"आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः १३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
; सोम व्यूळ्ह दशरात्र दशमम् अहः <poem><span style="font-size: 14pt; line-h... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

००:०२, ३ सेप्टेम्बर् २०१७ इत्यस्य संस्करणं

सोम व्यूळ्ह दशरात्र दशमम् अहः

गार्हपत्ये जुह्वतीह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्ने वाट् स्वाहा वाडिति १ आग्नीध्रीय उप सृजं धरुणं मातरं धरुणो धयन् । रायस्पोषमिषमूर्जमस्मासु दीधरत् स्वाहेति २ सदः प्रसृप्य मानसेन स्तुवते ३ यर्हि स्तुतं मन्येता-ध्वर्यवित्याह्वयीत ४ हो होतरितीतरः ५ आयङ्गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा व्याख्यास्वरेण चतुर्होतॄन् व्याचक्षीत ६ देवा वा अध्वर्योः प्रजापतिगृहपतयः सत्रमासत ७ ॐ होतस्तथा होतरित्यध्वर्युः प्रतिगृणात्यवसितेऽवसिते दशसु पदेषु ८ तेषां चित्तिः स्रुगासी३त् । चित्त-माज्यमासी३त् । वाग्वेदिरासी३त् । आधीतं बहिरासी३त् । केतो अग्नि-रासी३त् । विज्ञातमग्नीदासी३त् । प्राणो हविरासी३त् । सामाध्वर्युरासी३त् । वाचस्पतिर्होतासी३त् । मन उपवक्तासी३त् ९ ते वा एतं ग्रहमगृह्णत । वाचस्पते विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम्नाद्यां गच्छ । यां देवाः प्रजापतिगृहपतय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्याम इति १० अपव्रजत्यध्वर्युः ११ अथ प्रजापतेस्तनूरितर उपांश्वनुद्र वति १२ ब्रह्मोद्यञ्च । ब्रह्मोद्यञ्चोपांश्वेवानुद्र वति । अन्नादा चान्नपत्नी च भद्रा च कल्याणी चानिलया चापभया चानाप्ता चानाप्या चानाधृष्या चाप्रतिधृष्या चापूर्वा चाभ्रातृव्या चेति तन्वः १३ अग्निर्गृहपतिरिति हैक आहुः सोऽस्य लोकस्य गृहपति-र्वायुर्गृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य गृहपतिरसौ वै गृहपतिर्योऽसौ तपत्येष पतिरृतवो गृहाः । येषां वै गृहपतिं देवं विद्वान् गृहपतिर्भवति राध्नोति स गृहपतीराध्नुवन्ति ते यजमानाः । येषां वा अपहतपाप्मानं देवं विद्वान् गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं घ्नते १४ अध्वर्यो अरात्स्मेत्युच्चैः १५ एषा याज्या १६ एष वषट्कारः १७ नानुवषट्करोति । उक्तं वषट्कारानुमन्त्रणं १८ अरात्स्म होतरित्यध्वर्युः प्रत्याह १९ मनसाऽध्वर्युर्ग्रहं गृहीत्वा । मनसा भक्षमाहरति २० मानसेषु भक्षेषु मनसोपह्वानं भक्षणे २१ मनसात्मानमाप्याय्यौदुम्बरीं समन्वारभ्य वाचं यच्छन्त्यानक्षत्रदर्शनात् । तत्रानधरान् पाणॐश्चिकीर्षेरन् २२ दृश्यमानेष्व-ध्वर्युमुखाः समन्वारब्धाः सर्पन्त्यातीर्थदेशात् युवन्तमिन्द्रा पर्वता पुरोयुधेति जपन्तः २३ अध्वर्युपथेनेत्येके २४ दक्षिणस्य हविर्धानस्याधोक्षेणेत्येके २५ प्राप्य वरान् वृत्वा वाचं विसृजन्ते यदिहोनमकर्म यदत्यरीरिचाम प्रजापतिं तत्पितरमप्येत्विति २६ अथ वाचं निह्नवन्ते वागैतु वागुपैतु वागुप मैतु वागिति २७ उत्करदेशे सुब्रह्मण्यां त्रिराहूय वाचं विसृजन्ते २८ नित्यस्त्विह वाग्विसर्गः २९ एतावत् सात्रं होतृकर्मान्यत्र महाव्रतात् ३० तदेषा-ऽभियज्ञगाथा गीयते । प्रायणीयश्चतुर्विंशं पृष्ठ्योऽभिप्लव एव च । अभि-जित्स्वरसामानो विषुवान् विश्वजित् तथा । छन्दोमा दशमञ्चाह उत्तमं तु महाव्रतं । अहीनैकाहः सत्राणां प्रकृतिः समुदाह्रियते । यद्यन्यधीयते पूर्वधोयते तं प्रतिग्रामन्त्यहानि पञ्चविंशतिर्यैर्वै संवत्सरो मितः । एतेषामेव प्रभवस्त्रीणि षष्टिशतानि यदिति ३१ तद्ये केचन छान्दोग्ये वाऽऽध्वर्यवे वा हौत्रामर्शाः समाम्नाता न तान् कुर्यादकृत्स्नत्वाद्धौत्रस्य ३२ छन्दोगप्रत्ययं स्तोम स्तोत्रियः पृष्ठं संस्थेति ३३ अध्वर्युप्रत्ययन्तु व्याख्यानं कामकालदेशदक्षि-णानां दीक्षोपसत्प्रसवसंस्थोत्थानानामेतावत्त्वं हविषामुच्चैरुपांशुतायां हविषा चानुपूर्वं ३४ एतेभ्य एवाहोभ्योऽहीनैकाहान् पश्चात्तरान् व्याख्यास्यामः ३५