"ऋग्वेदः सूक्तं ७.७०" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ७.७० पृष्ठं ऋग्वेदः सूक्तं ७.७० प्रति स्थानान... |
No edit summary |
||
पङ्क्तिः २०: | पङ्क्तिः २०: | ||
</pre> |
</pre> |
||
</div> |
</div> |
||
{{ऋग्वेदः मण्डल ७}} |
००:२९, १८ डिसेम्बर् २०१७ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ७.७०
आ विश्ववाराश्विना गतं नः प्र तत्स्थानमवाचि वां पृथिव्याम् । अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न योनिम् ॥१॥ सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे । यो वां समुद्रान्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः ॥२॥ यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु । नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥३॥ चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम् । पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥४॥ शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम् । प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥५॥ यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति । उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम् ॥६॥ इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् । इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥७॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|