"बृहदारण्यक उपनिषद् 6p" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
add first three ब्राह्मणम्
(भेदः नास्ति)

२२:३९, २७ जनवरी २०१७ इत्यस्य संस्करणं

अथ षष्ठोऽध्यायः ।

प्रथमं ब्राह्मणम्

मन्त्र १[VI.1.1] ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्य् अपि च येषां बुभूषति य एवं वेद ॥ १ ॥

मन्त्र २[VI.1.2] यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । वाग्वै वसिष्ठा । वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ २ ॥

मन्त्र ३[VI.1.3] यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे । चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३ ॥

मन्त्र ४[VI.1.4] यो ह वै सम्पदं वेद स हास्मै पद्यते यं कामं कामयते । श्रोत्रं वै सम्पच् छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः । स हास्मै पद्यते यं कामं कामयते य एवं वेद ॥ ४ ॥

मन्त्र ५[VI.1.5] यो ह वा आयतनं वेदाऽऽयतन स्वानां भवति आयतनं जनानाम् । मनो वा आयतनम् आयतन स्वानां भवत्य् आयतनं जनानाम् य एवं वेद ॥ ५ ॥

मन्त्र ६[VI.1.6] यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः । प्रजायते ह प्रजया पशुभिर् य एवं वेद ॥ ६ ॥

मन्त्र ७[VI.1.7] ते हेमे प्राणा अहश्रेयसे विवदमाना ब्रह्म जग्मुस्तद्धोचुः को नो वसिष्ठ इति । तद्धोवाच यस्मिन्व उत्क्रान्त इद शरीरं पापीयो मन्यते स वो वसिष्ठ इति ॥ ७ ॥

मन्त्र ८[VI.1.8] वाग्घोच्चक्राम । सा संवत्सरं प्रोष्या।आ।आगत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुऱ् यथाऽकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वासो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह वाक् ॥ ८ ॥

मन्त्र ९[VI.1.9] चक्षुर्होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर् यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वासो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह चक्षुः ॥ ९ ॥

मन्त्र १०[VI.1.10] श्रोत्र होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर् यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वासो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह श्रोत्रम् ॥ १० ॥

मन्त्र ११[VI.1.11] मनो होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर् यथा मुग्धा अविद्वासो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह मनः ॥ ११ ॥

मन्त्र १२[VI.1.12] रेतो होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर् यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वासो मनसैवमजीविष्मेति । प्रविवेश ह रेतः ॥ १२ ॥

मन्त्र १३[VI.1.13] अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्कून्संवृहेद् एव हैवेमान्प्राणान्संववर्ह । ते होचुर् मा भगव उत्क्रमीर् न वै शक्ष्यामस्त्वदृते जीवितुमिति । तस्यो मे बलिं कुरुतेति तथेति ॥ १३ ॥

मन्त्र १४[VI.1.14] सा ह वागुवाच यद्वा अहं वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽसीति । यद् वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर् यद्वा अह सम्पदस्मि त्वं तत् सम्पदसीति श्रोत्रम् । यद् वा अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि त्वं तत् प्रजातिरसीति रेतस् तस्यो मे किमन्नम् किं वास इति । यदिदं किञ्चाऽऽश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस् तत्तेऽन्नम् आपो वास इति । न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद । तद् विद्वासः श्रोत्रिया अशिष्यन्त आचामन्त्य् अशित्वाऽऽचामन्त्य् एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥

इति प्रथमं ब्राह्मणम् ॥

द्वितीयं ब्राह्मण्

मन्त्र १[VI.2.1] श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम । स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । तमुदीक्ष्याभ्युवाद कुमारा३ इति । स भोः ३ इति प्रतिशुश्राव अनुशिष्टोऽन्वसि पित्रेत्य् ओमिति होवाच ॥ १ ॥

मन्त्र २[VI.2.2] वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच । वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । नेति हैवोवाच । वेत्थो यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्भिर्न सम्पूर्यता३ इति नेति हैवोवाच । वेत्थो यतिथ्यामाहुत्या हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा ऽपि हि न ऋषेर्वचः श्रुतम् द्वे सृती अशृणवं पितृणाम् अहं देवानामुत मर्त्यानाम् ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति । नाहमत एकं चन वेदेति होवाच ॥ २ ॥

मन्त्र ३[VI.2.3] अथैनं वसत्योपमन्त्रयां चक्रे ऽनादृत्य वसतिं कुमारः प्रदुद्राव । स आजगाम पितरम् त होवाचेति वाव किल नो भवान्पुराऽनुशिष्टानवोच इति । कथ, सुमेध इति । पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत् ततो नैकञ्चन वेदेति । कतमे त इति इम इति ह प्रतीकान्युदाजहार ॥ ३ ॥

मन्त्र ४[VI.2.4] स होवाच तथा नस्त्वम् तात जानीथा यथा यदहं किञ्च वेद सर्वमहं तत्तुभमवोचम् । प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति । भवानेव गच्छत्विति । स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास । तस्मा आसनमाहृत्योदकमहारयां चकाराथ हास्मा अर्घ्यं चकार । त होवाच वरं भगवते गौतमाय दद्म इति ॥ ४ ॥

मन्त्र ५[VI.2.5] स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास् तां मे ब्रूहीति ॥ ५ ॥

मन्त्र ६[VI.2.6] स होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति ॥ ६ ॥

मन्त्र ७[VI.2.7] स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति । स वै गौतम तीर्थेनेच्छासा इत्य् उपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति । स होपायनकीर्त्योवास ॥ ७ ॥

मन्त्र ८[VI.2.8] स होवाच तथा नस्त्वम् गौतम माऽपराधास्तव च पितामहा यथेयं विद्येतः पूर्वं न कस्मिꣳश्चन ब्राह्मण उवास तां त्वहं तुभ्यं वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥

मन्त्र ९[VI.2.9] असौ वै लोकोऽग्निर् गौतम । तस्याऽऽदित्य एव समिद् रश्मयो धूमो ऽहरर्चिर् दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गास् तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९ ॥

मन्त्र १०[VI.2.10] पर्जन्यो वा अग्निर् गौतम । तस्य संवत्सर एव समिद् अभ्राणि धूमो विद्युदर्चिर् अशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गास् तस्मिन्नेतस्मिन्नग्नौ देवाः सोम राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति ॥ १० ॥

मन्त्र ११[VI.2.11] अयं वै लोकोऽग्निर् गौतम । तस्य पृथिव्येव समिद् अग्निर्धूमो रात्रिरर्चिश् चन्द्रमा अङ्गारा नक्षत्राणि विष्फुलिङ्गास् तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या अन्न सम्भवति ॥ ११ ॥

मन्त्र १२[VI.2.12] पुरुषो वा अग्निर् गौतम । तस्य व्यात्तमेव समित् प्राणो धूमो वागर्चिश् चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास् तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुत्यै रेतः सम्भवति ॥ १२ ॥

मन्त्र १३[VI.2.13] योषा वा आग्निर् गौतम । तस्या उपस्थ एव समिल् लोमानि धूमो योनिरर्चिर् यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास् तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः सम्भवति । स जीवति यावज्जीवत्य् अथ यदा म्रियते । १३ ॥

मन्त्र १४[VI.2.14] अथैनमग्नये हरन्ति । तस्याग्निरेवाग्निर्भवति समित्समिद् धूमो धूमो ऽर्चिरर्चिर् अङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गास् तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै पुरुषो भास्वरवर्णः सम्भवति ॥ १४ ॥

मन्त्र १५[VI.2.15] ते य एवमेतद्विदुर् ये चामी अरण्ये श्रद्धा सत्यमुपासते तेऽर्चिरभिसम्भवन्त्य् अर्चिषोऽहो ऽह्न आपूर्यमाणपक्षम् आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकम् देवलोकादादित्यम् आदित्याद्वैद्युतम् तान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति । तेषां न पुनरावृत्तिः ।

मन्त्र १६[VI.2.16] अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रि, रात्रेरपक्षीयमाणपक्षम् अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकम् पितृलोकाच्चन्द्रम् ते चन्द्रं प्राप्यान्नं भवन्ति तास्तत्र देवा यथा सोम राजानम् आप्यायस्व अपक्षीयस्वेत्य् एवमेनास्तत्र भक्षयन्ति । तेषां यदा तत्पर्यवैत्य् अथेममेवाऽऽकाशमभिनिष्पद्यन्ते आकाशाद्वायुम् वायोर्वृष्टिम् वृष्टेः पृथिवीम् ते पृथिवीं प्राप्यान्नं भवन्ति ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ते लोकान्प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते ऽथ य एतौ पन्थानौ न विदुस् ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ १६ ॥

इति द्वितीयं ब्राह्मणम् ॥

तृतीयं ब्राह्मणम्

मन्त्र १[VI.3.1] स यः कामयते महत्प्राप्नुयामित्य् उदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कसे चमसे वा सर्वौषधं फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्याऽऽवृताऽऽज्य सस्कृत्य पुसा नक्षत्रेण मन्थ सन्नीय जुहोति । यावन्तो देवास्त्वयि जातवेदस् तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यते ऽहं विधरणी इति तां त्वा घृतस्य धारया यजे सराधनीमह । स्वाहा ॥ १ ॥

मन्त्र २[VI.3.2] ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । चक्षुषे स्वाहा सम्पदे स्वाहेति अग्नौ हुत्वा मन्थे सस्रवमवनयति । श्रोत्राय स्वाहाऽऽयतनाय स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । मनसे स्वाहा प्रजात्यै स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । रेतसे स्वाहेति अग्नौ हुत्वा मन्थे सस्रवमवनयति ॥ २ ॥

मन्त्र ३[VI.3.3] अग्नये स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । सोमाय स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । भूः स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । भुवः स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । स्वः स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । भूर्भुवः स्वः स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । ब्रह्मणे स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । क्षत्राय स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । भूताय स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । भविष्यते स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । विश्वाय स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । सर्वाय स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति । प्रजापतये स्वाहेत्य् अग्नौ हुत्वा मन्थे सस्रवमवनयति ॥ ३ ॥

मन्त्र ४[VI.3.4] अथैनमभिमृशति भ्रमदसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्य् एकसभमसि हिङ्कृतमसि हिङ्क्रियमाणमस्य् उद्गीथमस्य् उद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमस्य् अर्द्रे सन्दीप्तमसि विभूरसि प्रभूरस्य् अन्नमसि ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४ ॥

मन्त्र ५[VI.3.5] अथैनमुद्यच्छत्य् अमस्य् आम हि ते महि । स हि राजेशानोऽधिपतिः स मा राजेशनोऽधिपतिं करोत्विति ॥ ५ ॥

मन्त्र ६[Vi.3.6] अथैनमाचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि मधु नक्तमुतोषसो मधुमत्पार्थिव रजः । मधु द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिर् मधुमा अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । स्वः स्वाहेति । सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीर् अहमेवेद सर्वं भूयासम् । भूर्भुवः स्वः स्वाहेत्य् अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्षिराः संविशति । प्रातरादित्यमुपतिष्ठते दिशामेकपुण्डरीकमसि अहं मनुष्याणामेकपुण्डरीकं भूयासमिति । यथेतमेत्य जघनेनाग्निमासीनो वशं जपति ॥ ६ ॥

मन्त्र ७[VI.3.7] त हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिञ्चेज् शुष्के जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ७ ॥

मन्त्र ८[VI.3.8] एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ८ ॥

मन्त्र ९[VI.3.9] एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ९ ॥

मन्त्र १०[VI.3.10] एतमु हैव चूलो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ १० ॥

मन्त्र ११[VI.3.11] एतमु हैव जानकिरयस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ११ ॥

मन्त्र १२[VI.3.12] एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति । तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् ॥ १२ ॥

मन्त्र १३[VI.3.13] चतुरौदुम्बरो भवत्य् औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ । दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्पिष्टान्दधनि मधुनि घृत उपसिञ्चत्य् आज्यस्य जुहोति ॥ १३ ॥

इति तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्राह्मणम्

मन्त्र १[VI.4.1]

"https://sa.wikisource.org/w/index.php?title=बृहदारण्यक_उपनिषद्_6p&oldid=101713" इत्यस्माद् प्रतिप्राप्तम्