"ऋग्वेदः सूक्तं ७.७०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) ६ अवतरण: rigveda and other pages
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ७.७० पृष्ठं ऋग्वेदः सूक्तं ७.७० प्रति स्थानान...
(भेदः नास्ति)

२१:३६, २८ जुलै २०१७ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ७.७०


आ विश्ववाराश्विना गतं नः प्र तत्स्थानमवाचि वां पृथिव्याम् ।
अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न योनिम् ॥१॥
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे ।
यो वां समुद्रान्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः ॥२॥
यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु ।
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥३॥
चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम् ।
पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥४॥
शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम् ।
प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥५॥
यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति ।
उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम् ॥६॥
इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥७॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७०&oldid=116635" इत्यस्माद् प्रतिप्राप्तम्