"ऋग्वेदः सूक्तं ७.४९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) ६ अवतरण: rigveda and other pages
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ७.४९ पृष्ठं ऋग्वेदः सूक्तं ७.४९ प्रति स्थानान...
(भेदः नास्ति)

२१:३०, २८ जुलै २०१७ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ७.४९


समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः ।
इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥१॥
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः ।
समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥२॥
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।
मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ॥३॥
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ॥४॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४९&oldid=116593" इत्यस्माद् प्रतिप्राप्तम्