"ऋग्वेदः सूक्तं ४.४२" इत्यस्य संस्करणे भेदः
(लघु) ७ अवतरण: rigveda and other pages |
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.४२ पृष्ठं ऋग्वेदः सूक्तं ४.४२ प्रति स्थानान... |
(भेदः नास्ति)
|
२१:०९, २८ जुलै २०१७ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ४.४२
मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः । क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥१॥ अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त । क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥२॥ अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके । त्वष्टेव विश्वा भुवनानि विद्वान्समैरयं रोदसी धारयं च ॥३॥ अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य । ऋतेन पुत्रो अदितेरृतावोत त्रिधातु प्रथयद्वि भूम ॥४॥ मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते । कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः ॥५॥ अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम् । यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥६॥ विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः । त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥७॥ अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने । त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम् ॥८॥ पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः । अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् ॥९॥ राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥१०॥