"ऋग्वेदः सूक्तं ७.२०" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ३४: | पङ्क्तिः ३४: | ||
</pre> |
</pre> |
||
</div> |
</div> |
||
{{ऋग्वेदः मण्डल ७}} |
००:२२, १८ डिसेम्बर् २०१७ इत्यस्य संस्करणं
← सूक्तं ७.१९ | ऋग्वेदः - मण्डल ७ सूक्तं ७.२० मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.२१ → |
दे. इन्द्रः। त्रिष्टुप्। |
उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत्करिष्यन् । जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित् ॥१॥ हन्ता वृत्रमिन्द्रः शूशुवानः प्रावीन्नु वीरो जरितारमूती । कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥२॥ युध्मो अनर्वा खजकृत्समद्वा शूरः सत्राषाड्जनुषेमषाळ्हः । व्यास इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥३॥ उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः । नि वज्रमिन्द्रो हरिवान्मिमिक्षन्समन्धसा मदेषु वा उवोच ॥४॥ वृषा जजान वृषणं रणाय तमु चिन्नारी नर्यं ससूव । प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥५॥ नू चित्स भ्रेषते जनो न रेषन्मनो यो अस्य घोरमाविवासात् । यज्ञैर्य इन्द्रे दधते दुवांसि क्षयत्स राय ऋतपा ऋतेजाः ॥६॥ यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान्कनीयसो देष्णम् । अमृत इत्पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥७॥ यस्त इन्द्र प्रियो जनो ददाशदसन्निरेके अद्रिवः सखा ते । वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥८॥ एष स्तोमो अचिक्रदद्वृषा त उत स्तामुर्मघवन्नक्रपिष्ट । रायस्कामो जरितारं त आगन्त्वमङ्ग शक्र वस्व आ शको नः ॥९॥ स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति । वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥१०॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|