विकिस्रोतः:विकिस्रोतःप्रवेशिका २०२०/Report

विकिस्रोतः तः

विकिस्रोतःप्रवेशिका इति कश्चन उपक्रमः संस्कृतविकिपक्षतः प्रचालितः । अयं कश्चन अन्तर्जालीयः प्रशिक्षणवर्गः आसीत् । विकिस्रोतसि सम्पादनाय अनेके उत्सुकाः भवन्ति । परन्तु कथं विकिस्रोतसि कार्यं करणीयम् इति ज्ञानं बहूनां न भवति। अतः विकिस्रोतसः प्रशिक्षणं किञ्चन आयोजितम् आसीत् ।

Wikisource Praveshika was an initiative by Samskrit Wiki. This was an online training program. There were many participants who were interested to do the editing of the texts. But many did not had an idea as how to take this forward. Therefore, an online training session was arranged for Wikisource.

वृत्तविवरणम् / Report[सम्पाद्यताम्]

प्रतिभागिनः[सम्पाद्यताम्]

आयोजितायाम् अस्यां कार्यशालायां सप्तपञ्चाशज्जनाः पञ्जीकरणं कृतवन्तः आसन् । एतेषु प्रतिसत्रं भागग्रहीतॄणां सामान्या संख्या चासीत् प्रायेण पञ्चत्रिंशत् । प्रतिभागिषु महिलानां संख्या गरिष्ठा आसीत् ।

महिलाः = 33
पुरुषाः = 24

A whopping number of 57 participants registered for this workshop. An average of 35 participants attended the sessions. Female participants outnumbered the male participants.

Women = 33
Men = 24

कक्ष्या 1 - 20.05.2020[सम्पाद्यताम्]

कार्यशालायाः प्रथमे अस्मिन् सत्रे आदौ विकिस्रोतसः सामान्यः परिचयः सर्वेभ्यः प्रदत्तः । संस्कृते विकिस्रोतसः प्रसक्तिः का इति विषये विस्तरेण विवरणञ्च दत्तम् । तदनु सहपरियोजनानां विषये सामान्यकल्पनां च प्रदाय विकिपीडिया-विकिस्रोतसोः भेदः स्पष्टीकृतः । विकिस्रोतसः व्यवस्थायाः परिज्ञानार्थं केचन मुख्यविषयाः निश्चयेन ज्ञातव्याः सन्ति यथा मुख्यपृष्ठम्, योगदानानि, सद्यपरिवर्तनानि इत्यादयः, ते चोक्ताः । सदस्यपुटनिर्माणं, सदस्यपृष्ठे लेखनं, सम्भाषणपृष्ठे लेखनम्, हस्ताङ्कनं च बोधितम् । अन्वेषणयोग्यपाठ्यस्य पाठ्यचित्रस्य च भेदः प्रदर्शितः । अन्वेषणयोग्यपाठ्यस्य उपयोगिता च उक्ता । विकिस्रोतसि कथं कार्यं करणीयम् इति सामान्यकल्पना प्रदत्ता ।

On the first day of the workshop, participants were given a brief introduction of Wikisource. The relevence of wikisource in Samskrit was explained. Likewise, they were made aware of various sister projects as well as the difference between Wikipedia and Wikisource. To get started with wikisource, various points had to be understood, like, Homepage, contributions, recent changes, etc., which were briefed in the session. They were guided as How to create, add information and sign the User page. They were shown the difference between searchable text and image of the text. They were told about the benefits of searchable text. The session ended with a short introduction about the work process in wikisource.

कक्ष्या 2 - 22.05.2020[सम्पाद्यताम्]

अनुक्रमणिकापुटावल्यां कार्यार्थं पुस्तकं कथम् अन्वेषणीयम् इति बोधितम् । अन्वेषणपेटिकायाम् "अनुक्रमणिका:" इति कृत्वा पुस्तकान्वेषणमपि दर्शितम् । अनुक्रमणिका इति नामावकाशे पुस्तकं कथं दृश्यते इति दर्शितम् । ततः कार्यारम्भः कथम् इति बोधितम् । प्रतिपृष्ठं श्वेत-पाटल-धूसर-पीत-हरितवर्णाः भवन्ति । तेषां वर्णानाम् अर्थः ज्ञापितः । OCR इत्यस्य उपकरणस्य उपयोगः कथम् इति बोधितम् । OCR करणस्य कार्यं गृहकार्यरूपेण प्रदत्तम् ।

The session started with how to search and select a book from the index page of wikisource. The same can be done by typing “Index:” was also shown. They were made known how the index page of a particular book appears. How to start working on a book was briefed. Each page will have white, pink, purple, yellow and green colour. They were shown about the indication of each colour. They were introduced to OCR tool. The session ended by providing each participant with few pages to do OCR as assignment.

कक्ष्या 3 - 27.05.2020[सम्पाद्यताम्]

पाठशुद्धिः कथं करणीया इति बोधितम् ।पाठशुद्ध्यनन्तरं पुटस्य वर्णपरिवर्तनस्य प्राधान्यं किम् अस्ति इति उक्तम् । पाठशुद्ध्यवसरे विशेषवर्णानाम् उपयोगः, पाठ्यस्य गात्रवर्धनादिकं च पाठितम् । पुटाग्रस्य पुटतलस्य च विषये विस्तरेण परिचयः दत्तः । पुटस्योपरि विद्यमानः भागः पुटाग्रे एव किमर्थम् लेखनीयः इति उक्तम् । पुटविन्यासविषयः स्थूलतया उपस्थापितः ।

The session started with introduction about how to proof-read a page. After proof-reading a page, how to change the colour and importance of changing the colour was told. The important tools for proof-reading and how to zoom in and zoom out the image of the text was shown. Header and footer topic was explained in detail. They were told why the header should be placed in the header itself. The session ended by giving a glimpse of Page alignment.

कक्ष्या 4 - 29.05.2020[सम्पाद्यताम्]

पुटविन्यासः कथं करणीयः इति विस्तरेण बोधितम् । पुटविन्यासावरे किं न करणीयम् इति विषये अपि स्पष्टीकृतम् । {{gap}} {{bold|}} <poem></poem> {{block center|}} इत्यादीनां फलकानां परिचयः कारितः । श्रीपञ्चरात्ररक्षा इति पुस्तके पुटविन्यासार्थं सूचना दत्ता । सर्वेषां कृते दश पुटानि पुटविन्यासार्थं परिष्कारार्थं च निश्चितानि । सर्वे अपि स्वकीयं पुटं चितवन्तः ।

The session started with how to do the page alignment of the book. They were notified about do’s and don’t’s of page alignment. They were briefed about the templates such as {{gap}} {{bold|}} <poem></poem> {{block center|}}. They were instructed to do page alignment work of Sripancharatraraksha. It was decided that each participant will select 10 pages for page alignment and proof-reading task and they selected and worked on the same.

कक्ष्या 5 - 03.06.2020[सम्पाद्यताम्]

पुटविन्यासविषये विस्तरेण कल्पना प्रदत्ता । प्रतिफलकम् एकैकम् उदाहरणं सम्पाद्य दर्शितम् । एवं पुटद्वयस्य पुटविन्यासः पाठितः । तत्र सामान्यतया अत्युपयोगीनि सर्वाणि अपि फलकानि आसन् । प्रतिवारं प्राग्दृश्यदर्शनेन विषयः स्फुटतया बोधितः । पूर्वस्मिन् दिने कृतस्य कार्यस्य परिशीलनम्, सन्देहानां च निवारणं कृतम् । अन्ते च <ref></ref> इत्यस्य सामान्यपरिचयः दत्तः ।

A broader view of page alignment task was given. Editing of a page was shown by using different templates. Page-alignment of 2 pages were done like this. There, frequently used templates were shown. Each and every time after using a template, they were shown the preview of the page so that they can know the preview tab. The session ended with evaluating the previous session’s assignment, clearing the doubts and giving a brief intro about the template <ref></ref>.

कक्ष्या 6 - 05.06.2020[सम्पाद्यताम्]

<ref></ref> इति विषये विस्तरेण बोधितम् । ततः विकिस्रोतसि अन्तिमतया पुस्तकस्य प्रकाशनं कथं क्रियते इति प्रदर्शितम् । एतावता श्रीपरात्रिंशिका इत्यस्य ग्रन्थस्य पाठशुद्धिकार्यं कृतम् इत्यतः सः ग्रन्थः प्रकाशितः । ततः विकिस्रोतःप्रवेशिका इत्यस्य प्रशिक्षणवर्गस्य अनुभवाः भागग्राहिभिः श्राविताः । विकिस्रोतसः अग्रिमायाः योजनायाः विषये विवरणं दत्तम् । प्रगतप्रशिक्षणविषये अपि सूचना उक्ता । सर्वेषामपि विकिकार्ये सहभागित्वं कथं स्यादिति विषये अपि विवरणं दत्तम् । विकिकार्यानुवर्तनाय प्रेरणा च दत्ता ।

A detailed description about <ref></ref> was given. They were shown how the validated book is published in wikisource in transcluded form. As the participants had finished the ocr, page-alignment and proof-reading task of the book Sriparatrimshika, the same was published in transcluded form. The participants shared their experience of participating in the workshop. They were informed about the advanced workshop. They were given orientation about how they can contribute to Wikisource. They were motivated for the same.