"ऋग्वेदः सूक्तं ७.८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ७.८ पृष्ठं ऋग्वेदः सूक्तं ७.८ प्रति स्थानान्त...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल ७]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ७|मण्डल ७]]
| author = मैत्रावरुणिर्वसिष्ठः।
| translator =
| section = सूक्तं ७.८
| previous = [[ऋग्वेद: सूक्तं ७.७|सूक्तं ७.७]]
| next = [[ऋग्वेद: सूक्तं ७.९|सूक्तं ७.९]]
| notes = दे. अग्निः। त्रिष्टुप्।
}}


<div class="verse">
<div class="verse">

०६:०३, ७ अक्टोबर् २०१७ इत्यस्य संस्करणं

← सूक्तं ७.७ ऋग्वेदः - मण्डल ७
सूक्तं ७.८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९ →
दे. अग्निः। त्रिष्टुप्।
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन ।
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥१॥
अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः ।
वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥२॥
कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः ।
कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥३॥
प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः ।
अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥४॥
असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः ।
स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥५॥
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः ।
शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥६॥
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥७॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८&oldid=125438" इत्यस्माद् प्रतिप्राप्तम्