वामनपुराणम्/अध्यायः ३७

विकिस्रोतः तः
Jump to navigation Jump to search

2.16/37
लोमहर्षण उवाच
पवनस्य ह्रदे स्नात्वा दृष्ट्वा देवं महेश्वरम्
विमुक्तः कलुषैः सर्वैः शैवं पदमवाप्नुयात् १
पुत्रशोकेन पवनो यस्मिंल्लीनो बभूव ह
ततः सब्रह्मकैर्देवैः प्रसाद्य प्रकटीकृतः २
अतो गच्छेत अमृतं स्थानं तच्छूलपाणिनः
यत्र देवैः सगन्धर्वैः हनुमान् प्रकटीकृतः ३
तत्र तीर्थे नरः स्नात्वा अमृतत्वमवाप्नुयात्
कुलोत्तारणमासाद्य तीर्थसेवी द्विजोत्तमः ४
कुलानि तारयेत् सर्वान् मातामहपितामहान्
शालिहोत्रस्य राजर्षेस्तीर्थं त्रैलोक्यविश्रुतम् ५
तत्र स्नात्वा विमुक्तस्तु कलुषैर्देहसंभवैः
श्रीकुञ्जं तु सरस्वत्यां तीर्थं त्रैलोक्यविश्रुतम् ६
तत्र स्नात्वा नरो भक्त्या अग्निष्टोमफलं लभेत्
ततो नैमिषकुञ्जं तु समासाद्य नरः शुचिः ७
नैमिषस्य च स्नानेन यत् पुण्यं तत् समाप्नुयात्
तत्र तीर्थं महाख्यातं वेदवत्या निषेवितम् ८
रावणेन गृहीतायाः केशेषु द्विजसत्तमाः
तद्वधाय च सा प्राणान् मुमुचे शोककर्शिता ९
ततो जाता गृहे राज्ञो जनकस्य महात्मनः
सीता नामेति विख्याता रामपत्नी पतिव्रता १०
सा हृता रावणेनेह विनाशायात्मनः स्वयम्
रामेण रावणं हत्वा अभिषिच्य विभीषणम् ११
समानीता गृहं सीता कीर्तिरात्मवता यथा
तस्यास्तीर्थे नरः स्नात्वा कन्यायज्ञफलं लभेत् १२
विमुक्तः कलुषैः सर्वैः प्राप्नोति परमं पदम्
ततो गच्छेत सुमहद् ब्रह्मणः स्थानमुत्तमम् १३
यत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः
ब्राह्मणश्च विशुद्धात्मा परं पदमवाप्नुयात् १४
ततो गच्छेत सोमस्य तीर्थं त्रैलोक्यदुर्लभम्
यत्र सोमस्तपस्तप्त्वा द्विजराज्यमवाप्नुयात् १५
तत्र स्नात्वाऽर्चयित्वा च स्वपितॄन् दैवतानि च
निर्मलः स्वर्गमायाति कार्तिक्यां चन्द्र मा यथा १६
सप्तसारस्वतं तीर्थं त्रैलोक्यस्यापि दुर्लभम्
यत्र सप्त सरस्वत्य एकीभूता वहन्ति च १७
सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा
सरस्वत्योघनामा च सुवेणुर्विमलोदका १८
पितामहस्य यजतः पुष्करेषु स्थितस्य ह
अब्रुवन् ऋषयः सर्वे नायं यज्ञो महाफलः १९
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती
तच्छ्रुत्वा भगवान् प्रीतः सस्माराथ सरस्वतीम् २०
पितामहेन यजता आहूता पुष्करेषु वै
सुप्रभा नाम सा देवी तत्र ख्याता सरस्वती २१
तां दृष्ट्वा मुनयः प्रीता वेगयुक्तां सरस्वतीम्
पितामहं मानयन्तीं ते तु तां बहु मेनिरे २२
एवमेषा सरिच्छ्रेष्ठा पुष्करस्था सरस्वती
समानीता कुरुक्षेत्रे मङ्कणेन महात्मना २३
नैमिषे मुनयः स्थित्वा शौनकाद्यास्तपोधनाः
ते पृच्छन्ति महात्मानं पौराणं लोमहर्षणम् २४
कथं यज्ञफलोऽस्माकं वर्ततां सत्पथे भवेत्
ततोऽब्रवीन्महाभागः प्रणम्य शिरसा ऋषीन् २५
सरस्वती स्थिता यत्र तत्र यज्ञफलं महत्
एतच्छ्रुत्वा तु मुनयो नानास्वाध्यायवेदिनः २६
समागम्य ततः सर्वे सस्मरुस्ते सरस्वतीम्
सा तु ध्याता ततस्तत्र ऋषिभिः सत्रयाजिभिः २७
समागता प्लावनार्थं यज्ञे तेषां महात्मनाम्
नैमिषे काञ्चनाक्षी तु स्मृता मङ्कणकेन सा २८
समागता कुरुक्षेत्रं पुण्यतोया सरस्वती
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् २९
आहूता च सरिच्छ्रेष्ठा गययज्ञे सरस्वती
विशालां नाम तां प्राहुरृषयः संशितव्रताः ३०
सरित् सा हि समाहूता मङ्कणेन महात्मना
कुरुक्षेत्रं समायाता प्रविष्टा च महानदी ३१
उत्तरे कोशलाभागे पुण्ये देवर्षिसेविते
उद्दालकेन मुनिना तत्र ध्याता सरस्वती ३२
आजगाम सरिच्छ्रेष्ठा तं देशं मुनिकारणात्
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ३३
मनोहरेति विख्याता सर्वपापक्षयावहा
आहूता सा कुरुक्षेत्रे मङ्कणेन महात्मना
ऋषेः संमाननार्थाय प्रविष्टा तीर्थमुत्तमम् ३४
सुवेणुरिति विख्याता केदारे या सरस्वती
सर्वपापक्षया ज्ञेया ऋषिसिद्धनिषेविता ३५
सापि तेनेह मुनिना आराध्य परमेश्वरम्
ऋषीणामुपकारार्थं कुरुक्षेत्रं प्रवेशिता ३६
दक्षेण यजता सापि गङ्गाद्वारे सरस्वती
विमलोदा भगवती दक्षेण प्रकटीकृता ३७
समाहूता ययौ तत्र मङ्कणेन महात्मना
कुरुक्षेत्रे तु कुरुणा यजिता च सरस्वती ३८
सरोमध्ये समानीता मार्कण्डेयेन धीमता
अभिष्टूय महाभागां पुण्यतोयां सरस्वतीम् ३९
यत्र मङ्कणकः सिद्धः सप्तसारस्वते स्थितः
नृत्यमानश्च देवेन शङ्करेण निवारितः ४०
इति श्रीवामनपुराणे सरोमाहात्म्ये षोडशोऽध्यायः १६