"अग्निपुराणम्/अध्यायः २७८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः २९: पङ्क्तिः २९:


स चापि वितथः पुत्रान् जनयामास पञ्च वै ।
स चापि वितथः पुत्रान् जनयामास पञ्च वै ।
सहोतारङ्गयङ्गर्भन्तथैव च ।। २७८.९ ।।
सुहोत्रं च सुहोतारं गयं गर्भं तथैव च ।। २७८.९ ।।


कपिलश्च महात्मानं सुकेतुञ्च सुतद्वयम् ।
कपिलश्च महात्मानं सुकेतुञ्च सुतद्वयम् ।
पङ्क्तिः ४६: पङ्क्तिः ४६:
सुकुमारात्सत्यकेतुर्वत्सभूमिस्तु वत्सकात् ।। २७८.१४ ।।
सुकुमारात्सत्यकेतुर्वत्सभूमिस्तु वत्सकात् ।। २७८.१४ ।।


सुहोत्रस्य वृहत्पुत्रो वृहतस्तनयास्त्रयः
सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः
अजमीढो द्विमीढश्च पुरुमीढश्च वीर्य्यवान् ।। २७८.१५ ।।
अजमीढो द्विमीढश्च पुरुमीढश्च वीर्य्यवान् ।। २७८.१५ ।।


अजमीढस्य केशिन्यां जज्ञेः प्रतापवान् ।
अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ।
जह्नोरभूदजकाश्वौ बलाकाश्वस्तदात्मजः ।। २७८.१६ ।।
जह्नोरभूदजकाश्वौ बलाकाश्वस्तदात्मजः ।। २७८.१६ ।।


वलाकाश्वस्य कुशिकः कुशिकात् गाधिरिन्द्रकः ।
बलाकाश्वस्य कुशिकः कुशिकात् गाधिरिन्द्रकः ।
गाधेः सत्यवती कन्या विश्वामित्रः सुतोत्तमः ।। २७८.१७ ।।
गाधेः सत्यवती कन्या विश्वामित्रः सुतोत्तमः ।। २७८.१७ ।।



१४:३७, २४ जनवरी २०१९ इत्यस्य संस्करणं

अग्निपुराणम्
















पुरुवंशवर्णनम्

अग्निरुवाच
पुरोर्जनमेजयोऽभूत्प्राचीन्नन्तस्तु तत्सुतः ।
प्राचीन्नन्तान्मनस्युस्तु तस्माद्वीतमयो तृपः ।। २७८.१ ।।

शुन्धुर्वीतमयाच्चाऽभूच्छुन्धोर्बहुविधः सुतः ।
बहुविधाच्च संयातिरहोवादी च तत्सुतः ।। २७८.२ ।।

तस्य पुत्रोऽथ भद्राश्वो भद्राश्वस्य दशात्मजाः ।
ऋचेयुश्च कृषेयुश्च सन्नतेयुस्तथात्मजः ।। २७८.३ ।।

घृतेयुश्च चितेयुश्च स्थण्डिलेयुश्च सत्तमः ।
धर्म्मोयुः सन्नतेयुश्चः कृचेयुर्म्मतिनारकः ।। २७८.४ ।।

तंसुरोघः प्रतिरथः पुरस्तो मतिनारजाः ।
आसीत्पतिरथात्कण्वः कण्वान्मेधातिथिस्त्वभूत् ।। २७८.५ ।।

तंसुरोघाच्च चत्वारो दुष्मन्तोऽथ प्रवीरकः ।
सुमन्तश्चानयो वीरो दुष्मन्ताद्भरतोऽभवत् ।। २७८.६ ।।

शकुन्तलायान्तु बली यस्य नाम्ना तु भारताः ।
सुतेषु मातृकोपेन नष्टेषु भरतस्य च ।। २७८.७ ।।

ततो मरुद्‌भिरानीय पुत्रः स तु बृहस्पतेः ।
संक्रामितो भरद्वाजः क्रतुभिर्व्वितथोऽभवत् ।। २७८.८ ।।

स चापि वितथः पुत्रान् जनयामास पञ्च वै ।
सुहोत्रं च सुहोतारं गयं गर्भं तथैव च ।। २७८.९ ।।

कपिलश्च महात्मानं सुकेतुञ्च सुतद्वयम् ।
कौशिकञ्च गृत्सपतिं तथा गृत्सपतेः सुताः ।। २७८.१० ।।

ब्राह्मणाः क्षत्रिया वैश्याः काशे दीर्घतमाः सुताः ।
ततो धन्वन्तरिश्चासीत्तत्सुतोऽभूच्च केतुमान् ।। २७८.११ ।।

केतुमतो हेमरथो दिवोदास इतिश्रुतः ।
प्रतर्दनो दिवोदासाद्भर्गवत्सौ प्रतर्दनात् ।। २७८.१२ ।।

वत्सादनर्क्क आसीच्च अनर्क्कात् क्षेमकोऽभवत् ।
क्षेमकाद्वर्षकेतुश्च वर्षकेतोर्विभुः स्मृतः ।। २७८.१३ ।।

विभोरानर्त्तः पुत्रोऽभूद्धिभोश्य सुकुमारकः ।
सुकुमारात्सत्यकेतुर्वत्सभूमिस्तु वत्सकात् ।। २७८.१४ ।।

सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः ।
अजमीढो द्विमीढश्च पुरुमीढश्च वीर्य्यवान् ।। २७८.१५ ।।

अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ।
जह्नोरभूदजकाश्वौ बलाकाश्वस्तदात्मजः ।। २७८.१६ ।।

बलाकाश्वस्य कुशिकः कुशिकात् गाधिरिन्द्रकः ।
गाधेः सत्यवती कन्या विश्वामित्रः सुतोत्तमः ।। २७८.१७ ।।

देवरातः कतिमुखा विश्वामित्रस्य ते सुताः ।
शुनः शेफाऽष्टकश्चान्यो ह्यजमीढात् सुतोऽभवत् ।। २७८.१८ ।।

नीलिन्यां शान्तिरपरः पुरुजातिः सुशान्तितः ।
पुरुजातेस्तु वाह्याश्वो वाह्याशवात् पञ्च पार्थिवाः ।। २७८.१९ ।।

मुकुलः सृञ्जयश्यैव राजा वृहदिषुस्तथा ।
यवीनरश्च कृमिलः पाञ्चाला इति विश्रुताः ।। २७८.२० ।।

मुकुलस्य तु मौकुल्याः क्षेत्रोपेता द्विजातयः ।
चञ्चाश्वो मुकुलाज्जज्ञे चञ्चाश्वान्मिथुनं ह्यभूत् ।। २७८.२१ ।।

दिवोदासो ह्यहल्या च अल्यायां शरद्वतात् ।
शतानन्दः शतानन्दात् सत्यधृन्मिथुनन्ततः ।। २७८.२२ ।।

कृपः कृपी दिवोदासान्मैत्रेयः सोमपस्ततः ।
सृञ्चयात् पञ्चधनुषः सोमदत्तश्य तत्सुतः ।। २७८.२३ ।।

सहदेवः सोमदत्तात् सहदेवात्तु सोमकः ।
आसीच्च सोमकाज्जन्तुर्ज्जन्तोश्च पृषतः सुतः ।। २७८.२४ ।।

पृषताद्‌द्रुपदस्तस्माद्‌धृष्टद्युम्नोऽथ तत्सुतः ।
धृष्टकेतुश्च धूमिन्यामृक्षोऽभूदजमीढतः ।। २७८.२५ ।।

ऋक्षात्सम्बलणो जज्ञे कुरुः सम्वरणात्ततः ।
यः प्रयागादपाक्रम्य कुरुक्षेत्रञ्चकार ह ।। २७८.२६ ।।

कुरोः सुधन्वा सुधनुः परिक्षइच्चारिमेजयः ।
सुधन्वनः सुहोत्रोऽभूत् सुहोत्राच्च्यवनो ह्यभूत् ।। २७८.२७ ।।

वशिष्ठपरिचाराभ्यां सप्तासन् गिरिकासुताः ।
वृहद्रथः कुशो वीरो यदुः प्रत्यग्रहो बलः ।। २७८.२८ ।।

मत्स्यकाली कुशाग्रोऽतो ह्यासीद्राज्ञो वृहद्रथात् ।
कुशाग्राद्‌वृषभो जज्ञे तस्य सत्यहितः सुतः ।। २७८.२९ ।।

सुधन्वा तत्सुतश्चोर्ज्ज ऊर्ज्जादासीच्च सम्भवः ।
सम्भवाच्च जरासन्धः सहदेवश्च तत्‌सुतः ।। २७८.३० ।।

सहदेवादुदापिश्च उदापेः श्रुतकर्मकः ।
परिक्षइतस्य दायादो धार्मिको जनमेजयः ।। २७८.३१ ।।

जनमेजयात्त्रसदस्युर्जह्रोस्तु सुरथः सुतः ।
श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः ।। २७८.३२ ।।

जनमेजयस्य पुत्रौ तु सुरथो महिमांस्तथा ।
सुरथाद्‌विदूरथोऽभूदृक्ष आसीद्विदूरथात् ।। २७८.३३ ।।

ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्‌सुतः ।
प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः ।। २७८.३४ ।।

देवापिर्व्वाह्लिकश्चैव सोमदत्तस्तु शान्तनोः ।
वाह्लिकात्सोमदत्तोऽभूद्‌भूरिर्भूरिस्रवाः शलः ।। २७८.३५ ।।

गङ्गायां शान्तनोर्भीष्मः काल्यायां विचित्रवीर्य्यकः ।
कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्य्यके ।। २७८.३६ ।।

धृतराष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत् ।
पाण्डोर्युधिष्ठिरः कुन्त्यां भीमश्चैवार्जुनस्त्रयः ।। २७८.३७ ।।

नकुलः सहदेवश्च पाण्डोर्म्माद्य्राञ्च दैवतः ।
अर्जुनस्य च सौभद्रः परिक्षिदभिमन्युतः ।। २७८.३८ ।।

द्रौपदी पाण्डवानाञ्च प्रिया तस्यां युधिष्ठिरात् ।
प्रतिविन्ध्यो भीमसेनाच्छ्रुतकीर्त्तिर्द्धनञ्जयात् ।। २७८.३९ ।।

सहदेवाच्छ्रुतकर्म्मा शतानीकस्तु नाकुलिः ।
भीमसेनाद्धिड़िम्बायामन्य आसीद् घटोत्‌कचः ।। २७८.४० ।।

एते भूता भविष्याश्च नृपाः संख्या न विद्यते ।
गताः कालेन कालो हि हरिस्तं पूजयेद्‌द्विज ।। २७८.४१ ।।

होममग्नौसमुद्दिश्य कुरु सर्व्वप्रदं यतः ।। २७८.४२ ।।

इत्यादिमहापुराणे आग्नेये पुरुवंशवर्णनं नाम अष्टसप्तत्यधिकद्विशततमोऽध्यायः ।।