"बृहदारण्यक उपनिषद् 5p" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
add बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः
(भेदः नास्ति)

२१:५४, २७ जनवरी २०१७ इत्यस्य संस्करणं

अथ पञ्चमोऽध्यायः ।

प्रथमं ब्राह्मणम् ।

[V.i.1] ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । ॐ३ खं ब्रह्म खं पुराणं वायुरं खम् इति ह स्माऽऽह कौरव्यायणीपुत्रो । वेदोऽयम् ब्राह्मणा विदुर् वेदैनेन यद्वेदितव्यम् ॥ १ ॥

इति प्रथमं ब्राह्मणम् ॥

द्वितीयं ब्राह्मणम् ।

मन्त्र १[V.2.1] त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर् देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर् ब्रवीतु नो भवानिति । तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर् दाम्यतेति न आत्थेत्य् ओमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥

मन्त्र २[V.2.2] अथ हैनं मनुष्या ऊचुर् ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर् दत्तेति न आत्थेत्य् ओमिति होवाच व्यज्ञासिष्टेति ॥ २ ॥

मन्त्र ३[V.2.3] अथ हैनमसुरा ऊचुर् ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर् दयध्वमिति न आत्थेत्य् ओमिति होवाच व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर् द द द इति दाम्यत दत्त दयध्वमिति । तदेतत्त्रय शिक्षेद् दमं दानं दयामिति ॥ ३ ॥

इति द्वितीयं ब्राह्मणम् ॥

तृतीयं ब्राह्मणम् ।

[V.3.1] एष प्रजापतिर्यद्धृदयम् एतद्ब्रह्मैतत्सर्वम् । तदेतत्त्र्यक्षर हृदयमिति । हृ इत्येकमक्षरम् अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद । द इत्येकमक्षरम् ददत्यस्मै स्वाश्चान्ये च य एवं वेद । यमित्येकमक्षरम् एति स्वर्गं लोकं य एवं वेद ॥ १ ॥

इति तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्राह्मणम् ।

[V.iv.1] तद्वै तद् एतदेव तदास सत्यमेव । स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमाल्लोकाञ् जित इन्न्वसावसद् य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्य ह्येव ब्रह्म ॥ १ ॥

इति चतुर्थं ब्राह्मणम् ॥

पञ्चमं ब्राह्मणम् ।

मन्त्र १[v.V.1] अप एवेदमग्र आसुस् ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिम् प्रजापतिर्देवास् ते देवाः सत्यमेवोपासते तदेतत्त्र्यक्षर सत्यमिति । स इत्येकमक्षरम् तीत्येकमक्षरम् यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यम् मध्यतोऽनृतम् तदेतदनृतमुभयतः सत्येन परिगृहीत सत्यभूयमेव भवति । नैनंविद्वासमनृत हिनस्ति ॥ १ ॥

मन्त्र २[V.v.2] तद्यत्तत्सत्यमसौ स आदित्यो । य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस् तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन् स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति ॥ २ ॥

मन्त्र ३[V.v.3] य एष एतस्मिन्मण्डले पुरुषस् तस्य भूरिति शिर एक शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३ ॥

मन्त्र ४[V.v.4] योऽयं दक्षिणेऽक्षन्पुरुषस् तस्य भूरिति शिरः एक शिर एकमेतदक्षरम् भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहमिति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४ ॥

इति पज्ञ्चमं ब्राह्मणम् ॥

षष्ठं ब्राह्मणम्

[V.vi.1] मनोमयोऽयं पुरुषो भाःसत्यस् तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ १ ॥

इति षष्ठं ब्राह्मणम् ॥

सप्तमं ब्राह्मणम् ।

[V.7.1] विद्युद् ब्रह्मेत्याहुर् विदानाद्विद्युद् विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति । विद्युद्ध्येव ब्रह्म ॥ १ ॥

इति सप्तमं ब्राह्मणम् ॥

अष्टमं ब्राह्मणम् ।

[V.8.1] वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस् तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरः । तस्याः प्राण ऋषभो मनो वत्सः ॥ १ ॥

इत्यष्टमं ब्राह्मणम् ॥

नवमं ब्राह्मणम् ।

[V.ix.1] अयमाग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते । तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति । स यदोत्क्रमिष्यन्भवति नैनं घोष शृणोति ॥ १ ॥

इति नवमं ब्राह्मणम् ॥

दशमं ब्राह्मणम् ।

[V.x.1] यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते । स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथालम्बरस्य खम् तेन स ऊर्ध्व आक्रमते । स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमम् तस्मिन्वसति शाश्वतीः समाः ॥ १ ॥

इति दशमं ब्राह्मणम् ॥

एकादशं ब्राह्मणम् ।

[V.xi.1] एतद्वै परमं तपो यद्व्याहितस्तप्यते परम हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्य हरन्ति परम हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परम हैव लोकं जयति य एवं वेद ॥ ११ ॥

इति एकादशं ब्राह्मणम् ॥

द्वादशं ब्राह्मणम् ।

[V.12.1] अन्नं ब्रह्मेत्येक आहुस् तन्न तथा पूयति वा अन्नमृते प्राणात् प्राणो ब्रह्मेत्येक आहुस् तन्न तथा शुष्यति वै प्राण ऋतेऽन्नाद् एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतस् तद्ध स्माऽऽह प्रातृदः पितरम् कि स्विदेवैवं विदुषे साधु कुर्याम् किमेवास्मा असाधु कुर्यामिति । स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति । तस्मा उ हैतदुवाच वीत्य् अन्नं वै वि अन्ने हीमानि सर्वाणि भूतानि विष्टानि । रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते । सर्वाणि ह वा अस्मिन् भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद ॥ १२ ॥

इति द्वादशं ब्राह्मणम् ॥

त्रयोदशं ब्राह्मणम्

मन्त्र १[V.13.1] उक्थम् प्राणो वा उक्थम् प्राणो हीद सर्वमुत्थापयत्य् उद्धास्मा धस्मादुक्थविद्वीरस्तिष्ठत्य् उक्थस्य सायुज्य सलोकतां जयति य एवं वेद ॥ १ ॥

मन्त्र २[V.13.2] यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्य सलोकतां जयति य एवं वेद ॥ २ ॥

मन्त्र ३[V.13.3] साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्य सलोकतां जयति य एवं वेद ॥ ३ ॥

मन्त्र ४[V.13.4] क्षत्रम् प्राणो वै क्षत्रम् प्राणो हि वै क्षत्रम् त्रायते हैनं प्राणः क्षणितोः । प्र क्षत्रमत्रमप्नोति क्षत्रस्य सायुज्य सलोकतां जयति य एवं वेद ॥ ४ ॥

इति त्रयोदशं ब्राह्मणम् ॥

चतुर्दशं ब्राह्मणम् ।

मन्त्र १[V.xiv.1] भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्य् अष्टाक्षर ह वा एकं गायत्र्यै पदम् एतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ १ ॥

मन्त्र २[V.xiv.2] ऋचो यजूषि सामानीत्यष्टावक्षराण्य् अष्टाक्षर ह वा एकं गायत्र्यै पदम्। एतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥

मन्त्र ३[V.xiv.3] प्राणोऽपानो व्यान इत्यष्टावक्षराणि अष्टाक्षर ह वा एकं गायत्र्यै पदम् एतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति यद्वै चतुर्थं तत्तुरीयम् दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपत्य् एव हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ३ ॥


मन्त्र ४[V.xiv.4] सैषा गायत्र्येतस्मिस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यम् चक्षुर्हि वै सत्यम् तस्माद्यदिदानीं द्वौ विवदमानावेयाताम् अहम् अदर्शम् अहमश्रौषमिति य एव एवं ब्रूयाद् अहम् अदर्शमिति तस्मा एव श्रद्दध्याम । तद्वै तत्सत्यं बले प्रतिष्ठितम् प्राणो वै बलम् तत्प्राणे प्रतिष्ठितम् तस्मादाहुर् बल सत्यादोगीय इत्य् एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता । सा हैषा गयास्तत्रे प्राणा वै गयास् तत्प्राणास्तत्रे तद्यद्गयास्तत्रे तस्माद् गायत्री नाम । स यामेवामू सावित्रीमन्वाहैषैव सा । स यस्मा अन्वाह तस्य प्राणास्त्रायते ॥ ४ ॥

मन्त्र ५[V.xiv.5] ता हैतामेके सावित्रीमनुष्टुभमन्वाहुर् वागनुष्टुब् एतद्वाचमनुब्रूम इति । न तथा कुर्याद् गायत्रीमेवानुब्रूयाद् । यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ ५ ॥

मन्त्र ६[V.xiv.6] स य इमास्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं पदमाप्नुयाद्। अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात् सोऽऽस्या एतद्द्वितीयं पदमाप्नुयाद् अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयाद् अथास्या एतदेव तुरीयं दर्शतं पदम् परोरजा य एष तपति नैव केन चनाप्यम् कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६ ॥

मन्त्र ७[V.xiv.7] तस्या उपस्थानम् गायत्र्य् अस्येकपदी द्विपदी त्रिपदी चतुष्पद्य् अपदसि न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसे ऽसावदो मा प्रापदिति यं द्विष्याद् असावस्मै कामो मा समृद्धीति वा न हैवास्मै स कामः समृद्ध्यते यस्मा एवमुपतिष्ठते ऽहमदः प्रापमिति वा ॥ ७ ॥

मन्त्र ८[V.xiv.8] एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथ हस्ती भूतो वहसीति । मुख ह्यस्याः सम्राण् न विदां चकारेति होवाच । तस्या अग्निरेव मुखम् यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्य् एव हैवैवंविद् यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥ ८ ॥

इति चतुर्दशं ब्राह्मणम् ॥

पञ्चदशं ब्राह्मणम् ।

[V.xv.1] हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वम् पूषन्न् अपावृणु सत्यधर्माय दृष्टये । पूषन्न् एकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् । समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतम् अथेदं भस्मान्त शरीरम् । ॐ३ क्रतो स्मर कृत स्मर क्रतो स्मर कृत स्मर । अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १ ॥

इति पञ्चदशं ब्राह्मणम् ॥

॥ इति बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः ॥

"https://sa.wikisource.org/w/index.php?title=बृहदारण्यक_उपनिषद्_5p&oldid=101710" इत्यस्माद् प्रतिप्राप्तम्