"ऋग्वेदः सूक्तं ४.१९" इत्यस्य संस्करणे भेदः
(लघु) ८ अवतरण: rigveda and other pages |
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.१९ पृष्ठं ऋग्वेदः सूक्तं ४.१९ प्रति स्थानान... |
(भेदः नास्ति)
|
२०:५७, २८ जुलै २०१७ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ४.१९
एवा त्वामिन्द्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः । महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये ॥१॥ अवासृजन्त जिव्रयो न देवा भुवः सम्राळिन्द्र सत्ययोनिः । अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः ॥२॥ अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र । सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन् ॥३॥ अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः । दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम् ॥४॥ अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः । अतर्पयो विसृत उब्ज ऊर्मीन्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥५॥ त्वं महीमवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् । अरमयो नमसैजदर्णः सुतरणाँ अकृणोरिन्द्र सिन्धून् ॥६॥ प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद्युवतीरृतज्ञाः । धन्वान्यज्राँ अपृणक्तृषाणाँ अधोगिन्द्र स्तर्यो दंसुपत्नीः ॥७॥ पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिन्धून् । परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥८॥ वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ । व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व ॥९॥ प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि । यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥१०॥ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥ *[[ऋग्वेद:]]