विभ्रमविवेकः

विकिस्रोतः तः

मण्डनमिश्र विभ्रमविवेक

आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा ।
परीक्षकाणां विभ्रान्तौ विवादात्सा विविच्यते ॥ १ ॥

असच्चकस्ति न व्योमकुसुम न ............. ।
अर्थः प्रकाशतेऽतो धीस्तदाकारेति केचन ॥ २ ॥

असंभवि च यावच्च तावत्संपरिहीयताम् ।
संवेद्याकारसंत्यागो न भ्रान्तित्वेऽवकल्पते ॥ ३ ॥

एकदेशापबाधेन कल्पमाने च बाधके ।
न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः ॥ ४ ॥

अन्यो बहिर्भासमानो नान्तरर्हति धारणम् ।
असत्तैव वरं तस्य भ्रान्तित्वानुगुणा हि सा ॥ ५ ॥

नान्तर्वर्तितया भ्रान्तिरसत्त्वेन तु सेष्यते ।
अकल्पयित्वान्तस्तस्मादसत्तां खल्वचीकॢपत् ॥ ६ ॥

नान्तर्वर्तिबहिर्भासो भ्रान्तित्वानुपपत्तितः ।
असत्त्वेनैव तत्कॢप्तौ न प्रमाणवती हि सा ॥ ७ ॥

यथावभासमानस्य कल्प्यासत्ता नियोगतः ।
अन्तर्भावेऽपि च बहिर्भावे भ्रान्तिर्न युज्यते ॥ ८ ॥

अख्यातेरविशेषेण स्यात्सुषुप्तेऽपि विभ्रमः ।
अख्यातिः खलु तत्रापि न चाख्यातिर्विशिष्यते ॥ ९ ॥

उपालम्भस्य न पदमसतोऽत्र प्रकाशनम् ।
अत एव यतो भ्रान्तिः सम्यक्ख्यातौ तथा भवेत् ॥ १० ॥

युज्यते नान्यथाख्यातिर्निरधिष्ठानविभ्रमे ।
स्वप्ने हि निरधिष्ठानो विभ्रमो वीतसंशयः ॥ ११ ॥

तत्राप्यवर्तमानं चेद्गृह्यते वर्तमानवत् ।
अवर्तमानस्यासत्ता खपुष्पान्न विशिष्यते ॥ १२ ॥
अत्यन्ताननुभूतानां परस्परपराणुदाम् ।
दृष्टेश्चावर्तमानस्य न ख्यानं वर्तमानवत् ॥ १३ ॥

खपुष्पतुल्ये का ख्यातिर्नीरूपेणैव भासनात् ।
तदपि व्यवहाराङ्गं रूपवत्त्वेन भासनात् ॥ १४ ॥

कल्पनायामपि त्वेवं नासत्ख्यातिविवर्जनम् ।
प्रकारान्तरसंसर्गो नन्वसन्नेव भासते ॥ १५ ॥

तस्मादसत एवेदं रूपवत्त्वेन भासनम् ।
अवश्यकल्पनीयत्वात्कल्पनायाश्च लाघवात् ॥ १६ ॥

प्राक्तत्त्वज्ञानसंस्कारस्तत्प्रबोधस्सकारनः ।
स्मरामीति प्रमोषस्सहेतुरिन्द्रिययोगिनः ॥ १७ ॥

भ्रान्तौ सहाक्षैर्मनसो दुष्टतान्तर्विवर्तिता ।
कामप्रकर्षमरणमूर्च्छाशोकामयादिषु ॥ १८ ॥

उच्छेदकेषु बहुलं संस्कारस्यानुवर्तनम् ।
परपक्षेषु कल्प्यानि भूयिष्ठानीति दृश्यते ॥ १९ ॥

सर्वसंस्कारविच्छेदिमरणान्तरितेऽस्मृतेः ।
जन्मान्तरानुभूतं च न स्मर्यत इति स्थितम् ॥ २० ॥

........ ........ ।
प्राक्[ ....... ........ ] ॥ २१ ॥

मन्दसंस्कारसहकृदुच्छेदे तेन वा विना ।
दोषैः क्षतं मनः कार्यि प्रणिधानादिवर्जितम् ॥ २२ ॥

दोषैरविकृतं स्वस्थं प्रणिधानादिसंस्कृतम् ।
न कार्यवज्जागरायामहो नयविदां परः ॥ २३ ॥

दोषक्षतिः कार्यशक्तिहानिरूपा च विद्यते ।
अतिरेकश्च कार्यस्येत्यहो न्यायविवेकिता ॥ २४ ॥

अध्यारोपे भवेद्गौणी वाहीके गोमतिर्यथा ।
न संविदानुगुण्यं स्यान्न विवेकमतिर्यदि ॥ २५ ॥

अख्यातिरपि संवित्तिं नैवान्वेति यतो मतिः ।
सामानाधिकरण्येन रूप्यमेतदिति स्थिता ॥ २६ ॥

तस्माद्विभ्रम एवायमिति युक्तो विनिश्चयः ।
न संविदनुसारेण निमित्तं तस्य युज्यते ॥ २७ ॥

अतोऽनिर्वचनीयत्वं वरं ब्रह्मविदो विदुः ।
अविद्याया अविद्यात्वमन्यथा परिहीयते ॥ २८ ॥

सत्त्वे न मिथ्या शून्यत्वे दुर्निरूपं प्रकाशनम् ।
सदसत्भ्यामनिर्वाच्यां तामविद्यां प्रचक्षते ॥ २९ ॥

वस्तुनोऽन्वेषणा तस्यां बाह्याभ्यन्तरवर्तिनः ।
न युज्यते यत्र तत्र वेद्यवस्तुनि तत्क्षतेः ॥ ३० ॥

नामरूपप्रपञ्चोऽयमविद्यैव च वर्ण्यते ।
अन्यस्य त्वन्यथा ख्यातौ न प्रपञ्चव्यपह्नवः ॥ ३१ ॥

अख्यातौ शून्यमेव स्यात्प्रपञ्चः किंनिबन्धनः ।
अप्रपञ्चः सप्रपञ्चरूपो भातीति युज्यते ॥ ३२ ॥

अस्फुटाग्रहणे कामं मा भसि स्फुटमात्मना ।
अविद्यमाने त्वध्यस्ये वैश्वरूप्यं वृथाकृतम् ॥ ३३ ॥

चितौ विचित्राकारायां प्रपञ्चात्मतयैव हि ।
अनिर्मोक्षस्तथा च स्यादथवानित्यतापतेत् ॥ ३४ ॥

अनेकाकारविभ्रान्तौ गन्धर्वनगरादिषु ।
आकारा व्यक्तमेकस्या धियोऽसत्याश्चकासति ॥ ३५ ॥

न भूतं चेतसो रूपं नाध्यारोपास्फुटग्रहौ ।
विभ्रमेषु विवर्तत्वमतो ब्रह्मविदां मतम् ॥ ३६ ॥

असतो भासनायोगाद्विरोधात्संविदोऽपरः ।
अवोचन्निपुणंमन्यो विभ्रमं सम्यगग्रहम् ॥ ३७ ॥

न किञ्चिद्भासते चेति विरुद्धमिव दृश्यते ।
भासने रूपवत्त्वेन नासत्संविद्विरोधतः ॥ ३८ ॥

अन्यस्याप्यन्यथा ख्यातिरत एव न युज्यते ।
अन्यत्प्रकाशते चान्यद्ग्राह्यमित्यतिदुर्घटम् ॥ ३९ ॥

आलम्बनं न हेतुत्वमात्रादक्षेऽपि तद्यतः ।
आलम्बनं न हेतुत्वमात्रेण व्यवतिष्ठते ॥ ४० ॥

यद्यालम्बनरूपाच्च धीरन्यदवभासते ।
ततोऽनालम्बनैव स्यात्तस्य तल्लक्षणच्युतेः ॥ ४१ ॥

तथा च तत्स्वभावाया नार्थतत्त्वविनिश्चयः ।
सापेक्षाया अपि ग्राह्यहीना सा चेदवेदिका ॥ ४२ ॥

........ ........ ॥ ४३ ॥

स्मृतित्वाशङ्कया नात्र वर्तमाने न निश्चयः ।
विवेकाग्रहणं यस्माद्धेतुभावे न युज्यते ॥ ४४ ॥

हेतूपघाते खलु तत्तदभावे स्फुटग्रहः ।
यत्नेनानुपलब्धेश्च तदभावे च निश्चयः ॥ ४५ ॥

सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः ।
स्मरामीति च प्रमोषात्प्रायेणाध्यक्षविभ्रमः ॥ ४६ ॥

इति पूर्वः पक्षः ॥


एकान्तसत्त्वे का भ्रान्तिरसत्त्वे किं प्रकाशताम् ।
द्वयानुगुण्याद्वृद्धानां संमता ख्यातिरन्यथा ॥ ४७ ॥

यत्र न प्रथते किञ्चित्तत्र तावन्न विभ्रमः ।
सुषुप्ताविव भूच्छाया तमो भावो यथेक्ष्यते ॥ ४८ ॥

द्वयोरेकस्य वा ख्यातिरसम्यग्विभ्रमो मतः ।
तत्र केयमसम्यक्ता विज्ञानस्थमपाटवम् ॥ ४९ ॥

अथ सर्वप्रकाराणामग्रहः कस्यचिद्ग्रहः ।
वस्तुनोऽतत्प्रकारस्य तथा ख्यातिस्तु नेष्यते ॥ ५० ॥

तत्र दूरस्थिते सूक्ष्मे भवत्यपटुदर्शनम् ।
सामान्यमात्रख्यातिर्वा न भ्रमश्च प्रतीयते ॥ ५१ ॥

न च सर्वात्मनार्थस्य ज्ञानं किञ्चन बोधकं ।
सर्वविज्ञानमिथ्यात्वमापन्नं पुनरन्यथा ॥ ५२ ॥

अतो नावर्तमानत्वाज्ञानात्स्वप्नमतिर्मृषा ।
वर्तमानत्वबोधात्तु तथैकत्वाधिरोपणात् ॥ ५३ ॥

मिथ्या रजतधीर्नात्र विवेकानवधारणात् ।
प्रत्यभिज्ञानविभ्रान्तौ न स्मृतित्वं न गम्यते ॥ ५४ ॥

एकस्य च विविक्तत्वादितरस्य विविक्तता ।
प्रत्यक्षादविवेकाच्च युक्तः प्रत्यक्षविभ्रमः ॥ ५५ ॥

स्यात्स्मृतादविवेकाच्च स्मृतिगोचरविभ्रमः ।
........ ........ ॥ ५६ ॥

........ ........ ।
नियता न प्रवृत्तिः स्यान्नेष्टा चेत्ख्यातिरन्यथा ॥ ५७ ॥

न दृश्यादृश्ययोर्भेदः ख्यातिश्चेन्नेप्सितात्मनः ।
ननु नो विपरीतार्था धीः प्रतीतिविरोधतः ॥ ५८ ॥

अनाश्वासाच्च रजतप्रत्ययो रजते स्मृतिः ।
नैतन्न हि प्रवर्तेत शुक्तिकाशकले तदा ॥ ५९ ॥

रजते सा प्रवृत्तिश्चेन्न तस्यासंनिधानतः ।
असंनिधानाबोधाच्चेत्प्रवृत्तिनियमः कुतः ॥ ६० ॥

प्रवर्तते यत्तत्रैव तत्तत्संनिधिकारितम् ।
अन्यत्र भेदग्रहणाद्विवेकाग्रहणात्तथा ॥ ६१ ॥

प्रवृत्तिभेदः सादृश्याद्विवेकाग्रहणं यदि ।
अदृष्टेषु प्रवर्तेत लोष्टादिष्वविवेकतः ॥ ६२ ॥

न तत्र यदि तद्बुद्धिः शुक्तिकाशकलेऽपि न ।
अथास्ति विपरीतार्था ख्यातिर्निह्नूयते कथम् ॥ ६३ ॥

अदृष्टत्वादप्रवृत्तिः शुक्तिकाशकले समा ।
दृष्टं तद्येन रूपेण तत्प्रवृत्तेरकारणम् ॥ ६४ ॥

दृष्टस्मृताविवेकाच्चेदिदमत्र परीक्ष्यताम् ।
तत्त्वबोधादपातत्वबोधाद्रजतवेदनात् ॥ ६५ ॥

दृष्टे प्रवृत्तिः पूर्वस्मिन् विपरीतार्थता मतेः ।
न दृष्टादृष्टयोर्भेदः परस्मिन्नोपयोगिनी ॥ ६६ ॥

खयोगदर्शने ते हि समारोपोपयोगिनी ।
नादृष्टेऽसंप्रयुक्ते वा चाक्षुषः स्याद्विपर्ययः ॥ ६७ ॥

स्मृतिप्रमाणफलयोर्नानात्वं यदि चेष्यते ।
विवेचितस्तयोस्स्वार्थोऽविवेकः किंनिबन्धनः ॥ ६८ ॥

अन्यस्मात्सा स्वविषयं विविनक्ति स्मृतिर्न चेत् ।
सामान्यदृष्टौ चान्यस्य स्मृतौ स्याद्वा सदा भ्रमः ॥ ६९ ॥

स्मरामीति विवेकान्न यदि नैतत्प्रकल्पते ।
फलाभेदे फलोन्नेयज्ञानभेदमतिः कुतः ॥ ७० ॥

स्मरामीति च विज्ञानं स्मृतेरन्यदुदाहृतम् ।
न च मानफलाद्भिन्ना तत्सिद्ध्यति फलादृते ॥ ७१ ॥

मनोदोषाद्यदि स्वार्थो न स्मृत्या प्रविविच्यते ।
तिमिरादौ कथं स्वस्थे स्वान्ते केशादिविभ्रमः ॥ ७२ ॥

न तत्रापि मनो दुष्टमर्थान्तरविवेचनात् ।
ज्ञानादेव हि दृष्टत्वकल्पनायाश्च गौरवात् ॥ ७३ ॥

बुध्यमानो विवेकं च पश्यामीन्द्रियदोषतः ।
चित्रादिरूपान् दीपादीनिति लोकः प्रभाषते ॥ ७४ ॥

इन्द्रियाणां दोषभेदान्नियतभ्रान्तिदर्शनम् ।
न स्याद्यस्याग्रहे दोषव्यापार इति निश्चयः ॥ ७५ ॥

न च सर्वा नियोगेन भ्रान्तिः सादृश्यबन्धना ।
श्वेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः ॥ ७६ ॥

अव्यापृतौ च तत्प्राप्तेर्नातःपित्तप्रवेदनम् ।
अत्यासन्नस्य संवित्तिर्दुर्लभा चाञ्जनादिवत् ॥ ७७ ॥

न चाक्षवृत्तितज्जन्मज्ञानभेदाविवेकजाः ।
द्विचन्द्रादिभ्रमास्ते हि न प्रत्यक्षे न च स्मृते ॥ ७८ ॥

अन्यथालम्बनत्वे च न निरालम्बना मतिः ।
अन्येनापि हि रूपेण चक्षुर्नालम्बतेऽक्षधीः ॥ ७९ ॥

आलम्बनार्थस्तद्युक्तव्यवहारस्य योग्यता ।
अन्यस्यापि हि नैवान्यस्स इत्येव हि दर्शितम् ॥ ८० ॥

प्रवृत्तिश्शुक्तिशकले तथा च रजतार्थिनः ।
आभासते कथञ्चिच्च तन्नात्यन्तं न भासते ॥ ८१ ॥

तेन नावेआदिका यत्तु तद्रूपाव्यभिचारतः ।
प्रामाण्यमानपेक्ष्यं हि स्यादन्यथा त्रपाकरम् ॥ ८२ ॥

त्रपाकरं कथं तन्नः स्वतःप्रामाण्यवादिनाम् ।
अप्यन्योऽव्यभिचारेण धीप्रामाण्यमुपागमत् ॥ ८३ ॥

बोधादेव प्रमाणत्वमिति मीमांसकस्थितिम् ।
विदन्नव्यभिचारेण तां व्युदस्यत्यपण्डितः ॥ ८४ ॥

अर्थेनाव्यभिचारश्चेन्नाबुद्धेन प्रमीयते ।
ज्ञानस्याव्यभिचाराच्च तद्बोध इति दुर्घटम् ॥ ८५ ॥
उपास्योऽव्यतिरेकश्च तज्ज्ञानस्य तथान्यथा ।
नासिद्धाव्यतिरेकेण स परामृश्यते .......... ॥ ८६ ॥

अपि चाव्यतिरेकोऽपि ज्ञानरूपेण वेद्यते ।
ख्यातौ च विपरीतायां तद्विरोधप्रसङ्गतः ॥ ८७ ॥

तथा सति तदेवास्तु विषयस्यावबोधकम् ।
अर्थो नाव्यतिरेकेण तत्सामर्थ्याप्तसंविदा ॥ ८८ ॥

व्यभिचाराप्रतीत्या चेदप्रामाण्यनिराकृतिः ।
दूषिते व्यभिचारेण न स्याज्ज्ञाने प्रमाणता ॥ ८९ ॥

नैतदव्यभिचारेण प्रामाण्यं यस्य दुष्यति ।
व्यभिचारादसौ लिङ्गं यथा नाक्षं तथापि तत् ॥ ९० ॥

संबन्धज्ञानसापेक्षं यदुपैत्युपयोगिताम् ।
दूषितं व्यभिचारेण तत्स्यात्संशयकारणम् ॥ ९१ ॥

दुष्यति व्यभिचारेण बोधकं सत्तयैव न ।
विज्ञानाच्चार्थसंवित्तिस्सत्तयैवेन्द्रियादिवत् ॥ ९२ ॥

लिङ्गस्याव्यभिचाराद्यत्प्राप्यते रूपतोऽस्य तत् ।
सिद्धप्रत्ययसामर्थ्यपूर्वौ नेतो निमित्तताम् ॥ ९३ ॥

प्रामाण्ये तदभावे चाव्यतिरेकविपर्ययौ ।
तथा ह्यव्यतिरेकोऽपि बोधादेवोपवर्णितः ॥ ९४ ॥

व्यतिरेको बाधबोधादिति तच्छ्रुतियुक्तता ।
असिद्धे ज्ञानसामर्थ्ये सोऽसिद्धो दूषकः कथम् ॥ ९५ ॥

सिद्धेऽपि सिद्धसामर्थ्यमसामर्थ्यं कथं नयेत् ।
ननु च व्यभिचारित्वे बाधकज्ञानसंमते ॥ ९६ ॥

ज्ञानरूपस्य तेनैव विहन्येत प्रमाणता ।
अर्थो यथा ज्ञानरूपात्तथैवेत्यवसीयते ॥ ९७ ॥

व्यभिचारमतेरेव न तथैवेति गम्यते ।
तत्सत्यं बाधकज्ञानं यत्र तत्र विहन्यते ॥ ९८ ॥

अन्यत्र तु विघातः स्यान्न साक्षान्नापि चार्थतः ।
अनुमानं भवेत्तच्च तेनापहृतगोचरम् ॥ ९९ ॥

नोदेति जाग्रतो बुद्धिरिति भाष्ये निदर्शितम् ।
व्यभिचारज्ञानमात्रात्प्रामाण्यस्य न नः क्षतिः ॥ १०० ॥

व्यभिचारिणि नाश्वासः ........ ।
........ ........ ॥ १०१ ॥

त्रिधापि व्यभिचारेण प्रामाण्यं नोपहन्यते ।
उक्तं नाव्यतिरेकस्य प्रमाणत्वनिमित्तता ॥ १०२ ॥

येन स्याद्धेत्वभावेन व्यभिचारे विपर्ययः ।
धूमादीनामपि न तद्वर्ण्यतेऽव्यभिचारतः ॥ १०३ ॥

बोधादेव तदुत्पत्तावङ्गभावोऽस्य सम्मतः ।
तथा ह्यव्यभिचाराणां कुतश्चन निमित्ततः ॥ १०४ ॥

बोधस्यानुदये कश्चित्प्रामाण्यं नानुमन्यते ।
एकार्थनियतं बोधं जनयद्व्यभिचार्यपि ॥ १०५ ॥

प्रमाणमिष्यते चक्षुर्नीले भावे सिते भवत् ।
न चापि व्यभिचारस्य साक्षात्प्रामाण्यघातिता ॥ १०६ ॥

क्वचिद्दृष्टा भ्रान्तिबोधे बाधधीरुपघातिका ।
प्रमेयत्वोर्ध्वतादीनां बोध एवावधारकः ॥ १०७ ॥

नास्तीति न प्रमाणत्वं हेत्वभावाच्च नास्त्यसौ ।
तद्भावाच्च प्रमाणत्वमक्षाणां व्यभिचारिणाम् ॥ १०८ ॥

न चावधारिते युक्तो द्वैविध्यात्संशयोद्भवः ।
न निश्चितेऽपि हि स्थाणावूर्ध्वत्वेन विशेरते ॥ १०९ ॥

........ ........ ।
न चावधारणादेव तत्त्वतोऽनवधारणम् ॥ ११० ॥

एवं यतस्ततो नैवं भवेदतिसुभाषितम् ।
उत्पत्त्यैव च विज्ञानं तथात्वस्यावधारकम् ॥ १११ ॥

न चेत्तथा नान्यतोऽपि तस्य प्रामाण्यसम्भवः ।
प्रमाणत्वाप्रमाणत्वेऽव्यतिरेकविपर्ययौ ॥ ११२ ॥

अनङ्गे इति मोघैव तयोरत्र विचारणा ।
अतोऽवधारणाभासव्यभिचारात्परीक्षणम् ॥ ११३ ॥

प्रस्तुत्य ..... ........ ।
हेत्वभावे फलाभावनियमो स्यात्ततो गते ॥ ११४ ॥

अभावे हेतुदोषाणां तथाख्यातिविनिश्चयः ।
हेतौ फलं न नियतं परिणामाद्यपेक्षिणि ॥ ११५ ॥

अदुष्टेऽपि ततो हेतौ न स्फुटग्रहनिश्चयः ।
प्रत्यक्षोऽनुभवः साध्यो न हेतोर्व्यभिचारिणः ॥ ११६ ॥

विपर्ययफलाभावो हेत्वभावात्तु युज्यते ।
निरोधाद्युक्तकार्यस्य विपरीतस्य साधनात् ॥ ११७ ॥

दोषाणां नितरां दोषभावोऽभिव्यक्तिमृच्छति ।
कार्यातिरेको जठरे वह्नौ दृष्टश्च भस्मके ॥ ११८ ॥

कामाद्युपप्लुते चित्ते दृष्टिता स्मरणात्मनि ।
सामानाधिकरण्येनामुख्यरूप्य प्रतीतितः ॥ ११९ ॥

अभिन्नैका च सा संवित्कं पक्षमपबधताम् ।
शून्यं प्रकाशते चेति द्वयं विप्रतिषेधवत् ॥ १२० ॥

भासने रूपवत्त्वेन शून्यैवोच्येत शून्यता ।
सर्वरूपविवेको हि शून्यमित्यभिभाष्यते ॥ १२१ ॥

परै रूपाभ्युपगमे तत्र शून्यैव शून्यधीः ।
अभावो भावरूपेण भातीति यदि मन्यते ॥ १२२ ॥
अन्यथा ख्यातिरेवेष्टा शून्यं तदपि चेन्मतम् ।
नैतद्विप्रतिषिध्येते शून्यताभावरूपते ॥ १२३ ॥

अतोऽतद्देशकालत्वमात्रं तस्येह शून्यता ।
नन्वस्ति यद्यथा वस्तु तथा ख्यातौ न विभ्रमः ॥ १२४ ॥

न यथास्ति तथा ख्यातौ शून्यख्यातेर्न मुच्यते ।
केचिदाहुः प्रकारिभ्यः प्रकारा न चकासति ॥ १२५ ॥

विविक्तास्ते तथा भान्ति ते च सन्त इति स्थितिः ।
अन्ये तन्मात्रशून्यत्वं मन्वते नान्यथा भ्रमः ॥ १२६ ॥

नान्यथा धीर्वस्तुनिष्ठा वस्त्वालम्बाद्विना न सा ।
स्वयं तु वार्त्तिककृता समाधिरिह वर्णितः ॥ १२७ ॥

भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात् ।
सत्यं यथास्ति न तथा भासने विभ्रमो मतः ॥ १२८ ॥

न येनास्ति प्रकारेण न तु तुच्छः प्रतीयते ।
तथा कथमभाव्योऽस्य स हि भाति तथा च सः ॥ १२९ ॥

भावान्तरमभावो हि कयाचित्तु व्यपेक्षया ।
अन्यथाख्यातिपक्षे च न प्रकारान्तरं न सत् ॥ १३० ॥

अन्यस्य च न तस्येति ख्यातिर्युक्ता मृषा च सा ।
प्रकारान्तरसंसर्गो नन्वसन्नेव भासते ॥ १३१ ॥

संवेद्यं नन्यरुपत्वमन्यस्य .............. ।
भिन्नयोरत्र संसर्गो न कश्चिदवभासते ॥ १३२ ॥

अन्यात्मनापरख्यातिः स चाभावेऽस्य तन्मृषा ।
अभावग्राहिणी बुद्धिर्भावान्तरमुपाश्रिता ॥ १३३ ॥

तदन्यस्मात्पृथक्त्वेन निरुपाख्यो न विद्यते ।
अतो भावान्तरं मुक्त्वा तत्राभावानिरूपणात् ॥ १३४ ॥

न बुद्ध्या भावशून्यत्वं मृषा चेति विपश्चितः ।
न वै शशविषाणेऽपि ख्यातस्य निरुपाख्यता ॥ १३५ ॥

शशसंसर्गिरूपं हि विषाणं तत्र गम्यते ।
अवस्तु तच्च नो येन खुरधर्मिणि वीक्षितम् ॥ १३६ ॥

असंसृष्टस्य सोऽभाव इति ख्यातिर्मृषा च सा ।
अङ्गुल्यग्रे हस्तियूथमित्येषा प्रतिभा तथा ॥ १३७ ॥

स्वप्नेऽप्यवर्तमानस्य ग्रहणं वर्तमानवत् ।
नाविशेषः खपुष्पाच्च स्वकाले तस्य वस्तुता ॥ १३८ ॥

तत्कालमेव हि ज्ञेयं ज्ञानमेव तु संप्रति ।
वर्तमानत्वमप्यत्र दृष्टमन्यत्र रूप्यते ॥ १३९ ॥

अन्यस्याप्यन्यथा दृष्टिः परस्परविरोधिनाम् ।
अत्यन्ताननुभूतत्वमस्ति तत्कारितं यतः ॥ १४० ॥

न ज्ञेयशून्यं विज्ञानं स्वात्महानिप्रसङ्गतः ।
निरुपाख्यादात्मयोगादस्वातन्त्र्याच्च चेतसः ॥ १४१ ॥

प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि ।
संस्कारच्छेदहेतूनां तत्त्वं नैकान्ततः स्थितम् ॥ १४२ ॥

जन्मान्तरानुभूतं च न स्मर्यत इति स्थितम् ।
तत्कर्मफलसंबन्धं प्रतीति प्रतिजानते ॥ १४३ ॥

तथा ह्यनादौ संसारे कर्मभेदान् स्मरन्नपि ।
अनन्तकृतकर्मत्वात्को विद्यात्कस्य किं फलम् ॥ १४४ ॥

स्वान्तस्योपप्लवः स्वप्ने स्मृतिबीजस्य बोधकः ।
तस्य च जग्रतोऽभावान्नोदेति स्वप्नदर्शनम् ॥ १४५ ॥

कामाद्युपप्लवेऽप्येवं कार्याधिक्यमुदाहृतम् ।
अग्राह्यमेव गृह्णाति स्वयं कल्पयति ह्ययम् ॥ १४६ ॥

दोषक्षतस्य मनसस्तत्कार्यं ................. ।
तदध्यारोपे नो गौणी तथेत्यध्यवसायतः ॥ १४७ ॥

ख्याति सन्निहितेऽशून्यं सद्भावान्तरघट्टितम् ।
प्रभासतामसत्ता तु नो शून्यं तदनात्मकम् ॥ १४८ ॥

........ ........ ॥ १४९ ॥

एवं निर्वचनीया च नाविद्या परिहास्यते ।
अविद्यात्वं यतोऽन्यस्य सान्यरूपं प्रकाशयेत् ॥ १५० ॥

........ ........ ॥ १५१ ॥
........ ........ ॥ १५२ ॥
........ ........ ॥ १५३ ॥

बाध्यज्ञानस्य मिथ्यात्वं नान्यथा व्यवतिष्ठते ।
तेन यावद्बाधनीयं तावन्मिथ्येति युज्यते ॥ १५४ ॥

भ्रान्तिज्ञेये च बाह्यत्वं बाधकैर्न निरस्यते ।
न गम्यतेऽन्तर्वर्तित्वं नानिर्वाच्यतया मतिः ॥ १५५ ॥

किं त्वतद्देशकालत्वं गम्यते बाह्यवस्तुनः ।
तस्मान्न बाह्यवस्तुत्वं मृषा बोधान्न बाधनात् ॥ १५६ ॥

प्रसक्तप्रतिषेधात्मा बाधोऽख्यातौ न युज्यते ।
साधयत्यन्यथा ख्यातिं बाध एव च नः स्फुटम् ॥ १५७ ॥

प्रसञ्जिका हि नाख्यातिरस्मत्पक्षे तु युज्यते ।
न चाग्रहनिषेधोऽयं सर्वज्ञानप्रसङ्गतः ॥ १५८ ॥

विवेकधीर्निषेधोऽयं न प्रतीत्यानुगम्यते ।
न क्रमे यौगपद्ये वा विवेकमतिरीदृशी ॥ १५९ ॥

अविवेकग्रहे स्याच्चेत्सत्यं न तु विविक्तयोः ।
अग्रहे प्राप्त्यभावेन प्राप्तेः पूर्वं तु युज्यते ॥ १६० ॥

........ ........ ।
द्वयोरभावात्स्वप्ने च विवेको गम्यते कयोः ॥ १६१ ॥

स्मृतत्वेनाविविक्ते चेत्तथा बाधा विहन्यते ।
स्यात्सर्वैवंविधा बाधा पश्चात्धर्मिणि धर्मधीः ॥ १६२ ॥

तद्युक्तं बाधकज्ञानाद्वाचोयुक्तिरियं भवेत् ।
अर्थेऽन्यथापि सत्येष धियाकारः प्रतीयते ॥ १६३ ॥

आत्मख्यातौ सर्वमेवान्तराहुः शून्यख्यातौ शून्यमेवेति केचित् ।
अख्यातौ नो तत्त्वमिथ्याविभागस्तस्मादेषां विभ्रमाणां विवेकः ॥ १६४ ॥

"https://sa.wikisource.org/w/index.php?title=विभ्रमविवेकः&oldid=329119" इत्यस्माद् प्रतिप्राप्तम्