"रामायणम्/युद्धकाण्डम्/सर्गः २९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: Removing संस्कृत category as all pages here r of sanskrit using AWB
→‎बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB
पङ्क्तिः ११०: पङ्क्तिः ११०:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==
[[वर्गः:Sanskrit]]
[[वर्गः:काव्य]]
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:३०, २३ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनत्रिंशः सर्गः ॥६-२९॥

शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् ।
लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम् ॥६-२९-१॥

समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् ।
सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम् ॥६-२९-२॥

अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् ।
हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥६-२९-३॥

सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् ।
गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा ॥६-२९-४॥

किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः ।
भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ ॥६-२९-५॥

अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ ।
रोष गद्गदया वाचा सम्रब्धः परुषम् वचः ॥६-२९-६॥

न तावत् सदृशम् नाम सचिवैर् उपजीविभिः ।
विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः ॥६-२९-७॥

रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् ।
उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥६-२९-८॥

आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः ।
सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥६-२९-९॥

गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते ।
ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम् ॥६-२९-१०॥

किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः ।
यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम् ॥६-२९-११॥

अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।
राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः ॥६-२९-१२॥

हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ ।
यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत् ॥६-२९-१३॥

अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम ।
न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम् ॥६-२९-१४॥

हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।
एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥६-२९-१५॥

रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ ।
अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम् ॥६-२९-१६॥

उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् ।
महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥६-२९-१७॥

ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् ।
उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥६-२९-१८॥

तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः ॥६-२९-१९॥

चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् ।
इतो गच्चत रामस्य व्यवसायम् परीक्षथ ॥६-२९-२०॥

मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः ।
कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति ॥६-२९-२१॥

विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः ।
चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः ॥६-२९-२२॥

युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।
चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम् ॥६-२९-२३॥

शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।
ततस्तम् तु महात्मानम् चारा राक्षससत्तमम् ॥६-२९-२४॥

कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः ।
ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ ॥६-२९-२५॥

प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव विभीषणौ ।
प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः ॥६-२९-२६॥

ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः ।
विभीषणेन तत्रस्था निगृहीता यदृच्चया ॥६-२९-२७॥

शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ।
मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः ॥६-२९-२८॥

अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे ।
वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः ॥६-२९-२९॥

पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः ।
ततो दशग्रीवम् उपस्थितास् ते ।
चारा बहिर् नित्य चरा निशा चराः ।
गिरेः सुवेलस्य समीप वासिनम् ।
न्यवेदयन् भीम बलम् महाबलाः ॥६-२९-३०॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः ॥६-२९॥

संबंधित कड़ियाँ

बाहरी कडियाँ