"ऋग्वेदः सूक्तं ३.३३" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
|||
{{Rig Veda2|[[ऋग्वेदः मण्डल ३]]}} |
|||
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ३|मण्डल ३]] |
|||
| author = गाथिनो विश्वामित्रः, ४, ६, ८, १० नद्यः ऋषिकाः |
|||
| translator = |
|||
| section = सूक्तं ३.३३ |
|||
| previous = [[ऋग्वेद: सूक्तं ३.३२|सूक्तं ३.३२]] |
|||
| next = [[ऋग्वेद: सूक्तं ३.३४|सूक्तं ३.३४]] |
|||
| notes = दे. नद्यः, ४, ८, १० विश्वामित्रः, ६, ७ इन्द्रः।त्रिष्टुप्, १३ अनुष्टुप्। |
|||
}} |
|||
<div class="verse"> |
<div class="verse"> |
२०:५३, २४ डिसेम्बर् २०१७ इत्यस्य संस्करणं
← सूक्तं ३.३२ | ऋग्वेदः - मण्डल ३ सूक्तं ३.३३ गाथिनो विश्वामित्रः, ४, ६, ८, १० नद्यः ऋषिकाः |
सूक्तं ३.३४ → |
दे. नद्यः, ४, ८, १० विश्वामित्रः, ६, ७ इन्द्रः।त्रिष्टुप्, १३ अनुष्टुप्। |
प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने । गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते ॥१॥ इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥२॥ अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म । वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥३॥ एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः । न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥४॥ रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥५॥ इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् । देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥६॥ प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत् । वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥७॥ एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि । उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥८॥ ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन । नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥९॥ आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन । नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥१०॥ यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः । अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥११॥ अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् । प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥१२॥ उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत । मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥१३॥ *[[ऋग्वेद:]]
मण्डल ३ | |||
---|---|---|---|