"ऋग्वेदः सूक्तं १०.४६" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) ७ अवतरण: rigveda and other pages |
(भेदः नास्ति)
|
०८:४२, २० मार्च् २०११ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं १०.४६
प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे । दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥१॥ इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु ग्मन् । गुहा चतन्तमुशिजो नमोभिरिच्छन्तो धीरा भृगवोऽविन्दन् ॥२॥ इमं त्रितो भूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः । स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य ॥३॥ मन्द्रं होतारमुशिजो नमोभिः प्राञ्चं यज्ञं नेतारमध्वराणाम् । विशामकृण्वन्नरतिं पावकं हव्यवाहं दधतो मानुषेषु ॥४॥ प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरां दर्माणम् । नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम् ॥५॥ नि पस्त्यासु त्रित स्तभूयन्परिवीतो योनौ सीददन्तः । अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैरीयते नॄन् ॥६॥ अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः । श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥७॥ प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः । तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम् ॥८॥ द्यावा यमग्निं पृथिवी जनिष्टामापस्त्वष्टा भृगवो यं सहोभिः । ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम् ॥९॥ यं त्वा देवा दधिरे हव्यवाहं पुरुस्पृहो मानुषासो यजत्रम् । स यामन्नग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः ॥१०॥