"ऋग्वेदः सूक्तं ४.५६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.५६ पृष्ठं ऋग्वेदः सूक्तं ४.५६ प्रति स्थानान...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]]
| author = वामदेवो गौतमः
| translator =
| section = सूक्तं ४.५६
| previous = [[ऋग्वेद: सूक्तं ४.५५|सूक्तं ४.५५]]
| next = [[ऋग्वेद: सूक्तं ४.५७|सूक्तं ४.५७]]
| notes = दे. द्यावापृथिवी। त्रिष्टुप्, ५-७ गायत्री
}}


<div class="verse">
<div class="verse">

०७:४७, २ अक्टोबर् २०१७ इत्यस्य संस्करणं

← सूक्तं ४.५५ ऋग्वेदः - मण्डल ४
सूक्तं ४.५६
वामदेवो गौतमः
सूक्तं ४.५७ →
दे. द्यावापृथिवी। त्रिष्टुप्, ५-७ गायत्री
मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः ।
यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥१॥
देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे ।
ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिरर्कैः ॥२॥
स इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान ।
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥३॥
नू रोदसी बृहद्भिर्नो वरूथैः पत्नीवद्भिरिषयन्ती सजोषाः ।
उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥४॥
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
शुची उप प्रशस्तये ॥५॥
पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
ऊह्याथे सनादृतम् ॥६॥
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् ।
परि यज्ञं नि षेदथुः ॥७॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५६&oldid=123986" इत्यस्माद् प्रतिप्राप्तम्