"ऋग्वेदः सूक्तं ४.७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.७ पृष्ठं ऋग्वेदः सूक्तं ४.७ प्रति स्थानान्त...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]]
| author = वामदेवो गौतमः
| translator =
| section = सूक्तं ४.७
| previous = [[ऋग्वेद: सूक्तं ४.६|सूक्तं ४.६]]
| next = [[ऋग्वेद: सूक्तं ४.८|सूक्तं ४.८]]
| notes = दे. अग्निः। त्रिष्टुप्, १ जगती, २-६ अनुष्टुप्
}}



<div class="verse">
<div class="verse">

०६:०९, २ अक्टोबर् २०१७ इत्यस्य संस्करणं

← सूक्तं ४.६ ऋग्वेदः - मण्डल ४
सूक्तं ४.७
वामदेवो गौतमः
सूक्तं ४.८ →
दे. अग्निः। त्रिष्टुप्, १ जगती, २-६ अनुष्टुप्


अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः ।
यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥१॥
अग्ने कदा त आनुषग्भुवद्देवस्य चेतनम् ।
अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्वीड्यम् ॥२॥
ऋतावानं विचेतसं पश्यन्तो द्यामिव स्तृभिः ।
विश्वेषामध्वराणां हस्कर्तारं दमेदमे ॥३॥
आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि ।
आ जभ्रुः केतुमायवो भृगवाणं विशेविशे ॥४॥
तमीं होतारमानुषक्चिकित्वांसं नि षेदिरे ।
रण्वं पावकशोचिषं यजिष्ठं सप्त धामभिः ॥५॥
तं शश्वतीषु मातृषु वन आ वीतमश्रितम् ।
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥६॥
ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयन्त देवाः ।
महाँ अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा ॥७॥
वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान् ।
दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥८॥
कृष्णं त एम रुशतः पुरो भाश्चरिष्ण्वर्चिर्वपुषामिदेकम् ।
यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः ॥९॥
सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः ।
वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः ॥१०॥
तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः ।
वातस्य मेळिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ॥११॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.७&oldid=123793" इत्यस्माद् प्रतिप्राप्तम्