"अंशुमत्काश्यपागमः/बोधिकालक्षणपटलः ९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{header|title=अंशुमत्काश्यपागमः|author=|translator=|section=|previous=अंशुम... नवीन पृष्ठं निर्मीत अस्ती
अङ्कनम् : 2017 स्रोत संपादन
(भेदः नास्ति)

०९:२७, २६ फेब्रवरी २०१९ इत्यस्य संस्करणं

← पटलः ८ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः १० →


अथ वक्ष्ये विशेषेण बोधिकालक्षणं परम् ।

मूलपादसमव्यासं श्रेष्ठमध्येन मध्यमम् ॥ १ ॥


अग्रपादविशालेन समं कन्यसबोधिकाः ।

विस्तारसदृशोत्सेधं पंचदण्डायतान्वितम् ॥ २ ॥


उत्तमा बोधिका ख्याता तारद्वित्र्यंशमुन्नतम् ।

चतुर्दण्डायतो पेता मध्यमा सा प्रकीर्तिता ॥ ३ ॥


विस्तारस्यार्धतुंगं तु तत्त्रिदण्डायतान्विता ।

कन्यसा बोधिका ख्याता त्वंघ्रीयो बोधिकान्विता ॥ ४ ॥


प्. ४१) बोधिकोच्चत्रिभागे तु एकांशेनोर्ध्वपट्टिका ।

मध्येमंशे तरंगस्या लताद्यैर्भूषितं तु वा ॥ ५ ॥


तदधस्त्वेकभागेन कुक्षिबन्धं तु कारयेत् ।

दण्डं त्रिपादमर्धं वा छायामानं च दग्रयोः ॥ ६ ॥


ऊर्ध्वस्थ पट्टिकाधस्तात् छायाकारं प्रकल्पयेत् ।

अधस्ताद्बोधिकांशेन अलंकारं वदाम्यहम् ॥ ७ ॥


मध्यपट्टत्रिभागैकं विस्तारार्धमथापि वा ।

पार्श्वयोरुभयोः शेषं तरंगस्थानमुच्यते ॥ ८ ॥


सक्षुद्रक्षेपणं मध्यपट्टं पत्रैरलंकृतम् ।

पार्श्वयोस्तु तरंगः स्यात् समाश्चान्योन्यहीनकम् ॥ ९ ॥


बोधिकाविस्तरार्धं वा त्रिपादं वाग्रनीव्रकम् ।

तन्निव्रसदृशं व्यासं संभोजकारकल्पितम् ॥ १० ॥


तदुत्सेधं षडंशं तु कृत्वोर्ध्वं पट्टिकांशकम् ।

ऊर्ध्वपद्ममथांशेन कर्णमर्धेन कारयेत् ॥ ११ ॥


अधः पद्मं द्विभागेन अधः पट्ट्यंशमुच्यते ।

अधःस्थाम्बुजमर्धांशं कल्पयेत्तु क्रमेण तु ॥ १२ ॥


पद्मस्य मुकुलाकारं अग्रादधे गतं कुरु ।

अग्रनिष्क्रामयुक्तं वा छत्राकारमथापि वा ॥ १३ ॥


पार्श्वयोर्मुष्टिबन्धाग्रं व्यालरूपादिकल्पितम् ।

भूतैश्च मकरैर्व्यालैः नाटकाद्यैर्विभूषितम् ॥ १४ ॥


प्. ४२) रत्नबन्धक्रिया वापि चित्रा वाग्रस्थ घट्टितम् ।

बोध्यग्रयोस्तरंगः स्यात् तन्मध्ये दण्डमानतः ॥ १५ ॥


युगाश्रं पट्टं कर्तव्यं तारोच्छ्राये ससुव्रता ।

नानाचित्रैरलं कृत्य बोधिका चित्रबोधिका ॥ १६ ॥


पत्रैर्विचित्रिता पत्रबोधिका परिकीर्तिता ।

महार्णवतरंगाभान् तरंगांस्तु प्रकल्पयेत् ॥ १७ ॥


पादमर्धं त्रिपादं वा भित्तेस्तम्भस्य निर्गतिः ।

चतुरश्राष्टवृत्तानां क्रमात्साधारणं तु वा ॥ १८ ॥


बोधिकायस्त्वधस्तात्तु वीरकाण्डं युगाश्रकम् ।

अग्रपादसमं तारं त्रिपादं तुंगमुच्यते ॥ १९ ॥


सर्वेषामपि पादानां वीरकाण्डं युगाश्रकम् ।

अधस्थाद्वीरकाण्डस्य फलकालक्षणं शृणु ॥ २० ॥


इत्यंशुमान्काश्यपे बोधिकालक्षणपटलः (नवमः) ॥ ९ ॥