"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ५६: पङ्क्तिः ५६:
== ==
== ==


{{सायणभाष्यम्|
{{भाष्यम्|सायणभाष्यम्॥
' अग्निमीळे ' इत्यादिसूक्तमग्निष्टोमस्य प्रातरनुवाके यथा विनियुक्तं तथा ' वायवा याहि '
<big>' अग्निमीळे ' इत्यादिसूक्तमग्निष्टोमस्य प्रातरनुवाके यथा (शस्त्रे) विनियुक्तं तथा ' वायवा याहि '
इत्यादयस्तृचाः प्रउगशस्त्रे विनियुक्ताः । तत्रेदं चिन्त्यते, शस्त्रं किं देवतास्मरणरूपसंस्कारकर्म किं वा
इत्यादयस्तृचाः प्रउगशस्त्रे विनियुक्ताः ।</big> तत्रेदं चिन्त्यते, शस्त्रं किं देवतास्मरणरूपसंस्कारकर्म किं वा
अदृष्टफलं प्रधानकर्मेति । तत्र पूर्वपक्षं जैमिनिः ( जै. सू. २. १. १३-२९) सूत्रयामास-
अदृष्टफलं प्रधानकर्मेति । तत्र पूर्वपक्षं जैमिनिः ( जै. सू. २. १. १३-२९) सूत्रयामास-
' स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ' इति ।। ' आज्यैः स्तुवते पृष्ठैः
' स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ' इति ।। ' आज्यैः स्तुवते पृष्ठैः
पङ्क्तिः १३८: पङ्क्तिः १३८:
वायव्युत्तरा ' ( ऐ. ब्रा. २. २६) इति । तथा सूत्रितं च-' वायवा याहि दर्शतेन्द्रवायू इमे सुता
वायव्युत्तरा ' ( ऐ. ब्रा. २. २६) इति । तथा सूत्रितं च-' वायवा याहि दर्शतेन्द्रवायू इमे सुता
इत्यनुवाक्ये ( आश्व श्रौ. ५ ५) इति ।।
इत्यनुवाक्ये ( आश्व श्रौ. ५ ५) इति ।।

वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।

तेषां॑ पाहि श्रु॒धी हव॑म् ॥

वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तारः॑ ।

सु॒तसो॑मा अह॒र्विदः॑ ॥

वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ ।

उ॒रू॒ची सोम॑पीतये ॥

इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् ।

इन्द॑वो वामु॒शन्ति॒ हि ॥

वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।

तावा या॑त॒मुप॑ द्र॒वत् ॥

वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् ।

म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥

मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् ।

धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥

ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।

क्रतुं॑ बृ॒हन्त॑माशाथे ॥

क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।

दक्षं॑ दधाते अ॒पस॑म् ॥





२३:४९, २४ जनवरी २०१८ इत्यस्य संस्करणं

← सूक्तं १.१ ऋग्वेदः - मण्डल १
सूक्तं १.२
मधुच्छन्दा वैश्वामित्रः
सूक्तं १.३ →
दे. १-३ वायुः, ४-६ इन्द्र-वायू, ७-९ मित्रा-वरुणौ। गायत्री
मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१











वायवा याहि दर्शतेमे सोमा अरंकृताः ।
तेषां पाहि श्रुधी हवम् ॥१॥
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
सुतसोमा अहर्विदः ॥२॥
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥३॥
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
इन्दवो वामुशन्ति हि ॥४॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप द्रवत् ॥५॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
मक्ष्वित्था धिया नरा ॥६॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीं साधन्ता ॥७॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं बृहन्तमाशाथे ॥८॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम् ॥९॥


वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।
तेषां॑ पाहि श्रु॒धी हव॑म् ॥
वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तार॑ः ।
सु॒तसो॑मा अह॒र्विद॑ः ॥
वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ ।
उ॒रू॒ची सोम॑पीतये ॥
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् ।
इन्द॑वो वामु॒शन्ति॒ हि ॥
वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।
तावा या॑त॒मुप॑ द्र॒वत् ॥
वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् ।
म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् ।
धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं॑ बृ॒हन्त॑माशाथे ॥
क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।
दक्षं॑ दधाते अ॒पस॑म् ॥

सायणभाष्यम्

' अग्निमीळे ' इत्यादिसूक्तमग्निष्टोमस्य प्रातरनुवाके यथा (शस्त्रे) विनियुक्तं तथा ' वायवा याहि ' इत्यादयस्तृचाः प्रउगशस्त्रे विनियुक्ताः । तत्रेदं चिन्त्यते, शस्त्रं किं देवतास्मरणरूपसंस्कारकर्म किं वा अदृष्टफलं प्रधानकर्मेति । तत्र पूर्वपक्षं जैमिनिः ( जै. सू. २. १. १३-२९) सूत्रयामास- ' स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ' इति ।। ' आज्यैः स्तुवते पृष्ठैः स्तुवते प्रउगं शंसति निष्केवल्यं शंसति ' इति श्रूयते । तत्र स्तुतिः शंसनं च गुणिनिष्ठ- गुणाभिधानम् ' इन्द्रस्य नु वीर्याणि प्र वोचम् ( ऋ सं. १. ३२. १) इत्यत्र दृष्टत्वात् । एवं सति याज्यान्यायेन गुणिन्या देवताया अभिधायकत्वेन स्तुतशस्त्रयोः संस्काररूपत्वमभ्युपेयम् । याज्यायास्तद्रूपत्व दशमाध्यायस्य चतुर्थपादे ( जै. सू. १०. ४ ३९-४१) दृष्टार्थलाभेन निर्णीतम् । तद्वदत्रापि । तुशब्दः प्रधानकर्मत्वं व्यावर्तयति ।। सिद्धान्ती तं पक्षं दूषयति-

' अर्थेन त्वपकृष्येत देवतानाम्नश्चोदनार्थस्य गुणभूतत्वात् ' इति । तुशब्देन संस्कारत्वं वारयति संस्कारपक्षे प्रयोजनवशेन मन्त्रः स्वस्थानादपकृष्येत । कुतः । मन्त्रगतं देवतावाचकं यदिन्द्रादिनामास्ति तच्चोदनया मन्त्ररूपया प्रतिपाद्य देवतारूपभ्यार्थस्य गुणभूतम् । तस्मात् यत्र प्रधानभूतदेवतास्ति तत्र गुणभूतो मन्त्रो नेतव्यः । तद्यथा माहेन्द्रग्रहसंनिधौ ' अभि त्वा शूर ' ( ऋ. सं. ७. ३२. २२) इत्ययं प्रगाथ आम्नातः । स चेन्द्रं प्रकाशयति न तु महेन्द्रम् । ततो यत्रैन्द्रं कर्म तत्रायं प्रगाथोऽपकर्षणीयः । तथा सति क्रमसंनिधी वाध्येयाताम् ।। तदेतत् सिद्धान्तिनाभिहितं दूषणं पूर्वपक्षी समाधत्ते--

वशावद्वा गुणार्थं स्यात् ' इति । वाशब्दः प्रगाथस्यान्यत्रनयनं वारयति । मन्त्रे यदेतदिन्द्र- शब्दाभिधानं तदेतन्महत्वगुणोपलक्षणार्थं स्यात् । यथा ' सा वा एषा सर्वदेवत्या यदजा वशा वायव्यामा लभेत ' ( तै. सं. ३. ४. ३. २) इत्यत्र अजावशाशब्देन चोदिते कर्मणि छागशब्देन केवलेन युक्ता निगमा वशात्वगुणमप्युपलक्षयन्ति तद्वत् । तस्मात् महत्त्वगुणयुक्ते चोदिते कर्मणि निर्गुणेनेन्द्रशब्देनाभिधानमविरुद्धम् । लोकेऽपि महाराजे केवलराजशब्दप्रयोगमपि पश्यामः । तदेतत् समाधानं सिद्धान्ती दूषयति-

' न श्रुतिसमवायित्वात् ' इति । यदुक्तं वशान्यायेन राजन्यायेन वास्य ग्रहस्यैन्द्रो देवता युज्यते इति तन्न । देवतात्वस्य तद्धितश्रुतिसमवायित्वात् । माहेन्द्रग्रह इत्यत्र सास्य देवतेत्यस्मिन्नर्थे ' महेन्द्राद्धाणौ च ' ( पा. सू. ४. २. २९) इति महेन्द्र्शब्दात् अण्प्रत्ययो विहितः । तस्मात् महेन्द्र एव देवता न त्विन्द्रः ।। विपक्षे बाधमाह-

' गुणश्चानर्थकः ' डति । यदीन्द्रो देवता स्यात् तदानीम् ऐन्द्रग्रह इत्येतावतैव अर्थावगतौ माहेन्द्र इति महत्त्वगुणोऽनर्थकः स्यात । चकारः पूर्वहेतुना समुच्चयार्थः ।। हेत्वन्तरमाह- ' तथा याज्यापुरोरुचोः ' इति । इन्द्रमहेन्द्रयोर्देवतयोर्भेदे यथा महत्वगुणः सार्थकस्तथा याज्या- पुरोनुवाक्ययोर्भेदोऽप्यस्मिन्नेव पक्षे उपपद्यते । ' एन्द्र सानसिम् ' ( ऋ. सं. १. ८. १) इत्यादिके इन्द्रस्य याज्यापुरोनुवाक्ये । ' महाँ इन्द्रो य ओजसा ' ( ऋ सं. ८. ६. १) इत्यादिके महेन्द्रस्य ।। पूर्वपक्षिणोक्ते वशादृष्टान्ते वैषम्यमाह-

' वशायामर्थसमवायात् ' इति । या वशा विधिवाक्ये श्रुता तस्या एव निगमेषु छागशब्देन व्यवहारो न विरुद्धः । छागत्वलक्षणस्यार्थस्य वशायां समवेतत्वात् । तच्च प्रत्यक्षेणोपलभ्यते । इन्द्र- महेन्द्रयोस्तु भेद उपपादितः । तस्मात् विषमो दृष्टान्तः । एवं संस्कारपक्षे प्रगाथस्यैन्द्रकर्मण्यपकर्ष- प्रसङ्गात् तद्वारयितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमिति सिद्धान्तिनो मतम् ।। पुनरपि पूर्वपक्षी तदेतन्मतं निराचष्टे--

-- - - - - -

- - - - -

हेत्वन्तरमाह-

' अभिधाने च कर्मवत् ' इति । यया प्रधानकर्म ' अग्निहोत्रं जुहोति ' इति द्वितीयासंयोगे- नाभिहितं, तया बं प्रनृगं शंसति ' इत्यभिधीयते । अतस्तत्सादृश्यात् प्रधानकर्मत्वम् ।। हेत्वन्तरमाह-- , फलनिर्वृत्तिश्च ' इति । ' स्तुतस्य स्तुतमसि ' ( तै. सं. ३. २. ७. १) इति स्तोत्रानुमन्त्रण- माम्नाय वाक्यशेषे स्तोत्रफलमेवाम्नातम्-' इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् ' ( तै. सं. ३ २. ७. २) इति । न तु देवताप्रयुक्तं फलमाम्नातम् । अतो न देवतासंस्कारः किंतु प्रधानकर्मेति स्थितम् । अनेन तु निर्णयेन प्रयोजनं विकृतिषु ऊहाभावः । संस्कारपक्षे तु यस्यां विकृतौ देवतान्तरं तत्र तद्वाचकं पदमूहनीयं स्यात् । तन्मा भूदिति प्रधानकर्मत्वमुक्तम् । एतच्च दशमाध्याये सूत्रितं- ' ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् ' ( जै. सू. १०. ४. ४९) इति । अत्र संग्रहश्लोकौ-

प्रउगं शंसतीत्यादौ गुणतोत प्रधानता ।

दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ।।

स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् ।

तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ( जै. न्या. २. १. ५) इति ।।

अग्निष्टोमे सुत्यादिने, सूर्योदयात् पूर्वं प्रेषितो होता प्रातरनुवाकमनुब्रूयात् । एतच्चैतरेयब्राह्मणे प्रपञ्चितं- देवेभ्यः प्रातर्यावभ्यो होतरनुब्रूहीत्याहाध्वर्युः ' ( ऐ. ब्रा. २.१५) इत्यादि ब्राह्मणम् । तस्मिंश्च प्रातरनुवाके ' अग्निमीळे ' इत्यादिसूक्तमन्तर्भूतम् । तच्च व्याख्यातम् । प्रातःसवने वैश्वदेव- ग्रहणादूर्ध्वं प्रउगशस्त्रं होत्रा शंसनीयम् । तच्च शस्त्रं ' वायवा याहि ' इत्यादिसप्ततृचात्मकम् । एतच्च ब्राह्मणे ' ग्रहोक्थम् ' ( ऐ.ब्रा. ३.१) इत्यादिखण्डे प्रपञ्चितम् । तथा पञ्चमाध्याये ' स्तोत्रमग्रे शस्त्रात् ' ( आश्व. श्रौ. ५. १०) इत्यादिखण्डे सूत्रितं च । अत्रेयमनुक्रमणिका- वायो वायव्यै- न्द्रवायवमैत्रावरुणास्तृचा अश्विनी द्वादशाश्विनैन्द्रवैश्वदेवसारस्वतास्तृचाः सप्तैताः प्रउगदेवताः ' इति । अस्यायमर्थः । ' वायवा याहि ' इत्यादिकं नवर्च सूक्तम् । ' अग्नि नव ' इत्यतो नवशब्दस्यानुवृत्तेः । तत्राद्यस्तृचो वायुदेवताकः । द्वितीय इन्द्रवायुदेवताकः । तृतीयो मित्रावरुण- देवताकः । ' अश्विना ' इत्यादिकं द्वादशर्चं सूक्तम् । तत्राद्यस्तृच आश्विनः । द्वितीय ऐन्द्रः । तृतीयो वैश्वदेवः । चतुर्थः सारस्वतः । तेषु तृचेषु प्रतिपाद्या वाय्वादयः सरस्वन्यन्ताः सप्तसंख्याकाः प्रउगशस्त्रस्य देवता इति । मधुच्छन्दसोऽनुवर्तनात् स एवर्षिः । तथैवानुवृत्त्या गायत्रं छन्दः । वायव्ये तृचे प्रथमा ग्रहस्य ऐन्द्रवायवस्यैका पुरोनुवाक्या । एतच्च ब्राह्मणे समाम्नातं- वायव्या पूर्वा पुरोनुवाक्यैन्द्र- वायव्युत्तरा ' ( ऐ. ब्रा. २. २६) इति । तथा सूत्रितं च-' वायवा याहि दर्शतेन्द्रवायू इमे सुता इत्यनुवाक्ये ( आश्व श्रौ. ५ ५) इति ।।

वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।

तेषां॑ पाहि श्रु॒धी हव॑म् ॥

वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तारः॑ ।

सु॒तसो॑मा अह॒र्विदः॑ ॥

वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ ।

उ॒रू॒ची सोम॑पीतये ॥

इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् ।

इन्द॑वो वामु॒शन्ति॒ हि ॥

वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।

तावा या॑त॒मुप॑ द्र॒वत् ॥

वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् ।

म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥

मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् ।

धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥

ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।

क्रतुं॑ बृ॒हन्त॑माशाथे ॥

क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।

दक्षं॑ दधाते अ॒पस॑म् ॥


प्रउगशब्दोपरि संदर्भाः

प्रउगशस्त्रतृच- (हौ०) सोमयज्ञेषु प्रकृतिभूत- ज्योति-तद्विकृतिषु चैकाहाहीनसत्रेषु विशेषवर्जं प्रातःसवने होतुः प्रउगशस्त्रस्य 'वायवा याहि दर्शतं (ऋ० १ । २ । १- ३) इति वायव्यः प्रथमस्तृचः । 'इन्द्रवायू इमे सुताः' (ऋ० १ । २ ।४६ । इति ऐन्द्रवायवो द्वितीयस्तृचः । 'मित्रं हुवे पूतदक्षम् (ऋ० १ । २ ।६-८ इति मैत्रावरुणस्तृतीयस्तृचः । ' आश्विना यज्वरीरिषः' (ऋ० १ । ३ । १-३) इति आश्विनश्चतुर्थस्तृचः । 'इन्द्राऽऽयाहि चित्रभानो' (ऋ० १ । ३ ।४- ६) इति ऐन्द्रः पञ्चमस्तृचः । ' ओमासश्चर्षणीधृतः' ऋ० १ । ३।७-९) इति वैश्वदेवः षष्ठस्तृचः । 'पावका नः सरस्वती' (ऋ० १ । ३ । १०- १२) इति सारस्वतः सप्तमस्तृचः । इति तत्तद्देवत्याः सप्ततृचा भवन्ति । तृचानां पुरस्तात् यथासंख्येन शोंसावोम्' इत्याहावहिताः 'वायुरग्रेगाः' इत्याद्याः सप्त पुरोरुचः (ऋ०खि० ५ ।६ । १ -७) पठितव्याः । शंसनप्रकारः-द्र० अग्निष्टोमे होतुः प्रउगशस्त्र-, का० श्रौ० १ । ३ ।८ टि० विद्याधरः । श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः। प्रणेता पण्डित पीताम्बरदत्त शास्त्री

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२&oldid=138296" इत्यस्माद् प्रतिप्राप्तम्