"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

Jump to navigation Jump to search
()
()
== ==
 
{{सायणभाष्यम्|
अग्निमीळे ' इत्यादिसूक्तमग्निष्टोमस्य प्रातरनुवाके यथा (शस्त्रे) विनियुक्तं तथा ' वायवा याहि ' इत्यादयस्तृचाः प्रउगशस्त्रे विनियुक्ताः । तत्रेदं चिन्त्यते, शस्त्रं किं देवतास्मरणरूपसंस्कारकर्म किं वा अदृष्टफलं प्रधानकर्मेति । तत्र पूर्वपक्षं जैमिनिः ( जै. सू. २. १. १३-२९) सूत्रयामास-
 
इन्दवः । वाम् । उशन्ति। हि ॥४॥
 
एतस्या ऋच ऐन्द्रवायवग्रहे द्वितीयपुरोनुवाक्यारूपेण विशेषविनियोगः पूर्वमेवोक्तः । हे "इन्द्रवायू भवदर्थम् “इमे सोमाः सुताः अभिषुताः। तस्मात् युवां प्रयोभिः अन्नैरस्मभ्यं दातव्यैः सह “उप “आ “गतम्, अस्मत्समीपं प्रति आगच्छतम्। "हि यस्मात् |इन्दवः सोमाः “वां युवाम् "उशन्ति कामयन्ते तस्मात् आगमनमुचितम् ॥ इन्द्रवायूशब्दस्यामन्त्रिताद्युदात्तत्वम् । प्रीणयन्ति भोक्तॄनिति प्रयांस्यन्नानि । प्रीञ्धातोरन्तर्भावितण्यर्थात् (पा. सू. ३. १. २६ ) असुन्प्रत्यये सति नित्स्वरः । गमिधातोर्लोण्मध्यमपुरुषद्विवचने ‘बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘अनुदात्तोपदेश' ( पा. सू. ६. ४. ३७) इत्यादिना मकालोपः । ततो गतमिति भवति । ‘उन्दी क्लेदने ! इति धातोः ‘ उन्देरच्चादेः' (उ. सू. १. १२) इति उन्प्रत्ययः। आद्यक्षरस्य इकारादेशः । तत इन्दुशब्दस्य नित्स्वरः। सोमरसस्य द्रवत्वात् क्लेदनं संभवति। युष्मच्छब्दादेशस्य वामित्येतस्य ‘अनुदात्तं सर्वमपादादौ (पा. सू. ८. १. १८) इत्यनुदात्तः । उशन्तीत्यस्य निघाते ' हि च ' ( पा. सू. ८, १, ३४ ) इति सूत्रेण प्रतिषिद्धे सति प्रत्ययस्वरः । हिशब्दस्य निपातस्वरः ॥
 
 
३३,८७८

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/152905" इत्यस्माद् प्रतिप्राप्तम्

सञ्चरणावलिः