"ऋग्वेदः सूक्तं ४.३५" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
|||
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}} |
|||
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]] |
|||
| author = वामदेवो गौतमः |
|||
| translator = |
|||
| section = सूक्तं ४.३५ |
|||
| previous = [[ऋग्वेद: सूक्तं ४.३४|सूक्तं ४.३४]] |
|||
| next = [[ऋग्वेद: सूक्तं ४.३६|सूक्तं ४.३६]] |
|||
| notes = दे. ऋभवः। त्रिष्टुप् |
|||
}} |
|||
<div class="verse"> |
<div class="verse"> |
२३:४५, १९ डिसेम्बर् २०१७ इत्यस्य संस्करणं
← सूक्तं ४.३४ | ऋग्वेदः - मण्डल ४ सूक्तं ४.३५ वामदेवो गौतमः |
सूक्तं ४.३६ → |
दे. ऋभवः। त्रिष्टुप् |
इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत । अस्मिन्हि वः सवने रत्नधेयं गमन्त्विन्द्रमनु वो मदासः ॥१॥ आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः । सुकृत्यया यत्स्वपस्यया चँ एकं विचक्र चमसं चतुर्धा ॥२॥ व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत । अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः ॥३॥ किम्मयः स्विच्चमस एष आस यं काव्येन चतुरो विचक्र । अथा सुनुध्वं सवनं मदाय पात ऋभवो मधुनः सोम्यस्य ॥४॥ शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् । शच्या हरी धनुतरावतष्टेन्द्रवाहावृभवो वाजरत्नाः ॥५॥ यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय । तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानाः ॥६॥ प्रातः सुतमपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते । समृभुभिः पिबस्व रत्नधेभिः सखीँर्याँ इन्द्र चकृषे सुकृत्या ॥७॥ ये देवासो अभवता सुकृत्या श्येना इवेदधि दिवि निषेद । ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥८॥ यत्तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः । तदृभवः परिषिक्तं व एतत्सं मदेभिरिन्द्रियेभिः पिबध्वम् ॥९॥
मण्डल ४ | |
---|---|
|