विग्रहव्यावर्तनी

विकिस्रोतः तः
विग्रहव्यावर्तनी
[[लेखकः :|]]

विग्रहव्यावर्तनी

सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् ।
त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ॥ १ ॥
अथ सस्वभावमेतद्वाक्यं श्रुत्वा हता प्रतिज्ञा ते ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ २ ॥
मा शब्दवदित्येतत्स्यात्ते बुद्धिर्न चैतदुपपन्नम् ।
शब्देनात्र सता भविष्यतो वारणं तस्य ॥ ३ ॥
प्रतिषेधः प्रतिषेद्ध्योऽप्येवमिति मतं भवेत्तदसदेव ।
एवं तव प्रतिज्ञा लक्षणतो दुष्यते न मम ॥ ४ ॥
प्रत्यक्षेण हि तावन् यद्युपलभ्य विनिवर्तयसि भावान् ।
तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ ५ ॥
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च ।
अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥ ६ ॥
कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते ।
कुशलं जनस्वभावं शेषेष्वप्येष विनियोगः ॥ ७ ॥
नैर्याणिकस्वभावो धर्मो नैर्याणिकाश्च ये तेषाम् ।
धर्मावस्थोक्तानामेव च नैर्याणिकादीनाम् ॥ ८ ॥
यदि च न भवेत्स्वभावो धर्माणां निःस्वभाव इत्येवम् ।
नामापि भवेन्नैवं नामापि निर्वस्तुकं नास्ति ॥ ९ ॥
अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् ।
धर्मैर्विना स्वभावः स यस्यास्ति तद्युक्तमुपदेष्टुम् ॥ १० ॥
सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् ।
दृष्टः प्रतिषेधोऽयं सतः स्वभावस्य ते तस्मात् ॥ ११ ॥
अथ नास्ति स स्वभावः किं नु प्रतिविध्यते त्वयानेन ।
वचनेनर्ते वचनात्प्रतिषेधः सिध्यते ह्यसतः ॥ १२ ॥
बालानामिव मिथ्या मृगतृष्णायां यथा जलग्राहः ।
एवं मिथ्याग्राहः स्यात्ते प्रतिषिध्यतो ह्यसतः ॥ १३ ॥
नन्वेवं सत्यस्ति ग्राहो ग्राह्यं च तग्दृहीतं च ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत् ॥ १४ ॥
अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतारः ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारोऽस्य तु न सन्ति ॥ १५ ॥
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश्च यद्युत न सन्ति ।
सिद्धा हि सर्वभावा येषामेवं स्वभावश्च ॥ १६ ॥
हेतोस्ततो न सिद्धिर्नैःस्वाभाव्यात्कुतो हि ते हेतुः ।
निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्य ॥ १७ ॥
यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति ।
स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम् ॥ १८ ॥
अथ हेतोरस्तित्वं भावनैःस्वाभाव्यमित्यनुपपन्नम् ।
लोके नैःस्वाभाव्यान्न हि कश्चन विद्यते भावः ॥ १९ ॥
पूर्वं चेत्प्रतिषेधः पश्चात्प्रतिषेध्यमिति च नोपपन्नम् ।
पश्चादनुपपन्नो युगपच्च यतः स्वभावोऽसन् ॥ २० ॥
हेतुप्रत्ययसामग्र्यां पृथग्भावेऽपि मद्वचो न यदि ।
ननु शून्यत्वं सिद्धं भावानामस्वभावत्वात् ॥ २१ ॥
यश्च प्रतीत्य भावो भावानां शून्यतेति सा ह्युक्ता ।
यश्च प्रतीत्य भावो भवति हि तस्यास्वभावत्वम् ॥ २२ ॥
निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् ।
प्रतिसेधयसे यद्वत्प्रतिषेधोऽयं तथैव स्यात् ॥ २३ ॥
न स्वाभाविकमेतद्वाक्यं तस्मान्न वादहानिर्मे ।
नास्ति च वैषमिकत्वं विशेषहेतुश्च न निगद्यः ॥ २४ ॥
मा शब्दवदिति नायं दृष्टान्तो यस्त्वया ममारब्धः ।
शब्देन हि तच्च शब्दस्य वारणं नैव मे वचः ॥ २५ ॥
नैःस्वाभाव्यानां चेन्नैःस्वाभाव्येन वारणं यदि हि ।
नैःस्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् ॥ २६ ॥
अथवा निर्मितकायां यथा स्त्रियां स्त्रियमित्यसंग्राहम् ।
निर्मितकः प्रतिहन्यात्कस्यचिदेवं भवेदेतत् ॥ २७ ॥
अथवा साध्यसमोऽयं हेतुर्न हि विद्यते ध्वनेः सत्ता ।
संव्यवहारं च वयं नानभ्युपगम्य कथयामः ॥ २८ ॥
यदि काचन प्रतिज्ञा तत्र स्यादेष मे भवेद्दोषः ।
नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः ॥ २९ ॥
यदि किंचिदुपलभेयं प्रवर्तयेयं निवर्तयेयं वा ।
प्रत्यक्षादिभिरर्थैस्तदभावान्मेऽनुपालम्भः ॥ ३० ॥
यदि च प्रमाणतस्तेषां तेषां प्रसिद्धिरर्थानाम् ।
तेषां पुनः प्रसिद्धिं ब्रूहि कथं ते प्रमाणानाम् ॥ ३१ ॥
अन्यैर्यदि प्रमाणैः प्रमाणसिद्धिर्भवत्यनवस्था ।
नादेः सिद्धिस्तत्रास्ति नैव मध्यस्य नान्तस्य ॥ ३२ ॥
तेषामथ प्रमाणैर्विना प्रसिद्धिर्विहीयते वादः ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ ३३ ॥
विषमोपन्यासोऽयं न ह्यात्मानं प्रकाशयत्यग्निः ।
न हि तस्यानुपलब्धिर्दृष्टा तमसीव कुम्भस्य ॥ ३५ ॥
यदि स्वात्मानमयं त्वद्वचनेन प्रकाशयत्यग्निः ।
परमिव न त्वात्मानं परिधक्ष्यत्यपि हुताशः ॥ ३६ ॥
यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्यग्निः ।
प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव ॥ ३७ ॥
नास्ति तमश्च ज्वलने यत्र च तिष्ठति सदात्मनि ज्वलनः ।
कुरुते कथं प्रकाशं स हि प्रकाशोऽन्धकारवधः ॥ ३८ ॥
उत्पद्यमान एव प्रकाशयत्यग्निरित्यसद्वादः ।
उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः ॥ ३९ ॥
अप्राप्तोऽपि ज्वलनो यदि वा पुनरन्धकारमुपहन्यात् ।
सर्वेषु लोकधातुषु तमोऽयमिहसंस्थित उपहन्यात् ॥ ४० ॥
यदि च स्वतःप्रमाणसिद्धिरनपेक्ष्य ते प्रमेयाणि ।
भवति प्रमाणसिद्धिर्न परापेक्षा हि सिद्धिरिति ॥ ४१ ॥
अनपेक्ष्य हि प्रमेयानर्थान् यदि ते प्रमाणसिद्धिः ।
भवति न भवति कस्यचिदेवमिमानि प्रमाणानि ॥ ४२ ॥
अथ मतमपेक्ष्य सिद्धिस्तेषामित्यत्र को दोषः ।
सिद्धस्य साधनं स्यान्नासिद्धोऽपेक्षते ह्यन्यत् ॥ ४३ ॥
सिध्यन्ति हि प्रमेयाण्यपेक्ष्य यदि सर्वथा प्रमाणानि ।
भवति प्रमेयसिद्धिरनपेक्ष्यैव प्रमाणानि ॥ ४४ ॥
यदि च प्रमेयसिद्धिरनपेक्ष्यैव भवति प्रमाणानि ।
किं ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत् ॥ ४५ ॥
अथ तु प्रमाणसिद्धिर्भवत्यपेक्ष्यैव ते प्रमेयाणि ।
व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् ॥ ४६ ॥
अथ तै प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या चा
भवति प्रमाणसिद्धिर्नास्त्युभयस्यापि ते सिद्धिः ॥ ४७ ॥
सिध्यन्ति हि प्रमाणैर्यदि प्रमेयाणि तानि तैरेव ।
साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ ४८ ॥
सिध्यन्ति च प्रमेयैर्यदि प्रमाणानि तानि तैरेव ।
साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ ४९ ॥
पित्रा यद्युत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण ।
उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम् ॥ ५० ॥
कश्च पिता कः पुत्रस्तत्र त्वं ब्रूहि तावुभावपि च ।
पितापुत्रलक्षणधरौ यतो नः पुत्रसंदेहः ॥ ५१ ॥
नैव स्वतःप्रसिद्धिर्न परस्परतः प्रमाणैर्वा ।
भवति न च प्रमेयैर्न चाप्यकस्मात्प्रमाणानाम् ॥ ५२ ॥
कुशलानां धर्माणां धर्मावस्थाविधो ब्रूवते यत् ।
कुशलस्वभावमेवं प्रविभागेनाभिधेयः स्यात् ॥ ५३ ॥
यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम् ।
धर्माणां परभावः स्वभाव एवं कथं भवति ॥ ५४ ॥
अथ न प्रतीत्य किंचित्स्वभाव उत्पद्यते स कुशलानाम् ।
धर्माणामेवं स्याद वासो न ब्रह्मचर्यस्य ॥ ५५ ॥
नाधर्मो धर्मो वा संव्यवहाराश्च लौकिका न स्युः ।
नित्याश्च सर्वभावाः स्युर्नित्यत्वादहेतुमतः ॥ ५६ ॥
एष चाकुशलेःवव्याकृतेःु नैर्याणादिःु च दोःः ।
तस्मात्सर्वं संस्कृतमसंस्कृतं ते भवत्येवम् ॥ ५७ ॥
यः सद्भूतं नाम ब्रूयात्स स्वभाव इत्येवम् ।
भवता प्रतिवक्तव्यो नाम ब्रूमश्च न व्यं सत् ॥ ५८ ॥
नामासदिति च यदिदं तत्किं नु सतो भवत्युतासतः ।
यदि हि सतो यद्यसतो द्विधापि ते हीयते वादः ॥ ५९ ॥
सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् ।
स उपालम्भस्तस्माद्भवत्ययं च प्रतिज्ञायाः ॥ ६० ॥
अथ विद्यते स्वभावः स च धर्माणां न विद्यत इति ।
इदमाशङ्कितं यदुक्तं भवत्यनाशङ्कितं तच्च ॥ ६१ ॥
सत एव प्रतिषेधो यदि शून्यत्वं नन्वप्रतिषिद्धमिदम् ।
प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम् ॥ ६२ ॥
प्रतिषेधयसेऽथ त्वं शून्यत्वं तच्च नास्ति शून्यत्वम् ।
प्रतिषेधः सत इति ते नन्वेवं हीयते वादः ॥ ६३ ॥
प्रतिषेधयामि नाहं किंचित्प्रतिषेध्यमस्ति न च किंचित् ।
तस्मात्प्रतिषेधयसीत्यधिलय एव त्वया क्रियते ॥ ६४ ॥
यच्चाहं ते वचनादसतः प्रतिषेधवचनसिद्धिरिति ।
अत्र ज्ञापयते वागसदिति तन्न प्रतिनिहन्ति ॥ ६५ ॥
मृगतृष्णादृष्टान्ते यः पुनरुक्तं त्वया महांश्चर्यः ।
तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः ॥ ६६ ॥
स यदि स्वभावतः स्यात्भावो न स्यात्प्रतीत्यसमुद्भूतः ।
यश्च प्रतीत्य भवति ग्राहो ननु शून्यता सैव ॥ ६७ ॥
यदि च स्वभावतः स्याद्ग्राहः कस्तं निवर्तयेद्ग्राह्यम् ।
शेषेष्वप्येष विधिस्तस्माद्दोषोऽनुपालम्भः ॥ ६८ ॥
एतेन हेत्वभावः प्रत्युक्तः पूर्वमेव स समत्वात् ।
मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राक् ॥ ६९ ॥
यस्त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वमेव स समत्वात् ।
त्रैकाल्यप्रतिहेतुश्च शून्यतावादिनां प्राप्तः ॥ ७० ॥
प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः ।
प्रभवति न तस्य किं न भवति शून्यता यस्येति ॥ ७१ ॥
यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदमनेकार्थाम् ।
निजगाद प्रणमामि तमप्रतिमसंबुद्धम् ॥ ७२ ॥
इति ॥

"https://sa.wikisource.org/w/index.php?title=विग्रहव्यावर्तनी&oldid=339608" इत्यस्माद् प्रतिप्राप्तम्