायुरस्तु शतायुष्को भवतु । ' एतमु हैव प्रोचतुः पर्वतनारदौ सोमकाय' इत्यादिना ‘सर्वे हैव महाराजा आसुः' (ऐ. ब्रा. ७.३४ ) इत्यनेन ब्राह्मणेन सोमकस्य राजत्वं स्पष्टीकृतम् ॥
तम् । यु॒वम् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रम् । सा॒ह॒ऽदे॒व्यम् ।
 
दी॒र्घऽआ॑युषम् । कृ॒णो॒त॒न॒ ॥१०
 
तम् । युवम् । देवौ । अश्विना । कुमारम् । साहऽदेव्यम् ।
 
दीर्घऽआयुषम् । कृणोतन ॥१०
 
हे “देवावश्विना द्योतमानावश्विनौ "युवं युवां “तं “साहदेव्यं सहदेवस्य पुत्रं “कुमारं सोमकाख्यं राजानं “दीर्घायुषं शतायुष्कं “कृणोतन कुरुतम् । अनेन द्वृचेनास्य कुमारस्य दीर्घमायुः अश्विनावृषिरयाचतेत्यर्थः ॥ ॥ १६ ॥
५०,०४१

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/209119" इत्यस्माद् प्रतिप्राप्तम्

सञ्चरणावलिः