"ऋग्वेदः सूक्तं १०.११७" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ३५: | पङ्क्तिः ३५: | ||
</div> |
</div> |
||
{{ऋग्वेदः मण्डल १०}} |
{{ऋग्वेदः मण्डल १०}} |
||
== == |
|||
१०.११७.६ |
|||
ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु । |
|||
याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वृचि ।। बृहद्देवता १.४९ ।। |
०२:०१, १४ जनवरी २०१८ इत्यस्य संस्करणं
← सूक्तं १०.११६ | ऋग्वेदः - मण्डल १० सूक्तं १०.११७ भिक्षुराङ्गिरसः। |
सूक्तं १०.११८ → |
दे. धनान्नदानं। त्रिष्टुप्, १-९ जगती। |
न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः । उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥१॥ य आध्राय चकमानाय पित्वोऽन्नवान्सन्रफितायोपजग्मुषे । स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विन्दते ॥२॥ स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय । अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥३॥ न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः । अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥४॥ पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम् । ओ हि वर्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः ॥५॥ मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य । नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥६॥ कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृङ्क्ते चरित्रैः । वदन्ब्रह्मावदतो वनीयान्पृणन्नापिरपृणन्तमभि ष्यात् ॥७॥ एकपाद्भूयो द्विपदो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात् । चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पङ्क्तीरुपतिष्ठमानः ॥८॥ समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते । यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः ॥९॥
मण्डल १० | ||||
---|---|---|---|---|
१०.११७.६
ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु । याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वृचि ।। बृहद्देवता १.४९ ।।