"ऋग्वेदः सूक्तं ४.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १०: पङ्क्तिः १०:




<poem><font size="5">
<poem>
क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥<br>
गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥<br>
पङ्क्तिः २९: पङ्क्तिः २९:


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]
</font></poem>
</poem>

०७:४४, २ अक्टोबर् २०१७ इत्यस्य संस्करणं

← सूक्तं ४.५६ ऋग्वेदः - मण्डल ४
सूक्तं ४.५७
वामदेवो गौतमः
सूक्तं ४.५८ →
दे. १-३ क्षेत्रपतिः, ४ शुनः, ५, ८ शुनासीरौ, ६-७ सीता। अनुष्टुप्, ५ पुर उष्णिक्, २,३,८ त्रिष्टुप्


क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥

क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥२॥

मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् ।
क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥३॥

शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥४॥

शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः ।
तेनेमामुप सिञ्चतम् ॥५॥

अर्वाची सुभगे भव सीते वन्दामहे त्वा ।
यथा नः सुभगाससि यथा नः सुफलाससि ॥६॥

इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु ।
सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥७॥

शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः ।
शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् ॥८॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५७&oldid=123984" इत्यस्माद् प्रतिप्राप्तम्