"ऋग्वेदः सूक्तं ४.२५" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
|||
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}} |
|||
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]] |
|||
| author = वामदेवो गौतमः |
|||
| translator = |
|||
| section = सूक्तं ४.२५ |
|||
| previous = [[ऋग्वेद: सूक्तं ४.२४|सूक्तं ४.२४]] |
|||
| next = [[ऋग्वेद: सूक्तं ४.२६|सूक्तं ४.२६]] |
|||
| notes = दे. इन्द्रः। त्रिष्टुप् |
|||
}} |
|||
<div class="verse"> |
<div class="verse"> |
२३:४३, १९ डिसेम्बर् २०१७ इत्यस्य संस्करणं
← सूक्तं ४.२४ | ऋग्वेदः - मण्डल ४ सूक्तं ४.२५ वामदेवो गौतमः |
सूक्तं ४.२६ → |
दे. इन्द्रः। त्रिष्टुप् |
को अद्य नर्यो देवकाम उशन्निन्द्रस्य सख्यं जुजोष । को वा महेऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥१॥ को नानाम वचसा सोम्याय मनायुर्वा भवति वस्त उस्राः । क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥२॥ को देवानामवो अद्या वृणीते क आदित्याँ अदितिं ज्योतिरीट्टे । कस्याश्विनाविन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥३॥ तस्मा अग्निर्भारतः शर्म यंसज्ज्योक्पश्यात्सूर्यमुच्चरन्तम् । य इन्द्राय सुनवामेत्याह नरे नर्याय नृतमाय नृणाम् ॥४॥ न तं जिनन्ति बहवो न दभ्रा उर्वस्मा अदितिः शर्म यंसत् । प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥५॥ सुप्राव्यः प्राशुषाळेष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः । नासुष्वेरापिर्न सखा न जामिर्दुष्प्राव्योऽवहन्तेदवाचः ॥६॥ न रेवता पणिना सख्यमिन्द्रोऽसुन्वता सुतपाः सं गृणीते । आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥७॥ इन्द्रं परेऽवरे मध्यमास इन्द्रं यान्तोऽवसितास इन्द्रम् । इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥८॥ *[[ऋग्वेद:]]
मण्डल ४ | |
---|---|
|