विभिन्नमनोवैज्ञानिकैः प्रदत्ताः अधिगमस्य परिभाषाः

विकिस्रोतः तः

अधिगमस्य परिभाषा:

अधिगमः व्यवहारपरिवर्तनस्य एका प्रक्रिया मनोवैज्ञानिकैः एतस्य अर्थं स्पष्टयितुं नैकाः परिभाषा: प्रदत्ताः, यतो हि मनोविज्ञाने एव बहुविधाः शैक्षिकसम्प्रदायाः वर्तन्ते। अतः एकैकेनापि सम्प्रदायेन अधिगमस्य परिभाषा स्वदृष्ट्या प्रतिपादिताः

1) गेट्स (Gates) महोदयस्य शब्दैः "अनुभवेन प्रशिक्षणेन च जायमानं व्यवहारपरिवर्तनम् 'अधिगमः' इति उच्यते न तु प्रेरणया, आवेगेन, पूर्णविकासेन वा"।

2) वुडवर्थ (Woodworth) महोदयानुसारम् "नवीनज्ञानम् अनुक्रियां च प्राप्तुं क्रियमाणा प्रक्रिया अधिगमप्रक्रिया इति उच्यते।

3) स्किनर (B.F.Skinner) महोदयानुसारम् “व्यवहारे उत्तरोत्तरसामञ्जस्यप्रक्रिया एव अधिगमः इति कथ्यते ।"

4) क्रो एवं क्रो (Crow & Crow) महोदयानुसारम् - "अधिगमः अभ्यासं, ज्ञानम् अभिवृत्तिं च अर्जयति ।”

5) कॉनवेक (Lee J.Cronbach) महोदयानुसारम्- "अनुभवस्य परिणामरूपेण व्यवहारपरिवर्तनेन अधिगमः प्रदर्शितो भवति।

6) गिलफोर्ड (J.P. Guilford) महोदयानुसारम् "व्यवहारकारणेन जायमानं परिवर्तनम् अधिगमः भवति ।"

7) पावलाव (Pavlov) महोदयानुसारम् “अनुकूलानुक्रियायाः परिणामत्वेन अभ्यासनिर्माणम् एव अधिगम भवति ।

8) हण्टर तथा हिलगार्ड (Hunter and Hilguard) महोदययोः अनुसारम् - “अधिगमः काचित् प्रक्रिया, यत्र अभ्यासेन प्रशिक्षणेन वा व्यवहारस्य उत्पत्तिः जायते अथवा व्यवहारे परिवर्तनं जायते।"

9) मर्फी (Murphy) महोदयानुसारम् “अधिगमः व्यवहारपरिवर्तनं प्रेक्षणस्य च काचन कला भवति ।"

10) गेरट् (Garret) महोदयानुसारम् “अधिगमः व्यवहाराणां सङ्घटन भवति। "