"ऋग्वेदः सूक्तं १०.१८" इत्यस्य संस्करणे भेदः

नेविगेशन पर जाएँ खोज पर जाएँ
No edit summary
No edit summary
पङ्क्तिः ४३:
== ==
{{सायणभाष्यम्|
‘परं मृत्यो ' इति चतुर्दशर्चं द्वितीयं सूक्तं यमपुत्रस्य संकुसुकस्यार्षम् । एकादशी प्रस्तारपक्तिः । आद्यौ जागतौ ततो द्वौ गायत्रौ । ‘प्रस्तारपक्तिः पुरतः ' ( पि. सू. ३. ४१ ) इति । त्रयोदशी जगती चतुर्दश्यनुष्टुप् । शिष्टास्त्रिष्टुभः । तत्रादौ चतस्रो मृत्युदेवत्याः । पञ्चमी धातृदेवताका । षष्ठी त्वष्टृदेवत्या । सप्तम्याद्याः शिष्टाः पितृमेधाभिधायिन्यः । अतस्तद्देवताकाः । अन्त्या त्वनिरुक्तत्वात प्राजापत्या वा । तथा चानुक्रान्तं -- परं मृत्यो संकुसुकश्चतस्रो मृत्युदेवताः परा धात्री परा त्वाष्ट्री पराः पितृमेधा एकादशी प्रस्तारपङ्क्तिर्जगत्युपान्त्यान्त्यानुष्टुप् प्राजापत्या वा सानिरुक्ता ' इति ॥
 
 
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पंथां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
Line ५६ ⟶ ५८:
चक्षुष्मते । शृण्वते । ते । ब्रवीमि । मा । नः । प्रऽजाम् । रिरिषः । मा । उत । वीरान् ॥
 
हे "मृत्यो सर्वेषां मारकैतन्नामक देव "परम् अन्यं "पन्थां पन्थानम् "अनु आनुपूर्व्येण “परेहि पराङ्मुखो गच्छ। यजमानादिति शेषः । कोऽसौ पन्थाः । "ते तव "स्वः स्वभूतः "देवयानात् । देवा अनेन मार्गेण गच्छन्तीति देवयानो देवमार्गः। तस्मात् "इतरः यः पन्थाः तं प्रगच्छ । न केवलमतः परागच्छ अपि तु "चक्षुष्मते दर्शनवते “शृण्वते सर्वम् । अप्रतिहतसर्वेन्द्रियविज्ञानायेत्यर्थः । "ते तुभ्यं "ब्रवीमि कथयामि । “नः अस्माकं "प्रजां दुहितृदौहित्रात्मिकां “मा "रिरिषः मा हिंसीः । “उत अपि च "वीरान् पुत्रपौत्रादीन् "मा हिंसीः । तत्परागमनेन रक्षेत्यर्थः ॥
 
 
Line ७० ⟶ ७३:
आप्यायमानाः । प्रऽजया । धनेन । शुद्धाः । पूताः । भवत । यज्ञियासः ॥
 
हे मृतस्य ज्ञातयः "मृत्योः परागच्छतः तस्य "पदम् । पद्यतेऽस्मिन्निति पदं पितृयाणः । तं “योपयन्तः विमोहयन्तः परिवर्जयन्तः "यत् यस्मात् “ऐत देवयानीयपथा गतवन्तः तस्मात् “द्राघीयः दीर्घतरम् “आयुः जीवनं “प्रतरं प्रकृष्टतरमत्यर्थं "दधानाः धारयन्तो भवथ। किंच हे
"यज्ञियासः यज्ञार्हा यज्ञसंपादिनो यजमानाः "प्रजया पुत्रपौत्रादिकया “धनेन गवाश्वादिकेन च “आप्यायमानाः वर्धमानाः सन्तः शुद्धाः जन्मान्तरसंचितदुरितक्षयात् शुद्धाः "भवत । “पूताः वर्तमानजन्मोपचितदुरितक्षयाच्च पूता भवत ॥
 
 
पैतृमेधिके कर्मणि अमात्याः ‘इमे जीवा वि मृतैः' इति सव्यावृतो व्रजन्ति । सूत्रितं च’इमे जीवा वि मृतैरिति सव्यावृतो व्रजन्ति' (आश्व. गृ. ४. ४. ९) इति ॥
 
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य ।
Line ८४ ⟶ ९१:
प्राञ्चः । अगाम । नृतये । हसाय । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ॥
 
“इमे “जीवाः जीवन्तः पुरुषाः "मृतैः पित्रादिभिः । तेभ्य इत्यर्थः । “वि “आ “अववृत्रन् व्यावृत्ता भवन्तु । एते न म्रियन्तामिति भावः । किंच "अद्य अस्मिन् दिने "नः अस्माकमशौचे विसृष्टे "देवहूतिः देवानामाह्वानं यत्र स देवहूतिः पितृमेधाख्यो यज्ञः "भद्रा कल्याणः "अभूत्
 
 
Line २३३ ⟶ २४१:
 
}}
 
== ==
 
५२,१४३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/161031" इत्यस्माद् प्रतिप्राप्तम्

सञ्चरणावलिः