"मत्स्यपुराणम्/अध्यायः २९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>

शुक्रस्य क्रोधोत्पत्तिकथनम्।

शौनक उवाच।
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह।
वृषपर्वाणमासीनमित्युवाचाविचारयन्।। 29.1 ।।

नाधर्मश्चरितो राजन्! सद्यः फलति गौरिव।
शनैरावर्त्यमानस्तु मूलान्यपि निकृन्तति।। 29.2 ।।

यदि नात्मनि पुत्रेषु न चेत्‌ पश्यति नप्तृषु।
पापमाचरितं कर्म त्रिवर्गमतिवर्तते।। 29.3 ।।

फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे।
यदा घातयसे विप्रं कच मां गिरसन्दता।। 29.4 ।।

अपापशीलं धर्मज्ञं शुश्रूषुं मद्‌गृहे रतम्।
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम।। 29.5 ।।

वृषपर्वन्निबोधत्वं त्यक्ष्यामि त्वां सबान्धवम्।
स्थातुं त्वद्विषये राजन्! न शक्नोमि त्वया सह।। 29.6 ।।

अद्यैवमभिजानामि दैत्यं मिथ्या प्रलापिनम्।
यतस्त्वमात्मनोदीर्णां दुहितां किमुपेक्षसे।। 29.7 ।।

वृषपर्वोवच।
नावद्यं न मृषावादं त्वयि जानामि भार्गव!
त्वयि सत्यञ्च धर्म्मञ्च तत्प्रसीदतु मां भवान्।। 29.8 ।।

अद्यास्मानपहायत्वमितो वास्यसि भार्गव!।
समुद्रं संम्प्रवेश्यामि नान्यदस्ति परायणम्।। 29.9 ।।

शुक्र उवाच।
समुद्रं प्रविशध्वं वा दिशो वा व्रजतासुराः।
दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे।। 29.10 ।।
प्रसाद्यतां देवयानीं जीवितं यत्र मे स्थितम्।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः।। 29.11 ।।

वृषपर्वोवाच।
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव!।
भुवि हस्तिरथाश्वं वा तस्य त्वं मम चेश्वरः।। 29.12 ।।

शुक्र उवाच।
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर!।
तस्येश्वरोऽस्मि यद्येतद्देवयानि! प्रसाद्यताम्।। 29.13 ।।

शौनक उवाच।
ततस्तु त्वरितः शुक्रस्तेन राज्ञा समं ययौ।
उवाच चैनां सुभगे! प्रतिपन्नं वचस्तव।। 29.14 ।।

देवयान्युवाच।
यदित्वमीश्वरस्तात! राज्ञो वित्तस्य भार्गव।
नाभिजानामि तत्तेऽहं राजा वदतु मां स्वयम्।। 29.15 ।।

यं काममभिजानामि देवयानि! शुचिस्मिते।
तत्तेऽहं संप्रदास्यामि यद्यपि स्यात् सुदुर्लभम्।। 27.16 ।।

देवयान्युवाच।
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये।
अनुयास्यति मां तत्र यत्र दास्यति मे पिता।। 27.17 ।।

वृषपर्वोवाच।
उत्तिष्ठ धात्रि! गच्छ त्वं शर्मिष्ठां शीघ्रमानय।
यं च कामयते कामं देवयानी करोतु तम्।। 29.18 ।।

शौनक उवाच।
ततो धात्री तत्र गत्वा शर्मिष्ठामिदमब्रवीत्।
उत्तिष्ठ भद्रे! शर्मिष्ठे! ज्ञातीनां सुखमावह।। 29.19 ।।

त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः।
यं सा कामयते कामं सकार्योऽत्र त्वयानघे।।
दासीत्वमभिजातासि देवयान्याः सुशोभने!।। 29.20 ।।

शर्मिष्ठोवाच।
यं च कामयते कामं करवाण्यहमद्य तम्।
मागान्मन्युवशं शुक्रो देवयानी च मत्कृते।। 29.21 ।।

शौनक उवाच।
ततः कन्यासहस्रेण वृता शिविकया तदा।
पितुर्निदेशात्त्वरिता निश्चक्राम पुरोत्तमात्।। 29.22 ।।

शर्मिष्ठोवाच।
अहं कन्यासहस्रेण दासी ते परिचारिका।
ध्रुवं त्वां तत्र यास्यामि यत्र दास्यति ते पिता।। 29.23 ।।

देवयान्युवाच।
स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि।। 29.24 ।।

शर्मिष्ठोवाच।
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्।
अनुयास्याम्यहं तत्र यत्र दास्यति ते पिता।। 29.25 ।।

शौनक उवाच।
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः।
देवयानी नृपश्रेष्ठ! पितरं वाक्यमब्रवीत्।। 29.26 ।।

प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम।
अमोघं तव विज्ञानमस्ति विद्याबलञ्च ते।। 29.27 ।।

एवमुक्तो द्विजश्रेष्ठो दुहित्रा सुमहायशाः।
प्रविवेशपुरं हृष्टः पूजितः सर्वदानवैः।। 29.28 ।।

</poem>
</poem>

०८:४२, १४ नवेम्बर् २०११ इत्यस्य संस्करणं