"अग्निपुराणम्/अध्यायः ३२१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अग्निपुराणम् using AWB
 
पङ्क्तिः ५: पङ्क्तिः ५:
ईश्वर उवाच
ईश्वर उवाच
अस्त्रयागः पुरा कार्य्यः सर्वकर्म्मसु सिद्धिदः ।

मध्थे पूज्य शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात् ।। ३२१.१ ।।
मध्ये पूज्यं शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात् ।। ३२१.१ ।।

पञ्चचक्रं दशकरं रणादौ पूजितं जये ।
पञ्चचक्रं दश करं रणादौ पूजितं जये ।
ग्रहपूजा सविर्मध्ये पूर्व्वाद्याः सोमकादयः ।। ३२१.२ ।।
ग्रहपूजा रविर्मध्ये पूर्व्वाद्याः सोमकादयः ।। ३२१.२ ।।

सर्व्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् ।

पङ्क्तिः १६: पङ्क्तिः १६:
विनायकोपतप्तिघ्नमघोरास्त्रं जपेन्नरः ।। ३२१.४ ।।

लक्षं ग्रहादिनाशः स्यादुत्‌पाते तिलहोमनम्
लक्षं ग्रहादिनाशः स्यादुत्‌पाते तिलहोमकम्
दिव्ये लक्षं तदर्द्धेन व्योमजोत्पातनाशनं ।। ३२१.५ ।।

घृतेन लक्षपातेन उत्तपाते भूमिजे हितम् ।
घृतेन लक्षपातेन उत्पाते भूमिजे हितम् ।
घृतगुग्‌गुलुहोमे च सर्व्वोत्पातादिमर्द्दनम् ।। ३२१.६ ।।

दूर्वाक्षताज्यहोमेन व्याधयोऽथ घृतेन च ।
दूर्वाक्षताज्यहोमेन व्याधयोऽथ घृतेन च ।
सहस्रेण तु दुःस्वप्ना विनशन्ति न संशयः ।। ३२१.७ ।।
सहस्रेण तु दुःस्वप्ना विनश्यन्ति न संशयः ।। ३२१.७ ।।

अयुताद्‌ ग्रहदोषघ्नो जवाघृतविमिश्रितात् ।

पङ्क्तिः २९: पङ्क्तिः २९:

भूतवेतालशान्तिस्तु गुग्गुलोरयुतेन च ।
भूतवेतालशान्तिस्तु गुग्गुलोरयुतेन च ।
महावृक्षस्य भङ्गे तु व्यालकङ्के१ गृहे स्थिते ।। ३२१.९ ।।
महावृक्षस्य भङ्गे तु व्यालकङ्के गृहे स्थिते ।। ३२१.९ ।।

आरण्यानां प्रवेशे च दूर्वाज्याक्षतहावनात् ।

पङ्क्तिः ३८: पङ्क्तिः ३८:

द्विपदादेर्यदा मारी लक्षार्द्धाच्च तिलाज्यतः ।

हस्तिमारीप्रशान्त्यर्थ करिणोदन्तवर्द्धने ।। ३२१.१२ ।।
हस्तिमारीप्रशान्त्यर्थ करिणीदन्तवर्द्धने ।। ३२१.१२ ।।

हस्तिन्यां मददृष्टौ च अयुताच्छान्तिरिष्यते ।

पङ्क्तिः ४४: पङ्क्तिः ४४:

विकृता यत्र जायन्ते यात्राकालेऽयुतं हुनेत् ।

तिलाजयलक्षहोमन्तु उत्तमासिद्धिसाधने ।। ३२१.१४ ।।
तिलाज्यलक्षहोमन्तु उत्तमासिद्धिसाधने ।। ३२१.१४ ।।

मद्यमायां तदर्द्धन तत्पादादधमासु च ।
मध्यमायां तदर्द्धेन तत्पादादधमासु च ।
यथा जपस्तथा होमः संग्रामे विजयो भवेत ।
यथा जपस्तथा होमः संग्रामे विजयो भवेत ।

१३:४०, ३ आगस्ट् २०१७ समयस्य संस्करणम्

अग्निपुराणम्

अघोरास्त्रादिशान्तिकल्पः[सम्पाद्यताम्]

ईश्वर उवाच
अस्त्रयागः पुरा कार्य्यः सर्वकर्म्मसु सिद्धिदः ।
मध्ये पूज्यं शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात् ।। ३२१.१ ।।

पञ्चचक्रं दश करं रणादौ पूजितं जये ।
ग्रहपूजा रविर्मध्ये पूर्व्वाद्याः सोमकादयः ।। ३२१.२ ।।

सर्व्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् ।
अस्त्रशान्तिं प्रवक्ष्यामि सर्वोत्पातविनाशिनीं ।। ३२१.३ ।।

ग्रहरोगादिशमनीं मारीशत्रुविमर्द्दनीं ।
विनायकोपतप्तिघ्नमघोरास्त्रं जपेन्नरः ।। ३२१.४ ।।

लक्षं ग्रहादिनाशः स्यादुत्‌पाते तिलहोमकम् ।
दिव्ये लक्षं तदर्द्धेन व्योमजोत्पातनाशनं ।। ३२१.५ ।।

घृतेन लक्षपातेन उत्पाते भूमिजे हितम् ।
घृतगुग्‌गुलुहोमे च सर्व्वोत्पातादिमर्द्दनम् ।। ३२१.६ ।।

दूर्वाक्षताज्यहोमेन व्याधयोऽथ घृतेन च ।
सहस्रेण तु दुःस्वप्ना विनश्यन्ति न संशयः ।। ३२१.७ ।।

अयुताद्‌ ग्रहदोषघ्नो जवाघृतविमिश्रितात् ।
विनायकार्त्तिशमनमयुतेन घृतस्य च ।। ३२१.८ ।।

भूतवेतालशान्तिस्तु गुग्गुलोरयुतेन च ।
महावृक्षस्य भङ्गे तु व्यालकङ्के गृहे स्थिते ।। ३२१.९ ।।

आरण्यानां प्रवेशे च दूर्वाज्याक्षतहावनात् ।
उल्कापाते भूमिकम्पे तिलाज्येनाहुताच्छिवम् ।। ३२१.१० ।।

रक्तस्रावे तु वृक्षाणामयुताद्‌ गुग्गुलोः शिवं ।
अकाले फलपुष्पणां राष्ट्रभङ्गे च मारणे ।। ३२१.११ ।।

द्विपदादेर्यदा मारी लक्षार्द्धाच्च तिलाज्यतः ।
हस्तिमारीप्रशान्त्यर्थ करिणीदन्तवर्द्धने ।। ३२१.१२ ।।

हस्तिन्यां मददृष्टौ च अयुताच्छान्तिरिष्यते ।
अकाले गर्भपाते तु जातं यत्र विनश्यति ।। ३२१.१३ ।।

विकृता यत्र जायन्ते यात्राकालेऽयुतं हुनेत् ।
तिलाज्यलक्षहोमन्तु उत्तमासिद्धिसाधने ।। ३२१.१४ ।।

मध्यमायां तदर्द्धेन तत्पादादधमासु च ।
यथा जपस्तथा होमः संग्रामे विजयो भवेत ।

अघोरास्त्रं जपेन्न्यस्य ध्यात्वा पञ्चास्यमूर्ज्जितम् ।। ३२१.१५ ।।

इत्यादिमहापुराणे आग्नेये अघोरास्त्रादिशान्तिकल्पो नामैकविंशत्यधिकत्रिशततमोऽध्यायः ।।