"पराशरस्मृतिः/षष्ठोध्यायः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
| section = '''षष्ठोध्यायः'''
| section = '''षष्ठोध्यायः'''
| previous = [[पराशरस्मृतिः/पञ्चमोध्यायः|पञ्चमोध्यायः]]
| previous = [[पराशरस्मृतिः/पञ्चमोध्यायः|पञ्चमोध्यायः]]
| next = [[पराशरस्मृतिः/षष्ठोध्यायः|षष्ठोध्यायः]]
| next = [[पराशरस्मृतिः/सप्तमोध्यायः|सप्तमोध्यायः]]
| notes =
| notes =
}}
}}

०९:४४, १२ नवेम्बर् २०११ इत्यस्य संस्करणं

← पञ्चमोध्यायः पराशरस्मृतिः
षष्ठोध्यायः
पराशरः
सप्तमोध्यायः →

अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् ।
पराशरेन पूर्वोक्ता मन्वर्थेऽपि च विस्तृतां । । ६.१ । ।

क्रौञ्चसारसहंसांश्च चक्रवाकं च कुक्कुटम् ।
जालपादं च शरभं अहोरात्रेण शुध्यति । । ६.२ । ।

बलाकाटिट्टिभौ वापि शुकपारावतावपि ।
अहिनक्रविघाती च शुध्यते नक्तभोजनात् । । ६.३ । ।

वृककाककपोतानां शारितित्तिरिघातकः ।
अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति । । ६.४ । ।

गृध्रश्येनशशादानां उलूकस्य च घातकः ।
अपक्वाशी दिनं तिष्ठेत्त्रिकालं मारुताशनः । । ६.५ । ।

वल्गुणीटिट्टिभानां च कोकिलाखञ्जरीटके ।
लाविकारक्तपक्षेषु शुध्यते नक्तभोजनात् । । ६.६ । ।

कारण्डवचकोराणां पिङ्गलाकुररस्य च ।
भारद्वाजादिकं हत्वा शिवं पूज्य विशुध्यति । । ६.७ । ।

भेरुण्डचाषभासांश्च पारावतकपिञ्जलौ ।
पक्षिणां चैव सर्वेषां अहोरात्रं अभोजनम् । । ६.८ । ।

हत्वा मूषकमार्जार सर्पाजगरडुण्डुभान् ।
कृसरं भोजयेद्विप्रान्लोहदण्डश्च दक्षिणा । । ६.९ । ।

शिशुमारं तथा गोधां हत्वा कूर्मं च शल्यकम् ।
वृन्ताकफलभक्षी चाप्यहोरात्रेण शुध्यति । । ६.१० । ।

वृकजम्बूकऋक्षाणां तरक्षुश्वानघातकः ।
तिलप्रस्थं द्विजे दद्याद्वायुभक्षो दिनत्रयं । । ६.११ । ।

गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने ।
प्रायश्चित्तं अहोरात्रं त्रिसंध्यं अवगाहनं । । ६.१२ । ।

कुरङ्गं वानरं सिंहं चित्रं व्याघ्रं तु घातयन् ।
शुध्यते स त्रिरात्रेण विप्राणां तर्पणेन च । । ६.१३ । ।

मृगरोहिद्वराहाणां अवेर्बस्तस्य घातकः ।
अफालकृष्टं अश्नीयादहोरात्रं उपोष्य सः । । ६.१४ । ।

एवं चतुष्पदानां च सर्वेषां वनचारिणाम् ।
अहोरात्रोषितस्तिष्ठेज्जपेद्वै जातवेदसं । । ६.१५ । ।

शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस्तु घातयेत् ।
प्राजापत्यद्वयं कृत्वा वृषैकादशदक्षिणा । । ६.१६ । ।

वैश्यं वा क्षत्रियं वापि निर्दोषं योऽभिघातयेत् ।
सोऽपि कृच्छ्रद्वयं कुर्याद्गोविंशद्दक्षिणां ददेत् । । ६.१७ । ।

वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम् ।
हत्वा चान्द्रायणं तस्य त्रिंशद्गोश्चैव दक्षिणां । । ६.१८ । ।

चण्डालं हतवान्कश्चिद्ब्राह्मणे यदि कंचन ।
प्राजापत्यं चरेत्कृच्छ्रं गोद्वयं दक्षिणां ददत् । । ६.१९ । ।

क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा ।
चण्डालस्य वधे प्राप्ते कृच्छ्रार्धेन विशुध्यति । । ६.२० । ।

चोरौ श्वपाकचण्डालौ विप्रेणाभिहतौ यदि ।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति । । ६.२१ । ।

श्वपाकं वापि चण्डालं विप्रः संभाषते यदि ।
दिव्जसंभाषणं कुर्यात्सावित्रीं तु सकृज्जपेत् । । ६.२२ । ।

चण्डालैः सह सुप्तं तु त्रिरात्रं उपवासयेत् ।
चण्डालैकपथं गत्वा गायत्रीस्मरणाच्छुचिः । । ६.२३ । ।

चण्डालदर्शने सद्य आदित्यं अवलोकयेत् ।
चण्डालस्पर्शने चैव सचैलं स्नानं आचरेत् । । ६.२४ । ।

चण्डालखातवापीषु पीत्वा सलिलं अग्रजः ।
अज्ञानाच्चैकभक्तेन त्वहोरात्रेण शुध्यति । । ६.२५ । ।

चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् ।
गोमूत्रयावकाहारस्त्रिरात्राच्छुद्धिं आप्नुयात् । । ६.२६ । ।

चण्डालघटसंस्थं तु यत्तोयं पिबति द्विजः ।
तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् । । ६.२७ । ।

यदि न क्षिपते तोयं शरीरे यस्य जीर्यति ।
प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत् । । ६.२८ । ।

चरेत्सांतपनं विप्रः प्राजापत्यं अनन्तरः ।
तदर्धं तु चरेद्वैश्यः पादं शूद्रस्तदाचरेत् । । ६.२९ । ।

भाण्डस्थं अन्त्यजानां तु जलं दधि पयः पिबेत् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः । । ६.३० । ।

ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ।
शूद्रस्य चोपवासेन तथा दानेन शक्तितः । । ६.३१ । ।

भुङ्क्तेऽज्ञानाद्द्विजश्रेष्ठश्चण्डालान्नं कथंचन ।
गोमूत्रयावकाहारो दशरात्रेण शुध्यति । । ६.३२ । ।

एकैकं ग्रासं अश्नीयाद्गोमूत्रयावकस्य च ।
दशाहं नियमस्थस्य व्रतं तत्तु विनिर्दिशेत् । । ६.३३ । ।

अविज्ञातस्तु चण्डालो यत्र वेश्मनि तिष्ठति ।
विज्ञाते तु७पसन्नस्य द्विजाः कुर्वन्त्यनुग्रहं । । ६.३४ । ।

मुनिवक्त्रोद्गतान्धर्मान्गायन्तो वेदपारगाः ।
पतन्तं उद्धरेयुस्तं धर्मज्ञाः पापसंकरात् । । ६.३५ । ।

दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम् ।
भुञ्जीत सह सर्वैश्च त्रिसंध्यं अवगाहनं । । ६.३६ । ।

त्र्यहं भुञ्जीत दध्ना च त्र्यहं भुञ्जीत सर्पिषा ।
त्र्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् । । ६.३७ । ।

भावदुष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् ।
दधिक्षीरस्य त्रिपलं पलं एकं घृतस्य तु । । ६.३८ । ।

भस्मना तु भवेच्छुद्धिरुभयोस्ताम्रकांस्ययोः ।
जलशौचेन वस्त्राणां परित्यागेन मृण्मयम् । । ६.३९ । ।

कुसुम्भगुडकार्पास लवणं तैलसर्पिषी ।
द्वारे कृत्वा तु धान्यानि दद्याद्वेश्मनि पावकम् । । ६.४० । ।

एवं शुद्धस्ततः पश्चात्कुर्याद्ब्राह्मणतर्पणम् ।
त्रिंशतं गोवृषं चैकं दद्याद्विप्रेषु दक्षिणां । । ६.४१ । ।

पुनर्लेपनखातेन होमजप्येन शुध्यति ।
आधारेण च विप्राणां भूमिदोषो न विद्यते । । ६.४२ । ।

चण्डालैः सह संपर्कं मासं मासार्धं एव वा ।
गोमूत्रयावकाहारो मासार्धेन विशुध्यति । । ६.४३ । ।

रजकी चर्मकारी च लुब्धकी वेणुजीविनी ।
चातुर्वर्ण्यस्य च गृहे त्वविज्ञाता तु तिष्ठति । । ६.४४ । ।

ज्ञात्वा तु निष्कृतिं कुर्यात्पूर्वोक्तस्यार्धं एव च ।
गृहदाहं न कुर्वीत शेषं सर्वं च कारयेत् । । ६.४५ । ।

गृहस्याभ्यन्तरं गच्छेच्चण्डालो यदि कस्यचित् ।
तं अगाराद्विनिर्वास्य मृद्भाण्डं तु विसर्जयेत् । । ६.४६ । ।

रसपूर्णं तु यद्भाण्डं न त्यजेत्तु कदाचन ।
गोमयेन तु संमिश्रैर्जलैः प्रोक्षेद्गृहं तथा । । ६.४७ । ।

ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे ।
कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् । । ६.४८ । ।

गवां मूत्रपुरीषेण दध्ना क्षीरेण सर्पिषा ।
त्र्यहं स्नात्वा च पीत्वा च कृमिदुष्टः शुचिर्भवेत् । । ६.४९ । ।

क्षत्रियोऽपि सुवर्णस्य पञ्चमाषान्प्रदाय तु ।
गोदक्षिणां तु वैश्यस्याप्युपवासं विनिर्दिशेत् । । ६.५० । ।

शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति ।
अच्छिद्रं इति यद्वाक्यं वदन्ति क्षितिदेवताः । । ६.५१ । ।

प्रणम्य शिरसा ग्राह्यं अग्निष्टोमफलं हि तत् ।
जपच्छिद्रं तपच्छिद्रं यच्छिद्रं यज्ञकर्मणि । । ६.५२ । ।

सर्वं भवति निश्छिद्रं ब्राह्मणैरुपपादितम् ।
व्याधिव्यसनिनि.श्रान्ते दुर्भिक्षे डामरे तथा । । ६.५३ । ।

उपवासो व्रतं होमो द्विजसंपादितानि वै ।
अथवा ब्राह्मणास्तुष्टाः सर्वं कुर्वन्त्यनुग्रहं । । ६.५४ । ।

सर्वान्कामानवाप्नोति द्विजसंपादितैरिह ।
दुर्बलेऽनुग्रहः प्रोक्तस्तथा वै बालवृद्धयोः । । ६.५५ । ।

अतोऽन्यथा भवेद्दोषस्तस्मान्नानुग्रहः स्मृतः ।
स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा । । ६.५६ । ।

कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति ।
शरीरस्यात्यये प्राप्ते वदन्ति नियमं तु ये । । ६.५७ । ।

महत्कार्योपरोधेन न स्वस्थस्य कदाचन ।
स्वस्थस्य मूढाः कुर्वन्ति वदन्त्यनियमं तु ये । । ६.५८ । ।

ते तस्य विघ्नकर्तारः पतन्ति नरकेऽशुचौ ।
स्वयं एव व्रतं कृत्वा ब्राह्मणं योऽवमन्यते । । ६.५९ । ।

वृथा तस्योपवासः स्यान्न स पुण्येन युज्यते ।
स एव नियमो ग्राह्यो यद्येकोऽपि वदेद्द्विजः । । ६.६० । ।

कुर्याद्वाक्यं द्विजानां तु अन्यथा भ्रूणहा भवेत् ।
ब्राह्मणा जङ्गमं तीर्थं तीर्थभूता हि साधवः । । ६.६१ । ।

तेदां वाक्योदकेनैव शुध्यन्ति मलिना जनाः ।
ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः । । ६.६२ । ।

सर्वदेवमयो विप्रो न तद्वचनं अन्यथा ।
उपवासो व्रतं चैव स्नानं तीर्थं जपस्तपः । । ६.६३ । ।

विप्रसंपादितं यस्य संपूर्णं तस्य तत्फलम् ।
अन्नाद्ये कीटसम्युक्ते मक्षिकाकेशदूषिते । । ६.६४ । ।

तदन्तरा स्पृशेच्चापस्तदन्नं भस्मना स्पृशेत् ।
भुञ्जानश्चैव यो विप्रः पादं हस्तेन संस्पृशेत् । । ६.६५ । ।

स्वं उच्छिष्टं असौ भुङ्क्ते पाणिना मुक्तभाजने ।
पादुकास्थो न भुञ्जीत पर्यङ्के संस्थितोऽपि वा । । ६.६६ । ।

श्वानचण्डालदृष्टौ च भोजनं परिवर्जयेत् ।
यदन्नं प्रतिषिद्धं स्यादन्नशुद्धिस्तथैव च । । ६.६७ । ।

यथा पराशरेणोक्तं तथैवाहं वदामि वः ।
शृतं द्रोणाढकस्यान्नं काकश्वानोपघातितं । । ६.६८ । ।

केनेदं शुध्यते चेति ब्राह्मणेभ्यो निवेदयेत् ।
काकश्वानावलीढं तु द्रोणान्नं न परित्यजेत् । । ६.६९ । ।

वेदवेदाङ्गविद्विप्रैर्धर्मशास्त्रानुपालकैः ।
प्रस्था द्वात्रिंशतिर्द्रोणः स्मृतो द्विप्रस्थ आढकः । । ६.७० । ।

ततो द्रोणाढकस्यान्नं श्रुतिस्मृतिविदो विदुः ।
काकश्वानावलीढं तु गवाघ्रातं खरेण वा । । ६.७१ । ।

स्वल्पं अन्नं त्यजेद्विप्रः शुद्धिर्द्रोणाढके भवेत् ।
अन्नस्योद्धृत्य तन्.मात्रं यच्च लालाहतं भवेत् । । ६.७२ । ।

सुवर्णोदकं अभ्युक्ष्य हुताशेनैव तापयेत् ।
हुताशनेन संस्पृष्टं सुवर्णसलिलेन च । । ६.७३ । ।

विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् ।
स्नेहो वा गोरसो वापि तत्रशुद्धिः कथं भवेत् । । ६.७४ । ।

अल्पं परित्यजेत्तत्र स्नेहस्योत्पवनेन च ।
अनलज्वालया शुद्धिर्गोरसस्य विधीयते । । ६.७५ । ।