"अग्निपुराणम्/अध्यायः १८३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
; अष्टमीव्रतानि <poem><span style="font-size: 14pt; line-height: 200%">अग्निरुव... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
; अष्टमीव्रतानि
; अष्टमीव्रतानि
{{अग्निपुराणम्}}

<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
वक्ष्ये व्रतानि चाष्टम्यां रोहिण्यां प्रथमं व्रतं ।१८३.००१
वक्ष्ये व्रतानि चाष्टम्यां रोहिण्यां प्रथमं व्रतं ।१८३.००१

२२:५९, ११ नवेम्बर् २०१७ समयस्य संस्करणम्

अष्टमीव्रतानि
अग्निपुराणम्
















अग्निरुवाच
वक्ष्ये व्रतानि चाष्टम्यां रोहिण्यां प्रथमं व्रतं ।१८३.००१
मासि भाद्रपदेऽष्टभ्यां रोहिण्यामर्धरात्रके ॥१८३.००१
कृष्णो जातो यतस्तस्यां जयन्ती स्यात्ततोऽष्टमी ।१८३.००२
सप्तजन्मकृतात्पापात्मुच्यते चोपवासतः ॥१८३.००२
कृष्णपक्षे भाद्रपदे अष्टम्यां रोहिणीयुते ।१८३.००३
उपाषितोर्चयेत्कृष्णं(१) भुक्तिमुक्तिप्रदायकं ॥१८३.००३
आवाहयाम्यहं कृष्णं बलभद्रञ्च देवकीं ।१८३.००४
वसुदेवं यशोदाङ्गाः(२) पूजयामि नमोऽस्तु ते ॥१८३.००४
योगाय योगपतये योगेशाय नमो नमः ।१८३.००५
योगादिसम्भावयैव गोविन्दाय नमो नमः ॥१८३.००५
स्नानं कृष्णाय दद्यात्तु अर्घ्यं चानेन दापयेत् ।१८३.००६
यज्ञाय यज्ञेश्वराय यज्ञानां पतये नमः ॥१८३.००६
यज्ञादिसंभवायैव गोविन्दाय नमो नमः ।१८३.००७
गृहाण देव पुष्पाणि सुगन्धीनि प्रियाणि ते ॥१८३.००७
सर्वकामप्रदो देव भव मे देववन्दित ।१८३.००८
धूपधूपित धूपं त्वं धूपितैस्त्वं गृहाण मे ॥१८३.००८
सुगन्ध धूपगन्धाढ्यं कुरु मां सर्वदा हरे ।१८३.००९
टिप्पणी
१ विष्णुमिति ट..
२ यशोदाञ्चेति ङ.. , ज.. च

दीपदीप्त महादीपं दीपदीप्तद सर्वदा(१) ॥१८३.००९
मया दत्तं गृहाण त्वं कुरु चोर्ध्वगतिं च मां ।१८३.०१०
विश्वाय विश्वपतये विश्वेशाय नमो नमः(२) ॥१८३.०१०
विश्वादिसम्भवायैव गोविन्दाय निवेदितं ।१८३.०११
धर्माय धर्मपतये दर्मेशाय नमो नमः ॥१८३.०११
धर्मादिसम्भवायैव गोविन्दशयनं कुरु ।१८३.०१२
सर्वाय सर्वपतये सर्वेशाय नमो नमः ॥१८३.०१२
सर्वादिसम्भवायैव गोविन्दाय च पावनं(३) ।१८३.०१३
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ॥१८३.०१३
गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम ।१८३.०१४
स्थण्डिले स्थापयेद्देवं सचन्द्रां रोहिणीं यजेत् ॥१८३.०१४
देवकीं वसुदेवं च यशोदां नन्दकं बलं ।१८३.०१५
अर्धरात्रे परोधाराः पातयेद्गुडसर्पिषा ॥१८३.०१५
वस्त्रहेमादिकं दद्याद्ब्राह्मणान् भोजयेद्व्रती ।१८३.०१६
जन्माष्टमीव्रतकरः पुत्रवान्विष्णुलोकभाक्(४) ॥१८३.०१६
वर्षे वर्षे तु यः कुर्यात्पुत्रार्थी वेत्ति नो भयं(५) ।१८३.०१७
पुत्रान् देहि धनं देहि आयुरारोग्यसन्ततिं ॥१८३.०१७
धर्मं कामं च सौभाग्यं स्वर्गं मोक्षं च देहि मे ।१८३.०१८

इत्याग्नेये महापुराणे जयन्त्यष्टमीव्रतं नाम त्र्यशीत्यधिकशततमोऽध्यायः ॥

टिप्पणी
१ सर्वदा इति घ.. , ङ.. च
२ विश्वेशाय नमोऽस्तु ते इति ज..
३ पारगमिति ग.. । सर्वायेत्यादिः. पावनमित्यन्तः पाठः छ.. पुस्तके नास्ति
४ कृष्णलोकभागिति छ..
५ पुत्रार्थो लभते सुतमिति ज.. , ट.. च