"हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०९०" इत्यस्य संस्करणे भेदः

Jump to navigation Jump to search
सम्पादनसारांशरहितः
({{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| previous = [[../अध्यायः ०८९|अध्यायः ०८९]]
| next = [[../अध्यायः ०९१|अध्यायः ०९१]]
| notes = निकुम्भेन भानुमत्याः अपहरणं, श्रीकृष्णार्जुन एवं प्रद्युम्नेन सह तस्य युद्धं, गोकर्णतीर्थे तस्य पतनं, प्रद्युम्नस्य भानुमत्या सह द्वारकां गमनं, तेषां त्रयाणां निकुम्भेन सह युद्धं, तस्य अद्भुताया मायायाः वर्णनम् , श्रीकृष्णेन निकुम्भस्य वधम् ।
| notes =
}}
नवतितमोऽध्यायः
 
<poem><span style="font-size: 14pt; line-height:200%">वैशम्पायन उवाच
तेषां क्रीडावसक्तानां यदूनां पुण्यकर्मणाम् ।
छिद्रमासाद्य दुर्बुद्धिर्देवशत्रुर्दुरासदः ।। १ ।।
कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ।
जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः ।। २ ।।
अन्तर्हितो मोहयित्वा यदूनां प्रमदाजनम् ।
मायावी मायया राजन् पूर्ववैरमनुस्मरन् ।। ३ ।।
भ्रातुर्हिं वज्रनाभस्य तस्य कन्या प्रभावती ।
प्रद्युम्नेन हृता वीर वज्रनाभस्तथा हतः ।। ४ ।।
भानोरेव तथारण्ये वसत्यवसरेण हि ।
अस्वाधीने दुराधर्षे छिद्रज्ञो दानवाधमः ।। ५ ।।
कन्यापुरे महानादः सहसा समुपस्थितः ।
तस्यां ह्रियन्त्यां कन्यायां रुदन्त्यां समितिंजय ।। ६ ।।
वसुदेबाहुकौ वीरौ दंशितौ निर्गतावुभौ ।
आर्तनादमुपश्रुत्य भानोः कन्यापुरे तदा ।। ७ ।।
न दृष्टिगोचरे तौ तु ददृशातेऽपकारिणम्।
तथैव दंशितौ यातौ यत्र कृष्णो महाबलः ।। ८ ।।
श्रुतार्थः स्वं विमानं तदारुरोह जनार्दनः ।
पार्थेन सहितस्तार्क्ष्यं नागशत्रुमरिंदमः ।। ९ ।।
रथी त्वमनुगच्छेति संदिश्य मकरध्वजम् ।
त्वरेति गरुडं वीरः संदिदेश च काश्यपम् ।। 2.90.१० ।।
वज्रं नगरमायान्तं निकुम्भं रणदुर्जयम् ।
पार्थकृष्णौ महात्मानावासेदतुररिंदमौ ।। ११ ।।
प्रद्युम्नश्च महातेजा मायिनां प्रवरो नृप ।
निकुम्भश्चाथ तान् दृष्ट्वा त्रिधाऽऽत्मानमथाकरोत्।।१२।।
तान् सर्वान् योधयामास निकुम्भः प्रहसन्निव ।
बहुकण्टकगुर्वीभिर्गदाभिरमरोपमः ।। १३ ।।
सव्येनालम्ब्य हस्तेन कन्यां भानुमतीं नृप ।
दक्षिणेनाथ हस्तेन गदया प्राहरत् पुनः ।। १४ ।।
कन्यार्थं न च कृष्णौ वा कामो वा नृपसत्तम ।
निर्दयं प्रहरन्ति स्म निकुम्भे च महासुरे ।। १५ ।।
समर्थास्ते महात्मानः शत्रुं हन्तुं दुरासदाः ।
निशश्वसुर्नरपते दयाभारावपीडिताः ।। १६ ।।
श्रेष्ठो धनुष्मतां पार्थः सर्वथा कुशलो युधि ।
नागोष्ट्रविधिना दैत्यं शरपङ्क्त्या जघान ह ।। १७ ।।
ते तु वैतस्तिकैर्बाणैर्विविधान् दानवान् युधि ।
न कन्यां कलया युक्त्या शिक्षया च महीपते ।। १८ ।।
ततः स कन्यया सार्द्ध तत्रैवान्तरधीयत ।
आसुरीमाश्रितो मायां न च तां वेत्ति कश्चन ।। १९ ।।
तं कृष्णौ रौक्मिणेयश्च पृष्ठतोऽनुययुस्तदा ।
हारितः शकुनो भूत्वा तस्थावथ महासुरः ।। 2.90.२० ।।
तं बाणैः पुनरेवाथ वीरो भूयो धनंजयः ।
वैतस्तिकैर्मर्मभिद्भिः कन्यां रक्षन्नताडयत् ।। २१ ।।
स इमां पृथिवीं कृत्स्नां सप्तद्वीपां महासुरः ।
बभ्रामानुगतश्चैव तैर्वीरैररिमर्दनः ।। २२ ।।
गोकर्णस्योपरिष्टात्तु पर्वतस्य महासुरः ।
पपात वेलां गङ्गायाः पुलिने सह कन्यया ।। २३ ।।
न देवा नासुराश्चापि लङ्घयन्ति तपोधनाः ।
गोकर्णं तेजसा गुप्तं महादेवस्य भारत ।। २४ ।।
एतदन्तरमासाद्य प्रद्युम्नः शीघ्रविक्रमः ।
कन्यां भानुमतीं भैमो जग्राह रणदुर्जयः ।। २५ ।।
असुरः सोऽर्दितो राजन् कृष्णाभ्यां निशितैः शरैः ।
त्यक्त्वाथोत्तरगोकर्णं निकुम्भो दक्षिणां दिशम् ।
जगाम पृष्ठतो यातौ कृष्णौ तार्क्ष्यगतौ तदा ।। २६ ।।
विवेश षट्पुरं चैव ज्ञातीनामालयं तदा ।
तत्र वीरौ गुहाद्वारि कृष्णौ रात्रै तदोषतुः ।। २७ ।।
रौक्मिणेयोऽपि कृष्णेन संदिष्टो द्वारकां पुरीम्।
अनयद् भानुतनया प्रहृष्टेनान्तरात्मना ।। २८ ।।
नयित्वा चाययौ वीरः षट्पुरं दानवाकुलम् ।
ददर्श च गुहाद्वारि कृष्णौ भीमपराक्रमौ ।। २९ ।।
ऊषतुर्द्वारमाक्रम्य षटपुरस्य महाबलौ ।
कृष्णौ प्रद्युम्नसहितौ निकुम्भवधकाङ्क्षक्षिणौ ।। 2.90.३० ।।
ततोऽनन्तरमेतस्माद् बिलादतिबलस्तदा ।
निर्जगाम बली योद्धुं निकुम्भो भीमविक्रमः ।। ३१ ।।
तस्य निर्गच्छतस्तस्माद् बिलात्पार्थो विशाम्पते ।
रुरोध सर्वतो मार्गं शरैर्गाण्डीवनिःसृतैः ।। ३२ ।।
सोऽभिसृत्य गदां घोरामुद्यम्य बहुकण्टकाम् ।
शिरस्यताडयत् पार्थं निकुम्भो बलिनां वरः ।। ३३ ।।
अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः ।
गदयाभिहते पार्थे रक्तं वमति मुह्यति ।। ३४ ।।
हसित्वा सोऽसुरो दृप्तो रौक्मिणेयमताडयत् ।
तं प्राङ्मुखमुखं वीरं मायावी मायिनां वरम् ।
अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः ।। ३५ ।।
तयागतौ तु दृष्ट्वा तौ मुह्यमानौ सुताडितौ ।
अभिदुद्राव गोविन्दो निकुम्भं क्रोधमूर्छितः ।। ३६ ।।
कौमोदकीं समुद्यम्य गदपूर्वोद्भवो गदाम् ।
तावन्योन्यं दुराधर्षौ गर्जन्तावभिपेततुः ।। ३७ ।।
ऐरावतगतः शक्रः सर्वैर्देवगणैः सह ।
ददर्श तन्महायुद्धं घोरं देवासुरं तदा ।। ३८ ।।
दृष्ट्वा देवान् हृषीकेशश्चित्रैर्युद्धैररिंदमः ।
इयेष दानवं हन्तुं देवानां हितकाम्यया ।। ३९ ।।
स मण्डलानि चित्राणि दर्शयामास केशवः ।
कौमोदकीं महाबाहुर्लालयन् युद्धकोविदः ।। 2.90.४० ।।
तथैवासुरमुख्योऽपि गदां तां बहुकण्टकाम् ।
शिक्षया भ्रामयाणोऽथ मण्डलानि चचार ह ।। ४१ ।।
वृषभाविव गर्जन्तौ बृहन्ताविव कुञ्जरौ ।
इषितान्तरमासाद्य क्रुद्धौ शालावृकाविव ।। ४२ ।
आजघान निकुम्भस्तु गदया गदपूर्वजम् ।
स्पष्टाष्टघंटया वीर नादं मुक्त्वातिदारुणम् ।। ४३ ।।
तत्कालमेव कृष्णोऽपि भ्रामयित्वा महागदाम् ।
निकुम्भमूर्द्धनि तदा पातयामास भारत ।। ४४ ।।
अवष्टभ्य मुहूर्तं तु हरिः कौमोदकीं गदाम् ।
तस्थौ जगद्गुरुर्धीमान् मुमोह पतितः क्षितौ ।। ४५ ।।
हाहाभूतं जगत् सर्वं तत्कालमभवत् तदा ।
तथागते वासुदेवे नरदेव महात्मनि ।। ४६ ।।
आकाशगङ्गातोयेन शीतेन च सुगन्धिना ।
सिषेचामृतमिश्रेण कृष्णं देवेश्वरः स्वयम् ।। ४७ ।।
नूनमात्मेच्छया कृष्णस्तथा चक्रे सुरोत्तमः ।
को हि शक्तो महात्मानं युद्धे मोहयितुं हरिम् ।। ४८ ।।
कृष्णः प्रत्यागतप्राणश्चक्रमुद्यम्य भारत ।
प्रतीच्छेति दुरात्मानमुवाच रिपुनाशनः ।। ४९ ।।
निकुम्भोऽप्यतिमायावी उत्पपात दुरासदः ।
शरीरं तत् परित्यज्य न तु तं वेत्ति केशवः ।। 2.90.५० ।।
मुमूर्षति मृतो वायमिति मत्वा जनार्दनः ।
ररक्ष स्मरमाणोऽथ वीरो वीरव्रतं विभो ।। ५१ ।।
अथ प्रद्युम्नकौन्तेयावागतौ लब्धचेतनौ ।
स्थितौ नारायणाभ्याशे निकुम्भवधनिश्चितौ ।। ५२ ।।
प्रद्युम्नोऽप्यथ मायावी विदितः कृष्णमब्रवीत् ।
निकुम्भस्तात नास्त्यत्र गतः क्वापि सुदुर्मतिः ।। ५३ ।।
प्रद्युम्नेनैवमुक्ते तु तन्ननाश कलेवरम् ।
प्रजहासाथ भगवानर्जुनेन सह प्रभुः ।। ५४ ।।
तदायुतसहस्राणि निकुम्भानां जनाधिप ।
ददृशुस्ते ततो वीराः क्षितौ दिवि च सर्वतः ।। ५५ ।।
सहस्राण्येव कृष्णं तु तथा पार्थमरिंदम ।
रौक्मिणेयं तथा वीरं तदद्भुतमिवाभवत् ।। ५६ ।।
पाण्डवस्य धनुः केचित्केचिदस्य महाशरान् ।
अन्येऽस्य जगृहुर्हस्तावन्ये पादौ महासुराः ।। ५७ ।।
एवं ग्रहाय तं वीरमगमंस्ते विहायसि ।
पार्थानामपि कोट्यस्तु गृहीतानां तदाभवन् ।। ५८ ।।
नान्तं ददर्श कृष्णश्च कार्ष्णिश्च रिपुनाशनौ ।
विच्छिद्य तौ शरैर्वीरौ निकुम्भं पार्थवर्जितौ ।। ५९ ।।
एकैकस्तु द्विधा च्छिन्नो द्वेधा भवति भारत ।
दिव्यज्ञानस्तदा कृष्णो भगवाननुदृष्टवान् ।। 2.90.६० ।।
निकुम्भं तत्त्वतश्चापि ददर्श मधुसूदनः ।
स्रष्टारं सर्वमायानां हर्तारं फाल्गुनस्य च ।। ६१ ।
स चक्रेण शिरस्तस्य चकर्तासुरसूदनः ।
पश्यतां सर्वभूतानां भूतभव्यभवो हरिः ।। ६२ ।।
स मुक्त्वा फाल्गुनं राजञ्छिन्ने शिरसि भारत ।
पपातासुरमुख्योऽथ च्छिन्नमूल इव द्रुमः ।। ६३ ।।
अथाकाशगतं पार्थं पतमानं विहायसः ।
कृष्णवाक्येन जग्राह कार्ष्णिर्वियति मानद ।। ६४ ।।
निकुम्भे पतिते भूमौ समाश्वास्य धनंजयम् ।
जगाम द्वारकां देवः पार्थकामसमन्वितः ।। ६५ ।।
समियाय दशार्होऽथ द्वारकां मुदितो विभुः ।
नारदं च महात्मानं ववन्दे यदुनन्दनः ।। ६६ ।।
नारदोऽथ महातेजा भानुं यादवमब्रवीत् ।
भानो मा कार्षीर्मन्युं त्वं श्रूयतां भैमनन्दन ।। ६७ ।।
क्रीडन्त्या रैवतोद्याने दुर्वासाः कोपितोऽनया ।
स शशाप ततो रोषान्मुनिर्दुहितरं तव ।। ६८ ।।
अतिदुर्ललितैः कन्या शत्रुहस्तं गमिष्यति ।
सुतार्थे ते मया सार्द्धं मुनिभिः स प्रसादितः ।। ६९ ।।
बालां व्रतवतीं कन्यामनागसमिमां मुने ।
शप्तवानसि धर्मज्ञ कथं धर्मभृतां वर ।
अनुग्रहं विधत्स्वात्र वयं विज्ञापयामहे ।। 2.90.७० ।।
अस्माभिरेवमुक्तस्तु दुर्वासा भैमनन्दन ।
उवाचाधोमुखो भूत्वा मुहूर्तं कृपयान्वितः ।। ७१ ।।
यदवोचमहं वाक्यं तत् तथा न तदन्यथा ।
रिपुहस्तमवश्यं हि गमिष्यति न संशयः ।। ७२ ।।
अदूषिता नु धर्मेण भर्तारमुपलप्स्यति ।
बहुपुत्रा बहुधना सुभगा च भविष्यति ।। ७३ ।।
सुगन्धगन्धा च सदा कुमारी च पुनः पुनः ।
न च शोकमिमं घोरं तन्वङ्गी धारयिष्यति ।। ७४ ।।
एवं भानुमती वीर सहदेवाय दीयताम् ।
श्रद्दधानः स शूरश्च धर्मशीलश्च पाण्डवः ।। ७५ ।।
ततो भानुमतीं भानुर्ददौ माद्रीसुताय वै ।
सहदेवाय धर्मात्मा नारदस्य वचः स्मरन् ।। ७६ ।।
आनीतः सहदेवश्च प्रेषितश्चक्रपाणिना ।
विवाहे च तदा वृत्ते सभार्यः स पुरीं गतः ।। ७७ ।।
इमं कृष्णस्य विजयं यः पठेच्छृणुयादथ ।
विजयं सर्वकृत्येषु श्रद्दधानो लभेन्नरः ।। ७८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि भानुमतीहरणे निकुम्भवधो नाम नवतितमोऽध्यायः ।। ९० ।।
 
<poem><span style="font-size: 14pt; line-height:200%">
</span></poem>
३२,४११

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/138302" इत्यस्माद् प्रतिप्राप्तम्

सञ्चरणावलिः