"ऋग्वेदः सूक्तं १०.१६३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) ७ अवतरण: rigveda and other pages
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १०.१६३ पृष्ठं ऋग्वेदः सूक्तं १०.१६३ प्रति स्थ...
(भेदः नास्ति)

२२:३०, २६ जुलै २०१७ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१६३


अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१॥
ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि ।
यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥३॥
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥४॥
मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ।
यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥५॥
अङ्गादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि ।
यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥६॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१६३&oldid=115422" इत्यस्माद् प्रतिप्राप्तम्