"अग्निपुराणम्/अध्यायः ३७३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
 
पङ्क्तिः २८: पङ्क्तिः २८:
तथा पूर्णश्च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः ।। ३७३.८ ।.
तथा पूर्णश्च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः ।। ३७३.८ ।.


न मुञ्चति न गृह्णाति वायुमन्तर्वहिः स्थितम् ।
न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् ।
सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ।। ३७३.९ ।।
सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ।। ३७३.९ ।।



१६:४०, १८ एप्रिल् २०१७ समयस्य संस्करणम्

अग्निपुराणम्
















आसनप्राणायामप्रत्याहाराः[सम्पाद्यताम्]

अग्निरुवाच
आसनं कमलाद्युक्तं तद्‌बद्‌ध्वा चिन्तयेत्परं ।
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनामात्मनः ।। ३७३.१ ।।

नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं ।
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।। ३७३.२ ।।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।
समकायशिरग्रीवं धारयन्नचलं स्थिरः ।। ३७३.३ ।।

सम्प्रेक्ष्य नासिकाग्रं स्वन्दिशश्चानवलोकयन् ।
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ।। ३७३.४ ।।

उरुभ्यामुपरिस्थाप्य बाहू तिर्य्यक् प्रयत्नतः ।
दक्षिणं करपृष्ठञ्च न्यसेद्वामतलोपरि ।। ३७३.५ ।।

उन्नम्य शनकैर्वक्त्त्रं मुखं विष्टभ्य चाग्रतः ।
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनं ।। ३७३.६ ।।

नासिकापुटमङ्गुल्या पीड्यैव च परेण च ।
औदरं रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ।। ३७३.७ ।।

बाह्येन वायुना देहं दृतिवत् पूरयेद्यथा ।
तथा पूर्णश्च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः ।। ३७३.८ ।.

न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् ।
सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ।। ३७३.९ ।।

कन्यकः सकृदुद्‌घातः स वै द्वादशमात्रिकः ।
मध्यमश्च द्विरुद्‌घातश्चतुर्विंशतिमात्रिकः ।। ३७३.१० ।।

उत्तमश्च त्रिरुद्‌घातः षट्‌त्रिंशत्तालमात्रिकः ।
स्वेदकम्पाभिघातानां जननश्चोत्तमोत्तमः ।। ३७३.११ ।।

अजितान्नारुहेद्‌भूमिं हिक्काश्वासादयस्तथा ।
जिते प्राणे स्वल्पदोषविण्मूत्रादि प्रजायते ।। ३७३.१२ ।।

आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।
बलवर्णप्रसादश्च सर्वदोषक्षयः फलं ।। ३७३.१३ ।।

जपध्यानं विनागर्भः स गर्भस्तत्समन्वितः ।
इन्द्रियाणां जयार्थाय स गर्भं धारयेत्परं ।। ३७३.१४ ।।

ज्ञानवैराग्ययुक्ताभ्यां प्राणायामवशेन च ।
इन्द्रियांश्च विनिर्जित्य सर्वमेव जितं भवेत् ।। ३७३.१५ ।।

इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ।। ३७३.१६ ।।

शरीरं रथमित्याहुरिन्द्रियाण्यस्य वाजिनः ।
मनश्च सारथिः प्रोक्तः प्राणायामः कशः स्मृतः ।। ३७३.१७ ।।

ज्ञानवैराग्यरश्मिभ्यां सायया विधृतं मनः ।
शनैर्निश्चलतामेति प्राणायामैकसंहितम् ।। ३७३.१८ ।।

जलविन्दुं कुशाग्रेण मासे मासे पिवेत्तु यः ।
संवत्सरशतं साग्रं प्राणायामश्च तत्समः ।। ३७३.१९ ।।

इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ ।
आहृत्य यो निगृह्णाति प्रत्याहारः स उच्यते ।। ३७३.२० ।।

उद्धरेदात्मनात्मानं मज्जमानं यथाम्भसि ।
भोगनद्यतिवेगेन ज्ञानवृक्षं समाश्रयेत् ।। ३७३.२१ ।।

इत्यादिमहापुराणे आग्नेये आसनप्राणायामप्रत्याहारा नाम त्रिसप्तत्यधिकत्रिशततमोऽध्यायः ॥