वाचस्पत्यम्/दुवोयु

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३६४८

दुवोयु त्रि० दुवः परिचर्यामिच्छति क्यचि वेदे वा पदकार्यम्

उन् । परिचरणेच्छौ । “स तु श्रुधि श्रुत्या यो
दुवोयुः” ऋ०६ । ३६ । ५ । “दुवोयुरस्मदीयं परिचरणमा-
त्मन इच्छन्” भा० पक्षे दुवस्यु तत्रार्थे

दुश्चर त्रि० दुःखेन चर्यते दुर् + चर--कर्मणि खल् । चरितु-

मशक्ये १ दुःखेन चरणीये “चरतः किल दुश्चरं तपः”
रघुः “स्थाने तपो दुश्चरमेतदर्थम्” कुमा० “अहं प्रजाः
सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम्” मनुः । दुःखेन दुष्टं वा
चरति चर् + अच् । १ शम्बुके हारा० २ भल्लूके पुंस्त्री०
राजनि० ।

दुश्चरित न० दुष्टं चरितम् प्रा० स० । १ दुष्कृते पापे

“इहदुश्चरितैः केचित् केचित् पूर्वकृतैस्तथा । प्राप्नुवन्ति दुरा-
त्मानो नरा रूपविपर्ययम्” । “यथा महाह्रदं प्राप्य
क्षिप्तं” लोष्ट्रं निमज्जति । तथा दुश्चरितं सर्वं वेदे त्रिवृति
मज्जति” मनुः । दुःखेन चरितम् । २ कृच्छ्रेण कृते त्रि०
दुस्थं चरितं यस्य प्रा० ब० । ३ तद्युक्ते त्रि० ।

दुश्चर्मन् पु० दुःस्थितं चर्म यत्र प्रा० ७ ब० । १ स्वभावतोऽना-

वृतमेढ्रे रोगभेदे । “हेमहारी तु कुनखी दुश्चर्मा गुरु-
तल्पगः” याज्ञ० । २ कोठरोगे राजनि० ।

दुश्चारित्र न० चरित्रमेवं स्वार्थे अण् चारित्रं दुष्टं चारित्रम्

प्रा० स० । दुष्टे चरित्रे पापे । दुःस्थितं चारित्रमस्य
प्रा० ब० । १ दुष्टचरित्रयुक्ते त्रि० “शूद्रो राजन्! भवति
ब्रह्मवन्धुर्दुश्चारित्रोयश्च धर्मादपेतः” भा० शा० ६३ अ० ।

दुश्चिकित्स्य त्रि० दुर् + कित--स्वार्थे सन् कर्मणि यत् ।

दुःखेन चिकित्सनीये प्रतिकार्ये रोगे । सुश्रुतोक्ताः ते च
रोगा अवारणीयशब्दे ४४९ पृ० दर्शिताः ।

दुश्चिक्य न० लग्नात् तृतीये राशौ “त्रित्रिकोणञ्च नवर्घ

दुश्चिक्यं स्यात् तृतीयकम्” ज्यो० त०

दश्च्यवन पु० दुःसहं च्यवनं चालनमस्य दुःसहश्च्यवनः शिवो

येन वा प्रा० ब०, दुर् + च्यु--ल्यु, “छन्दसि गत्यर्थेभ्यः”
पा० युच् वा । इन्द्रे अमरः “युत्कारेण दुश्च्यवनेन
धृष्णुना” ऋ० १० । १०२ । २ “दुश्च्यवनेनान्यैरविचाल्येन”
भा० बहुकालानन्तर स्वस्थानात् पतनात् तस्य
तथात्वम् । एकैकमन्वन्तरे हि चतुर्दश इन्द्रा भवन्तीति
एकसप्ततिमहायुगस्य मन्वन्तरकालस्य चतुर्दशोभागः किञ्चि-
दधिकपञ्चसहस्रयुगात्मकस्तत्कालस्ततोऽनन्तरं तस्य
पतनात् तथात्वम् । चतुर्दश इन्द्राश्च कल्पभेदेन भिन्ननामानः
इन्द्रशब्दे ९४५ पृ० दर्शिताः । च्यवनेन शिवेनाभिभूतत्वात्
तस्य तथात्वम् “असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः ।
सवज्रं स्तम्भयामास तं बाहुं परिघोपमम्” भा० अनु०
१६० अ० “बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत् प्रभुः”
मल्लिनाथधृतपुराणम् ।

दुश्च्याव त्रि० दुःखेन च्याव्यतेऽसौ दुर् + च्यु--णिच् कर्मणि

खल् । १ दुःखेन च्यावनीये । २ महादेवे पु० “दुश्च्याव-
श्च्यवनो जेता हन्ता ब्रह्मद्विषां हरः” भा० क० ३४ अ०

दु(दुः)श्श्रव न० दुःखेन श्रूयतेऽसौ दुर् + श्रु--खल् वा

रेफस्य श्चुत्वम् । श्रुतिदुःखावहे परुषवर्णयुक्ते काव्य-
दोषभेदे “दुःश्रवं त्रिविधाश्लीलानुचितार्थप्रयुक्तता” इत्यु-
पक्रमे परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वमिति
सा० द० लक्षयित्वा यथा “कार्त्तार्थं यातु तत्वङ्गी” इत्यु-
दाहृतम् । तस्य चापरनाम श्रुतिकटुरिति चन्द्रालोके
उक्तम् “भवेच्छ्रुतिकटुर्वर्णः श्रवणीद्वेजने पदुः” । अत्र
स्वघटकवर्णस्यैव परुषत्वेन तद्घटितकाव्यस्य तथात्वं
“पदे पदांशे वाक्येऽर्थे सम्भवन्ति रसेऽपि ते” सा० द०
सामान्यतो दोषाणां पञ्चधोत्कीर्त्तनेऽपि श्रुतिकटुदोषस्य
पदतदंशवाक्येष्वेव सम्भवः इत्येव विशेषः ।

दुष वैकृते दिवा० पर० अक० अनिट् । दुष्यति इरित् अदुषत्

अदुक्षत् दुदोष दोष्टा दोक्ष्यति । “श्मशानेष्वपि तेजर्स्व
पावको नैव दुष्यति” मनुः । “मेदं प्रजापते रेतोऽदुषत्”
ऐत० ब्रा० ३ । ३३ “राङ्कवे पट्टसूत्रे च सूचीविद्धं न
दुष्यति” स्मृतिः । वैकृतञ्च यस्य यथास्वरूपं तद्वैपरीत्ये,
यथा हेतोः साध्यानुमापकत्वं तद्वैपरीत्ये दुष्टत्वम्
अशुद्धत्थञ्च । यथा मलादिना वस्त्रादेरशुद्धत्वम् ।
अशुद्धिश्च स्वरूपतः यथा मालिन्यादिना, शास्त्रविध्युल्ल-
ङ्घने दुरदृष्टजनकत्वेन वा । यथा नीलीवस्त्रादिधारणादेः
शास्त्रनिषिद्धत्वात् तद्धारणे दुरदृष्टोत्पत्तेः तस्य दुष्टत्वम् ।
एवमन्यत्राप्युह्यम् “दुषधातोरिवास्माकं दोषसम्पत्तये
गुणः” उद्भटः दोषः । दुष्टः । “अनेकदोषदुष्टोऽपि कायः
कस्य न वल्लभः” पञ्चर० दोषी । णिचि । दूषयति
चित्तविकारे तु दोषयति दूषयति वा चित्तम् । “न च
किञ्चिदेवांशं काव्यस्य दूषयन्तः श्रुतिकट्वादयो दोषाः,
किं तर्हि सर्वमेव काव्यम्” सा० द० । “दोषोविचारसुलभो
यदि दूष्यते तद् व्याख्या मम प्रथममेव न दूषणीया”
काव्यप्र० व्या० महेश्वरः “यः सौहृदे पुरुषं स्थाप-
यित्वा पश्चादेनं दूषयते स बालः” भा० स० ६२ अ०
“यथा क्रतुषु विप्राणां सोमपानं न दूषितम्” कुला-
पृष्ठ ३६४९
र्णवतन्त्रम् । दूषयन् दूषणीयः दूषितः दूषयित्वा संदूष्य ।
उपसर्गपूर्वकः तत्तदुपसर्गद्योत्यार्थयुक्तविकारे

दुष्कर त्रि० दुःखेन क्रियते दुर् + कृ--कर्मणि खल् । कर्त्तु-

मशक्ये १ दुःखेन करणीये “अपि यत् सुकरं कर्म
तदप्येकेन दुष्करम्” मनुः “मुग्धे! दुष्करमेतदित्यतितरा
मुक्त्वा सहासं बलात्” अमरुश० । २ आकाशे न० शब्दार्थ-
कल्पतरुः तस्याजन्यत्वेन द्रुष्करत्वात् । भावे खल् । ३
दुःखेन करणे न० ।

दुष्कर्मन् न० दुष्टं कर्म प्रा० स० । १ पापे । दुष्कर्मभिश्च नहुषो

नाशं यास्यति दुर्मतिः” भा० उ० १२ अ० “दुष्कर्मजानृणां
रोगा यान्ति चैव क्रसात् शमम् । जपैः सुरार्चनैर्हो-
मैर्दानैस्तेषां क्षयोभवेत्” शातातपः । दुःस्थितं कर्मास्य
प्रा० ब० । २ पापकर्मकारके त्रि० “ततो वसति दुष्कर्मा नरके
शाश्वतीः समाः” भा० उ० १३१ अ० ।

दुष्काल पु० दुष्टः कालः प्रा० स० । निन्दिते काले । यस्य यः

कालोविहितस्तस्य ततो वैलक्षण्ये कालस्य दुष्टता
२ प्रलये च । दुःसहो कालः कलनमस्य प्रा० ब० । ३ शिवे
“अकालश्चातिकालश्च दुष्कालः कालएव च” भा० शा०
२८६ अ० शिवनामोक्तौ ।

दुष्कुल न० दुष्टं कुलम् प्रा० स० । १ निन्दिते कुले “अन्त्यादपि

परं धर्मं स्त्रीरत्नं दुष्कुलादपि” मनुः । दुःस्थं कुलमस्य
प्रा० ब० । २ निन्दितकुलजाते त्रि० “मदमूर्खताभिमाना
दुष्कुलतैश्वर्यसंयुक्ताः” सा० द० दुष्कुले भवः पक्षे
ख । दुष्कुलीन, ढक् दौष्कुलेय निन्द्यकुलभवे त्रि०

दुष्कृत न० दुष्टं कृतम् प्रा० स० । १ पापे “दातुर्यत् दुष्कृतं

किञ्चित् तत्सर्वं प्रतिपद्यते । निपानकर्त्तुः स्नात्वा तु दुष्-
कृतांशेन लिप्यते” मनुः २ तज्जनके कर्मणि च “यथा यथा
मनस्तस्य दुष्कृतं कर्म गर्हति” मनुः तदस्यास्ति इनि ।
दुष्कृतिन् तद्युक्ते “पुनःपुनर्दुष्कृतिनं निनिन्द” रघुः ।

दुष्कृति त्रि० दुस्था कृतिरस्य प्रा० ब० । दुष्कर्मकारके “पादस्प-

र्शस्तु रक्षांसि दुष्कृतीनवधूननम्” मनुः प्रा० स० । २ पापे स्त्री

दुष्क्रीत त्रि० दुष्टं क्रीतम् प्रा० स० । रूपसंख्यादिकमपरीक्ष्य

क्रीते क्रीतानुशयशब्दे दृश्यम् “क्रीत्वा मूल्येन यो
द्रव्यं दुष्क्रीतं मन्यते क्रयी” नारदः ।

दुष्खदिर पु० दुष्टः खदिरः प्रा० स० । कालस्कन्दे क्षुद्रखदिरभेदे अमरः ।

दुष्ट त्रि० दुष--क्त । १ दुर्बले २ अधमे विश्वः । ३ दोषाश्रिते

च दोषशब्दे वक्ष्यमाणव्यभिचारादीनामन्यतमयुक्ते
४ हेतौ । ५ पित्तादिदोषयुक्ते ज्ञानकारणे नेत्रादौ यथा
कथञ्चित् ६ दोषयुक्ते च त्रि० ७ कुष्ठे न० (कुड़) ख्याते
शब्दच० । “त्याज्यो दुष्टः प्रियोऽप्यासीत्” रघुः “दुष्टः
शब्दः स्वरतो वर्णतो वा” महाभाष्यधृता श्रुतिः ।

दुष्टचारिन् त्रि० दुष्टं चरति चर--णिनि । दोषयुक्तकर्म

कारिणि “अथ यत्रैनमासीनं शङ्केरन् दुष्टचारिणः”
भा० वि० ४ अ० ।

दुष्टगज पु० नित्यकर्म० । गम्भीरवेदिनि गजे हेमच० ।

दुष्टनु त्रि० दुस्था तनुरस्य प्रा० ब० वेदे षत्वम् । दुस्थदेह

युक्ते “क्षुधा किल त्वा दुष्टनो! जक्षिवान्त्स न रूरुपः”
अथ० ४ । ७ । ३ लोके तु दुस्तनु इत्येव तत्रार्थे

दुष्टयोग पु० कर्म० । १ वैधृतिव्यतीपातादि योगे तस्य स्नानदा-

नाद्यतिरिक्तकर्मसु वर्ज्यत्वमशुभसूचकत्वञ्च सू० सि० नाना-
स्थाने उक्तं यथा
“तुल्यांशुजालसम्पर्कात् तयीस्तु प्रवहाहतः ।
तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायते । विनाश-
यति पातोऽस्मिन् लोकानामसकृद् यतः । व्यतीपातः
प्रसिद्धोऽयं संज्ञाभेदेन वैधृतिः । स कृष्णो दारुण्वपु-
र्लोहिताक्षो महोदरः । सर्वानिष्टकरो रौद्रो भूयो
भूयः प्रजायते । आद्यन्तकालयोर्मध्यः कालोज्ञेयोऽति-
दारुणः । प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ।
एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम् । सम्भवस्ताव-
देवास्य सर्वकर्सविनाशकृत् । व्यतीपातत्रयं घोरं गण्डा-
न्तत्रितयं तथा । एतद् भसन्घित्रितयं सर्वकर्मसु वर्जयेत्
२ अरिष्टसूचके गोचरविलग्नादिस्थग्रहयोगभेदे च

दुष्ट(स्त)र त्रि० दुःखेन तीर्यतेऽसौ कर्मणि खल् वेदे

मुषामादेराकृतिगणत्वात् षत्वम् । “चर्कृत्यं मरुतः
पत्सु दुष्टरम्” ऋ० १ । ५४ । १४ लोके तु न षत्वम् “तितीर्षु-
र्दुस्तरं मोहादुडपेनास्मि सागरम्” रघुः ।

दुष्टरक्तदृक् त्रि० दुष्टा रक्ता च दृगस्य । पित्तादिदोषजरक्त

नेत्रके । “दीक्षितः स्त्रीपसङ्गेन जायते दुष्टरक्तदृक्”
शातातपेन तत्कर्मपाक उक्तः ।

दुष्टरीतु पु० दुर् + तॄ--तुन् वेदे इट् दीर्घश्च षत्वम् । दुःखेन

तरणीयेऽहिंस्ये “तुविग्रये वह्नये दुष्टरीतवे” ऋ०२ । २१ ।
२ । लोके तु दुस्तर्तु इत्येव ।

दुष्टवृष पु० कर्म० । शक्तत्वेऽपि अधुर्वहे वृषे (गड़िया) ख्याते

हेमच० ।

दुष्टव्रण पु० नित्यक० । अचिकित्सनीये व्रणभेदे द्विव्रणीयशब्दे दृश्यम् ।

पृष्ठ ३६५०

दुष्टसाक्षिन् पु० कर्म० । नारदाद्युक्ते असाक्षित्वप्रयोजकदोष

युक्ते साक्षिणि । साक्षिणोदोषाश्च नारदेनोक्ताः यथा
“यस्त्वात्मदोषदुष्टत्वादस्वस्थ इव लक्ष्यते । स्थानात् स्था-
नान्तरं गच्छेदेकैकञ्चानुधावति । कासत्यकस्माच्च भृशम-
भीक्ष्णं निःश्वसित्यपि । विलिखत्यवनीं पद्भ्याम्बाहू वासश्च
धूनयेत् । भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा ।
शोषमागच्छतश्चोष्ठाबूर्द्ध्वं तिर्यङ्गिरीक्षते । त्वरमाण
इवाबद्धमपृष्टो बहु भाषते । कूटसाक्षी स विज्ञेयस्तं
वापं विनयेद्भृशम्” । अबद्धमसम्बद्धम् । विनयेच्छिक्षयेद्
यथा कौटसाक्ष्याद्बिभेतीत्यर्थः । न तु दण्डयेदित्यर्थः ।
प्राकृतवैकृतिकविकारविवेकस्य दुःशक्यत्वात् सम्भावनामा-
त्रेण च दण्डनस्यान्याय्यत्वादिति मिता० उक्तम् ।
मदनरत्ने त्वाविद्धमिति पठित्वा आकुलमिति व्याख्यातम् ।
शङ्खलिखितावपि “मन्त्रिभिः शास्त्रसामर्थ्याद्दुष्टलक्षणं ग्रा-
ह्यन्तिर्यक्प्रेक्षते समन्तादेवावलोकयति । अकस्मान्मूत्रं
पुरीषं विसृजति देशाद्देशं गच्छति पाणिना पाणिं
पीडयति नखान्निकृन्तति मुखमस्य विवर्णतामेति प्रस्वि-
द्यति चास्य ललाटन्न चक्षुर्न्न च वाचं प्रतिपूजयत्य-
कस्माद्ददाति, प्रशंसति पुनः पुनरन्यमपवदति बहिर्नि-
रीक्षते शस्त्रं परामृशति शिरः प्रकम्पयत्यीष्ठौ निर्भुजति
सृक्कणी परिलेढ़ि अतिविस्मितः कर्मस्वमहत्स्वपि भ्रुबौ
संहरति तुष्णीं ध्यायति पूर्वोत्तरविरुद्धं व्याहरति एव
मादिदुष्टलक्षणं क्रुद्धस्य च स्वामिनोऽन्यत्र प्रकृतिशी-
लादिति” अकस्मादिति तूष्णीमिति च यथायोगमनेकत्र
सम्बन्धनीयम् । अन्यत्र प्रकृतिशीलादिति । प्रकृत्या
खभावात् शीलन्तिर्यक्प्रेक्षणादिधर्मो यस्य स तथोक्त-
स्ततोऽन्यत्रैतानि दुष्टक्रुद्धलक्षणानि, एते अवान्तरवैल-
क्षण्यस्य दुर्ज्ञेयत्वादित्यवधानेन परीक्ष्य वस्तुतत्त्वानुसर-
णङ्करणीयमिति सूचितम्” वीरमि
मुनिवाक्ये अन्येऽपि साक्षिदोषा असाक्षिलक्षणोक्त्या
वीरमि० भङ्ग्यादर्शिता यथा
मनुः “नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः कर्त्तव्या न व्याध्यार्त्ता न दूषिताः । न साक्षी
नृपतिः कार्य्यो न कारुककुशीलवौ । न श्रोत्रियो न
लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः । आध्यधीनी न
वक्तव्यो न दस्युर्न विकर्मकृत् । न वृद्धो न शिशुर्नैको
नाप्तो न विकलेन्द्रियः । नार्त्तो न मत्तो नोन्मत्तो न
क्षुत्तृष्णोपपीड़ितः । न श्रमार्त्तो न कामार्त्तो न क्रुद्धो
नुपि तस्करः” इति । अत्र सर्वैर्विशेषणैरसत्यसम्भावना
विस्मरणादिकमसाक्ष्यनिमित्तमुपलक्ष्यते । अतएव वृद्ध
विकलेन्द्रियविकर्म्मकृत्तस्करादीनां गोवृषन्यायेन
पुनरुपादानम् । अत्र बहवः शब्दाः स्पष्टार्थाः । अन्ये
मेधातिथ्यनुसारेण विव्रियन्ते । अर्थसम्बन्धिन उत्तम-
र्णाधमर्णाद्याः उत्तमर्णोह्यधमर्णवचनेन पराजीयमान
स्तदानीमेव रोधाविष्टोऽधमर्णादृणं प्रत्यादातुं प्रयतेतेति
तच्चित्तानुवृत्तिरधमर्णस्य तदनुगुणकौटसाक्ष्यहेतुत्वेन संभा-
व्यते । उत्तमर्णो निर्धनेऽधमर्णे स्वसाक्षितया घनं प्राप्य
स्वस्मै तदर्पयिष्यतीति बुद्ध्या तदनुगुणवादी सम्भाव्यते ।
तथार्थः प्रयोजनन्तत्सम्बन्धिनोर्वादिप्रतिवादिनोरन्यतर-
स्माद् येषां स्वप्रयोजनं सिसाधयिषितन्तेऽप्युपकारगन्धान्न
साक्ष्यार्हा इत्यादि । सर्ठत्र कौटसाक्ष्यसम्भावनोन्नेया ।
दृष्टदोषा अन्यत्र कृतकौटसाक्ष्याः । व्याध्यार्त्ता वचनवि-
संवादापादकव्याधिपीड़ावन्तः । दूषिता अभिशस्ताः ।
नृपतेरसाक्षित्वमकृताभिपायेणातो न प्राक्तननारदोक्ति
विरोधः । लिङ्गस्थोऽपत्यादिः । सङ्गेभ्यो विनिर्गतः
परित्यक्तः पित्रादिगुरुजनसंसर्गात् वृद्धानुपसेवनादस्या-
ऽसत्यसम्भावना । आध्यधीनो बन्धकीकृतः तस्य तदाज्ञा-
वशवर्त्तित्वात् । वक्तव्यो निन्दास्पदम् विकर्मकृत् अधर्मा-
भीरुः । वृद्धविकलेन्द्रिययोर्वार्द्धकस्वभावहेतुकेन्द्रियवैकल्येन
भेदः । आर्त्तः शोकेन । नारदोऽपि “दासनैःकृतिका-
श्रद्धवृद्धस्त्रीबालचाक्रिकाः । मत्तोन्मत्तप्रमत्तार्त्त कितव-
ग्रामयाजकाः । महापथिकसामुद्रबणिक्प्रव्रजितातुराः ।
व्यङ्गैकश्रोत्रियाचारहीनक्लीवकुशीलवाः । नास्तिकव्रा-
त्यदाराग्नित्यागिनोऽयाज्ययाजकाः । एकस्थालीसहा-
यारिचरज्ञातिसनाभयः । प्राग्दृष्टदोषशैलूषविषजीव्य-
हितुण्डिकाः । गरदाग्निदकीनाशशूद्रापुत्त्रोपपातिनः ।
क्लान्तसाहसिकश्रान्तनिर्धूताग्न्यवसायिनः । भिन्नवृत्ता-
समावृत्तजडतैलिकमूलिकाः । भूताविष्टनृपद्विष्टवर्षनक्षत्र
सूचकाः । अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः । कुनखी
श्यावदन् श्वित्री मित्रध्रुक्शठशौण्डिकाः । ऐन्द्रजालि-
कलुब्धोग्रश्रेणी गणबिरोधिनः । वधकृच्चित्रकृत् शङ्खी
पतितः कूटकारकः । कुहकः प्रत्यवसितस्तस्करो
राजपूरुषः । मनुष्यपशुमांसास्थिमघुक्षीराम्बुसर्पिषाम् ।
विक्रेता व्राह्मणश्चैव द्विजो वार्धुषिकश्च यः । च्युतः
स्वघर्मात्कुलिकः सूचको हीनसेवकः । पित्रा विवद-
मानश्च भेदकृच्चेत्यसाक्षिणः । श्रेण्यादिषु तु वर्गेषु
कश्चिश्चेद्द्वेष्यतामियात् । तस्य तेभ्यो न साक्ष्यं
पृष्ठ ३६५१
स्याद्द्वेष्टारः सर्व एव ते” । नैकृतिकः परापकारशीलः ।
चाक्रिकस्तैलिकः । प्रमत्तः सदाऽनवहितः । महापथिको
महापथगामी । सामुद्रबणिग्वहित्रवाही । एकः श्री-
त्रियो द्वयोरननुमतः । एकः, श्रोत्रिय इति पृथग्वा प्रा-
यश्चोक्तं च प्रागेव तत् । अपरार्केण तु युग्मैकेति पठित्वा
युग्मौ ष्ट्वाविति व्याख्यातम् । एकस्थालीसहाय
एकपाकभोजीति । सहाय्यन्यतरसाहाय्यकारी, मिश्रचण्डे-
श्वरौ । मदनरत्नाकरस्तु एकस्थालीः सहाय इति
विशेषणद्वयं पृथक्कृत्य एकस्थाली स्थाल्यधिकरणकः
पाकोलक्ष्यते । स एको यस्येत्येकस्थालीति व्याचख्यौ ।
समासान्तविधेरनित्यत्वादेकस्थालीत्यत्र “नद्यृतश्चेति” पा० न
कप् । अर्द्धपिप्पलीत्यादिवन्न ह्रस्व इति च समादधे ।
अरिचरः भूतपूर्वः शत्रुः । भूतपूर्वे चरट् । कल्पतरौ
त्वस्त्रधर इति पठित्वा शस्त्रधर इति व्याख्यातम् । ज्ञा-
तयः सगोत्राः सनाभयो मातुलतत्सुतमातृष्वस्रियादयः ।
शैलूषः स्त्रीणां नर्तयिता । कुशीलवस्तु रङ्गापजीवी
नट इति भेदः । विषजीवी विषक्रयजीवीति मदनरत्ने ।
विषवद्योपजीवीति रत्नाकरे । अहितुण्डिकः सर्प-
क्रीडोपजीवी व्यालग्राही । कीनाशः कर्कशः क्षुद्रा वा ।
कृपण इति तु मदनरत्न । उपपातित उपपातकीति
कल्पतरुः । मदनरत्ने तूपपातक इति पठितम् । उप
समीपं पातकं यस्येति विगृह्य पातकयुक्त इति व्या-
ख्यातञ्च । क्लान्तोऽतिखिन्नः श्रान्तोऽनवरतकर्मका-
रीति मदनरत्ने । अशान्त इति पठित्वाऽयीग्यकर्मका-
रीति रत्नाकरे । निर्धूतो वान्धवैस्त्यक्त इति
मदनरत्ने । ग्रामराजकुलश्रेण्यादिभिर्निःसारित इति रत्ना-
करे । मूलिकः लोकभयशून्य इति भवदेवः । मूलं विप्रल-
म्भस्तत्कारीति तु युक्तम् । अपरार्केण तु पौपिक इति
पठित्वा पौपिकः पूपादिविक्रयीति व्याकृतम् । वर्षसू-
चको वर्षशकुनवेदो । नक्षत्रसूचको ज्यौतिषिकः ।
अथशसी परकीयपापप्रकाशकः । हीनाङ्ग उचितपरिमा-
णन्यूनाङ्गः । व्यङ्गस्तु छिन्नाङ्गुल्यादिरिति भेदः ।
भगवृत्तिर्भार्य्यादास्यादिसम्भोगशुल्कोपजीवी शङ्खी
वृषभनर्त्तनजीवीति मदनरत्नरत्नाकरयोः । कुहको
दाम्मिकः । प्रत्यवसितः प्रव्रज्यादिच्युतः । कुलिको राज्ञा
व्यवहारपरिच्छेदकतया नियुक्तः । अस्य च साक्षित्व-
करणे निषेधो, विधिस्तु कृतसाक्ष्य इति कल्पतरुः ।
मदनरत्ने तु कुलं व्राह्मणादिगणस्तदधिकारी कुलिक इति
व्याख्यातम् । सूचको राज्ञा परदोषान्वेषणपूर्वकं स्वस्मै
तन्निवेदने नियुक्तः । भेदकृन्मित्रादिप्रीतिभङ्गकर्त्ता ।
श्रेण्यादिष्वित्यस्यायमर्थः । येषु श्रेण्यादिषु यस्यैकोऽपि
द्वेष्यतां शत्रुतामाप्तस्तदीयविवादे तच्छ्रेण्यादिनिविष्टाः
सर्व एव न साक्षिणस्तत्र हेतुर्द्वेष्टारः सर्वएव त इति
तच्छ्रेण्यान्तर्गतैकद्वेष्यनुरोधकृतवैरनिर्यातनार्थमन्यथावा-
दित्वसम्भवात् । अतएव नारदः “बालोऽज्ञानादसत्यात्
स्त्री पाप्याभ्यां स्याच्च कूटकृत् । विब्रूयाद्बान्घवः स्नेहा-
द्वैरनिर्यातनादरिरिति” । कात्यायनः “तद्वृत्तिजीविनो
ये च तत्सेवाहितकारिणः । तद्वन्धु सुहृदो भृत्या
आप्तास्ते तु न साक्षिणः । मातृष्वसुःसुताश्चैव पितृष्वसृ-
सुतास्तथा । मातुलस्य सुताश्चैव सोदर्यसुतमातुलाः ।
एते सनाभयः प्रोक्ताः साक्ष्यन्तेषु न योजयेत् । कुल्याः
सम्बन्धिनश्चैव विवाह्यो भगिनीपतिः । पिता बन्धुः पितृ
व्यश्च श्वशुरो गुरवस्तथा” । तथा वृहस्पतिः “मातु
पिता पितृव्यश्च भार्यायाभ्रातृमातुलौ । भ्राता सखा
च जामाता सर्ववादेष्वसा क्षिणः । परस्त्रीपानसक्ताश्च
कितवाः सर्वदूषकाः । उन्मत्तार्त्ताः साहसिका नास्ति-
काश्च न साक्षिणः” इति । अत्र मातृष्वस्रादिशब्दानां
सम्बन्धिशब्दत्वादर्थिप्रत्यर्थिनोरन्यतरस्य एतादृशसम्बन्धिनो
न साक्षिणः सम्बन्धिनि स्नेहादन्यत्र वैरसम्भवादिति
ध्येयम् । शङ्खलिक्षितौ “शुल्कगुल्माधिकृतौ दूतो वेष्टि-
तशिराः स्त्रियोगुरुकुलवासिनः परिव्राजकवानप्रस्थनि-
र्ग्रन्थाः शङ्खिनः व्यालग्राहिणः” इति अत्राऽसाक्षिणः
इति प्रकृतम् शुल्काधिकृतः शुल्कग्रहणस्थानाधिकारी ।
गुल्मः स्वस्थाननिवेशितः पदातिसमूहस्तदधिकृतः ।
वेष्टितशिराः उद्धतवेषोमूर्द्धव्याध्यभिभूतो वा इतरे
प्रसिद्धा व्याख्याततराश्च । अनेन प्रपञ्चेन लोभादि-
कमसाक्षित्वनिमित्तमेव व्यक्तीकृतम् । यथाह मनुः
“लोभान्मोहाद्भयात् क्रोधान्मैत्र्यात्कामात्तथैव च ।
अज्ञानाद्बालभावाच्च साक्षी वितथ उच्यत” इति ।

दुष्ठु अव्य० दुर् + स्था--कु सुषामा० षत्वम् । १ निन्दायाम् अमरः ।

२ अविनीते त्रि० उणादिको० ततः उद्गात्रा० भावे अण् ।
दौष्ठव अविनये न० ।

दुष्पतन न० दुष्टं पतत्यनेन दुर् + पत--करणे ल्युट् । १ अपशब्दे

त्रिका० । अपशब्दप्रयोगस्य दुरदृष्टजनकतया पतनहे-
तुत्वात् तथात्वम् । “नापभाषितवै न मेच्छितवै म्लेच्छो
ह वा नाम यदपशब्दः” इत्यादिश्रुत्या हि अपशब्दप्रयो
गस्य निषिद्धत्वेन तत्प्रयोगस्य पापजनकत्वं सूचितम् ।
भावे ल्युट् । २ दुःखेन पतने न० ।
पृष्ठ ३६५२

दुष्पत्र पु० दुःसहं पत्रमस्य प्रा० ब० । चोरनामगन्धद्रव्ये अमरः

दुष्पद त्रि० दुःखेन पद्यते दुर् + पद--कर्मणि खल् । दुःखेन

प्राप्ये प्राप्तुमशक्ये “श्रुतो लि चक्रेण रथ्या दुष्पदा
वृणक्” ऋ०१ । ५३ । ९ “दुष्पदा दुष्पदेन प्राप्तुमशक्येन
चक्रेण” भा० तृतीयास्थाने छान्दस आच् ।

दुष्पराजय त्रि० दुःखेन पराजीयतेऽसौ दुर् + परा + जि

कर्मणि खल् । १ जेतुमशक्ये दुःखेन जेतव्ये २ धृतराष्ट्र
पुत्रभेदे पु० “उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः”
भा० आ० ११७ अ० तत्पुत्रोक्तौ ।

दुष्परिग्रह त्रि० दुःखेन परिगृह्यतेऽसौ दुर् + परि + ग्रह-

कर्मणि खल् । १ परिग्रहीतुमशक्ये “लोकाधाराः श्रियो
राज्ञां दुरापा दुष्परिग्रहाः” कामन्द० । प्रा० स० । २ निन्द्य-
भार्य्यायाञ्च । दुःस्थितः परिग्रहो भार्या यस्य प्रा० ब० ।
३ दुष्टभार्य्यके पु०

दुष्परिहन्तु त्रि० दुर् + परि + हन--खलर्थे तुन् । १ दुःखेन

नाशयितव्ये २ दुष्परिहार्ये च “यच्छता नो दुष्परिहन्तु
शर्म्म” ऋ०२ । २३ । ६ “दुष्परिहन्तु हन्तुमशक्यम्” भा०

दुष्पर्श त्रि० दुर् + स्पृश--कर्मणि खल् वा विसर्गलोपः । १ दुःखेन

स्पर्शनीये स्प्रष्टुमशक्ये २ दुरालभायां स्त्री अमरः तत्रार्थे
पु० भरतः ।

दुष्पान त्रि० दुःखेन पीयतेऽसौ “आतो युच्” पा० खलर्थे

कर्मणि युच् । दुःखेन पेये १ पातुमशक्ये । भावे युच् ।
२ दुःखेन पाने न० ।

दुष्पुरुष पु० प्रा० स० । निन्द्ये पुरुषे ततः ब्राह्मणा० स्वार्थे

भावे कर्मणि वा ष्यञ् । दौष्पुरुष्य तदर्थे पु० तद्भावे
तत्कर्मणि तु न० ।

दुष्पूर त्रि० दुर् + पूरि--कर्मणि खल् । १ पूरयितुमशक्ये

दुःखेन पूरणीये । “काममाश्रित्य दुष्पूरं दम्भमानमदा-
न्विताः” गीता २ अनिवार्ये च “कामरूपेण कौन्तेय!
दुष्पूरेणानलेन च” गीता

दुष्प्रकाश त्रि० दुष्टः प्रकाशः प्रा० स० । विरोधिलक्षणया अन्ध-

कारे “पापस्य लोको निरयो दुष्प्रकाशो नित्यं दुःखं
शोकभूयिष्ठमेव” भा० शा० ७३ अ० ।

दुष्प्रकृति त्रि० दुःस्था प्रकृतिरस्य प्रा० ब० । १ दुष्टस्वभावे

“त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकीविदः” भा० क०
४० अ० । प्रा० स० । २ निन्दायां प्रकृतौ निन्द्ये स्वभावे स्त्री

दुष्प्रजस् त्रि० दुस्था प्रजाऽस्य असिच् समा० । १ निन्द्य

प्रजायुक्ते । प्रा० स० नासिच् । दुष्प्रजा २ निन्द्यप्रजायां स्त्री

दुष्प्रज्ञान त्रि० दुःखेन प्रज्ञायतेऽसौ दुर् + प्र + ज्ञा--खलर्थे

कर्मणि युच् । १ ज्ञातुमशक्ये । दुष्टं प्रज्ञानं प्रा० स० ।
२ निन्द्ये ज्ञाने न० “दुष्पज्ञानेन निरयाः बहवः
समुदाहृताः” भा० शा० १२७ अ० ।

दुष्प्रधर्ष त्रि० दुष्करः प्रधर्षोऽस्य प्रा० ब० । १ धर्षयितुमशक्ये

दुःखेन धर्षणीये “सा दुष्प्रधर्षा मनसाऽन्यहिंस्रैः” रघुः
२ दुरालभायां ३ खर्जूर्याञ्च स्त्री राजनि० । ४ धृतराष्ट्रपुत्र-
भेदे पु० “दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः” भा०
भी० ६४ अ० । तत्र दुष्प्रहर्षश्चेति पाठान्तरम् भा० आ०
६४ अ० तत्पुत्रोक्तौ तथोक्तेः

दुष्प्रधर्षण त्रि० दुर् + प्र + धृष--भाषायां युच् । १ दुःखेन धर्व-

णीये धर्षयितुमशक्ये । “विन्दानुविन्दौ दुर्द्धर्षः सुवा-
हुर्दुष्प्रधर्षणः” भा० आ० ६७ उक्ते २ धृतराष्ट्रपुत्रभेदे पु०
३ वार्त्ताक्याम् स्त्री अमरः गौरा० ङीष् ।

दुष्प्रधर्षिणी स्त्री दुष्प्रधर्षोऽस्त्यस्याः इनि ङीप् । १ कण्ट-

कार्यां राजनि० २ वृहत्याम् भावप्र० ।

दुष्प्रवृत्ति स्त्री प्रा० स० । दुष्टायां प्रवृत्तौ वार्त्तायां “तेषां

सूर्पनखै वैका दुष्प्रवृत्तिहराऽभवत्” रघुः ।

दुष्प्रवेश त्रि० दुष्करः प्रवेशोऽत्र प्रा० ब० । १ दुःखेन प्रवेश्ये

प्रवेष्टुमशक्ये “महर्षिगणसम्बाधं ब्राह्म्या लक्ष्म्या
समन्वितम् । दुष्प्रवेशं महाराज! नरैर्धर्मबहि-
ष्कृतैः” भा० व० १४५ अ० । २ कन्थारीवृक्षे स्त्री राजनि० ।

दुष्प्रहर्ष त्रि० दुष्करः प्रहर्षोऽस्य प्रा० ब० । १ दुष्करप्रहर्ष-

युक्ते २ धृतराष्ट्रपुत्रभेदे पु० दुर्मदो दुष्प्रहर्षश्च विवित्-
सुर्विकटः समः” भा० आ० ६७ अ० । तत्पुत्रोक्तौ

दुष्म(ष्य)न्त पु० १ पौरवे भरतपितरि राजभेदे “उपदानवी

सुतान् लेभे चतुरस्त्वैलिकात्मजान् । दुष्मन्तमथ सुष्मन्तं
प्रवीरमनघं तथा । दुष्मन्तस्य तु दायादो भरतो नाम
वीर्य्यवान् । स संर्वदमनो नाम नागायुतबलो महान् ।
चक्रवर्त्ती सुतोजज्ञे दुष्मन्तस्य महात्मनः । शकुन्तलायां
भरतोयस्य नाम्ना स्थ भारताः । दुष्मन्तं प्रति राजानं
बागुवाचाशरीरिणी । माता भस्त्रा पितुः पुत्रो येन
जातः सएव सः । भरस्व पुत्रं दुष्मन्त! माऽवमंस्थाः
शकुन्तलाम् । रेतोधां पुत्र उन्नयति नरदेव! यमक्षयात् ।
त्वञ्चास्य धाता गर्भस्य सत्यमाह शकुन्तला” हरिव
३२ अ० । अस्य शकुन्तलापरिवेदनकथा शकुन्तलाशब्दे दृश्या
पृष्ठ ३६५३
तुर्वसुवंश्यमरुत्तकन्यायां सम्मतायां संवत्तर्षेः जाते
२ नृपभेदे तत्कथा हरिवं० ३२ अ० । तुर्वसुवंशवर्णने यथा
“अन्वस्त्वाविक्षितो राजा मरुत्तः कथितस्तव ।
अनपत्योऽभवद्राजा यज्वा विपुलदक्षिणः । दुहिता
सम्मता नाम तस्यासीत् पृथिवीपतेः! । दक्षिणार्थे तु
सा दत्ता संवर्त्ताय महात्मने । दुष्मन्तं पौरवञ्चापि
लेभे पुत्रमकल्मषम् । एवं ययातेः शापेन जरासंक्र-
मणे तदा । पौरवं तुर्वसोर्वंशः प्रविवेश नृपोत्तम! ।
दुष्मन्तस्य तु दायादः करुत्थामः प्रजेश्वरः” । तस्यापत्यम्
इञ् दौष्मन्ति भरते करुत्थामे च नृपभेदे

दु(दुः)स्थ त्रि० दुर् + स्था--क वा विसर्गलोपः । दुःखेन स्थिते

“कल्पान्तदुःस्था वसुधा तथोहे” भट्टिः १ कुक्कुटे २ कुक्कुरे
च पुंस्त्री शब्दार्थचि० स्त्रियां जातित्वात् ङीष् ।

दु(दुः)स्पृष्ट न० दुष्टं स्पृष्टम् प्रा० स० वा विसर्गलोपः ।

जिह्वाग्रादिना वर्णोच्चारणस्थानस्य ईषत्स्पर्शरूपे आभ्य-
न्तरे वर्णोच्चारणप्रयत्ने तदस्यास्ति कारणत्वेन अच् ।
२ तेनोच्चार्यवर्णे च “अचोऽस्पृष्टायणस्त्वीषत् नेमस्पृष्टाः
शलस्तथा” “दुस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव
च” पाणिनिशिक्षा । ऌकारस्य लकारादित्वेन दुस्पृष्ट-
त्वमिति आकरे स्थितम् ।

दुह बधे भ्वा० पर० सक० सेट् । दोहति इरित् अदोहीत् अदुहत् । दुद्रोह दुहितः ।

दुह दोहने अन्तःस्थितद्रवद्रव्यस्याकर्षणेन बहिर्निस्मारणे

उभ० अदा० द्विक० अनिट् । दोग्धि दुग्धे दुह्यात् अधोक्
अदुग्ध । अधुक्षत् अदुग्ध अधुक्षन्त अधुक्ष्मह्नि अदुह्महि
दुदोह । दुदोहिथ दुदुहिव दुदुहे । दुह्यात् धोक्ष्यति ते ।
दोग्धव्यं दुह्यं दोह्यम् । दोग्धा द्रोहनं दुग्धम् । दोग्धुम्
दुग्ध्वा संदुह्य । “यं सर्वशैलाः परिकल्प्य वत्सं मेरो
स्थिते दोग्धरिंदोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम्” कुमा० “यः पयो दोग्धि
पाषाणम्” “पयोवटीध्रीरपि गा दुहन्ति” भट्टिः
एककर्माविवक्षायाम् अस्यैककर्मकत्वमपि “दुदोह यज्ञसिद्ध्यर्थ
मृग्मसुःसामलक्षणम्” मनुः “दुग्ध्वा पयः पत्रपुटे मदीयम्”
रघुः । निःसारणमात्रे च “दुग्धेऽस्मै सर्वं कामं यो
वाचो दोहः” छा० उ० “न कर्मफलमाप्नोति योऽधर्मं
दोग्धुमिच्छति” भा० व० ११६५ श्लो० “यत्र धर्मदुघा
भूमिः सर्बकासदुघा सती । दोग्धि स्माभीप्सितानर्थान्
यजमानस्य सर्वदा” माग० ४ । १९ । ७ दुधुक्षति । अस्य
गौणकर्मणि ककारादि “प्रधानकर्मण्याख्येवे त्वादी-
नाहुर्द्विकर्मणाम् । अपधाने दुहादीनां ण्यन्ते कर्तुश्च
कर्मणः” इत्युक्तेः । “तेषु तेषु तु पात्रेषु दुह्यमाना
वसुन्धरा” हरिवं० ८१ श्लो० अस्य कर्मकर्त्तरि गौणक-
र्मणः कर्तृत्वविवक्षायाम् केवलं तङ् न यक् । गौःपयो
दुग्धे । वा चिण् । अदोहि अधुक्षत अदुग्ध सि० कौ०

दुहादि पु० गौणे कर्मणि लकारविधानार्थे धातुसमूहे स च

“दुह्याच्पज्दुण्ड्रुधिप्रच्छि चिब्रूशासुजिमन्थ्मुषाम् ।
कर्मयुक् स्यादकथितं तथा स्यात् नीहृकृष्वहाम्” व्या०
कारिकायां पठितः दुहप्रभृतिः मुषपर्यन्तः धातु-
संघः । अस्य कस्यापि कारकसंज्ञाऽप्राप्तौ प्रधानकर्मोपयो-
गिनः कर्मसंज्ञा “दुहियाचिरुधिप्रछिभिक्षिचिञासुप-
योगनिमित्तमपूर्वविधौ । ब्रुविशासि गुणेन च यत् सचते
तदकीर्त्तितमाचरितं कविना” महाभाष्यकृतोक्तेः ।

दुहि पु० दुह--धातुनिर्देशे इक् । दुहघातौ दुहादिशब्दे उदा० ।

दुहितुःपति पु० ६ त० षष्ठ्या वा अलुक् स० । जामातरि

पक्षे लुक् । दुहितृपतिरप्यत्र ।

दुहितृ स्त्री दुह--दह वा तृच् । “नप्तृनेष्टृत्वष्टृहोतृ

पोतृभ्रातृजामातृमातृपितृदुहितृ” उणा० नि० । स्वज-
न्यस्त्रियां स्त्रीसन्ततौ ऋदन्तत्वेऽपि स्वस्रादित्वात् न
ङीप् । तृणन्तत्वाभावात् सर्वनामस्थाने परे न वृद्धिः
दुहितरौ दुहितर इत्यादि प्रियादिषु पाठात् अस्मिन्
शब्देपरे पूर्व्रस्थितस्य उक्त पुंस्कस्त्रीलिङ्गस्य विशेषणशब्दस्य
न पुंवत् जातादुहितृकः । “मातुर्दुहितरः शेषमृणा-
त्ताभ्य ऋतेऽन्वथः” याज्ञ० । “मात्रा स्वस्रा दुहित्रा वा
न विविक्तासनो भवेत्” मनुः । कन्याशब्देऽनुक्तं तद्दान-
पात्रफलादिकमधिकमुच्यते ।
“कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ।
वराय गुणहीनाय वृद्धाय ज्ञानिने तथा । दरिद्राय
च मूर्खाय रोगिणे कुत्सिताय च । अत्यन्तकोपयुक्ताय
चात्यन्तदुर्मुखाय च । जडाय चैव मूर्खाय क्लीव-
तुल्याय पापिने । ब्रह्महत्यां लभेत् सोऽपि यः स्वकन्यां
ददाति च । शान्ताय गुणिने चैव यूने च विदुषेऽपि
च । वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत्” ।
कन्याविक्रये दोषो यथा “यः कन्यापालनं कृत्वा
करोति विक्रयं यदि । विपत्तौ धनलोभेन कुम्भीपाकं
स गच्छति । कन्यामूत्रपुरीषञ्च तत्र भक्षति
पातकी । कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश ।
मृतश्च व्याधयोनौ च स लभेज्जन्म निश्चितम् । विक्रीणीत
पृष्ठ ३६५४
मांसभारं वहत्येव दिवानिशम्” कन्यादानफलं यथा
“दशवापीसमा कन्या दीयते व्राह्मणाय या ।
वेदज्ञाय पवित्राय चाप्रतिग्रहशालिने । सन्ध्यावते वेद
पाठकारिणे सत्यवादिने । अस्मै प्रदत्ता कन्या च दश
वापीफलप्रदा । त्रिसन्ध्याकारिणे सत्यवादिने
गृहशालिने । वेदज्ञाय च विप्राय दत्ताष्टफलदायिनी ।
प्रतिग्रहगृहीताय सन्ध्याहीनाय नित्यशः । मूर्खाय
दत्ता कन्या च सा चतुःफलदायिनी । परदारगृही-
ताय याजकाय द्विजाय च । शठाय सन्ध्याहीनाय
वाप्येकफलदा सुता । त्यक्तसन्ध्याय गायत्रीविही-
माय शठाय च । विप्रोद्भवाय दत्ता सा वाप्यर्द्धफलदा
सुता । पापिने शूद्रजाताय विप्रक्षेत्रोद्भवाय च । दत्ता
चाण्डालतुल्याय कन्या सा नरकप्रदा । विष्णुभक्ताय
विदुषे विप्राय सत्यवादिने । जितेन्द्रियाय दत्ता या
विंशद्वापीफलप्रदा । षष्टिवर्षसहस्राणि दिव्यरूपं
विधाय च । एवम्भूताय दत्त्वा च मोदते विष्णुमन्दिरे ।
दत्त्वा कन्यां सुशीलाञ्च हराय हरयेऽथ वा । नारा-
यणस्वरूपञ्च भवेदेव श्रुतौ श्रुतम् । विष्णुभक्तो यदा
कन्यां ददाति विष्णुप्रीतये । स लभेद्धरिदास्यञ्च ध्रुवं
विप्रोद्भवाय च” ब्रह्म० वै० प्र० ख० ।

दु(दो)ह्य त्रि० दुह--गौणे कर्मणि वा क्यप् पक्षे ण्यत् ।

१ दोहनगौणकर्मणि गव्यादौ गौणकर्माविवक्षायां
दोहनप्रधानकर्मणि २ दुग्धादौ च ।

दु(द्रु)ह्यु पु० शर्मिष्ठायां जाते ययातिपुत्रभेदे । “अन्वगृ-

ह्णात् प्रजां सर्वां ययातिरपराजितः । तस्य पुत्रा
महेष्वासाः सर्वे समुदिता गुणैः । देवयान्यां महाराज!
शर्मिष्ठायाञ्च जज्ञिरे । देवयान्यामजायेतां यदुस्तुर्वसु
रेव च । दुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे” मा०
आ० ७५ अ० हरिवंशे तु ३० अ द्रुह्युरिति अणुरिति
पाठः । लिपिकरप्रमादात् द्विधा पाठः “तेषां ययातिः
पञ्चानां विजित्य वसुधामिमाम् । देवयानीमुशनसः सुतां
भार्य्यामवाप सः । शर्मिष्ठामासुरीञ्चैव तनयां वृषपर्वणः ।
यदुञ्च तुर्वसुञ्चैव देवयानी व्यजायत । द्रुह्युञ्चाणुञ्च
पूरुञ्च शर्मिष्ठा वार्षपार्वणी” ।
तस्य राज्यदेशश्च तत्रैव अ० उक्तो यथा
“सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् । व्यभ-
जत् पञ्चधा राजा पुत्राणां नाहुषस्तदा । दिशि दक्षिण
पृर्वस्यां तुर्वसुं मतिमासृपः । प्रतीच्यामुत्तरस्याञ्च द्रु-
ह्युञ्चानुञ्च नाहुषः । दिशि पूर्वात्तरस्यान्तु यदुं श्रेष्ठं
न्ययोजयत् । मध्ये पूरुञ्च राजानमभ्यषिञ्चत् स नाहुषः ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशम-
द्यापि धर्मेण परिपाल्यते” । तद्वंशवर्णनञ्च तत्रैव ३२ अ०
यथा “द्रुह्योश्च तनयो राजन्! बभ्रुः सेतुश्च पार्थिवः ।
अङ्गारः सेतुपुत्रश्च मरुता पतिरुच्यते । यौवनाश्वेन
समरे कृच्छ्रेण निहतो बली । युद्धं सुमहदस्यासीन्
मासान् परि चतुर्दश । अङ्गारस्य तु दायादो गान्धारी
नाम पार्थिवः । ख्यायते यस्य नाम्ना वै गान्धारविषयो
महान् । गान्धारदेशजाश्चैव तुरगा वाजिनां वराः” तस्य
पितुर्ययातेर्जराया अग्रहणे शापकथा भा० शा० ८४ अ०
“ययातिरुवाच । “यत्त्वं मे हृदयाज्जातो वयः स्वं न
प्रयच्छसि । तस्माद्द्रुह्यो! प्रियः कामो न ते सम्पत्स्यते
क्वचित् । यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च ।
हस्तिनां पीठकानाञ्च गर्दभानान्तथैव च । वस्तानाञ्च
गवाञ्चैव शिविकायास्तथैव च । उडुपप्लवसन्तारो यत्र नित्यं
भविष्यति । अराजशब्दभाजन्तं तत्र प्रापस्यसि सान्वयः”

दू खेदे दिवा० आत्म० अक० सेट् । दूयते अदविष्ट । दुदुवे ।

ओदित् दूनः कविकल्पद्रुमः पा० दुनोतेरेव नत्वदीर्घौ
इति भेदः । “तया हीनं विधातर्मां कथं पश्यन् न दूयसे”
रघुः । “न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति” माघः ।
उपत्तप्तीकरणे सक० “दूयते दीनं खलजनः” दुर्गादासः ।

दूडभ त्रि० दुःखेन दभ्यतेऽसौ दुर् + दत्भ--कर्मणि खल् ।

“दुरो दाशनाशदभध्येषुत्त्वमुत्तरपदादेष्टुत्वञ्च” पृषो०
पा० गणसुत्रेणोक्तकर्म नि० नलोपः । दुःखेन दम्भनीये

दूडाश त्रि० दुःखेन दाश्यते दुर् + दाश--कर्मणि खल् ।

दूडभशब्दोक्त पा० ग० सूत्रेण सिद्धम् । दुःखेन हिंसनीये

दूढी त्रि० दुष्टं ध्यायति दु + ध्यै--चिन्तायां कर्त्तरि सम्प०

भावे वा क्विप् । दूडभशब्दोक्तकार्यम् पा० ग० सूत्रे
ध्यायतेर्धातोर्निर्देशात् । १ दुष्टं ध्यायिनि २ दुष्टायां बुद्धौ
स्त्री “अस्माकं शंसो अभ्यस्तु दूढ्यः” ऋ० १ । ९४ । ८ ।
“बधैर्दुःशंसा अप दूद्यो जहि” ९

दूढ्य त्रि० दुष्टं ध्यायति दुर् + ध्यै--क । दूडभशब्दवत् साध्यम् । दुष्टं ध्यायिनि

दूणाश त्रि० दुःखेन नाश्यते दुर् + नाशि--कर्मणि खल्

दूडशब्दवत् साध्यम् । १ दुःखेन नाशनीये । “दूणाशेयं
दक्षिणा पार्थवानाम्” ऋ० ६ । २७ । २८ “दूणाशादुर्नाशा
केनापि नाशयितुशक्या” भा० २ चातुर्मास्याङ्गे तृतीये
सप्तदशे उत्तरे यज्ञभेदे पु० “द्विनामोत्तरो बहुहिरण्यो
पृष्ठ ३६५५
दूणाशश्चेति” कात्या० श्रौ०२२ । ८ । २६ । “उत्तरस्तृतीयः
सप्तदशः द्विनामा भवति बहुहिरण्य इत्येकं दूणा-
शश्च द्वितीयं नाम” संग्र० । तस्य च तथादक्षिणायुक्तत्वात्
अर्श० अचि तथात्वम् ।

दूत त्रि० दु--गतौ “दुतनिभ्यां दीर्घश्च” उणा० त कित् दीर्घश्च

दू--परितापे कर्त्तरि क्त वा दीर्घान्तस्य न नत्वम् “दुग्वो-
र्दीर्वश्च” पा० सूत्रेण दुनोतेरेव नत्वदीर्घयोर्विधानात् ।
१ सन्देशहरे अमरः । २ उपतप्ते च
“चारेक्षणो दूतमुखः पुरुषःकोऽपि पार्थिवः” माघः
तत्र साधारणदूतलक्षणं तद्भेदाश्च सा० द० उक्ता यथा
निसृष्टार्थो मितार्थश्च तथा सन्देशहारकः । कार्य्य-
प्रेष्यस्त्रिधा दूती दुत्यश्चापि तथाविधाः” तत्र कार्यप्रेष्यी
दूत इति लक्षणम् । तत्र “उभयोर्भावमुन्नीय स्वयं
वदति चोत्तरम् । सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु
स स्मृतः” उभयोरिति येन प्रेषितो यदन्तिकं प्रेषितश्च ।
“मितार्थभाषी कार्यस्य सिद्धिकारी मितार्थकः” ।
नृपतिदूतलक्षणं युक्तिकल्पतरावुक्तं यथा
“परेङ्गितज्ञः परवाग्व्यङ्ग्यार्थस्यापि तत्त्ववित् ।
सदोत्पन्नमतिर्धीरो दूतः स्यात् पृथिवीपतेः । दूतञ्चैव
प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गितज्ञं तथा सभ्यं
दक्षं सत्कुलसम्भवम् । अनुरक्तः शुचिर्दक्षः स्मृतिमा-
न्देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः
प्रशस्वते । दूत एव ह्यसम्मत्तो भिनत्त्येव हि सङ्ग-
तान् । विमृष्यार्थो १ मितार्थश्च २ तथा शासनहारकः ३ ।
दूतास्त्रयोऽमात्यगुणैः समैः पादार्द्धवर्जितैः । विमृष्यार्थं
कार्यवशात् शासनं तु करोति यः १ । मितार्थः २ कार्य-
मात्रोक्तौ स कुर्य्यादुत्तरोत्तरम् । यथोक्तवादी सन्देश
हारको लेखहारकः ३ । तत्र दूतो व्रजन्नेव चिन्तयेदु-
त्तरोत्तरम् । वार्त्ताविशेषं भूपाय झटित्येवान्यवेश्मनि ।
दूतो हि न लिखेत् किञ्चित् निर्णेता वा विनिर्णयम् ।
पृच्छ्यमानोपि न ब्रूयात् स्वामिनः क्वापि वैशसम्”
कामन्द० शास्त्रे च राजदूततद्भेदचरलक्षणं चोक्तं यथा
“कृतमन्त्रस्तु मन्त्रज्ञो मन्त्रिणां मन्त्रसम्मतम् ।
यातव्याय प्रहिणुयाद्दूतं दूत्याभिमानिनम् । प्रगल्भः
स्मृतिमान्वाम्मी शास्त्रे चास्त्रे च निष्ठितः । अभ्यस्त-
कर्मा नृपतेर्दूतो भवितुमर्हति । निसृष्टार्थो १ मितार्थश्च २
तथा शासनवाहकः ३ । सामर्थ्यात्पादतो हीनो दूतस्तु
त्रिविधः स्मृतः । स भर्त्तुः शासनाद्गच्छेद्गन्तव्यमुत्तरो-
त्तरम् । स्वराष्ट्रपरराष्ट्राणामिति चेति च चिन्तयन् ।
अन्तःपालांस्तु कुर्वीत मित्राण्याटविकांस्तथा ।
जलस्थलानि मार्गांश्च विद्यात् स्वबलसिद्धये । नाविज्ञातः
पुरं शत्रीः प्रविशेच्च न संसदि । कालमीक्षेत कार्य्यार्थ-
मनुज्ञातश्च निष्पतेत् । सारवत्ताञ्च राष्ट्रस्य दुर्गं तद्गुप्ति-
मेव च । छिद्रं शत्रोर्विजानीयात् कोषमित्रबलानि च ।
उद्यतेष्वपि शस्त्रेषु यथोक्तं शासनं वदेत् । रागाप-
रागौ जानीयात् प्रकृतीनाञ्च भर्त्तरि । भृत्यपक्षस्य
चापायं कुर्य्यादनतिलक्षितः । पृच्छ्यमानोऽपि न ब्रूयात्
स्वस्वामिप्रकृतिच्युतिम् । ब्रूयात् प्रसृतया वाचा सर्वं
वेद भवानिति । फलेन नाम्ना द्रव्येण कर्म्मणा च
महीयसा । कुर्य्याच्चतुर्विधं स्तोत्रं पक्षयोरुभयोरपि ।
विद्याशिल्पोपदेशेन संश्लिष्योभयवेतनैः । भृत्यपक्षञ्च
जानीयात्तद्भर्तुश्च विचेष्टितम् । तीर्थाश्रमाश्रयस्थाने
शास्त्रविज्ञानहेतुना । तपस्विव्यञ्जनोपेतैः स्वचरैः सह
संवसेत् । सन्तापं कुलमैश्वर्य्यं त्यागमुत्थानसौष्ठवम् ।
अक्षुद्रतां भद्रताञ्च भर्त्तुर्भेद्येषु दर्शयेत् । सहेतानिष्ट-
वचनं कामक्रोधञ्च वर्जयेत् । नान्यैः शयीत, भावं स्वं
रक्षेद्विद्यात्परस्य च । काले व्रजति मेधावी न खिद्ये-
तात्मसिद्धये । क्षिप्यमाणञ्च बुध्येत कालं नानार्थ-
लोभनैः । एतेष्वहःसु गच्छत्सु न तत्र पृथिवीपतेः ।
पश्यति व्यसनं किञ्चित्स्वयं वा कर्तुमिच्छति । स्वान्तः-
प्रकोपमथ वा विनेतुं नीतिवित्तमः । सस्यादेः संग्रहं
कर्तुं स्वदुर्गे दुर्गसत्क्रियाम् । स्वपक्षाभ्युदयाकाङ्क्षी
देशकालावुदीक्षते । तत्र यात्रास्वयं चित्तमाश्वास्यैव
समीहते । यात्राकालक्षयार्थी वा तत्र चायं विलम्बते ।
काले विक्षिप्यमाणे तु तर्कयेदिति पण्डितः । कार्य्यकाल-
विपत्तिञ्च व्यक्तां ज्ञात्वा विनिष्पतेत् । तिष्ठन् वार्त्ता-
विशेषार्थान् भर्तुः सर्वान्निवेदयेत् । रिपोः शत्रुपरि-
च्छेदः सुहृद्बन्धुविभेदनम् । दुर्गकोषबलज्ञानं भृत्यपक्षोप-
संग्रहः । राष्ट्रात् व्यपेतपालानामात्मसात्करणं तथा ।
युद्धापसारभूज्ञानं दूतकर्मेति कथ्यते । दूतेगैब नरेन्द्रस्तु
कुर्वीतारिविकर्षणम् । स्वपक्षे च विजानीयात् परदूत-
विचेष्टितम् । तर्केङ्गितज्ञः स्मृतिमान् मृदुर्लघुपरिक्रमः ।
क्लेशायाससहो दक्षश्चरः स्यात् प्रतिपत्तिमान् । तपस्वि-
लिङ्गिनो धूर्त्ताः पण्यशिल्पोपजीविकाः । चराश्चरेयुः
परितः पिबन्तो जगतां मतम् । निर्गच्छेयुर्विशेयुश्च
सर्ववार्त्ताविदोऽन्वहम् । चराः सकाशान्नृपतेणक्षुर्दूर-
पृष्ठ ३६५६
तरं हि ते । सूक्ष्मं सूत्रप्रचारण पश्येद्वै विनिचेष्टि-
तम् । स्वपन्नपि च जागर्त्ति चारचक्षुर्महीपतिः ।
विवस्वानिव तेजोभिर्नभस्वानिव चेष्टितैः । राजा
चरैर्जगत् कृत्स्नं व्याप्नुयाल्लोकसम्मतैः । चारचक्षुर्नरेन्द्रः
स्यात्सम्पतेत्तेन भूयसा । अनेनासम्पतन्मौढ्यात्पतत्यन्धः
समेऽपि हि । सर्वसम्पत्समुदयं सर्वावस्थाविचेष्टितम् ।
चरेण द्विषतां विद्यात्तद्देशप्रार्थनानि च । प्रकाशश्चाप्र-
काशश्च चरस्तु द्विविधः स्मृतः । अप्रकाशोऽयमुद्दिष्टः
प्रकाशो दूत उच्यते । चरेण प्रचरेद्राजा सूत्रेणर्त्त्वि-
गिवाध्वरे । दूते सन्धानमायाते चरचर्य्या प्रतिष्ठिता ।
तीक्ष्णः प्रव्रजितश्चैव सत्री वनग एव च । एते ज्ञेयास्तु
सच्चाराः सर्वे नान्योन्यवेदिनः । संस्थानवत्यः संस्थाश्च
कार्य्याः कार्य्यप्रसिद्धये । तिष्ठेयुः पार्श्वे सच्चाराः
परिचर्य्यापवादिनः । बालः कृषीबलो लिङ्गी भिक्षुकोऽध्या-
पकस्तथा । संस्थाः स्युश्चारसंस्थित्यै दत्तदायाः शुभा-
शयाः । सर्वस्मिंस्तत्र सच्चारास्तिष्ठेयुश्चित्तवेदिनः ।
स्वपक्षे परपक्षे च यो हि वेद चिकीर्षितम् । जाग्रदपि
सुषुप्तोऽसौ न भूपः प्रतिबुध्यते । कारणाकारणक्रुद्धान्
बुध्येत स्वपरिग्रहे । पापानकारणक्रुद्धांस्तूष्णीं दण्डेन
साधयेत् । ये तु कारणतः क्रुद्धास्तान् बशीकृत्य संवसेत् ।
शमयेद्दानमानाभ्यां छिद्रञ्च परिपूरयेत् । अणुनापि
विजयते छिद्रेण बलवत्तरम् । निःशेषं मज्जयेद्राष्ट्रं पानपात्र-
मिवोदकम् । जडमूकान्धबधिरच्छद्मानः षण्डकास्तथा ।
किराता वामनाः कुब्जास्तद्विधा ये च कारकाः । भिक्षु-
काश्चारणा दास्यो नानाकार्य्यकलाविदः । अन्तःपुरगतां
वार्त्तामाहरेयुरलक्षिताः । छत्रव्यजनभृङ्गारयानवाहन-
धारिणः । महामात्रे बहिर्वार्त्तां विदुरन्ये च तद्विधाः ।
सूदव्यञ्जनकर्त्तारस्तल्पका व्ययकास्तथा । प्रसाधका
भोजकाश्च गात्रसंवाहका अपि । जलताम्बूलकुसुमगन्धभूषण-
दायकाः । कर्त्तव्याश्च सदा ह्येते ये चान्येऽभ्यास-
वर्त्तिनः । सञ्ज्ञाभिर्मूर्च्छितैर्लेख्यैराकारैरिङ्गितैरपि ।
सुसञ्चरेयुरव्यग्राश्चराश्चर्य्यां परस्परम् । समापिवन्तो
जगतां मतानि जलानि भूमेरिव सूर्य्यपादाः । अनेक-
शिल्पाध्ययनप्रवीणाश्चराश्चरेयुर्बहुलिङ्गिरूपाः । येन
प्रकारेण परानुपेयात् परापरज्ञश्च समृद्धिहेतोः ।
तमात्मनि स्वस्थमतिस्तु तज्ज्ञैर्वियुज्यमानं परतो हि विद्यात्” ।
३ प्रेष्यमात्रे त्रि० ततः भावे कर्मणि च “दूतबणिग्-
भ्याञ्च पा० यत् । दूत्य तद्भावे तत्कर्मणि च “दूत्यं
तद्भावकर्मणोः” अमरः । कामन्द० वाक्ये उदा० ष्यञ्
दौत्य तत्रार्थे “न प्रयाति च दौत्येन” हितो०
“द्विषां हसैर्दौत्यपथः सितीकृतः” नैष० । लिङ्गविशिष्टपरि-
भाषया दूतीशब्दादपि यत् ष्यञ् च । दूत्य दौत्य दूतीनां
कर्मणि भावे च । स्वार्थे क । दूतक तत्रार्थे स्त्रियां
कापि अत इत्त्वम् दूतिका दूत्याम् । भावे क्त! ४
उपतापे न० ।

दूतघ्नी स्त्री दूतं खेदं हन्ति हन--टक् ङीप् । कदम्बपुष्प्यां शब्दच० ।

दूति स्त्री दु--बा० ति दीर्घश्च उज्ज्वलद० । प्रेष्यायां स्त्रियां

“तां कामिनी दूतिमुदाहरन्ति” वर्णविवेकः वा ङीप्
दूती तत्रार्थे “उत्तिष्ठ दूति! यामीयामो यातस्तथापि
नायातः” सा० द० “रतिदूतिपदेषु कोकिलाम्” कुमा०
“प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः” “तेन दूतिवि-
दितं निषेदुषा” रघुः दूतीभेदलक्षणे सा० द० उक्ते “दूत्यः
सखी नटी दासी धात्रेयी प्रतिवेशिनी । बाला प्रव्रजिता
कारुः शिल्पिन्याद्याः स्वयं तथा । कला कौशलमुत्साहो
भक्तिश्चित्तज्ञता स्मृतिः । माधुर्यं नर्मविज्ञानं वाग्मिता
चेति तद्गुणाः । एता अपि यथौचित्यादुत्तमाधम-
मध्यमाः”

दून पु० दु--उपतापे क्त “दुग्वोर्दीर्घश्च” पा० तस्य नः दीर्घश्च ।

मुग्ध० दू--खेदे ओदित्त्वात् तस्य नः । १ अध्वादिश्रान्ते
२ उपतप्ते ३ दुःखिते च “पित्तेन दूने रसने सितापि
तिक्तायते हंसकुलावतंस!” नैष० ।

दू(र्) स्त्री दैप् शुद्धौ बा० कू । प्राणरूपे देवताभेदे “सा या

एषा देवता दूर्नाम दूरं ह्यस्यामृत्युर्दूरं ह वास्मान्मृत्यु-
र्भवति य एवं वेद” शत० ब्रा० १४ । ४ । १० “उपासक
शरीरस्था प्राणरूपा देवता दूर्नाम दूरित्येवं ख्याता-
ऽतः शुद्धा” भा० अत्र शुद्धेति विशेषणात् दैपधातो
रूपमिति सूचितम् । ब्राह्मणे तु दूरसम्बन्धात् तत्सिद्धिरुक्ता
तथा च दूरं करोति मृत्युमुपासकस्य दूर + कृत्यर्थे
णिच् बा० न दवादेशः क्विप् णिलोपः रान्तोऽयमिति
तु युक्तम् ।

दूर त्रि० दुर् + इण--“दुरीणो लोपश्च” उणा० रक् धातो

रिकारलोपे रेफे परे पूर्वाणो दीर्घः । १ विप्रकृष्टे
महतान्तरेण स्थिते दैशिकपरत्वयुक्ते अमरः । “दूरान्तिका-
दिधीहेतुरेका नित्या दिगुच्यते” भाषा० “दूरत्वमन्तिकत्वञ्च
दैशिकं परत्वमपरत्वं बोध्यम् तद्बुद्धेरसाधारणं वीजं
दिगेव” सि० मुक्ता० अतिदूरत्वञ्च प्रत्यक्षं नोत्पादुयति यथाह
पृष्ठ ३६५७


“अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्था-
नात् । सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहा-
राच्च” सा० का० “अनुपलब्धिरिति वक्ष्यमाणं सिंहावलो-
कितन्यायेनानुषञ्जनीयम् यथा उत्पतन् वियति पतत्त्री
अतिदूरतया सन्नपि प्रत्यक्षेण नोपलभ्यते” त० कौ० । “त्वं
दूरमपि गच्छन्ती हृदयं न जहासि मे” शकु० “न खलु
दूरगतोऽप्यतिवर्तते महमसाविति बन्धुजनोदितैः” माघः ।
भावप्राधान्यात् २ दूरत्वे च “दूरान्तिकार्थेभ्यो द्वितीया
च” पा० असत्त्ववचने प्रातिपदिकार्थे एभ्योद्वितीया चात्
पञ्चमीतृतीये स्तः” सि० कौ० “ग्रामस्य दूरं दूरात्
दूरेण वा । असत्त्ववचने इत्यनुवृत्तेर्नेह दूरः पन्थाः”
सि० कौ० “रामाद्रुद्रस्य यो दूरम्” मुग्धबो० “नेत्रे
दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः” सा० द० “सा तस्य
कर्मनिर्वृत्तैः दूरं पश्चात् कृता फलैः” रघुः “दूरादपि
क्रतुषु यज्वभिरिज्यते यः” माघः “दूरेण ह्यवरं कर्म
बुद्धियोगात् धनञ्जय!” गीता “स्तुतिभ्योऽच्युत! रिच्यन्ते
दूरेण चरितानि ते” रघुः एतच्छब्दयोगे पञ्चमी षष्ठी च ।
“दूरं ग्रामस्य ग्रामाद्वा” सि० कौ० अतिशायने इष्ठन्
दवादेशे दविष्ठ ईयसुन् दवीयस् अतिशथेन दूरस्थिते त्रि०
ईयसुनि स्त्रियां ङीप् । “तेजस्विमध्ये तेजस्वी दवीयानपि
गण्यते” माघः । दूरं करोति दूर् + णिच् वादेशः
दवयति । “दवयदतिरयेण प्राप्तमुर्वीविभागम्” भट्टिः ।

दूरङ्गम त्रि० दूरं गच्छति गम--बा० वेदे ख मुस् च । दूरगा-

मिनि “दूरङ्गमं ज्योतिषां ज्योतिरेकम्” यजु० ३४ । १ ।
लोके तु ड दूरग इत्येव

दूरत्व न० दूरस्य भावः त्व । दैशिके परत्वे तच्च भ्रमविशेषे

कारणम् यथोक्तं “दोषोऽप्रमायाजनकं प्रमायास्तु
गुणो भवेत् । पित्तदूरत्वादिरूपो दोषो नानाविधः
स्मृतः” भाषा० “क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं
दोषः” सि० मुक्ता० ।

दूरदर्शन पुंस्त्री० दूरात् पश्यति दृश--ल्यु । १ गृध्रे राजनि०

जातित्वात् स्त्रियां ङीष् । २ पण्डिते पु० दृश--भावे
ल्युट् । ३ दूरतोवीक्षणे न० । दूरतो दृश्यतेऽनेन
दृशकरणे ल्युट् । ४ दूरवीक्षणे यन्त्रमेदे (दूरवीन)

दूरदर्शिन् त्रि० दूरात् पश्यति कार्योत्पत्तेः प्राक् पश्यति

जानाति वा दृश--णिनि । १ दूरदर्शके २ पण्डिते पु०
अमरः २ गृध्रे पुंस्त्री० त्रिका० स्त्रियां ङीप् ।

दूरदृश् त्रि० दूरात् पश्यति दृश--क्विन् । १ दूरदर्शिनि २ पण्डिते

शब्दर० ३ गृध्रे हेमच० । क्विन्नन्तत्वात् झलि पदान्तै च कुः ।

दूरमूल पु० दूरपर्यन्तं मूलमस्य । मुञ्जतृणे (मुँज) । राजनि०

दूरवेधिन् पु० दूरात् वेघोस्त्यस्य साध्यतया इनि ।

दूरात् लक्ष्यभेदके

दूरापात त्रि० दूरमापतति आ + पत--कर्त्तरि ज्वला० ण ।

दूरपातिनि अस्त्रे णिनि दूरापातिन् तत्रार्थे हेमच० ।

दूरूढा स्त्री दुर् + रुह--क्त रेफे परे पूर्वाणो दीर्घः । दुस्थतया

रूढे जाते क्षुद्ररोगशब्दे ३३८ पृ० दृश्यम् ।

दूरेअमित्र पु० दूरेअमित्रः शत्रुर्यस्य वेदे सप्तम्याः अलुक्

प्रकृतिभावः । एकोनपञ्चाशन्मरुन्मध्ये मरुद्भेदे । ते च
यजु० १७ अ० । १ मन्त्रादौ ८० मन्त्रान्ते शुक्रज्योतिश्चेत्या-
दयोदर्शिताः । “अग्निमित्रश्च दूरेअमित्रश्च गणः” ८ म०

दूरेत्य त्रि० दूरे भवः एत्य । दूरभवे

दूरेपाक त्रि० दूरे पचति पच--ण न्यङ्क्वा० कुत्वम्

सप्तम्या अलुक् स० । दूरे पाचके स्त्रियां टाप् । तत्रैव गणे
स्त्रीत्वेनापि निर्देशात् लिङ्गविशिष्टपरिभाषाया अनि
त्यत्वं ज्ञापितम् ।

दूरेपाकु त्रि० पच--उण् न्यङ्क्वा० कुत्वम् अलुक् स० । दूरेपाचके ।

दूरेरितेक्षण त्रि० दूरे ईरितमीक्षणं येन । दूरपर्यन्तप्रेरित

दर्शने केकरे (टेरा) शब्दमाला ।

दूरोहं पु० दुःखेन रुह्यतेऽसौ दुर् + रुह--कर्मणि खल्

रेफे परे पूर्वाणो दीर्घः । दुःखेन रोहणीये रोढुमशक्ये
आदित्ये लोके तस्य निष्कामज्योतिष्टोमादियज्ञप्रयास-
जातज्ञानेन साध्यरोहणत्वात् दूरोहत्वम् । “असौ वै
दूरोहो योऽसौ तपतीति” ऐत० ४ । ३० श्रुतेस्तस्य
तथात्वम् । २ दूरारोहमात्रे त्रि० ।

दूरोहण त्रि० दुःष्करमारोहणमस्य प्रा० ब० । आदित्ये दूरोह

शब्दे तस्य तथात्वं दृश्यम् २ छन्दोमेदे न० । असौ वा
आदित्यो दूरोहणं छन्दः” इति श्रुतिः । “दुरोहणं
छन्दः” यजु० १० । ५ छान्दसं क्लीवत्वम् । ३ दूरारोहणीये
त्रि० दुःखेन रोहणं वा । ४ दुःसाध्ये रोहणे ५ तच्छन्दस्क
मन्त्रस्याभ्यासभेदे च यथोक्तं आश्व० श्रौतसूत्रे
“हंसः शुचिषदिति पच्छोऽर्धर्चशस्त्रिपद्या चतुर्थ
मनबानमुक्त्वा प्रणुत्यावस्येत् । पुनस्त्रिपद्याऽर्धर्चशः पच्छ
एव सप्तमम्” ८ । २ । १४ “एतामृचमित्थं शंसेत् । प्रथमं
पच्छः द्वितीयमर्धर्चशः । तृतीयं त्रिभिः पादैरवसाय
उत्तमेन पादेन प्रणुत्य चतुर्थमनवानमुक्त्वा प्रणवेनाव
स्येत् । एतदारोहणम् । अथावहोरणम् । पुनस्त्रि-
पृष्ठ ३६५८
पद्येत्येवमादिनोक्तं पञ्चमम् । अर्धर्चशः षष्ठं, पुनः पच्छः
सप्तमम् । एतत् दूरोहणं भवति । सप्तमवाननिय-
मेन ऋक् सप्तकृत्वोऽभ्यस्ता दूरोहणमिति ज्ञापनार्थम् ।
एवकारः पौनर्वचनिकः” नारा० “एतत् दूरोहणम्”
८ । २ । १५ दूरोहणमिति प्रकृते पुनर्दूरोहणवचनं द्विविधं
दूरोहणमस्तीति प्रदर्शनार्थं तेन स्वर्गकामस्य चतुरभ्य-
स्तेन दूरोहणं भवति” नारा० ।

दूर्य न० दूरे उत्सार्यम् दूर + यत् । १ पुरीषे विष्ठायाम् शब्दर०

“ततः कल्यं समुत्थाय कुर्यान्मैत्रं नरेश्वर! । नैरृत्या-
मिषुविक्षेपमतीत्याभ्यधिकं भुवः” विष्णुपु० तस्येषुविक्षेप-
स्थानाति कमेण त्यागविधानेन दूरोत्सार्यत्वात् तथात्वम् ।
दूराय रोगदूरीकरणाय साधु यत् । २ शठ्याम् राजनि० ।

दूर्वा स्त्री दूर्वति रोगान् अनिष्टं वा दुर्व--हिंसायाम् अच्

रेफे परे पूर्वाणी दीर्घः । १ स्वनामख्याते घासभेदे तद्भेदा-
दिकं भावप्र० उक्तं यथा
“नीलदूर्वा रुहानता भार्गवी शतपर्विका । शष्यं
सहस्रवीर्य्या च शतवल्ली च कीर्तिता । नीलदूर्वा हिमा
तिक्ता मधुरा तुवरा हरेत् । कफपित्तास्रवीसर्प
तृष्णादाहत्वगामयान्” । श्वेतदूर्वा “दूर्वा शुक्ला तु
गोलोमी शतवीर्या च कथ्यते । श्वेतदूर्वा कषाया स्यात्
स्वाद्वी व्रण्या च जीवनी । तिक्ता हिमा विसर्पास्नतृट्
पित्तकफदाहहृत्” । गण्डदूर्वा
“गण्डदूर्वा तु गण्डाली मत्स्याक्षी शकुलाक्षकः । गण्ड
दूर्वा हिता लोहद्राविणी ग्राहिणी लघुः । तिक्ता
कषाया मधुरा वातकृत् कटुपाकिनी । दाहतृष्णावला-
सास्रकुष्ठपित्तज्वरापहा” । तस्या उत्पत्तिकथा
भविष्योत्तरे “क्षीरोदसागरे पूर्वं मथ्यमानेऽमृतार्थिना ।
विष्णुना बाहुजङ्घाभ्यां विधृत्य मन्दरं गिरिम् । भ्रमता
तेन वेगेन लोमान्याघर्षितानि वै । ऊर्मिभिस्तानि
रोमाणि चोत्क्षिप्तानि तटान्तरे । अजायत शुभा दूर्वा
रम्या हरितशाद्वला । एवमेषा समुत्पन्ना दूर्वा विष्णु
तनूद्भवा । तस्या उपरि विन्यस्तं मथितामृतमुत्तमम् ।
देवदानवगन्धर्वयक्षविद्याधरोरगैः । तत्र येऽमृतकु-
म्भस्य निपेतुर्वारिविन्दवः । तैरियं स्पर्शमासाद्य दूर्वा
चैवाजराऽमरा । वन्द्या पवित्रा देवैस्तु सर्वदाभ्यर्चिता
तथा” । “दूर्वा दहति पापानि धात्री हरति
पातकम् । हरीतकी हरेद्रोगं तुलसी हरते त्रयम्” विष्णु-
धर्मोत्तरे । दूर्वा पूज्यत्वेनास्त्यस्याम् अर्श० अच् । २ भाद्र-
शुक्लाष्टम्यां तद्दिने दूर्वायाः पूजाविधानात् तस्याः तथात्वम्
“श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्धैव
कर्त्तव्या शिवरात्रिर्वलेर्दिनम्” कालमाधवीयधृतवाक्यम्
व्रतशब्दे दूर्वाष्टमीव्रते तत्पूजाविधानं दृश्यम् । ततः समूहे
काण्डच् । दूर्वाकाण्ड दूर्वासमूहे न० “दूर्वाकाण्डमिव
श्यामा” भट्टिः । दूर्वया दुर्गापूजननिषेधः “अक्षतैर्नार्च-
येत् विष्णुं न तुलस्या विनायकम् । न दूर्व्या यजेत्
दुर्गां नोन्मत्तेन दिवाकरम्” आगमः । दूर्गायै
अर्व्यान्तर्वर्त्तिदूर्वादानं तु न निषिद्धमिति तु तत्त्वम् ।
जनमेजयवंश्ये ३ नृपभेदे पु० “नृपञ्जयस्ततो दूर्वस्तिमि-
स्तस्माज्जनिष्यति” भाग० ९ । २२ । २९

दूर्वाक्षी स्त्री वसुदेवभ्रातृभेदस्य वृकस्य पत्न्याम् “तक्षपुष्कर-

मालादीन् दूर्वाक्ष्यां वृक आदधे” भाग० ९ । २४ । २३ श्लो०

दूर्वाद्यघृत न० चक्रदत्तोक्ते घृतभेदे तत्पाकविधिस्तत्रोक्तो यथा

“दूर्वा सोत्पलकिञ्जल्का मञ्जिष्ठा सैलवालुका । सिता
शीतमुशीरञ्च मुस्तं चन्दनपद्मकौ । विपचेत् कार्षिकै
रेतैः सर्पिराजं सुखाग्निना । तण्डुलाम्बु त्वजाक्षीरं
दत्त्वा चैव चतुर्गुणम् । तत्पानं वमतो रक्तं प्लावनं
नासिकागते । कर्णाभ्यां यस्य गच्छेत् तु तस्य कर्णे
प्रपूरयेत् । चक्षुःस्राविणि रक्ते तु पूरयेत् तेन चक्षुषोः ।
मेढ्रपायुप्रवर्त्ते तु वस्तिकर्मसु योजयेत् । रोमकूपप्रवृत्ते
तु तदभ्यङ्गे प्रयोजयेत्” ।

दूर्वाष्टमी स्त्री दूर्वाप्रिया तत्पूजाङ्गत्वात् अष्टमी ॥ भाद्रशु

क्लाष्टम्याम् तस्या उभयदिनव्याप्तौ पूर्वदिने पूजा “श्रावणी
दौर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्धैव कर्त्तव्या
शिवरात्रिर्बलेर्दिनम्” ति० त० धृतवचनात् । दूर्वापूजा-
प्रकारश्च त्रिविधः हेमा० व्रतख० उक्तः व्रतशब्दे दृश्यः
गौडदेशे तु भविष्योत्तरपुराणोक्तस्तत्प्रकारः प्रचलितः ।

दूर्वासोम पु० सुश्रुतोक्ते रसायनाङ्गे सोमलताभेदे यथोक्तं

तत्र उत्तरतन्त्रे
“अंशुमान्मुञ्जवांश्चैव चन्द्रमा रजतप्रभः । दूर्वा-
सोमः कनीयांश्च श्वेताक्षः कनकप्रभः । प्रतानवांस्ताल-
वृन्तः करवीरोंऽशवानपि । स्वयस्प्रभो महासोमो यश्चापि
गरुड़ाहृतः । गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः
शाङ्करस्तथा । अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः ।
गायत्र्या त्रिपदा युक्तो यश्चोडुपतिरुच्यते । एते सोमाः
समाख्याता वेदोक्तैर्नामभिःपुनः । सर्वेषामेव चैतेषामेको
विधिरुपासने । सर्वे तुल्यगुणाश्चैव विधानं ते
पृष्ठ ३६५९
वक्ष्यते” । “अतोऽन्यतमं सोममुपयुयुक्षः सर्वप्रकारपरि-
चारकोपेतः प्रशस्तदेशे त्रिवृतमगारं कारयित्वा हृतदोषः
प्रतिसंसृष्टः प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु अशुं-
मन्तमादायाध्वरकल्पेनाहृतमभिषुतमभिहुतं चान्तरान्तरा-
कृतमङ्गलः सोमकन्दं सुवर्णसूच्या विदार्य्य पयोगृह्णीया-
त्सौवर्णे पात्रेऽञ्जलिमात्रं, ततः सकृदेवोपयुञ्जीत नास्वा-
दयंस्ततौपस्पृश्य शेषमप्स्ववसाद्य यमनियमाभ्यामात्मानं
संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत्” ।

दूर्वेष्टका स्त्री यज्ञाङ्गे चितिरूपेष्टकाभेदे “तमग्निरब्रवीत् ।

उपाहमायानीति केनेति पशुभिरिति तथेति पश्विष्ट
कयाह तदुवाचैषा वाव पश्विष्टका यद्दूर्वेष्टका तस्मात्
प्रथमायै स्वयमातृण्णाया अनन्तर्हिता दूर्वेष्टकोपधीयते
तस्मादस्या अनन्तर्हिता ओषधयोऽनन्तर्हिताः पशवो
ऽनन्तर्हितोऽग्निरनन्तर्हितो ह्येष एतयोपैत्” शत०
व्रा० ६ । २ । ३ । २ ।

दूलाश त्रि० दूडाश + डस्य वा लः । दुःखेन हिंस्ये ।

दूली स्त्री दूरं दूरताऽस्त्यस्याः अच्, दू--खेदे सम्प० भावे क्विप्

तां राति ददाति वा रा--क रस्य लः दुरे खेदाय-
लायते गृह्यते ला--क घञर्थे क वा गौरा० ङीष् ।
नील्यां शब्दर० । “शृणुष्वेह महाबाहो नीलीरक्तस्य
धारणात् । वाससोगणशार्दूल! गदतो मम कृत्स्नशः ।
पालनाद्विक्रयाच्चैव तद्वृत्तेरुपजीवनात् । पतितस्तु
भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुध्यति” भविष्यपु० तस्यावपन-
क्रयादेर्निषेधेन दूरीकार्यत्वात् तथात्वम् तदुपजीवने च
पापोत्पादनेन तस्याः दुःखहेतुत्वात् वा तथात्वम् ।
स्वार्थे क । दूलिका तत्रार्थे

दूश्य न० दू--खेदे सम्पदा० भावे क्विप् तां श्यायते गमयति

अन्तर्भूतण्यर्थे श्यै--गतौ क । वस्त्रनिर्मिते गृहे (ताँवु)
सारसुन्दरी ।

दूषक त्रि० दुष--णिच्--ण्वुल् । १ दोषजनके “दूषकतावी-

जानिरुक्तेः” सर्वदर्शसंग्रहः “वेदविक्रयिणश्चैव वेदानां
चैव दूषकाः । वेदानां निन्दकाश्चैव ते वै निरयगामिनः”
भा० अनु० १६४४ श्लो० । “पाषण्डाऽदूषकाश्चैव समजा-
नाञ्च दूषकाः । ये प्रत्यवसिताश्चैव ते वै निरयगामिनः”
भा० अनु० १६४९ श्लो० । “कूटशासनकर्तॄंश्च प्रकृती-
नाञ्च दूषकान्” (हन्यात्) मनुः । २ खले च त्रिका०

दूषण न० दूषि--भावे ल्युट् । सदोषतासम्पादने “दूष्यस्या-

दूषणार्थं च परित्यागो महीयसः । अर्थस्य नीति-
तत्त्वज्ञैरर्थदूषणमुच्यते” काम० नी० दूषि--कर्तरि ल्यु ।
२ दीषजनके त्रि० “पानं दुर्जनसंसर्गः पत्या च विरहो-
ऽटनम् । स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि च”
मनुः । ३ राक्षसभेदे पु० खरशब्दे २४६६ पृ० उदा०

दूषणारि पु० ६ त० । श्रीरामे शब्दरत्ना० तस्य रामेण

बधकथा खरशब्दे २४६६ पृ० दृश्या ।

दूषयित्नु त्रि० दूषि--शीलार्थे इत्नुच् । दूषणशीले

दूषि(षी) स्त्री दूषि--इन् । नेत्रमले (पँचुटि) शब्दमा० वा ङीप् ।

दूषिका स्त्री दूषि + स्वार्थे क ण्वुल् वा । १ नेत्रमले (पिँचुटि)

२ तूलिकायां मेदि० । ३ दूषणकर्त्त्र्यां स्त्रियाञ्च । दूषी +
स्वार्थे क वा न ह्रस्वः । तत्रार्थे “वयसा प्रष्वा अश्रु-
भिर्ह्रादिनीर्दूषीकाभिः” । यजु० २५ । ९ “शाल्मली
कण्टकप्रख्याः कफमारुतशोणितैः । जायन्ते पिडका
यूनां वक्त्रे या मुखदूषिका” सुश्रुतः “स्त्रियास्तथाऽपचा-
रिण्या निष्कृतिः स्याददूषिका” भा० शा० ३४ अ० पुंसि
तु ण्वुलि दूषक इत्येव । “नह्यहं प्रकृतिद्वषी नाहं
प्रकृतिदूषकः” हरिबं० १८९ अ०

दूषित त्रि० दूषि--क्त । १ दत्तदूषणे २ प्राप्तदूषणे ३ अभिशस्ते

मैथुनापवादयुक्ते ४ नष्टकन्याभावायां स्त्रियां स्त्री
शब्दरत्ना० ।

दूषीविष न० दूषयति दूषि--बा० ई कर्म० । सुश्रुतोक्ते धातु

दूषके विषभेदे यथा “यत् स्थावरं जङ्गमकृत्रिमं वा देहा
दशेषं यदनिर्गतं तत् । जीर्णं विषघ्नौषधिभिर्हतं वा
दावाग्निवातातपशोषितं वा । स्वभावतो वा गुणविप्र-
हीनं विषं हि दूषीविषतामुपैति । वीर्याल्पभावान्न
निपातयेत्तत् कफावृतं वर्षगुणानुबन्धि । तेनार्द्दितो
भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी । मूर्च्छत्
वमन् गद्गदवाग्विषण्णो भवेच्च दूष्योदरलिङ्गजुष्टः ।
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी ।
भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ।
स्थितं रसादिष्वथ वा यथोक्तान् करोति धातुप्रभवान्
विकारान् । कोपञ्च शीतानिलदुर्दिनेषु यात्याशु पूर्वं
शृणु तत्र रूपम् । निद्रागुरुत्वञ्च विजृम्भणञ्च विश्लेष-
हर्षावयवाङ्गमर्द्दः । ततः करोत्यन्नमदाविपाकावरो-
चकं मण्डलकोठमेहान् । धातुक्षयं पादकरास्यशोफं
दकीदरं छर्दिमथातिसारम् । वैवर्ण्यमूर्च्छाविषमज्वरा-
न्वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा । उन्मादमन्यज्ज-
नयेत्तथान्यदानाहमन्यत् क्षपयेच्च शुक्रम् । प्रगाढमन्य-
पृष्ठ ३६६०
ज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान् । दूषितं
देशकालान्न दिवास्वप्नैरभीक्ष्णशः । यस्माद्दूषयते
धातून् तस्माद्दूषीविषं स्मृतम्”

दूष्य त्रि० दूषि--कर्मणि ण्यत् । १ दूषणीये “दूष्यं वचो मम

पुनर्निपुणं विभाव्य” अनुमानदीधितिः । “राज्योपघातं
कुर्वाणा ये पापाचारवल्लभाः । एकैकशः संहता वा
दूष्यांस्तान् परिचक्षते” कामन्दकी० उक्ते २ राज्योप-
घातके । ३ वस्त्रे ४ वस्त्रगृहे न० मेदि० ५ पूये न० हेमच०
६ हस्तिवन्धरज्ज्वाम् स्त्री हेमच० ।

दूष्युदर न० दूषिभिर्दोर्षैः कृतमुदरं तन्नामा रोगः । सुश्रुतोक्ते

दोषकृते उदररीगभेदे तन्निदानादि तत्रोक्तम् उदरशब्दे
११४९ पृ० दर्शितम् “प्रकीर्तितं दूष्युदरन्तु घोरम्” सुश्रुतः

दृ आदरे तु० आ० सक० अनिट् । द्रियते अदृत । अयमाङ्

पूर्व एव प्रयुज्यते । “निपीय यस्य क्षितिरक्षिणः
कथां तथाऽऽद्रियन्ते न बुधाः सुधामपि” नैष०
आदृतः आदरः । “दरादराभ्यां दरकम्पिनी पपे” नैष०
“न जातहार्द्देन न विद्विषादरः” किरा० “आदृत्यस्तेन
वृत्येन” भट्टिः ।

दृ बधे स्वादि० पर० सक० अनिट् । दृणोति अदार्षीत् ददार

स्वादिगणे छन्दसीत्यधिकारे “विक्षि जिरि दाश दृ--हिं-
सायाम्” पा० उक्तेः छान्दसोऽयम् । “क्षिणोतिर्भाषा-
यामपीत्येके” सि० कौ० उक्तेः अन्यस्यापि क्वचिद्भाषायां
प्रयोग इति गम्यते मत्स्यघातिनि धीवरे दाशशब्दप्र-
योगात् ।

दृक न० दॄ + विदारे बा० कक् ह्रस्वश्च न कित्त्वम् । छिद्रे संक्षिप्तसारे

दृकाण न० ज्योतिषोक्ते राशेस्तृतीये दशांशरूपे अशे द्रेक्काणे

“त्रिंशत्सभे विंशतिरुच्चमे स्वे हद्देऽक्षिचन्द्रादशकं दृकाणे”
नोल० ता० पञ्चवर्गीबलकथने दृक्काणशब्दे विवृतिः ।

दृक्कर्ण पुंस्त्री० दृक् नेत्रमेव कर्णोऽस्य । सर्पे हेमच० स्त्रियां

जातित्वात् ङीष् ।

दृक्कर्म्मन् न० दृगर्थं दृष्ट्यर्थं कर्म । ग्रहाणां दर्शनयोग्यता-

ज्ञानार्थे सू० सि० उक्तेः कर्मभेदे तच्च ग्रहनक्षत्रयोगा-
द्युपयोगि संस्कारभेदरूपं यथाह तत्र
“नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने । शृङ्गोन्नतौ तु
चन्द्रस्य दृक्कर्मादाविदं स्मृतम्” सू० सि० “अत्र निमित्तस-
प्तनी ग्रहनक्षत्राणां बहुत्वाद्वहुवचनम् । नक्षत्रग्रह-
योर्युत्थर्थं नक्षत्रग्रहयोरिदं द्वयं दृक्कर्म स्मृतं प्रागुक्तम्
आदौ प्रथमं कार्यम् । ताभ्यामनन्तरं क्रिया कार्ये-
त्यर्थः । अत्र नक्षत्रध्रुवकाणामायनदृक्कर्मसंस्कृतानामे-
वोक्तत्वादायनं दृक्कर्म न कार्यमिति ध्येयम् । ग्रहा-
णामस्तोदयौ नित्यास्तोदयौ सूर्यसान्निध्यजनितास्तोदयौ
च ग्रहाणामुपलक्षणत्वान्नक्षत्राणामपि । तयोः साधन-
निमित्तं ग्रहस्य नक्षत्रस्य वा देयम् । अत्राक्षदृक्कर्मार्थं
केवलः शरः साध्यः । न तु दिनमानरात्रिमाननतोन्नते
साध्ये । क्षितिजसम्बन्धेन दृग्ग्रहरूपोदयास्तलग्नस्या-
वश्यकत्वेन क्षितिजातिरिक्तायनपरिणामस्य व्यर्थत्वात्
युतौ तु समप्रोतचलवृत्ते युगपद्दर्शनार्थं तत्परिणामस्या-
वश्यकत्वात् । शृङ्गोन्नतिनिमित्तं चन्द्रस्य । तुकारः
समुच्चयार्थकश्चकारपरः । अत्रापि श्लोके पूर्वार्द्धोक्तमाक्ष-
दृक्कर्म संस्कार्यमिति ध्येयम्” । रङ्गना०
दृक्कर्म द्विविधम् आयनमक्षजञ्च तत्रायनदृक्कर्मायनशब्दे
७७१ पृ० सि० शि० उक्तं दर्शितम् अक्षजं दृक्कर्मोच्यते
“इदानीमक्षजं दृक्कर्माह प्रसि० “स्फुटास्फुटक्रान्ति-
जयोश्चरार्धयोः समान्यदिक्त्वेऽन्तरयोगजासवः । पलोद्भ-
वाख्या भनभःसदां शरे महत्यथाल्पे यदि वा स्युरन्यथा ।
स्पष्टेषुरक्षवलनेन हती विभक्तो लम्बज्यया रविहृतोऽ-
क्षभया हतो वा । लब्धं हतं त्रिभगुणेन हृतं द्युमौर्व्या
स्युर्वाऽसवः पलभवा अथ तैः शरे तु । याम्योत्तरे क्रम-
विलोमविधानलग्नं खेटात् कृतायनफलादुदयाख्यलग्नम् ।
सौम्ये क्रमेण विपरीतमिषौ तु याम्ये भार्धाधिकात्
खचरतोऽस्तविलग्नमेवम्” मू० । “ग्रहस्य स्फुटक्रान्तेर-
स्फुटक्रान्तेश्चरार्धे साध्ये । यदि स्फुटास्फुटक्रान्ती
तुल्यदिक्के तदा चरार्धयोरन्तरं कार्यम् । यदि भिन्न-
दिक्के तदा योगः । एवं येऽसवो भवेयुस्ते पलोद्भवा
ज्ञेयाः । ग्रहस्य भस्य वा यदा महांश्छरस्तदैवम् ।
यदाल्पस्तदान्यथा वा पलोद्भवासुवः साध्याः । ग्रहस्य
स्पष्टः शरोऽक्षवलनेन गुण्यो लम्बज्यया भाज्यः ।
अथ वा अक्षभया गुणितो द्वादशभिर्भाज्यः । यल्लब्धं
तत् त्रिज्यया गुण्यं द्युज्यया भाज्यं फलं पलीद्भवा
असवो भवन्तीत्यनुकल्पः । अथ कृतायनदृक्कर्मकं ग्रहं
रविं प्रकल्प्य तैः पलोद्भवासुभिर्लग्नं साध्यम् । यदि
ग्रहस्य याम्यः शरस्तदा क्रमविलग्नम् । यदि सौम्य-
स्तदा विलीमलग्नम् । एवं कृते सति ग्रहस्योदयलग्नं
भवति । अथ तमेव ग्रहं सभार्धं रविं प्रकल्प तैरेवा-
सुभिरुत्तरे शरे यत् क्रमलग्नं याम्ये विलोमं क्रियते
तद्ग्रहस्यास्तलग्नम्” । “अत्रोपपत्तिः । अत्र गोले विषु-
पृष्ठ ३६६१
वन्मण्डलं स्वाक्षांशैर्यावन्नामितं तावदुन्मण्डलमुत्तरगोले
क्षितिजादुपरि लगति याम्येऽधः । यतस्तत्रस्थो ग्रहः
स्वचरार्धासुभिरुन्नतिं नतिं च गतः । अतश्चरार्द्धस्य या
वासना सैव पलोद्भवासूनाम् । स्फुटास्फुटक्रान्तिजयो-
श्चरार्धयोरन्तरे यावन्तीऽसवस्तावन्तः शरभवा इत्यर्था-
ज्जातम् । यतस्तयोरन्तरं शर एवं तुल्यदिक्त्वे । यदा
महता शरेणान्यदिक्त्वं नीता क्रान्तिस्तदा शरस्यैकं
खण्डमुत्तरतोऽन्यद्दक्षिणतः । तयोर्योगे यतः शरी
भवति । अतस्तज्जनितयोश्चरार्धयोर्योगे शरजनिताः
पलोद्भवासवः स्युः । एवं हि सहति शरे । अथाल्पे ।
ग्रहः किलोत्तरगोल उत्तरश्च तस्य शरस्तदाक्षवशाच्छ-
रेण ग्रहस्य तदुन्नमनं तत् त्रैराशिकेन साध्यते । यदि
लम्बज्यया कोट्याऽक्षवलनतुल्यो भुजस्तदा स्फुटशरतु-
ल्यया किमिति । अत्र यत् फलं तद्ग्रहद्युज्यावृत्ते
ज्यारूपं भवति । अथ वा लघुना क्षेत्रेणानुपातः ।
यदि द्वादशाङ्गुलकोट्या पलभा भुजस्तदा स्फुटशरकोट्या
किमिति । फलं तुल्यमेव । अथ त्रिज्यावृत्त
परिणामायानुपातः । यदि द्युज्यावृत्त एतावती ज्या तदा
त्रिज्यावृत्ते कियतीति । फलस्य धनुः कर्तुं युज्यते ।
तच्छरस्याल्पत्वान्नोपपद्यत इति न कृतम् । आयनदृक्क-
र्मण्यस्फुटविक्षेपादसवः साधिताः इह तु स्फुटात् ।
तत्र कारणमुच्यते । तेन दृक्कर्भणा निरक्षदेशक्षिति-
जस्थो ग्रहः कृतः । तत् क्षितिजमन्यदेश उन्मण्डलम् ।
शरमूले यद्द्युज्यावृत्तं शराग्रे च यत् तयोर्वृत्तयोरुन्म-
ण्डले यावदन्तरं तावान् स्फुटः शरः । स तु कोटि-
रूपः । अतोऽत्र कोटिरूपेण पलोद्भवा असवः साधिताः
कृतायनदृक्कर्मको ग्रहोऽक्षवशात् प्रागुदित उदेष्यति वा
यैरसुभिस्तेऽत्र पलोद्भवाख्याः । अथ याम्ये शरे
तैरसुभिः क्षितिजादधःस्थो ग्रहो यावदुपरि क्षितिजं नीयते
तावत् कृतायनदृक्कर्मग्रहादग्रतः क्रान्तिवृत्तं क्षितिजे
लगति । यदि सौम्यः शरस्तदा तैरसुभिः क्षितिजादु-
परिस्थो ग्रहः क्षितिजं यावदधो नीयते तावत् कृता-
यनदृक्कर्मकाद्ग्रहात् पृष्ठतः क्रान्तिवृत्तं क्षितिजे लगति ।
अत उक्तं शरे याम्योत्तरे क्रमविलोमविधानलग्नमि-
त्यादि । एवं कृते उदयलग्नं जातम् । अस्मादुदय-
लग्नसाधनाद्व्यस्तमस्तलग्नसाधनम् । यतो यैरसुभिर्वि-
क्षेपेण प्राच्यां ग्रहः क्षितिजादुन्नाम्यते तैरेव प्रतीच्यां
नाम्यते । यैर्नाम्यते तैरेवोन्नाम्यते । अथ प्रतीच्यां
ग्रहेऽस्तं गच्छति प्राच्यां यल्लग्नमुदेति तदस्तलग्नम् ।
अतो भार्धाधिकात् खचरत इत्युक्तम् । इदं सर्वं
गोलोपरि सम्यग्दृश्यते” ।

दृक्काण न० ज्यो० उक्ते राशेर्दशांशरूपे तृतीयांशे द्रेक्काणे तथा

च एकैकराशौ त्रंयो द्रेक्काणास्तेन द्वादशराशिषु ३६
द्रेकाणा भवन्ति मेषादिराशिस्थानां तेषां षट्त्रिंशतः-
क्रमेण स्वरूपाणि वृहज्जा० ३६ श्लोकैरुक्तानि यथा
“कट्यां सितवस्त्रवेष्टितः कृष्णः शक्त इवाभिरक्षितुम् ।
रौद्रः परशुं समुद्यतं धत्ते रक्तविलोचनः पुमान् १ ।
रक्ताम्बराभूषणभक्ष्यचित्ता कुम्भाकृतिर्वाजिमुखी तृषार्त्ता ।
एकेन पादेन च मेषमध्ये दृक्काणरूपं यवनोपदिष्टम् २ ।
क्रूरः कलाज्ञः कपिलः क्रियार्थी भग्नव्रतोऽभ्युद्यत
दण्डहस्तः । रक्तानि वस्त्राणि बिभर्त्ति चण्डो मेषे
तृतीयः कथितस्त्रिभागः ३ । कुञ्चितलूनकचा घटदेहा-
दग्धपटा तृषिताशनचित्ता । आभरणान्यभिवाञ्छति
नारी रूपमिदं वृषभे प्रथमस्य ४ । क्षेत्रधान्यगृहधेनु-
कलाज्ञो लाङ्गले सशकटे कुशलश्च । स्कन्धमुद्वहति
गोपतितुल्यं क्षुत्परोऽजदनो मलवासाः ५ । द्विपसमकायः
पाण्डुरदंष्ट्रः शरभसमाङ्घ्रिः पिङ्गलमूर्तिः । अविमृग-
लोभव्याकुलचित्तो वृषभवनस्य प्रान्तगतोयम् ६ । सूच्या-
श्रयं समभिवाञ्छति कर्म नारी रूपान्विता ऽऽभरणकार्य-
कृतादरा च । हीनप्रजोच्छ्रितभुजर्तुमती त्रिभाग-
माद्यं तृतीयभवनस्य वदन्ति तज्ज्ञाः ७ । उद्यानसंस्थः
कवची धनुष्मान् शूरोऽस्त्रधारी गरुड़ाननश्च । क्रीड़ा-
त्मजालङ्करणार्थचिन्तां करोति मध्ये मिथुनस्य राशेः ८ ।
भूषितो वरुणवद्बहुरत्नो बद्धतूणकवचः सधनष्कः ।
नृत्यवादनकलासु च विद्वान् काव्यकृन्मिथुनराश्यवसाने ९ ।
पत्रमूलफलभृद्द्विपकायः कानने मलयगः शरभाङ्घ्रिः ।
क्रोड़तुल्यवदनो हयकण्ठः कर्कटे प्रथमरूपमुशन्ति १० ।
पद्मार्चिता मूर्द्धनि भोगियुक्ता स्त्री कर्कशारण्यगता
विरौति । शाखां पलाशस्य समाश्रिता च मध्ये स्थिता
कर्कटकस्य राशेः ११ । भार्याभरणार्थसर्णवं नौस्थो गच्छति
सर्पवेष्टितः । हैमैश्च युतो विभूषणैश्चिपिटास्योऽन्त्यगतश्च
कर्कटे १२ । शाल्मलेरुपरि गृध्रजम्बुकौ श्वा नरश्च
मलिनाम्बरान्वितः । रौति मातृपितृविप्रयोजितः
सिंहरूपमिदमाद्यमुच्यते १३ । हयाकृतिः पाण्डुरमाल्य-
शेखरो बिभर्ति कृष्णाजिनकम्बलं नरः । दुरासदः
सिंह इवात्तकार्मुको नताग्रनासो मृगराजमध्यमः १४ ।
पृष्ठ ३६६२
ऋक्षाननो वानरतुल्यचेष्टो बिभर्त्ति दण्डं फलमामिषं
च । कूर्ची मनुष्यः कुटिलैश्च केशैर्मृगेश्वरस्यान्तगतस्त्रि-
भागः १५ । पुष्पप्रपूर्णेन घटेन कन्या मलप्रदिग्धाम्बर-
संवृताङ्गी । वस्त्रार्थसंयोगमभीष्टमाना गुरीः कुलं
वाञ्छति कन्यकाद्यः १६ । पुरुषः प्रगृहीतलेखनिः श्यामो
वस्त्रशिरा व्ययायकृत् । विपुलं च बिभर्त्ति कार्मुकं
रोमव्याप्ततनुश्च मध्यमः १७ । गौरी सुधौताग्र्यदुकूल-
गुप्ता समुच्छ्रिता कुम्भकटाहहस्ता । देवालयं स्त्री प्रयता
प्रवृत्ता वदन्ति कन्यान्त्यगतन्त्रिमागम् १८ । वीथ्यन्तरा-
पणगतः पुरुषस्तुलावानुन्मानमानकुशलः प्रतिमानहस्तः ।
भाण्डं विचिन्तयति तस्य च मूल्यमेतद्रूपं वदन्ति यवनाः
प्रथमं तुलायाः १९ । कलशं परिगृह्य विनिःपतितुं
समभीप्सति गृध्रमुखः पुरुषः । क्षुधितस्तृषितश्च कलत्र-
सुतान्मनसैति तुलाधरमध्यगतः २० । विभीषयन् तिष्ठति
रत्नचित्रितो वने मृगान् काञ्चनतूणवर्मभृत् ।
फलामिषं वानररूपभृन्नरस्तुलावसाने यवनैरुदाहृतः २१ । वस्त्रै-
र्विहीनाऽऽभरणैश्च नारी महासमुद्रात् समुपैति कूलम् ।
स्थानच्युता सर्पनिबद्धपादा मनोरमा वृश्चिकराशिपूर्वः ।
स्थानसुखान्यभिवाञ्छति नारी भर्तृकृते भुजगावृतदेहा ।
कच्छपकुम्भसमानशरीरा वृश्चिकमध्यमरूपमुशन्ति २३ । पृथु-
लचिपिटकूर्मतुल्यवक्त्रः श्वमृगवराहशृगालभीषकारी ।
अवति च मलयाकरप्रदेशं मृगपतिरन्त्यगतय्स वृश्चि-
कस्य २४ । मनुष्यवक्त्रोऽश्वसमानकायो धनुर्विगृह्याय-
तमाश्रमस्थः । क्रतूपयोज्यानि तपस्विनश्च ररक्ष पूर्वो
धनुषस्त्रिभागः २५ । मनोरमा चम्पकहेमवर्णा भद्रासने
तिष्ठति मध्यरूपा । समुद्ररत्नानि विघट्टयन्ती मध्युअत्रि-
भागी धनुषः प्रदिष्टः २६ । कूर्ची नरोहाटकचम्पका-
भोवरासने दण्डधरो निषण्णः । कौशेयकान्युद्वहतेऽ-
जिनं च तृतीयरूपं नवमस्य राशेः २७ । रोमचितोम-
करोपमदंष्ट्रः सूकरकायसमानशरीरः । योक्त्रकजालक-
बन्धनधारी रौद्रमुखो मकरप्रथमस्तु २८ । कलास्वभि-
ज्ञाब्जदलायताक्षी श्यामा विचित्राणि च मार्गभाणा ।
विभूषणालङ्कृतलोहकर्णा योषा प्रदिष्टा मकरस्य
मध्ये २९ । किन्नरोपमतनुः सकम्बलस्तूणचापकवचैः
समन्वितः । कुम्भमुद्वहति रत्नचित्रितं स्कन्धगं
मकरराशिपश्चिमः ३० । स्नेहमद्यजलभोजनागमव्याकुली-
कृतमनाः सकम्बलः । कोशकारवसनोऽजिनान्वितो गृध्र-
तुल्यवदनो घटादिगः ३१ । दग्धे शकटे सशाल्मले लो-
हान्याहरतेऽङ्गना वने । मलिनेन पटेन संवृता भाण्डै-
मूर्ध्निगतैश्च मध्यमः ३२ । श्यामः सरोमश्रवणः किरीटी
त्वक्पत्रनिर्यासफलैर्बिभर्ति । भाण्डानि लोहैरति-
मिश्रितानि सञ्चारयत्यन्तगतो घटस्य ३३ । स्रुग्भाण्ड-
मुक्तामणिशङ्खमिश्रे व्याक्षिप्तहस्तः सविभूषणश्च । भार्या-
विभूषार्थमपां निधानं नावा प्लवत्यादिगतो झषस्य ३४ ।
अत्युच्छ्रितध्वजपताकमुपैति पोतं कूलं प्रयाति जलधेः
परिवारयुक्ता । वर्णेन चम्पकमुखा प्रमदा त्रिभागो
मीनस्य चैष कथितो मुनिभिर्द्वितीयः ३५ । श्वभ्रान्तिके
सर्पनिवेष्टिताङ्गोवस्त्रैर्विहीनः पुरुषस्त्वटव्याम् । चौरा-
नलव्याकुलितान्तरात्मा विक्रोशतेऽन्त्योपगतो झषस्य ३६ ।”
एतेषां स्वरूपोत्कीर्त्तनेन नष्टजातकोद्धारः तत्रैव दर्शितः
तथा षट्पञ्चाशिकायां चौरस्वरूपविज्ञानमपि एतदनुसा-
रेण कार्यमित्युक्तम् यथा “अंशकाज् ज्ञायते द्रव्यं दृक्-
काणैस्तस्करास्तथा” “होरानवांशप्रतिमं विलग्नं लग्ना-
द्रविर्यावति वा दृकाणे । “तस्माद्वदेत्तावति वा विलग्नं
प्रष्टुः प्रसूताविह शास्त्रमाह” वृहज्जा० । राशिभेदे
तदधिपाश्च “स्वपञ्चनवमानां ये राशीनामधिपाः ग्रहाः । ते
द्रेक्काणाधिपा राशौ द्रेक्काणास्त्रयएव हि” ज्यो० त०
यथा मेषस्य स्वामी कुजः १ द्रेक्काणेशः । तत्पञ्चम सिंह-
राशेः स्वामी रविः स मेषस्य २ द्रेक्काणेशःमेषतः
नवमो धनुराशिस्तस्येशः जीवः मेषस्य ३ द्रेक्काणेशः एवं
वृषादेरूह्यम् । द्रेष्काण द्रेक्काण द्रेकाणा अपि तत्रार्थे

दृक्क्षेप ६ त० । १ दृष्टिपाते सू० सि० उक्ते २ दृग्वृत्तज्यान्तरा-

लस्थशररूपे क्षेपे च यथा
“अथाभ्यामुपयुक्तं दृक्क्षेपं लम्बनोपयुक्तां दृग्नतिं
चाह” रङ्ग० । “मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं
फलम् । मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम् ।
तत्त्रिज्यावर्गविश्लेषान्मूलं शङ्कुः स दृग्गतिः” मू० । पूर्वो-
क्तमध्वज्या पूर्वानीतोदयाभिधयोदयज्यया । अस्या ज्यारू
पत्वाद्दृग्ज्ययेत्युक्तम् । गुणिता त्रिज्यया भक्ता फलं
वर्गितं वर्गः सञ्जानो यस्य तत् । फलस्य वर्गः कार्य
इत्यर्थः । मध्यज्याया वर्गे विश्लिष्टं हीनं वर्गितं फलं
कार्यम् । शेषान्मूलं दृव्क्षेपः तत्त्रिज्ययोर्यौ वर्गौ
तयोरन्तरान्मूलं शङ्कुः । स आनीतः शङ्कुर्वृग्गतिसञ्ज्ञो
भवति । न तु शङ्कुमात्रम् । अत्रोपपत्तिः । त्रिभो-
नलग्नस्य दृग्ज्यानयनार्थं क्षेत्रम् । मध्यसग्नदृग्ज्या
कर्णस्त्रिभोनलग्नस्य याम्योत्तरवृत्तात् प्रागपरस्थितत्वेन
पृष्ठ ३६६३
तत्खखस्तिकान्तरस्थिततदीयदृग्वृत्तप्रदेशांशज्या कोटिः ।
मध्यलग्नत्रिभोनलग्नान्तरांशज्या क्रान्तिवृत्तस्थो भुजः ।
अत्र भुजानयनं चोदयलग्नस्थक्रान्तिवृत्तप्रदेशः । प्राक्-
स्वस्तिकात् तदग्रान्तरेणोत्तरदक्षिणो भवति । एवमस्त-
लग्नप्रदेशः परस्वस्तिकाद्दक्षिणोत्तरः । तदनुरोधेन च
त्रिभोनलग्नप्रदेशक्रान्तिवृत्तीययाम्योत्तरवृत्तरूपतद्दृग्वृत्त-
क्षितिजसम्पातात् तदग्रान्तरेण लग्नमवश्यं भवति ।
अतस्त्रिज्यातुल्यमध्यलग्नदृग्ज्यया लग्नाग्रातुंल्यो भुजस्त-
दाभीष्टतद्दृग्ज्यया क इत्यनुपातेन स फलःञ्ज्ञः । तद्व-
र्गोनान्मध्यलग्नदृग्ज्यावर्गान्मूलं त्रिभोनलग्नस्य दृगज्या
दृक्क्षेपाख्या । एतद्वर्गोनात् त्रिज्यावर्गान्मूलं त्रिभोनल-
ग्नशङ्कुर्दृग्गतिसञ्ज्ञः । अत्रेदमवधेयम् । त्रिप्रश्नाधि-
कारोक्तप्रकारेण त्रिभोनलग्नस्य शङ्कुदृग्ज्ये दृग्गति
दृक्क्षेपतुल्ये न भवतः । किन्तु दृग्गतिदृक्क्षेपाभ्यां
क्रमेण न्यूनाधिके भवतः सर्वदा धूलीकर्मणानुभवात् ।
अत आनीतोऽयं दृक्क्षेपस्त्रिभोनलग्नदृङ्मण्डलस्थितोऽपि
न त्रिज्यानुरुद्धः । किन्तु फलवर्गोनत्रिज्यावर्गपदरूपविल-
क्षणवृत्तव्यासार्धप्रमाणेन सिद्ध इति गम्यते । अतो दृग्-
ज्यायास्त्रिज्यानुरुद्धत्वेन त्रिज्यादृत्तपरिणतो दृक्क्षेप-
स्त्रिभोनलग्नस्य दृग्ज्या स्फुटदृक्क्षेपरूपा । अस्यास्त-
त्त्रिज्यावर्गेत्यादिना दृग्गतिः स्फुटा त्रिभोनलग्नशङ्कु-
रूपा । एतदनुक्तिः स्वल्पान्तरत्वाद्गणितमुखार्थं कृपालुना
कृता । त्रिप्रश्नक्रियागौरवभियैतन्मार्गान्तरं लाघवादुक्त-
मिति दिक् । अथ लाघवाद्दृक्क्षेपदृग्गती गणितसुखार्थं
श्लोकार्धेनाह” रङ्ग० “नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेप-
दृग्गती । एकज्यावगतश्छेदो लब्धं दृग्गतिजीवया” सू० ।
“दशमभावनतांशानां भुजकोट्योर्नतांशतदूननवतिरूपयोर-
नयोर्ज्ये क्रमेण दृक्क्षेपदृग्गती अस्फुटे स्थूले । यत्तु
स्फुटे प्रागुक्ते दृक्क्षेपदृग्गती विहाय गणितलाघवार्थं
दशमभावनतांशभुजकट्योर्ज्ये तत्स्थानापन्ने ग्राह्ये ।
तत्तूदयज्याभावे नतांशबाहुकोटिज्ये दृक्क्षेपदृग्गती स्फुटे
इति तन्न उक्तप्रकारेणैतत्सिद्धेस्तत्कथनस्य व्यर्थत्वात् ।
अत्रोपपत्तिः । त्रिभोनलग्नस्य दशमभावासन्नत्वेन
दशमभावस्य याम्योत्तरवृत्तस्थत्वेन लाघवार्थं दशमभावमेव
त्रिभोनलग्नं प्रकल्प्य तन्नतांशज्या मध्यज्यारूपा त्रिभो-
नलग्नदृक्क्षेपः । उन्नतज्या शङ्कुर्दृग्गतिः । इदमति-
स्थूलम् । यैस्तु भगवतोक्तं मध्यलग्नं दशमभावपर-
तया व्याख्यात तेषां मत एतदुक्तमिति सूक्ष्मम् । प्रयास-
साधितदृक्क्षेपदृग्गती प्रागुक्ते सूक्ष्मे अप्यतिस्थूले इति
ध्येयम् । भास्त्रराचार्यैस्तु” “त्रिभोनलग्नस्य दिनार्धजाते
नतोन्नतज्ये यदि वा सुखार्थम्” । इति यदुक्तं तदस्मात्
सूक्ष्ममिति ध्येयम्” रङ्ग० ।

दृक्पथ पु० ६ त० । दृष्टियोग्ये स्थाने । “क्रमेण तस्मिन्नथतीर्णदृक्पथे” नैष० ।

दृक्प्रसाद स्त्री दृशं प्रसादयति अञ्जनेन प्र + सद + णिच्

अण् दृशः प्रसादो यस्याः वा । कुलत्थायां राजनि०
तदञ्जनेन नेत्रयोः प्रसादनात्तस्यास्तथात्वम् ।

दृक्प्रिया स्त्री दृशं प्रीणाति प्री--ल । शोभायां राजनि०

शोभादर्शने हि, दृशोस्तद्द्वारात्मनः प्रीणनात्तस्यास्तथात्वम्

दृक्शक्ति स्त्री दृक् प्रकाशनमेव शक्तिः । १ प्रकाशरूपे चैतन्ये

२ तद्युक्ते सर्वप्रकाशके चेतने पुरुषे च “दृग्दर्शनशक्त्येरे-
कात्मतेवास्मिता” पात० सू० “पुरुषोदृक्शक्तिर्बुद्धिर्दर्शन-
शक्तिः” भा० ।

दृक्श्रुति पु० दृक् नेत्रमेव श्रुतिः श्रवणमस्य । चक्षुःश्रवसि

सर्पे इला० ।

दृगध्यक्ष पु० ६ त० । सूर्ये शब्दार्थकल्पतरुः । तस्य नेत्राधिष्ठातृत्वेन तदध्यक्षत्वम् ।

दृगल न० दृशे दर्शनायालति अल--पर्य्याप्तौ अच् । शकले

खण्डे “पुरा दृगलं प्रत्तमिन्द्रामित्रः” आश्व० श्रौ० ५ । ७ । २
“दृगलं शकलम्” नारा० ।

दृग्गति स्त्री ६ त० । १ दृशोर्गतौ सू० सि० उक्ते ग्रहस्पष्टोप-

योगिनि २ दृशोगतिभेदे दृक्क्षेपशब्दे दृश्यम् ।

दृग्गोल न० खगोलान्तर्गते गोलभेदे यथोक्तं सि० शि०

“बद्ध्वा खगोले नलिकाद्वयं च ध्रुवद्वये तन्नलिकास्थमेव ।
बहिः खगोलाद्विदधीत धीमान् दृग्गोलमेवं खलु वक्ष्य-
माणम् । भगोलवृत्तैः सहितः खगोलो दृग्गोलसंज्ञो-
ऽपममण्डलाद्यैः । द्विगोलजातं खलु दृश्यतेऽत्र क्षेत्रं
हि दृग्गोलमतो वदन्ति” । “तस्मिन् खगोले ध्रुवचिह्नयो-
र्नलिकाद्वयं बद्ध्वा तन्नलिकाधारमेव खगोलाद्बहिरङ्गुल-
त्रयान्तरे दृग्गोलं रचयेत् । कथितैः खगोलवृत्तैर्वक्ष्य-
माणैर्भगोलवृत्तैः क्रान्तिविमण्डलाद्यैर्यो निबध्यते स
दृग्गोलः । कथमस्य दृग्गोलसंज्ञेति तदर्थमाह । द्वि-
गोलजातमित्यादि । यतोऽग्राकुज्यासमशङ्क्वाद्यक्षक्षेत्राणि
द्विगोलजातानि भगोलवृत्तैः खगोलवृत्तमिलितैस्ता-
न्युत्पद्यन्ते । भिन्नगोलबन्धे सम्यङ्नोपलभ्यन्त इति
दृग्गोलः कृतः” प्रमि० ।
पृष्ठ ३६६४

दृग्ज्या स्त्री सू० सि० उक्तायां दिनमानादिज्ञानार्थं शङ्कुच्छायो-

पयोगिन्या दृष्टियोग्यायां दृग्वृत्तक्षेत्रस्थजावायाम् यथोक्तं
तत्र “त्रिज्योदक्चरजार्युक्ता याम्यायां तद्विवर्जिता । अन्त्या
नतोत्क्रमज्योना स्वाहोरात्रार्द्धसङ्गुणा । त्रिज्याभक्ता
भवेच्छेदो लम्बज्याघ्नोऽथ भाजितः । त्रिभज्यया
भवेच्छङ्कुस्तद्वर्गं परिशोधयेत् । त्रिंज्यावर्गात् पदं दृग्ज्या
छायाकर्णौ तु पूर्ववत्” सू० सि० “उत्तरगोले चरोत्पन्नया
ज्यया चरज्ययेत्यर्थः पूर्वचरानयने चरज्यायाश्चरजेति
सङ्ज्ञोक्तेः । युक्ता त्रिज्यान्त्या स्यात् । याम्यगोले
तया चरज्ययोना त्रिज्यान्त्या स्यात् । नतोत्क्रम-
ज्योना सूर्योदयाद्दिनगतघट्यो दिनशेषघट्यो वा दिना-
र्धान्तर्गता उन्नतसंज्ञास्ताभिरूनं दिनार्धं न तकालो
घट्यात्मकस्तस्यासुभ्यो लिप्तास्तत्त्वयमैरित्यादिविधिना
मुनयो रन्ध्रयमला इत्याद्युक्तोत्क्रमज्यापिण्डैर्ज्योत्
क्रमज्या । पञ्चदशघट्यधिकनते तु पञ्चदशघट्यूननतस्य
क्रमज्याखण्डैः क्रमज्या तया युक्ता त्रिज्योत्क्रमज्या
भवति । तया हीनेत्यर्थः । स्वाहोरात्रार्द्धसङ्गुणा ।
गृहीतचरज्यासम्बन्ध्यहोरात्रवृत्तव्यासार्धं द्युज्या तया
गुणिता त्रिज्यया भक्ता फलं छेदसंज्ञः स्यात् । अथान-
न्तरं छेदो लम्बज्यया गुणितस्त्रिज्यया भाज्यः फलमि-
ष्टकाले शङ्कुः स्यात् । तस्य शङ्कोर्वर्गं त्रिज्यावर्गाच्छो-
घयेत् । शेषस्य मूलं दृग्ज्या । आभ्यां छायाकर्णौ तु
पूर्ववत् पूर्वोक्तरीत्या भवतः । अत्र छायाकर्णौ
त्विति कोणच्छायाकर्णसाधनश्लोकान्तभागस्य ग्रहणात्
तच्श्लोकोक्तरीत्याभीष्टशङ्कुदृग्ज्याभ्यां छायाकर्णौ
साध्यावित्युक्तम् । अत्रोपपत्तिः । याम्योत्तरवृत्तोर्द्ध्वभाग-
ग्रहाधिष्ठितद्युरात्रवृत्तसम्पातात् क्षितिजद्युरात्रवृत्तस-
म्पातद्वयबद्धोदयास्तसूत्रक्षितिजसम्बद्धयाम्योत्तरवृत्रसूत्र-
सम्पातपर्य्यन्तमहोरात्रवृत्ते सूत्रं त्रिज्यानुरुद्धमन्त्या ।
सा तूत्तरगोले चरज्यायुता त्रिज्या दक्षिणगोले
चरज्ययोना त्रिज्या उन्मण्डलयाम्योत्तरसूत्रावध्यहो-
रात्रवृत्तव्यासार्धे त्रिज्यात्वात् उन्मण्डलस्योत्तर-
दक्षिणक्रमेण क्षितिजादूर्ध्वाधःस्थत्वेन तद्यास्योत्तरसूत्र-
योर्मध्ये चरज्यात्वाच्च । ग्रहाहोरात्रवृत्ते याम्यो-
त्तराहोरात्रवृत्तसम्पातादुभयत्र नतघट्यन्तरेण स्थाने
तत्सूत्रं नतकालस्य सम्पूर्णज्या । तन्मध्यादूर्द्धसूत्रं
शररूपं नतोत्क्रमज्या । तया हीनान्त्या ग्रहस्थाना-
दहोरात्रवृत्ते उदयास्तसूत्रपर्यन्तमृजुसूत्रं त्रिज्यानु-
रुद्धमिष्टान्त्या । तत्तुल्या याम्योत्तरोर्ध्वव्यांससूत्रन्तर्गता
सा द्युज्यापमाणसाधितेष्टहृतिः । द्युज्यागुणा त्रि-
ज्याभक्ता फलं छेदः । अस्मात् त्रिज्याकर्णे लम्बज्या
कोटिस्तदेष्टहृतिकर्णे काकोटिरित्यनुपातेनेष्टशङ्कुः ।
अस्माद्दृग्ज्याच्छायातत्कर्णा उक्तरीत्या सिद्ध्यन्तीत्युक्तमु-
पपन्नम्” रङ्गंनाथः ।

दृग्लम्बन न० सि० शि० उक्ते ग्रहणदर्शनोपयोगिनि दृक्-

क्षेत्रस्थलम्बभेदे यथा
“इष्टापवर्त्तितां पृथ्वीं कक्षे च शशिसूंर्ययोः । भित्तौ
विलिख्य तन्मध्ये तिर्यग्रेखां तथोर्द्ध्वगाम् । १ तिर्यग्रेखा-
युतौ कल्प्यं कक्षार्या क्षितिजं तथा । ऊर्द्ध्वरेखायुतौ
खार्धं दृगूज्याचापांशकैर्नतौ । कृत्वार्केन्दू समुत्पत्तिं
लम्बनस्य प्रदर्शयेत् । एक भूमध्यतः सूत्रं नयेच्चण्डांशु-
मण्डलम् । द्रष्टुर्भूपृष्ठगादन्यद्दृष्टिसूत्रं तदुच्यते ।
कक्षायां सूत्रयोर्मध्ये यास्ता लम्बनलिप्तिकाः । गर्भसूत्रे
सदा स्यातां चर्न्द्रार्कौ समलिप्तिकौ । दृक्सूत्राल्लम्बितश्च-
न्द्रस्तेन तल्लम्बनं स्मृतम् । दृग्गर्भसूत्रयोरैक्यात् खमध्ये
नास्ति लम्बनम्” । “यत्र तत्र नतादर्कादधश्चन्द्रावलम्ब-
नम् । तद्दृग्वृत्तेऽन्तरं चन्द्रभान्वोः पूर्वापरं च तत् ।
पूर्वापरं च याम्यीदग्जातं तेनान्तरद्वयम् । अत्रापमण्डलं
प्राची तत्तिर्यग्दक्षिणोत्तरा । यत् पूर्वापरभावेन लम्ब-
नाख्यं तदन्तरम् । यदान्योत्तरभावेन नतिसंज्ञं
तदुच्यते । नतिलिप्ता भुजः कर्णो दृग्लम्बनकलास्तयोः ।
कृत्यन्तरपदं कोटिः स्फुटलम्बनलिप्तिकाः । परलम्बन-
लिप्ताघ्नी त्रिज्याप्ता रविदृग्ज्यका । दृग्लम्बनकलास्ताः
स्युरेवं दृक्क्षेपतो नतिः । गत्यन्तरस्य तिथ्यंशः
परलम्बनलिप्तिका । गतियोजनतिथ्यशः कुदलस्य यतो
मितिः । स्युर्लम्बनकला नाड्यो गत्यन्तरलवोद्धृताः ।
प्रागग्रतो रवेश्चन्द्रः पश्चात् पृष्ठेऽवलम्बितः” सि० शि० ।

दृग्विष पुंस्त्री दृशि विषमस्य । दृष्टिविषे सर्पभेदे हेमच० ।

स्त्रियां जातित्वात् ङीष् ।

दृग्वृत्त न० दृशः प्रचारस्थानं वृत्तमिव । १ वृत्ताकारे दृक्प्रचा-

रस्थले । “दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे क्रान्ति-
वृत्ते ततोऽन्तराभावाद् लम्बनाभावः । याम्योत्तरमन्तरं
दृगलम्बनं नतिरेवोत्पन्ना । दृग्वृत्ताकारक्रान्तिवृत्ते तु
दृग्लम्बनमेव क्रान्तिवृत्ते० तयोरन्तरमिति लम्बनमुपपन्नं
नत्यभावश्च । तथा च दृग्वृत्तस्य कदम्बप्रोतवृत्ताका-
रत्वे त्रिभोनलग्नस्थानेऽसौ भवति तद्वृत्तस्य क्रान्ति
वृत्तयाम्योत्तरत्वेनोदयास्तलग्नमध्यवर्त्तित्वेन लग्नस्थानात्
त्रिभान्तरितत्वात्” सू० सि० दी० रङ्गना० २ दृङ्मण्डले च
तस्य खगोलबन्धप्रकारो दृङ्मण्डलशब्दे वक्ष्यते
पृष्ठ ३६६५

दृङ्नति स्त्री सि० शि० ग्रहणदर्शनोपयोगितया दर्शिते

दृक्प्रचारस्य नतिविशेषे यथा
“त्रिभोनलग्नस्य रवेश्च शङ्क्वोर्वा दृग्ज्ययोर्वर्गवियोग-
मूलम् । स्याद्दृङ्नतिर्वेदगुणा त्रिमौर्व्या भक्ताथवा
लम्बननाडिकाः स्युः” मू० “त्रिभोनलग्नस्य यः” शङ्कुः
साधितस्तथा दर्शान्तकाले रवेः स्वोपकरणैर्यः शङ्कुरुत्पद्यते
तावनष्टौ स्थापयित्वा तयोश्च दृगज्ये साध्ये । अथ
तयोः शङ्क्वोर्यद्वर्गान्तरपदं तद्दृङ्नतिसंज्ञं भवति
प्रथमप्रकारोऽयम् । अथ दृङ्नतेर्द्वितीयः प्रकारः ।
तयोर्दृर्ग्ज्ययोर्वर्गान्तरपदं दृङ्नतिसंज्ञं भवति । अथ दृङ्-
नतेर्लम्बनमुच्यते । दृङ्नतिश्चतुर्गुणा त्रिज्यया भक्ता
फलं लम्बननाडिकाः स्युः । अत्रोपपत्तिः सैव । यदा
वित्रिभलग्नं खमध्ये भवति तदा दृङ्मण्डलमेव क्रान्ति-
वृत्तम् । त्रिभोनलग्नार्कयोर्यान्तरज्या सैव तदार्कस्य
दृगज्या । सा चतुर्गुणा त्रिज्ययाप्ता मध्यंमं किल
लम्बनं भवति । तदेव स्फुटम् ऊर्ध्वस्थितत्वात् क्रा-
न्तिवृत्तस्य । अथ यदा वित्रिभलग्नं खार्धान्नतम्
तिर्यक्स्थितत्वात् क्रान्तिवृत्तस्य, तदा तत् प्राच्यपरया
स्फुटं लम्बनं कोटिरूपं भवति । तच्च वित्रिभलग्न-
शङ्क्वनुपातेन तथा स्फुटं कोटिरूपं कृतम् । तत्
कथमिति चेत् तदर्थमुच्यते । मध्यलम्बनानयने त्रिज्यैव
वित्रिभलग्नशङ्कुः । ततः स्फुटत्वार्थं यः साधितो
वित्रिभलग्नशङ्कुः स दृक्क्षेपमण्डले कोटिस्तद्दृग्ज्या
भुजस्त्रिज्या कर्णः । वित्रिभलग्नस्य यद्दृङ्मण्डलं
तद्दृक्क्षेपमण्डलमिति गोले कथ्वितम् । अतस्त्रिज्यापरि-
णतया नतज्यया यदानीतं तज्जातं कर्णरूपं तत्
कोटिरूपस्य वित्रिभलग्नर्शङ्कोरनुपातेन कोटित्वं
नीतमित्युपपन्नम् । यदेव स्फुटलम्बनस्य कोटिरूपत्वमुप-
पन्नं तदेव प्रकारान्तरेणोपर्पादितम् । रवेर्दृङ्मण्डले
या दृग्ज्या सा कर्णरूपिणी । वित्रिभलग्नस्य या
दृग्ज्या स एव दृक्क्षेपः स भुजरूपः । यतः क्रान्ति-
मण्डलप्राच्याः सम्यग्दक्षिणोत्तरं खार्धाद्वित्रिभलग्नोप-
रिगतं दृक्क्षेपमण्डलम् । तत्र वित्रिभलग्नस्य या
दृग्ज्या स दृक्क्षेपः । तज्जनिता नतिकलाश्चन्द्रार्ककक्ष-
योर्याम्योत्तरमन्तरं यत्सर्वत्र तुल्यमेव द्रष्टा पश्यति ।
यथाक्तं गोले । “कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपि तत्”
ततः “नतिलिप्ता भुजः कर्णो दृग्लम्बनकलास्तयोः । कृ
त्यन्तरपदं कोटिः स्फुटलुम्बनलिप्तिकाः” । “यत इद
लम्बनक्षेत्रमतो दृक्क्षेपार्कदृग्ज्ययोर्वर्गान्तरपदतुल्या
र्दृङ्नतिर्भवितुमर्हति । परं यथा स्थिते गोले क्षेत्रोप-
रीयं न दृश्यते । यतो वित्रिभलग्नार्कयोरन्तरज्या
वित्रिभलग्नशङ्कुव्यासार्द्धपरिणता सती दृङ्नतिर्भवति ।
अत एवानेनापि प्रकारेण क्षितिजस्थेऽर्के परमा दृङ्-
नतिर्वित्रिभलग्नशङ्कुतुल्या भवति । अतोऽयमपि प्रकारः
पूर्वतुल्य एव । किन्तु दृक्क्षेपार्कदृग्ज्ययोस्तुल्ये
शलाके भुजकर्णरूपे समायां भूमौ विन्यस्य तदन्तरे
कोटिरूपां दृङ्नतिं दर्शयेत् । एवमनेकविधान्युपपत्त्यनु-
सारेण क्षेत्राणि परिकल्प्य धूलीकर्मोपसंहारमार्य्याः
कुर्वते । अथ प्रस्तुतमुच्यते । अत्र किल वित्रिभलग्नस्य
रवेश्च दृग्ज्ययोर्यद्वर्गान्तरपदं तावदेव तच्छङ्क्वोरपि
भवति । तत् कथमिति चेत् तदुच्यर्त । अत्र स्वस्वश-
ङ्कुवर्गेणोनौ त्रिज्यावर्गौ दृग्ज्यावर्गौ भवतः ।
तयोरन्तरे कृते त्रिज्यावर्गयोस्तुल्यत्वाद्गतयोः शङ्कुवर्गान्तर-
मेवावशिष्यते । एवं यत्र कुत्रचिद्व्यासार्द्धेऽपि भुजज्य-
योर्वर्गान्तरतुल्यं तत्कोटिज्ययोर्वर्गान्तरं भवतीति ।
अत उक्तम् “त्रिभोनलग्नस्य रवेश्च शङ्क्वोर्वा दृग्ज्य-
योरिति” दृङ्नतितस्त्रिज्यानुपातेन लम्बनस्य घटीक-
रणम्” प्रमिता० । अत्रोपपत्तिरपि तत्रोक्ता यथा
“अथ याम्योत्तरायां तु भित्तौ पूर्वोक्तमालिखेत् । ये
कक्षामण्डले तत्र ज्ञेये दृक्क्षेपमण्डले । त्रिभोनलग्न-
दृग्ज्या या स दृक्क्षेपो द्वयोरपि । तच्चापांशैर्नतौ विन्दू
कृत्वा वित्रिभसंज्ञकौ । तल्लम्बनकलाः प्राग्वज्ज्ञेयास्ता
नतिलिप्तिकाः । कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपि
तत् । याम्योत्तरं नतिः सा च दृक्क्षेपात् साध्यते
ततः” “इदमेव छेद्यकं याम्योत्तरायां भित्तौ पूर्वपार्श्वे
लिखित्वा नत्युपपत्तिर्दर्शनीया । ये तत्र कक्षाक्षमण्डले
ते दृक्क्षेपमण्डले । दर्शान्ते त्रिभोनलग्नस्य या दृग्ज्या
स दृक्क्षेपः द्वयोरपि तावान् । ब्रह्मगुप्तमते तु तच्चा-
पांशा वित्रिभलग्नशरसंस्कृताश्चन्द्रदृक्क्षेपचापांशाः स्युः ।
तयोर्वृत्तयोः खार्द्धात् स्वस्वदृक्क्षेपचापांशैर्नतौ विन्दू
कार्यौ तौ च वित्रिभसंज्ञौ । ततः प्राग्वद्भूमध्याद्
भूपृष्ठाच्च सूत्रे प्रसार्य लम्बनलिप्तिका ज्ञेयास्ता नतिलि-
प्तिकाः नतिर्नाम चन्द्रार्ककक्षयोर्याम्योत्तरमन्तरम् ।
तद्वित्रिभलग्नस्थाने यावत् सर्वतीऽपि तावदेव भवति ।
अतो दृक्क्षेपात् साधिता नतिः” ।
पृष्ठ ३६६६

दृङ्मण्डल न० दृशः तत्प्रचारस्य मण्डलमिव । सि० शि० उक्ते

गोलबन्धान्तर्गते वलयाकारे मण्डलभेदे यथोक्तं तत्र
“ऊर्द्ध्वाधरस्वस्तिककीलयुग्मे प्रोतं श्लथं दृग्वर्लयं तदन्तः ।
कृत्वा परिभ्राम्य च तत्र तत्र नेयं ग्रहो गच्छति यत्र
यत्र । ज्ञेयं तदेवाखिलखेचराणां पृथक् पृथग्वा
रचयेत् तथाष्टौ । दृङ्मण्डलं वित्रिभलग्नकस्य दृक्क्षेप-
वृत्ताख्यमिदं वदन्ति” खस्वस्तिके चाधःस्वस्तिके चान्तः-
कीलकौ कृत्वा तयोः प्रोतं श्लथं दृग्वलयं कार्यम् । तत्तु
पूर्ववृत्तेभ्यः किञ्चिन्यूनं कार्यम् । यथा खगोलान्तर्भ-
वति । यद्येक एव ग्रहगोलस्तदैकमेव दृङ्मण्डलम् ।
यो यो ग्रहो यत्र यत्र वर्तते तस्य तस्योपरीदमेव
परिभ्राम्य विन्यस्य दृग्ज्याशङ्क्वादिकं दर्शर्नीयम् । अथ वा
पृथक् पृथगष्टौ दृङ्मण्डलानि रचयेत् । तथाष्टमं
वित्रिभलग्नस्य तच्च दृक्क्षेपमण्डलम्” दृग्वलयमप्यत्र

दृढ़ त्रि० दृह दृहि वा वृद्धौ क्तः “स्थूलबलयोः” इडभावः

इदितोऽपि नि० नलोपः । १ स्थूले २ अशिथिले प्रगाढे
३ वलवति च मेदि० ४ कठिने अमरः ५ लौहे न० शब्दच० ।
भावे क्त । ६ अतिशये न० अमरः । क्रियाविशेषणत्वे
ऽस्य क्लीवता “दृढ़भक्तिरिति ज्येष्ठे” रघुव्या० “दृढ़ं
भक्तिरस्येति विग्रहः” मल्लिना० । “दृढ़ा भक्तिश्च
केशवे” विष्णुस्तवः । दृढ़त्वं च काठिन्यं तच्च स्पर्शत्वव्याप्यं
जातिभेदः, अशिथिलावयवसंयोगभेदः, उपचारात्
अतिशयश्च । “दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन्”
मनुः “दृढग्राही करोमीति जप्यं जपति जापकः ।
न संपूर्णो न संयुक्तो निरयं सोऽनुगच्छति” भा० शा०
१९७ अ० । दृढ़स्य भावः इमनिच् द्रढ़िमन् तद्भावे पु०
“बधान द्रागेव द्रढ़िमरमणीयं परिकरम्” गङ्गालहरी
त्व दृढत्व न० तल् दृढता स्त्री ष्यञ् दार्ढ्य न० स्थौल्ये
अतिशये च । अतिशयेन दृढः इष्ठन् ऋतोरः द्रढिष्ठ
ईयसुन् द्रढीयस अतिशयेन दृढ़े त्रि० ईयसुनि स्त्रियां
ङीप् । दृढं करोति णिच् ऋतोरः । द्रढयति “वियोगो
वैराग्यं द्रढ़यति च” प्रबोधचन्द्रो० त्रयोदशभनोः रुचेः
७ पुत्रभेदे पु० । “त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः
सुताः । चित्रसेनो विचित्रश्च नयो धर्मभृतोधृतः । सुनेत्रः
क्षत्रबुद्धिश्च सुतपा निर्भयो दृढः । रौच्यस्यैते मनोः
पुत्रा अन्तरे तु त्रयोदशे” हरिवं० ७ अ० । ८ धृतराष्ट्र-
पुत्रभेदे पु० “पुत्रास्तेऽभ्यर्दयन् भीमं दश दाशरथेः
समाः । नागदत्तो दृढ़रथो वीरबाहुरयोमुजः ।
दृढः सुहस्तो विरजाः प्रमाथश्चोग्रयाय्यपि । तान्
दृष्ट्वा चुक्रुधे भीमोजगृहे भारसाधनान् । एकमेकं
समुद्दिश्य पातयामास मर्मसु । ते विद्धा व्यसवः पेतु
स्यन्दनेभ्योऽमितौजसः” भा० द्रो० १५७ अ० ९ विष्णौ पु०
“वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सूङ्कर्षणोऽच्युतः”
विष्णुसं० “स्वरूपसामर्थ्यादेः प्रच्युत्यभावात् दृढः”
भा० १० रूपकभेदे पु० “दृढः प्रौढोऽथ खचरो विभव-
श्चतुरक्रमः । निशारुकः प्रतितालः कथिताः सप्त
रूपकाः” इत्युद्दिश्य “दृढाख्यः स्याद् लघुद्वन्द्वं तालेऽत्र
हंसलीलके । चतुर्दशाक्षरयुतः शृङ्गारे परिकीर्तितः”
सङ्गीतदा० । लीला० उक्ते ११ कुट्टकयणितभेदे कुट्टकशब्दे
दृश्यम् ।

दृढकण्टक पु० दृढः कण्टकोऽस्य । (धला आकड़ा) क्षुद्रकण्टकयुक्ते वृक्षभेदे शब्दर० ।

दृढकाण्ड पु० दृढः कठिनः काण्डः स्कन्धोऽस्य । १ वंशवृक्षे

२ दीर्घरोहिषके च राजनि० ।

दृढक्षात्र पु० धृतराष्ट्रपुत्रभेदे “दृरवर्मा दृढक्षात्रः सोमकीर्ति-

रनूदरः” भा० आ० ६७ अ० तत्पुत्रोक्तौ ।

दृढक्षुरा स्त्री दृढं क्षुरमिवाग्र यस्याः । वल्वजायाम्

तृणभेदे राजनि० ।

दृढगात्रिका स्त्री दृढ गात्रमस्याः कप् कापि अत इत्त्वम् ।

मत्स्यण्ड्यां फाणिते शब्दच० ।

दृढग्रन्थि पु० दृढो ग्रन्थिः पर्वास्य । १ वंशे राजनि० २ कठिन-

ग्रन्थियुक्तमात्रे त्रि० ।

दृढच्छद न० दृढः छदोऽस्य । दीर्घरोहिषकेतृणे राजनि० ।

दृढच्युत पु० परपुरञ्जयनृपात्मजायां जाते अगस्त्यमुनिपुत्रे

इध्मवाहापरनामके मुनिभेदे “उपयेमे वीर्यपणां वैदर्भी
मलथज्वजः । युधि र्निजित्य राजन्यान् पाण्ड्यः परपुर-
ञ्जयः । तस्यां संजनयाञ्चक्रे आत्मजामसितेक्षणाम् ।
यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः । अगस्त्यः
प्रागदुहितरमुपयेमे धृतव्रताम् । यस्यां दृढच्युतो जात
इध्मवाहात्मजो मुनिः भाग० ४ । २८ । २८ । पादपुरणार्थः
सन्धिरार्षः । अयं गोत्रप्रवरविशेषः प्रवराध्याये दृश्यः ।

दृढतरु पु० नित्यकर्म० । धववृक्षे राजनि० । दृढवृक्षोऽप्यत्र

दृढतृण पु० दृढं कठिनं तृणमस्य । १ मुञ्जतृणे २ वल्वजायां

स्त्री राजनि० ।

दृढत्वच् पु० दृढा त्वगस्य । यावनालशरे राजनि० ।

दृढदंशक पुंस्त्री दृढं दंशति दनश--ण्वुल् । (हाङ्गर)

ख्याते जलजन्तुभेदे शब्दार्थकल्प० । स्त्रियां ङीष् ।
ङीष् । २ दृढदंशनकारिमात्रे त्रि० स्त्रियां टाप् कापि
अतैत्त्वमिति भेदः ।
पृष्ठ ३६६७

दृढधन पु० दृढं धनं निश्चयरूपा सम्पत्तिरस्य । शाक्यमुनौ

ललितवि० । दृढधनुरप्यत्र । समासान्तविधेरनित्वात्
नानङ् ।

दृढधन्वन् पु० दृढं धनुरस्य अनङ् समा० । १ दृढधनुष्के

“राजानं दृढधन्वानं दिलीपं सत्यवादिनम्” भा० द्रो०
१३१ अ० । २ पौरवे नृपभेदे “दक्षिणस्थश्च कम्बोजो
दृढधन्वा च पौरवः” भा० आ० १८६ अ० ।

दृढनिश्चय पु० दृढः कुतर्कैरभिभवितुमशक्यतया स्थिरः

निश्चयः अहमकर्त्त्रभोक्त्रसंसारिसच्चिदानन्दाद्वितीयं ब्रह्मा-
स्मीत्यध्यवसायोऽस्य । स्थिरप्रज्ञे संसारादुपरते अहं
ब्रह्मास्मीत्यध्यवसाययुते विदुषि ।

दृढनीर पु० दृढं कालेन दृढतां प्राप्तं नीरं यस्य । नारिकेले

राजनि० । तस्य जलस्यैव क्रमशः कठिनशस्यरूपेण
परिणतत्वात् तथात्वम् ।

दृढनेमि पु० अजमीढवंश्ये सत्यधृतिनृपपुत्रे नृपभेदे ।

“अजमीढस्य दायादः” इत्युपक्रमे “जज्ञे सत्यधृतेः पुत्रो
दृढनेमिः प्रतापवान्” हरिवं० २० अ० । दृढा नेमिरस्य ।
२ दृढनेमिके रथे पु० ।

दृढपत्र पु० दृढं पत्रमस्य । १ वंशे २ वल्वजायां स्त्री राजनि० गौरा० ङीष् ।

दृढपाद त्रि० दृढः पादः पदनं ज्ञानमस्य । १ दृढनिश्चये २ वेधसि

पु० “बहुत्वाद्दृढपादश्च विश्वात्मा जगतां पतिः” हरिवं०
२०४० श्ला० । दृढः पादोमूलमस्याः समासान्तविधेरनि-
त्यत्वान्नान्त्यलोपः समा० । २ यवतिक्तायां स्त्री ३ भूम्या-
मलक्यां स्त्री राजनि० ङीष् ।

दृढप्ररोह पु० दृढः प्ररोहः अङ्कुरोऽस्य । वटवृक्षे राजनि०

दृढफल पु० दृढानि फलानि यस्य । नारिकेले राजनि० ।

दृढबन्धिनी स्त्री दृढं बघ्नाति ग्रथ्नाति स्वाश्रयं णिनि ।

१ श्यामालतायां शब्दच० । २ अशिथिलबन्धकारके त्रि० ।

दृढभूमि पु० दृढा भूमिरवस्था यस्य । दीर्घकालनैरन्तर्यादरा-

सेविते योगशास्त्रोक्ते मनसःस्थैर्य्यकरणार्थे अभ्यासभेदे
“तत्र स्थितौ यत्नोऽभ्यासः” पात० सू० “चित्तस्याऽवृत्तिकस्य
प्रशान्तवाहिता स्थितिः प्रयत्नः वीर्यमुत्साहः तत्संपिपा-
दयिषया तत्साधनानुष्ठानमभ्यासः” भा० “स तु दीर्घकाल-
नैरन्तर्यसत्कारासेवितो दृढभूमिः” सू० “दीर्घकालासेवितः
निरन्तरासेवितः तपसा ब्रह्मचर्येण विद्यया श्रद्धया च
संपादितः सत्कारवान् दृढभूमिर्भवति । व्युत्थानसंस्का-
रेणानभिभूतविषय इत्यर्थः” भा० “ननु व्युत्थानसंस्कारे-
णानादिपरिपन्थिना प्रतिबद्धोऽभ्यासः कथं स्थित्यै
कल्पत इत्यत आह स तु दीर्घकालनैरन्तर्यसत्का
रासेवितो दृढभूमिः यथोक्तः सोयमभ्यासो विशेषेण एव
सम्पन्नः सन् दृढावस्थो न सहसा व्युत्थानसंस्कारैरभि-
भूतस्थितरूपविषयो भवति यदि पुनरेवंभूतमप्यभ्यासं
कृत्वोपरमेत ततः कालपरिपाकेणाभिभवेत् तस्मिन्नोपर-
न्तव्यमिति भावः” विवरणम्

दृढमुष्टि पु० दृढो मुष्टिर्धारणेऽस्य । १ खड्गादौ हेमच० ।

दृढं बद्धः दानार्थमप्रसारितो मुष्टिरस्य । १ कृपणे त्रि०
दृढोमुष्टिस्तदाघातोऽस्य । दृढमुष्ट्याघातकारिणि “निगृ
हीतः कन्धरायां शिशुना दृढमुष्टिना” हरिवं० २० अ० ।

दृढमूल पु० दृढं मूलमस्य । १ मुञ्जतृणे २ मन्थानकतृणे च

राजनि० ३ नारिकेले शब्दार्थकल्प० ।

दृढरङ्गा स्त्री दृढः रङ्गो रञ्जनं यस्याः ५ त० । स्फट्यां

(फटकिरी) राजनि० । तद्योगेन रागस्य स्थिरतेति
तस्मास्तथात्वम् ।

दृढरथ पु० १ धृतराष्ट्रपुभेदे “अभयो रौद्रकर्मा च तथा

दृढरथश्च यः” भा० आ०६७ अ० तत्पुत्रोक्तौ अस्यैव नामान्तरं
दृढरथाश्रय इति तत्र पाठान्तरम् । २ कक्षेयुवंश्ये नृपभेदे
तद्वंशवर्णने “वृहन्मनास्तु राजेन्द्रो जनयामास वै
सुतम् । नाम्ना जयद्रथं वीरं यस्माद्दृढरथो नृपः ।
आसीद्दृढरथस्यापि विश्वजिज्जनमेजय!” हरिवं०
३१३ अ० ।

दृढरुचि स्त्री दृढा रुचिरस्य । १ स्थिररागयुक्ते २ कुशद्वी-

पपतेर्हिरण्यरेतसः प्रैयव्रतस्य पुत्रभेदे कुशद्वीपशब्दे
२१४५ दृश्यम् ।

दृढलता स्त्री नित्यकर्म० । पातालगरुडीलतायां राजनि० ।

दृढलोमन् त्रि० दृढानि लोमान्यस्य । १ कठिनलोमयुक्ते

त्रि० स्त्रियां डाप् ङीप् वा दृढलोमा दृढलीम्नी ।
२ शूकरे पु० शूकर्य्यां स्त्री शब्दच० ।

दृढवर्म्मन् पु० दृढं वर्म यस्य । १ दुर्भेदसन्नाहयुक्ते २ धृतरा-

ष्ट्रपुत्रभेदे दृढक्षात्रशब्दे दृश्यम् ।

दृढवल्कल पु० दृढं वल्कलमस्य । १ पूगवृक्षे २ अम्बष्ठायां

स्त्री तत्र दृढत्वचापि राजनि० । ३ कठिनवल्कल-
युक्ते त्रि० ।

दृढवल्का स्त्री दृढं बल्कमस्याः । अम्बष्ठायां राजनि० ।

दृढवीज पु० दृढं वीजमस्य । १ वदरे २ चक्रमर्दे ३ वर्वुरे च

राज्नि० एतेषां कठिनवीजकत्वात्तथात्वम् ४ कठिनवी-
जयुक्ते त्रि० कर्म० । ५ कठिने वीजे न० ।
पृष्ठ ३६६८

दृढव्य पु० ऋषिभेदे “दृढव्यश्चीर्द्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा”

भा० अनु० १५० अ० ।

दृढव्रत त्रि० दृढं प्रतिपक्षैश्चालयितुमशक्यं व्रतमस्य । १ अन्त-

रायैरचाल्यसङ्कल्पके फलपर्यन्तं प्रारब्धकर्मात्यागशीले
भगवानेव भजनीयः स च एवंरूप एवेत्यत्राप्रामाण्यश-
ङ्काशून्यसंकल्पके २ विदुषि च । तत्र प्रथमार्थे “एवं
दृढव्रतोनित्यं व्रह्मचारी समाहितः” मनुः द्वितीयार्थे
“अहिंसानिरतो यश्च सत्यवादी दृढव्रतः” भा० व०
६८१० श्लो० ३ स्थिरसङ्कल्पयुक्ते च “स्थेयान् निगूढ-
मानोधीरोदात्तो दृढव्रतः कथितः” सा० द० ।

दृढसन्ध त्रि० दृढा सन्धाऽस्य । १ स्थिरसन्धाने २ धृतराष्ट्रपुत्र-

भेदे पु० “जरासन्धा दृढसन्धः सत्यसन्धः सहस्रवाक्”
भा० आ० ६७ अ० तत्पुत्रोक्तौ ।

दृढसन्धि त्रि० दृढः सन्धिः सन्धानं यस्य । निश्छिद्रतया

संहते अमरः ।

दृढसूत्रिका स्त्री दृढ़ं सूत्रं यस्याः कप अत इत्त्वम् । मूर्वालतायाम् शब्दच० ।

दृढसेन पु० कलियुगीये जनमेजयवंश्ये नृपभेदे “क्षेमोऽथ

सुव्रतस्तस्माद्धर्मस्तत्र समन्ततः । दृढसेनोऽथ सुमतिः
सुबलो जनिता ततः” भाग० ९ । २२ । ३० जनमेजयं
प्रति तद्वंश्यभविष्यन्नृपोक्तौ ।

दृढस्कन्ध पु० दृढः स्कन्धोऽस्य । क्षीरिवृक्षे जटाधरः ।

दृढस्यु पु० अगस्त्यर्षेर्लोपामुद्रागर्भजाते इष्मवाहापरनामके

ऋषिभेदे इष्मवाहशब्दे ९२८ पृ० दृश्यम् ।

दृढहनु पु० आजमीढवंश्ये नृपभेदे “आजमीढाद्वृहदिषु

स्तस्य पुत्रो वृहद्धनुः । वृहतकायस्ततस्तस्य पुत्रश्चासी-
ज्जयद्रथः । तत्सुतोविशदस्तस्य सेनजित् समजायत ।
रुचिराश्वी दृढहनुः काश्योवत्सश्च तत्सुताः” भाग०
५ । २१ । १७ ।

दृढहस्त पु० दृढः हस्तः हस्तव्यापारोऽस्य । १ खड्गादि-

धारणे दृढहस्तके योधे २ धृतराष्ट्रपुत्रमेदे पु० “दृढहस्तः
सुहस्तश्च वातवेगसुवर्चसौ” भा० आ० ६७ अ० तत्पुत्रोक्तौ

दृढाक्ष पु० राजभेदे “एकलव्यो दृढ़ाक्षश्च क्षत्रधर्मा जयद्रथः”

हरिवं० ९९ अ० ।

दृढाङ्ग त्रि० दृढ़मङ्गमस्य । १ कठिनाङ्गयुक्ते २ हीरके न० राजनि०

तस्यावयवस्य इतरापेक्षयाऽतीव कठिनत्वात्तथात्वम् ।

दृढादि पु० “वर्णदृढादित्यः ष्यञ् च” पा० “चात् इमनिच्”

सि० कौ० उक्ते भावे ष्यञिमनिचोर्निमित्ते शब्दगणे स
च गणः “दृढ़ वृढ़ परिवृढ़ भृश कृश वक्र शुक्र चुक्र
आम्र कृष्ण लबण ताम्र शीत उष्ण जड़ बधिर पण्डित
मधुर मूर्ख भूक (वेर्यातलातमतिमनःशारदानाम्) (समो
मतिमनसोः) जवन” दृढ़ादिः । गुणवचनत्वादेव सिद्धे
इमनिजर्थं वचनम् ।

दृढायु पु० तृतीयमनोः सावर्णस्य पुत्रभेदे “संवर्त्तगः सुशर्मा

च देवानीकः पुरूवहः । क्षेमधन्वा दृढायुश्च आदर्शः
पण्डको मनुः । सावर्णस्य तु पुत्रा वै तृतीयस्य नव
स्मृताः” हरिवं० ७ अ० । उर्वशीगर्भजाते ऐलनृपपुत्र-
भेदे च “षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः ।
दृढ़ायुश्च वनायुश्च शतायुश्चोर्वशीसुताः” भा० आ० ७४ अ०

दृढायुध पु० दृढ़मायुधं तद्व्यापारोऽस्य । दृढायुधव्यापारके

“दृढ़ायुधौ ध्रुवपातौ युद्धे च कृतनिश्चयौ” (नकुल-
सहदेवौ) भा० व० ५१ अ० । २ धृतराष्ट्रपुत्रभेदे पु० “उग्रा-
युधो भीमशरः कनकायुर्दृढ़ायुधः” भा० आ० ६७ अ०
तत्पुत्रोक्तौ ।

दृढाश्व पु० धुन्धुमारनृपपुत्रभेदे “धौन्धमारिर्दृढ़ाश्वश्च हर्यश्व-

स्तस्य चात्मजः” हरिवं० १२ अ० ।

दृढेयु पु० ऋषिभेदे “दृढेयुश्च ॠतेयुश्च परिव्याधश्च कीर्ति-

मान् । एकतश्च द्वितश्चव त्नितश्चैवादित्यसन्निभाः”
भा० अनु० १५० अ० ।

दृढेषुधि पु० दृढ़ं बद्ध इषुधिर्येन । दृढ़तया बद्धतूणके १ योधे

२ राजभेदे “अविक्षिच्चपलीधूर्त्तः कृतबन्धुर्दृदेषुधिः” भा०
आ० १ अ० ।

दृत त्रि० दृ + क्त १ आदरयुक्ते आदृतः दॄ--विदारे क्त बा०

ह्रस्वः । २ विदीर्णे “दृते दृंह मामित्रस्य” यजु०
३६ । १८ “दृते दृ विदारे विदीर्णे जराजर्जरितेऽपि शरीरे”
वेददी० ३ जीरके स्त्री शब्द च० ।

दृति स्त्री दॄ--विदारे ति कित् ह्रस्वश्च । १ चर्ममयपात्रे

२ मत्स्ये च मेदि० । “इन्द्रियाणां तु सर्वेषां यद्येकं क्षरती-
न्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम्”
मनुः “कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः । आश्र-
यस्थानदोषेण वृत्तहीने तथा श्रुतम्” भा० शा० १३२४ श्लो० ।
दृतौ भवः ढञ् दार्त्तेय दृतिभवे स्त्रियां ङीप् । मत्स्ये
“मांसादष्टगुणा दृतिः” उज्ज्वलद० धृतवाक्यम् । ३ रोमश
चर्मणि ४ गलकम्बले च “सवत्सां पीवरीं दत्त्वा दृति-
कण्ठामलङ्कृताम्” भा० अनु० ७९ अ० । “दृतिकण्ठां
पृष्ठ ३६६९
प्रलम्बगलकम्बलाम्” नीलकण्ठः “दृतिकण्ठमनड्वाहं
सर्वरत्नैरलङ्कृतम्” तत्रैवाध्याये । ५ मेघे निघण्टुः ६ सत्र-
विशेषकारके यजमानभेदे द्वतिवातवतोरयनशब्दे दृश्यम् ।

दृतिधारक दृतिं दृत्याकारं धारयति धारि--ण्वुल् ६ त० ।

(आकनषाता) ख्याते वृक्षे शब्दच० ।

दृतिवातवतोरयन न० अलुक् स० । सत्रभेदे “दृतिवातवतो-

रयनमेकैकेन पृष्ठ्यस्तोमेन मासं मासम्” कात्या० श्रौ० २४ ।
२४ । १६ “दृतिवातवतोरयनमिति सत्रस्य संज्ञा” कर्कः ।
ताण्ड्यव्रा०२५ । ३ । १ वाक्यादौ अस्य विवृतिः । “अथ
दृतिवातवतोरयनमाह भा० “अतिरात्रस्त्रिवृता मासं,
पञ्चदशेन मासं, सप्तदशेन मासमेकविंशेन मासं,
त्रिणवेन मासं, त्रयस्त्रिंशेन मासं, महाव्रतं, त्रयस्त्रिं-
शेन मासं, त्रिणवेन मासमेकविंशेन मासं, सप्तदशेन
मासं, पञ्चदशेन मासं, त्रिवृता मासमतिरात्रः” ।
१ “प्रथमं प्रायणीयोऽतिरात्रस्ततस्त्रिवृदादित्रयस्त्रिं-
शान्ताः आदितः षण्मासा आप्तव्याः विषुवतः
स्थाने महाव्रतं भवति तएव त्रिवृदादिमासा उत्त-
रस्मिन् पक्षसि द्वादशादिसप्तमासान्ताः षण्मासाः
स्युः तत उदयनीयमहः एतानि त्रिषष्ट्युत्तरशतत्रय-
महानि स्युः अधिकयोर्द्वयोरह्नोः व्यवस्थाविषये सूत्र-
कारः दृतिवातवतोरयने द्वावेकीनौ मासौ सुनुयुस्त्रि-
वृताविति गौतमस्त्रयस्त्रिंशाविति धानञ्जय्यः उभौ वा
त्रिंशिनौ स्यातां यथैतद्व्राह्मणमिति त्रयस्त्रिंशावे-
कोनाविति कल्पकारस्य मतम् । अथैतदयनं कर्तृद्वारा
प्रशंसति” भा० । “एतद्वै दृतिवातवन्तौ खाण्डव उपेतो
विषुवति वातवानुत्तिष्ठति, समापयति दृतिस्तस्मात्तनीयां-
सोवातवता भूयांसो दार्त्तेयाः” ६ “एतत् सत्रायणं
दृतिश्च वातवांश्चेत्युभौ यजमानौ खाण्डवे वने उपेतः
अन्वतिष्ठतामित्यर्थः भूतकाले व्यत्ययेन वर्त्तमानप्रत्ययः
एवमुत्तरयोरप्याख्यातयोर्द्रष्टव्यं तयोरनुष्ठानप्रयुक्तं
किञ्चित् फलवैषम्यं वक्तुमाह वातवान् विषुवति
महाव्रते सम्पूर्णे उत्तिष्ठति उत्तिष्ठन् सत्रं समापितवान्
दृतिस्तु द्वादशापि मासानास्थाय संमापयन् यस्मादेकं
तस्माद्वातवता वातवतोवंश्यास्तनीयांसः अत्यर्थं तनवः
कृशा अभवन् दार्त्तेया दृतिवंश्यास्तु भूयांसो, बहुकृत्-
स्नानुष्ठानं प्रशस्तफलवदित्युक्तं भवति । अत्र विवृतिभिः
कॢप्तम् इति वातवतोरयनमात्रिणवेभ्यस्त्रिवृद्भ्य उद्धर-
त्युक्थानि पञ्चदशेभ्यः षोडशिनमित्यादिकं द्रष्टव्यम्” ।

दृतिहरि पु० दृतिं चर्ममयं द्रव्यं हरति दृतौ + उपपदे

हृपशौ कर्त्तरि इन् । कुक्कुरेउज्व० । पशोरन्यत्र अण्
दृतिहार चर्महारके ।

दृत्य त्रि० दृ--कर्मणि क्यप् । १ आदरणीये भावे क्यप् ।

२ आदरे न० आङि आदृत्य तत्रार्थे “आदृत्यस्तेन
वृत्येन” भट्टिः ।

दृध्र न० गवां निर्गमनद्वाररोधके “ते गव्यता मनसा दृध्र-

मुर्वम्” ऋ० ४ । १ । १५ भाष्ये माधवः ।

दृन् अव्य० १ हिंसायाम् सि० कौ० । २ दृढ़ार्थे शब्दार्थचि० ।

दृन्फ क्लेशे तु० प० अक० सेट् । दृफति दृम्फति अदृम्फीत् ।

क्लेशने सक० । दृन्फूः सर्पजातिः

दृन्फू स्त्री दृन्फ--कू नि० न नलोपः । १ सर्पजातौ २ वज्रे च

मेदि० दृन्भू तत्रार्थे सि० कौ० ।

दृन्भू पु० दृन् हिंसायां भवति भुवः क्विप् । १ वज्रे २ सूर्ये

हेमच० । ३ नृपे शब्दच० ४ अन्तके संक्षिप्तसार “दृन्कर
पुनःपूर्वस्य भुवो यण् वक्तव्यः” वार्ति० अजादौ यण् ।
दृन्भ्वौ दृन्भ्व इत्यादि दृम्भू तत्रार्थे सि० कौ०

दृप बाधने तु० पर० सक० सेट् । दृपति अदर्पीत् । ददर्प । कन्दर्पः

दृप सन्दीपने वा चुरा० उम० पक्षे भ्वा० पर० सक० सेट् । दर्प-

यति ते दर्पति । अदीदृपत्--त अददर्पत्--त अदर्पीत् ।

दृप हर्षे गर्वे च अक० दिवा० वेट् दृप्यति “दृप्यद्दानयदूयमा-

नदिविषद्दुर्वारदुःखोपमाम्” गीतगो० इरित् अदृपत्
अद्राप्सीत् अदर्पीत् केचिदिमं ऊदितं मन्यन्ते दर्पि-
ष्यति द्रप्स्यति अस्य रधादित्वात् वेट्कत्वम् । तेन
रूपे न वैलक्षण्यम् दर्पः दृप्तः । ञीत् दृप्तः । शब्द-
स्तोमे ऊदित्त्वोक्तिः मतभेदेन ।

दृप्त त्रि० दृप--गर्वे हर्षे च वर्त्तमाने क्त । १ गर्वान्विते

२ हर्षान्विते च ३ विष्णौ पु० “दर्पदो दर्पको दृप्तोदुर्द्ध्वरोऽ-
न्यापराजितः” विष्णुसं० “दृप्तबालाकिर्हानूचानो गार्ग्य
आस” शत० ब्रा० १४ । ५ । १ । १

दृप्र त्रि० दृप--बाधने रक् । बलयुक्ते उणादि० ।

दृफ क्लेशे तुदा० मुचादि० अक० पर० सेट् । दृम्फति

अदर्भीत् क्लेशने सक० । राजा चौरं दृम्फति क्लिश्नातीत्यर्थः ।

दृब्ध त्रि० दृभ--ग्रन्थने कर्मणि क्त । १ ग्राथते त्रि० अमरः ।

दृभभये कर्त्तरि क्त । २ भीते भावे क्त । ४ ग्रथने ५ भये च न०

दृभ ग्रथने वा चुरा० उभ० पक्षे तु० पर० सक० सेट् । दर्भयति

ते दृमति अदीदृभत्--तं अददर्भत् त अदर्भीत् । ईदित् ।
दृब्धः दृब्धवान् । दर्भः
पृष्ठ ३६७०

दृभ भये वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट् । दर्भयति--ते

दर्भति । अदीदृभत् त अददर्भत् त । अदर्भींत् ईदित्
दृब्धः दृब्धवान् ।

दृभीक पु० दृभ--बा० ईकङ् । असुरभेदे “अध्वर्यवो यो

दृभीकम्” ऋ० २ । १४ । ३ “दृभीको नामासुरः” भा०

दृमिचण्डेश्वर न० मत्स्यपूराणोक्ते शिवलिङ्गभेदे

दृवन् त्रि० दॄ--विदारे क्वनिप् बा० वेदे ह्रस्वः । विदारके

“दृवाणि रब्धानि क्षुमाणि” यजु० १० । ८

दृश वाक्षुषज्ञाने भ्वा० पर० सक० अनिट् । पश्यति इरित्

अदर्शत् अद्राक्षीत् । ददर्श ददर्शिथ दद्रष्ठ ददृशिव
द्रष्टा दृश्यात् द्रक्ष्यति । दर्शनीयं द्रष्टव्यं दृश्यः द्रष्टा
दृष्टः द्रष्टुं दृष्टिः दृक् दृष्ट्वा प्रदृश्य । “तुतोष पश्यन्
वितृणान्तरालाः” भट्टिः पश्यतो हरः । “न तु मां
शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते
चक्षुः पश्य से योगमैश्वरम्” । “अपश्यद् देवदेवस्य
शरीरे पाण्डवस्तदा” गीता “ददर्श दूनः स्थलपद्मिनीं
नलः” नैष० मानसज्ञाने च “शान्तोदान्त उपरतस्तितिक्षुः
श्रद्धावान् समाहितीभूत्वा आत्मन्यात्मानं पश्यति”
श्रुतिः “आत्मा वा अरे द्रष्टव्यः” वृ० उ० श्रुतिः णमुल्
“तं विप्रदर्शं कृतघातयत्ना” भट्टिः “दृशेरनालोचने
कङ् च” पा० कर्त्तरि कङ् अन्यादृशः कीदृशः चात्
क्विन् क्स च अन्यादृक् अन्यादृक्षः । श पश्यः “अपास्य
पश्यं निजदृश्यखेटात्” नील० ता० “उग्रम्पश्या-
कुलेऽरण्ये” भट्टिः दर्शयति ते अददर्शत् अदीदृशत् त ।
णिचि कर्मणः कर्तृत्वे तङ् दर्शयते भवो भक्तान्
भक्तैर्वा आत्मानमिति शेषः । एवं विषये दृशेः कर्तुर्वा
कर्मसंज्ञा “सीतां रामेण चात्मानमदर्शयत लक्ष्मणम्”
मुग्धबो० सनि तङ् दिदृक्षते । “दिदृक्षमाणः परितः
ससीतं रामं यदा नैक्षत लक्षणञ्च” । भट्टिः दिदृक्षा कर्मणि
दृश्यते “एकधा बहुधा चैव दृश्यते जलचन्द्रवत्”
श्रुतिः “जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः”
मनुः “अदर्शि सङ्कोप्य कदाप्यवीक्षितः” “रूपमदर्शि
धृतोऽसि यदर्थम्” नैष० अस्यार्षे क्वचित्तङपि । “यं यं
हि ददृशे सेयं तं तं मेने नलं नृपम्” भा० व० २२०२ श्लो० ।
दर्शनयोग्ये प्रकाशे च अक० “मधुरात्मानमदर्शयत् पुरः”
कुमा० । दर्शनार्थत्वे तङ् स्यादिति बोध्यम् ।
  • अनु + अनुरूपदर्शने “रथे विलग्नाविव चन्द्रसूर्यौ घनान्तरेणा-
नुददर्श लोकः” भा० वि० १६९ श्लो० दृशिशब्दे पात० सूत्रे
उदा० दृश्यम् । “बहुविधमनुदृश्य चार्थहेतोः
कृपणमिहार्यमनार्यमाश्रयन्तम्” भा० शा० १७९ अ०
  • अभि + आभिमुख्येन समन्ताद्वा दर्शने “तदा प्रभृति
कौन्तेय! नरा गिरिमिमं सदा । नाशक्नुवन्नभिद्रष्टुं कुत
एवाघिरोहितुम्” भा० व० ९९८२ श्लो०
  • अव + नीचतया दर्शने “यथा जलस्थ आभासः स्थल-
स्थेनावदृश्यते । स्वाभासेन यथा सूर्यो जलस्थेन दिवि-
स्थितः” भाग० ३ । २७ । १२
  • आ + आभिमुख्येन समन्ताद्वा दर्शने आदर्शः । “उत्कलादा-
र्शितपथः कलिङ्गाभिमुखो ययौ” रघुः ।
  • उद् + नीचस्थस्योच्चतया दृष्टौ उत्प्रेक्षणे च
  • उप + सामीप्येन दर्शने । “चतुष्पाद् व्यवहारोऽयं विवा-
देषूपदर्शितः” याज्ञ० ।
  • नि + दृष्टान्ततया साम्मुख्येन वा दर्शने । “द्रष्टुमिच्छामि ते
रूपमैश्वरं त्वं निदर्शय” भा० आश्र० १५८८ श्लो०
निदर्शनालङ्कारः “निदर्शयामास विशेषदृश्यम्” रघुः
  • परा + विपरीतदर्शने यस्य यथारूपं ततोऽन्यरूपेण दर्शने
“धूममग्निं परादृश्या मित्राहृत्स्वा दधतां भयम्” अथ०
८ । ८ । २ । “त्रीन् स्तनानुपेयुस्तं पराददृशुः । द्वौ स्तना
उपेयुस्तन्नेदीयसः पराददृशुः” शत० ब्रा० ९ । ५ । १ । ३ । ४ ।
  • परि + परितः समन्ताद्वा दर्शने “परिदृष्टानि तीर्थानि गङ्गा-
चैव मया नृप!” भा० आश्र०७३ अ० परिच्छिन्नतया
दर्शने च । “बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः
परिदृष्टो दीर्घसूक्ष्मः” पा० सू० । दीर्घसूक्ष्मशब्दे ३६१
४ पृ० दृश्यम् ।
  • प्र + सम्यग्दर्शने “मनसैव प्रदीपेन महानात्मा प्रदृश्यते”
भा० आश्व० १९ अ० “अहो त्वयाद्य विप्रेषु भक्तिरागः
प्रदर्शितः” भा० अनु० ७२११ श्लो० एकदेशदर्शने च ।
प्रदर्शनार्थमिदमुक्तम् । “योगेश्वरत्वं कृष्णेन यत्र राज्ञां
प्रदर्शितम्” भा० आ० ५१० श्लो० ।
  • प्रति + तुल्यरूपदर्शने “कृताभ्यङ्गः शोणितेन रुद्रवत् प्रत्य-
दृश्यत” भा० भी० ४६७९ श्लो० “निमित्तलक्षणं ज्ञानं
शाकुनं स्वप्नदर्शनम् । अवश्यं सुखदुःखेषु नराणां
प्रतिदृश्यते” रामा० अयो० ५८१५ श्लो०
  • वि + विशेषेण दर्शने “विदर्शयन्तोविविधान् भूयश्चित्रांश्च
निर्झरान्” रामा० अयो० ४८ अ० १३ श्लो०
  • सम् + सम्यग्दर्शने “संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विना-
शनम्” भा० शा० १०६८ श्लो०
पृष्ठ ३६७१

दृश् त्रि० कस्मिंश्चिदुपपदे दृश--क्विन् झलि पदान्ते च कुः ।

१ तत्तत्पदार्थदर्शके “वायुभक्षो दिवा तिष्ठन् रात्रिं
नीत्वाप्सु सूर्यदृक्” याज्ञ० “ऐन्द्रद्युम्ने! यज्ञदृशा-
विहावां विवक्षू वै जनकेन्द्रं दिदृक्षू” भा० व० १०६२४ श्लो०
अनुपपदेऽपि क्विन् । २ द्रष्टरि “दृग्दर्शनशक्त्योरेकात्मते-
वास्मिता” पात० सू० । भावे क्विन् । ३ दर्शने ४ ज्ञानमात्रे
च स्त्री “प्रतिबन्धदृशः प्रतिवद्धज्ञानमनुमानम्” सा० सू०
“प्रतिबन्धोव्याप्तिर्व्याप्तिदर्शनात् व्यापकज्ञानमनुमानम्”
भाष्यम् । करणे क्विन् । ५ नेत्रे स्त्री “दृशा दग्धं
मनसिजं जीवयन्ति दृशैव याः” सा० द० । “क्षत्रकोपदह-
नार्चिषं ततः सन्दधे दृशमुदग्रतारकाम्” रघुः ६ द्वित्व-
संख्यायाञ्च ।

दृशति स्त्री दृश--बा० भावे अतिक् । दर्शने “सूरो न

यस्य दृशतिररेपाः” ऋ० ६ । ३ । ३ “दृशतिर्दर्शनम्” भा०

दृशद् स्त्री दृषद् + पृषो० । शिलायाममरे पाटान्तरम्

“तथा दृशत्पुत्रञ्च” गोमिलः “दृशत् पेषणाधारशिला,
पुत्रं पेषणकरणरूपप्रस्तरस्तदुभयं पूर्ववदुपसादयतीत्यर्थः”
सं० त० रघु० ।

दृशद्वती स्त्री दृषद्वती + पृषो० । १ आर्य्यावर्त्तसीमास्थे

नदीभेदे २ कात्यायन्याञ्च मेदि० ।

दृशा स्त्री दृश् + हलन्तत्वात् वा टाप् । नेत्रे शब्दच० दृशाकाङ्क्ष्यम् ।

दृशाकाङ्क्ष्य त्रि० दृशया आकाङ्क्ष्यम् । पद्मे शब्दच० ।

दृशान पु० दृश--आनच् किच्च । १ लोकपाले उज्वल० २ विरो

चने पु० ३ ज्योतिषि न० मेदि० । ४ आचार्ये पु०
उणादिकोषः । ५ ब्राह्मणे ६ उपाध्याये च पु० संक्षिप्तसारः ।

दृशि(शी) स्त्री दृश--भावे कि वा ङीप् । १ दृष्टौ २ प्रकाशे च

“द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः” पात० सू० ।
“दृशिमात्र इति दृक्शक्तिरेव विशेषणेन परामृष्टेत्यर्थः । स
पुरुषो बुद्धेः प्रतिसंवेदी बुद्धेर्न सरूपोनात्यन्तं विरूप
इति न तावत् सरूपः कस्मात्? ज्ञाताज्ञातविषयत्वात्
परिणामिनी हि बुद्धिस्तस्याश्च विषयोगवादिर्घटादि
र्ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति । कस्मात्?
न हि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता चेति
सिद्धं पुरुषस्य सदा ज्ञातविषयत्वं ततश्चापरिणामित्व-
मिति । किञ्च परार्था बुद्धिः संहत्यकारित्त्वात् स्वार्थः
पुरुष इति । तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणा
बुद्धिस्त्रिगुणत्वादचेतनेति गुणानान्तूपद्रष्टा पुरुष इत्यतो
न सरूपः । अस्तु तर्हि विरूप इति नात्यन्तं विरूपः,
कस्मात्? शुद्धोऽप्यसौ पश्यन्नतदात्मापि तदात्मक इव
प्र्त्यवभासते । तथा चोक्तम् अपरणामिनी हि भोक्तृ
शक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्राम्येव
तद्वृत्तिमनुपतति । तस्याश्च प्राप्तचेतनानुग्रहरूपाया
बुद्धिवृत्तेरनुकारमात्रतया बुद्धिकृत्यविशिष्टा हि ज्ञान
वृत्तिरित्याख्यायते” भा० । सूर्यप्रकाशयोरिव द्रष्टृदृश्यो
र्धर्मधर्मिणोरैक्यात् ३ चेतने पुरुषे च “दृशिस्वरूपो
गगनोपमोमतः” । “तदभावात् संयोगाभावोहानं तद् दृशेः
कैवल्यम्” पात० सू० “मिथ्यादर्शनस्याभावात् बुद्धिपुरु-
षसंयोगाभावः आत्यन्तिको बन्धनोपरम इत्यर्थः
एतद्धानं तद् दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगो
गुणैरित्यर्थः । दुःखकारणनिवृत्तौ दुःखोपरमो हानं
तदा सरूपप्रतिष्ठः पुरुष इत्युक्तम्” भा० दृश--इक् ।
४ दृशधातौ “दृशेरनालोचने कङ् च” पा०

दृशीक त्रि० दृश--कर्मणि बा० ईकक् । १ दर्शनीये २ शोभने च

“स्तोमं रुद्राय दृशीकम्” ऋ० १ । २७ । १० “दृशीकं दर्श-
नीयं समीचीनम्” भा०

दृशेन्य त्रि० दृश--कर्मणि केन्यन् । दर्शनीये “दृशेन्यो महिना

समिद्धः” ऋ० १० । ८८ । ७ “दृशेन्यः दर्शनीयः” भा०

दृशोपम न० दृशाया उपमा यत्र । श्वेतपद्मे शब्दमाला ।

दृश्य त्रि० दृश--कर्मणि क्यप् । १ दर्शनीये २ मनोरमे च

“चित्रं तदा कुण्डिनवेशिनः सा नलस्य मूर्त्तिर्ववृते न
दृश्या । बभूव तच्चित्रतरन्तथापि विश्वैकदृश्यैव यदस्य
मूर्त्तिः” । “आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति
पुराणवाणी” नैप० “तमेकदृश्यं नयनैः पिबन्त्योनार्यो
न जग्मुर्विषयान्तराणि” कुमा० “निदर्शयामास विशेष-
दृश्यमिन्दुं नवोत्थानमिव” रघुः । ३ ज्ञेयमात्रे ४ प्रकाश्ये
च “द्रष्टृदृश्ययोः संयोगो हेयहेतुः” पात० सू० “द्रष्टा
बुद्धेः प्रतिसंवेदी पुरुषः, दृश्या बुद्धिसत्वोपारूढा
सर्वे धर्माः, तदेतद् दृश्यमयष्कान्तमणिकल्पं सन्नि-
धिमात्रोपकारि दृश्यत्वेन स्वम्भवति पुरुषस्य दृशि-
रूपस्य स्वामिनः । अनुभवकर्मविषयतामापन्नमन्यस्वस्य-
पेण प्रतिलब्धात्मकं स्वतन्त्रमपि तदर्थत्वात् परतन्त्रम्
उभयोर्दृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहे-
तुर्दुःखस्य कारणमित्यर्थः” भा० “प्रकाशक्रियास्थिति
शीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्” पात० सू०
“प्रकाशशीलं सत्वं, क्रियाशीलं रजः । स्थितिशीलं
तम इति एते गुणाः परस्परोपरक्तप्रविभागाः परिणा-
पृष्ठ ३६७२
मिनः संयोगविभागधर्माणः इतरेतरोपाश्रयेणोर्ज्जित
मूर्त्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागास्तुल्य
जातीयाऽतुल्यातीयशक्तिभेदानुपातिनः । प्रधानवेला-
यामुपदर्शितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेणा-
प्रधानान्तर्नीतानुमितास्तिताः पुरुषार्थकर्त्तव्या
अयस्कान्तमणिकल्पाः प्रत्ययमन्तरेण एकतमस्य वृत्तिमनु-
वर्तमानाः प्रधानशब्दवाच्या भवन्ति । एतद्दृश्यमि-
त्युच्यते । तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना
सूक्ष्मस्थूलेन परिणमते तथेन्द्रियभावेन श्रोत्रादिना
सूक्ष्मस्थूलेन परिणमत इति । तत्तु नाप्रयोजनम् अपि तु
प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तत्
दृश्यं पुरुषस्येति तत्रेष्टानिष्टगुणरूपावधारणम् अविभा-
गापन्नं भोगोभोक्तुः स्वरूपावधारणमपवर्ग इति द्वयो-
रतिरिक्तमन्यद्दर्शनं नास्ति” भा० ग्रहाणां नक्षत्राणां च
कालांशविशेषेण सूर्यसान्निव्ये अदृश्यत्वं सू० सि०
उक्तम् अस्तशब्दे ५६३ पृ० दर्शितम् उदयशब्दे ११४४ । ४५
पृ० दृश्यत्वं च दर्शितं ततएवावगन्तव्यम् ।

दृश्य(ष्ट)जाति न० लीला० उक्ते इष्टकर्मरूपे गणित-

भेदे इष्टकर्मन् शब्दे ९९७ पृ० तत्प्रकारो दृश्यः ।

दृश्यादश्य त्रि० दृश्यञ्च अदृश्यश्च द्वन्द्व० । १ दृश्ये अदृश्ये च

“अष्टादशशताभ्यस्तादृश्यांशाः स्वोदयासुभिः । विभज्य
लब्धाः क्षेत्रांशैस्तैर्दृश्यादृश्यताथ वा” सू० सि० । “दृश्या
चासौ अदृश्या च” कर्म०! “सा दृष्टेन्दुः सिनीवाली”
अमरोक्तेः किञ्चिदंशेन दृश्यचन्द्रायाम् किञ्चिदंशेन
अदृश्यचन्द्रायाञ्च २ सिनीवाल्यां स्त्री तस्यां चन्द्रस्य दर्श-
नादर्शनयोः सत्त्वात् तथात्वम् । ३ तदभिमानिदेवतायाञ्च
सा च अङ्गिरसस्तृतीयकन्या यथाह भा० व० २१७ अ०
“यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः । तनुत्वात्
सा सिनीवाली तृतीयाऽङ्गिरसः सुता”

दृश्वन् त्रि० दृश--क्वनिप् । दर्शके “विवेकदृश्यत्वमगात्

सुराणाम्” भट्टिः “अनाकृष्टस्य विषयैर्विद्यानां
पारदृश्वनः” । “गुर्वर्थमर्थी श्रुतपारदृश्वा” रघुः ।

दृषत्सार न० दृषदः सारमिव । मुण्डायसे राजनि० ।

दृषद् स्त्री दॄ--अदि षुक् ह्रस्वश्च । १ शिलायां २ पेषणशिला-

याञ्च मेदि० तत्र शिलायां “गुर्वीरजस्रं दृषदः समन्तात्”
माघः । “दृषदो बासितोत्सङ्गा निषण्णमृगनाभिभिः”
कुमा० “तत्र व्यक्तं दृषदि चरणन्यासमर्द्धेन्दुमौलेः” मेघ०
पेषणशिलायाम् “पश्चादग्नेर्दृषदमश्मानं प्रतिष्ठाप्य”
आश्व० गृ० १ । ७ । ३ “अपामग्नेः सुरेशस्य दृषदोलूख-
लस्य च । चतुर्दैवानि चत्वारि द्वाराणि विदधुश्च ते”
हरिवं० ११६ अ० । दृषदोलूखलमित्यत्र राजदन्ता० पूर्वनि० ।
दृषदि पिष्टाः अण् । दार्षद, दृषदि पिष्टे त्रि०

दृषदिमाषक पु० माषः शुल्कत्वेन दीयते कन् दृषदि

पेषणव्यवहारे राज्ञे देयः माषकः “कारनाम्नि च
प्राचां हलादौ” पा० अलुक् समा० । पेषणव्यवहारे
राजदेये माषरूपे करे ।

दृषद्वत् त्रि० दृषदः सन्त्यस्मित् भूम्ना मतुप् मस्य वः । १

दृषद्युक्ते स्त्रियां ङीप् । सा च २ नदीभेदे “सरस्वतीदृष-
द्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्तं
प्रचक्षते” मनुः “प्रययुर्ज्जाह्नवीकूलात् कुरुक्षेत्रं
सहानुगाः । सरस्वतीदृषद्वत्यौ यमुनाञ्च निषेव्य ते ।
ययुर्वनेनैव वनं सततं पश्चिमां दिशम्” भा० व० ५ अ० ।
“कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती
गोमती” भाग० ५ । १९ । १८ भारतवर्षस्थमहानदीकथने ।
“दक्षिणेन सरस्वत्यादृषद्वत्युत्तरेण च । ये वसन्ति कुरु-
क्षेत्रे ते वसन्ति त्रिपिष्टपे” भा० व० ८३ अ० । ३ नृपभेदे पु०
“संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे
तस्यामस्य जज्ञे सार्वभौमः” भा० आ० ९५ अ० । विश्वामि-
त्रस्य ४ पत्नीभेदे स्त्री “दृषद्वतीसुतश्चापि विश्वामित्रात्तथा-
ऽष्टकः । अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया”
हरिवं०२७ अ०

दृष्ट त्रि० दृश--कर्मणि क्त । १ दर्शनकर्मणि विलोकिते

“दृष्टदोषेऽपि विषये ममत्वाकृष्टसेतनः” देवीमा० “द्यूतमेतत्
पुराकल्पे दृष्टं वैरकरं महत्” “तस्येह भागिनौ दृष्टौ
वीजी क्षेत्रिकएव च” मनुः २ ज्ञातमात्र च “दृष्ट-
वदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः” सा० का०
“दृष्टानुश्रविकविषयवितृष्णा वशीकारसंज्ञा वैराग्यम्”
पात० सू० “दृष्टं श्रुतञ्चेत्युपासीत” छा० उप० । भावे
क्त । ३ दर्शने ४ राज्ञां स्वराष्ट्रस्थात् चौरादेर्भये ५ पररा-
ष्ट्रात् दाहविलोपादेर्भये च न० अमरः । ६ साक्षात्कारे न०
“दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं
प्रमाणमिष्टम्” सा० का० उद्दिश्य तल्लक्षितं यथा
“प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमा-
ख्यातम्” सा० का० “अत्र दृष्टमिति लक्ष्यनिर्द्देशः
परिशिष्टन्तु लक्षणं समानासमानजातीयव्यवच्छेदोल-
क्षणार्थः । अवयवार्थस्तु विषण्वन्ति विषयिणमनुबघ्नन्ति
पृष्ठ ३६७३
स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् विषयाः
पृथिव्यादयः सुखादयश्च अस्मदादीनामविषयाश्च तन्मा-
त्रलक्षणा योगिनामूर्द्धस्रोतसाञ्च विषयाः । विषयं
विषयं प्रति वर्त्तते इति प्रतिविषयमिन्द्रियवृत्तिश्च
सन्निकर्षः अर्थसन्निकृष्टमिन्द्रियमित्यर्थः तस्मिन्नध्यवसाय-
स्तदाश्रितैत्यर्थः अध्यवसायश्च बुद्धिव्यापारो ज्ञानम् ।
उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तमोऽभि-
भवे सति यः सत्वसमुद्रेकः सोऽध्यवसायैति वृत्तिरिति
ज्ञानमिति चाख्यायते इदं तावत् प्रमाणम् । अनेन
यश्चेतनाशक्तेरनुग्रहस्तत् फलं प्रमाबोधः । बुद्धि-
तत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्य-
चेतनो घटादिवत्, एवं बुद्धितत्त्वस्य सुखादयोऽपि
परिणामभेदा अचेतनाः । पुरुषस्तु सुखाद्यननुषङ्गी चेतनः
सोऽयं बुद्धितत्त्ववर्त्तिना ज्ञानसुखादिना तत्प्रतिविग्बि-
तस्तच्छायापत्त्या ज्ञानसुखादिमानिव भवतीति चेतनो-
ऽनुगृह्यते चितिच्छायापत्त्या चाचेतनापि बुद्धिस्तद-
ध्यवसायोऽपि चेतन इव भवतीति । तथा च वक्ष्यति
“तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्त्तेव भवत्युदासीनः” इति । अत्रा-
ध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति संशयस्य अनवस्थि-
तग्रहणेनानिश्चितरूपत्वात् निश्चयोऽध्यवसाय इत्य-
नर्थान्तरम् । विषयग्रहणेन चासद्विषयं विपर्य्ययमपा-
करोति, प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्षसूचनादनुमान-
स्मृत्यादयः पराकृता भवन्ति । तदेवं समानासमान-
जातीयव्यवच्छेदकत्वात् प्रतिविषयाध्यवसाय इति दृष्टस्य
सम्पूर्णं लक्षणम्” तत्त्वकौ० ।

दृष्टदोष त्रि० दृष्टो दोषः रागलोभादिर्यस्य । १ ज्ञातराग-

लोभादिरूपदोषके “न दृष्टदोषाः कर्तव्या न व्याध्यार्त्ता
न दूषिताः” साक्षिकरणनिषेधे मनुः । दृष्टो दोषो
मिथ्याज्ञानजन्यवासना यत्र । २ ज्ञातमिथ्याज्ञानजन्यवा-
सनायुक्तविषये “दृष्टदोषेऽपि विषये ममत्वाकृष्टचेतनः”
देवीमा० दृष्टो ज्ञातो दोषोयेन । ३ छिद्रावलोकके रिपौ

दृष्टपृष्ठ त्रि० दृष्टम् प्रतियोधैः पृष्ठमस्य । पलायमाने शब्दा-

र्थचि० रणात् पराङ्मुखस्य शत्रुभिः पृष्ठस्य दर्शनात्
तथात्वम् ।

दृष्टप्रत्यय त्रि० दृष्टेन दर्शनेन प्रत्ययः विश्वासो यस्य । अन्यत्र

दर्शनेन कृतदृढनिश्चये ।

दृष्टरजस् स्त्री दृष्टं रज आर्त्तवं यया । १ दृष्टरजस्कायां

नार्याम् अमरः । २ तदुपलक्षितायां मध्यमायां प्रौढ़ायाम्
स्त्रियां राजनि० ।

दृष्टान्त पु० दृष्टोऽन्तः विषयपरिच्छेदोयत्र । गौ० सूत्रोक्तेषु

षोडशसु पदार्थेषु मध्ये पदार्थभेदे तल्लक्षणं तत्रोक्तं यथा
“लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः” सू०
“लोकसामान्यमनतीता लौकिका नैसर्गिकं वैनयिकं
बुद्ध्यतिशयमप्राप्तास्तद्विपरीताः परीक्षकास्तर्केण प्रमाणैरर्थ
परीक्षितुमर्हन्तीति, यथा यमर्थं लौकिका बुध्यन्ते तथा
परीक्षका अपि सोऽर्थो दृष्टान्तः । दृष्टान्तविरोधेन हि
प्रतिषेद्धव्या भवन्तीति । दृष्टान्तसमाधिना च स्वपक्षाः
स्थापनीया भवन्तीति तदुक्तावयवेषु चोदाहरणाय
कल्पत इति” वात्स्या० भा० । ३ तत्रोक्तावयवमध्ये
उदाहरणे च तल्लक्षणं तत्रोक्तं तच्च उदाहरणशब्दे ११६४
पृ० दर्शितम् अधिकमत्र तत्सूत्रभाष्यं प्रदर्श्यते यथा
“साध्यसाधर्म्यात् तद्धर्मभावो दृष्टान्त उदाहरणम्” गौ० सू०
“साध्येन साघर्म्यं समानधर्मता साध्यसाधर्म्यात् कारणात्
तद्धर्मभावो दृष्टान्त इति तस्य धर्म्मस्तद्धर्म्मः तस्य
साध्यस्य, साध्यञ्च द्विविधम् धर्म्मिविशिष्टो वा धर्म्मः
शब्दस्यानित्यत्वम् । धर्म्मविशिष्टो वा धर्म्मी अनित्यः
शब्द इति, इहोत्तरन्तद्ग्रहणेन गृह्यत इति कस्मात्?
पृथग्धर्म्मवचनात् । तस्य धर्म्मस्तद्धर्म्मस्तस्य भावस्त-
द्धर्म्मभावः स यस्मिन् दृष्टान्ते वर्त्तते स दृष्टान्तः साध्य-
साधर्म्यात् तद्धर्म्मभावो भवति स चोदाहरणमिष्यते तत्र
यदुत्पद्यते तदुत्पत्तिधर्म्मकम् यच्च भूत्वा न भवति आत्मानं
जहाति निरुध्यत इत्यनित्यम् । एवमुत्पत्तिधर्म्मकत्वं
साधनमनित्यत्वं साध्यं सोऽयमेकस्मिन् द्वयोर्धर्म्मयोः
साध्यसाघनभावः साधर्म्याद्व्यवस्थित उपलभ्यते तं दृष्टान्ते
उपलभमानः शब्देऽप्यनुमिनोति शब्दोऽप्युत्पत्तिधर्म-
कत्वादनित्यः स्थाल्यादिवदित्युदाह्रियते तेन धर्मयोः
साध्यसाधनभाव इत्युदाहरणम्” भा० “तद्विपर्य्ययाद्वा
विपरीतम्” गौ० सू० “दृष्टान्त उदाहरणमिति प्रकृतं, साध्य-
वैधर्म्यात् तद्धर्मभावो दृष्टान्त उदाहरणमिति । अनित्यः
शब्द उत्पत्तिधर्मकत्वात् यथा अनुत्पत्तिधर्मकं नित्यमात्मादि
सोऽयमात्मादिदृष्टान्तः साध्यवैधर्म्यादनुत्पत्तिधर्मकत्वादत-
द्धर्मभावो योऽसौ साध्यस्य धर्मोऽनित्यत्वं स तस्मिन्
भवतीति । अत्रात्मादौ दृष्टान्ते उत्पत्तिधर्मकत्वस्याभावाद-
नित्यत्वं न भवतीति उपलभमानः शब्दे विपर्य्य यमनुमि-
नोति उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इति साध-
पृष्ठ ३६७४
र्म्योक्तस्य हेतोः साध्यसाधर्म्यात् तद्धर्मभावो दृष्टान्त
उदाहरणम् वैधर्म्योक्तस्य हेतोः साध्यवैधर्म्यादतद्धर्मभावो
दृष्टान्त उदाहरणम् । पूर्वस्मिन् दृष्टान्ते यौ तौ धर्मौ
साध्यसाधनभूतौ पश्यति साध्येऽपि तयोः साध्यसाधन-
भावमनुमिनोति । उत्तरस्मिन् दृष्टान्ते ययोर्धर्मयोरे-
कस्याभावादितरस्याभावं पश्यति तयोरेकस्याभावादितर-
स्याभावं साध्ये अनुमिनोतीति, तदेतद्धेत्वाभासेषु न
सम्भवतीत्यहेतवी हेत्वाभासाः तदिदं हेतूदाहरणयोः
साधर्म्यं परमसूक्ष्मं दुःखबोधं पण्डितैरुपवेदनीयमिति”
भाष्यम् । अन्यत्र च “वादिप्रतिवादिनोः संप्रतिपत्ति-
विषयोऽर्थो दृष्टान्तः । यथा पर्वतो वह्निमान् धूमात्
महानसवदित्यादौ महानसो दृष्टान्तः । स द्विविधः
साधर्म्यदृष्टान्तः वैधर्म्यदृष्टान्तः । आद्यः पर्वते वह्निसा-
धने धूमवत्त्वस्य हेतोर्महानसः । द्वितीयः तत्रैव
धूमवत्त्वस्य हेतोर्महाह्रदः । ३ अर्थालङ्कारभेदे अलङ्का-
रशब्दे ३८८ पृ० दृश्यम् “दृष्टान्तोऽत्र महार्णवः” माघः
४ शास्त्रे ५ मरणे च मेदि०

दृष्टि स्त्री दृश--भावे क्तिन् । १ दर्शने चाक्षुषज्ञाने “नान्धा-

दृष्ट्या चक्षुष्मतामनुपलम्भः” सा० सू० । अक्षिपटलशब्दे ४३ पृ०
अक्षिशब्दे ४५ पृष्ठे च दृश्यम् । २ ज्ञानमात्रे मेदि०
“तथाप्येकतरदृष्ट्या एकतरसिद्धेर्नापलापः” । “विदितबन्ध-
कारणस्य दृष्ट्या तद्रूपम्” सा० सू० । ३ प्रकाशे च “न
द्रष्टुर्दृष्टेर्विपरिलोपोऽस्ति” श्रुति० । ग्रहदृष्टिभेदादिकं
ग्रहदृष्टिशब्दे २७५२ । ५३ पृ० दृश्यम् । करणे क्तिन् ।
४ नेत्रे अमरः । “अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते
मे” मेघ० “दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरे
चञ्चला” मृच्छ० “दृष्ट्या प्रसादामलया कुमारं प्रत्य-
ग्रहीत्” रघुः “दृष्टा दृष्टिमधो ददाति” सा० द० ।

दृष्टिकृत् त्रि० दृष्टिं करोति कृ--क्विप् । २ दर्शके २ स्थलपद्मे

न० शब्दच० । तस्य शोभया लोकानां दृष्टिसम्पादकत्वात्
तथात्वम् ।

दृष्टिकृत न० दृष्टिर्लोकानां दृष्टिः कृता येन निष्ठान्तस्य

परनिपातः । १ स्थलपद्मे शब्दरत्नावली । २ कृतदर्शने त्रि० ।

दृष्टिक्षेप पु० दृष्टेः क्षपः । १ दृष्टिपाते ।

दृष्टिगत पु० दृष्टिं गतः विषतया प्राप्तः । १ नेत्रविषये ।

७ त० । २ नेत्रगते रोगभेदे अक्षिपटलशब्दे ४३ पृ० दृश्यम् ।

दृष्टिगुण पु० दृष्ट्या गुण्यतेऽभ्यस्यतेऽत्र चु० गुण--अभ्यासे

आधारे अच् । १ वाणादिलक्ष्ये शब्दमाला तस्य दृष्ट्यैव
शरादिक्षेपणाभ्यासनात् तथात्वम् ६ त० । २ नेत्रगुणे-
रूपादौ ।

दृष्टिप पु० दृष्टिं पिबति पा--क । देवगणभेदे “गणा देवाना

मूष्मपाः सोमपाश्च, लोकाः सुयामास्तुषिता ब्रह्मकायाः ।
आभासुरा गन्धपा दृष्टिपाश्च” भा० आनु० १८ अ०

दृष्टिबन्धु पु० दृष्टेर्नेत्रस्य बन्धुरिव सादृश्यापादनात् । १ खद्योते

शब्दर० अक्षिपटलशब्दे ४३ पृ० उक्तेन “खद्योतविस्फु-
लिङ्गाभामिति” सुश्रुतवाक्येन दृष्टेस्तत्तुल्यत्वस्योत्कीर्तनेन
तस्य तत्सादृश्यापादकतया तथात्वम् ।

दृष्टिवाद पु० हेमच० उक्ते पञ्चात्मके बौद्धानां वादरूपकथा

भेदे “दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया । प्रति
कर्मसूत्रपूर्वानुयोगो पूवगतचूलिकाः । पञ्च स्युर्दृष्टिवाद-
भेदाः पूर्वाणि चतुर्दशापि पूर्वगते” ।

दृष्टिविक्षेप पु० दृष्टिस्तदेकदेशस्य विक्षेपः । १ कटाक्षदर्शने

हला० ६ त० । २ दृष्टिपाते ३ दर्शनान्तराये च

दृष्टिविभ्रम दृष्टेर्विभ्रमः विलासभेदः । नेत्रविलासभेदे

“विवर्तितभ्रूरियमद्य शिक्षते भयादकामापि हि दृष्टिविभ्र
मम्” शकु० २ दर्शनभ्रान्तौ च

दृष्टिविष पुंस्त्री दृष्टौ विषोऽस्य । १ सर्पभेदे स्त्रियां जातित्वात्

ङीष् । “दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः”
भा० व० २२४ अ० । दृष्टीविषैरित्यत्र आर्षो दीर्घः । “ते
चाब्रुवन् नहुषो घोररूपो दृष्टीविषस्तस्य विभीम देव!”
भा० उ० १५ अ० ।

दृह वृद्धौ भ्वा० पर० अक० सेट् । दर्हति अदर्हीत् ददर्ह ।

अयमिदिच्च तत्र दृंहति अदृंहीत् । “तमेतैः स्तोमैः सप्त-
दशैरदृं हन्” ताण्ड० वा० ४ । ५ । ९ इदित्त्वात् नलोपाभावः
दृंह्यते दृंहितः “दिशे दृंह दृंहिता दृंहणेन” तैत्ति०
२ । ८३ । ८ “दृंहणाय खनामसि” अथ० ६ । १३६ । १
अनिदितस्तु दृह्यते दृहितः इत्यादि ।

दॄ भये भ्वा० पर० सक० सेट् । दरति अदारीत् घटा० णिच्

दरयति । ददार दरीता दरिता । दीर्णः ।

दॄ विदारे दिवा० पर० सक० सेट् । दीर्यति अदारीत् । ददार

दरीता दरिता दीर्णः ।

दॄ विदारे क्य्रा० प्वा० पर० अक० सेट् । दृणाति अदारीत् दरीता दरिता । दीर्णः । भगन्दरः

दे पालने भ्वा० आत्म० सक० अनिट् । दयते अदास्त ददे

दाता दास्यते दातुम् दत्तः ।

देय त्रि० दा--कर्मणि यत् । १ दातव्ये “स्वंकटुम्बाविरोधेन देयं

दारसुतादृते । नान्वये सति सर्वस्वं यच्चान्यस्मै प्रातश्रुतम्
याज्ञ० वचनोक्तनिषिद्धभिन्ने २ दानार्हे दत्ताप्रदानिक-
शब्दे ३४५५ । ५६ पृ० दृश्यम् ।
पृष्ठ ३६७५

देव देवने भ्वा० आत्म० अक० सेट् । देवते अदेविष्ट ।

अदेविढ्वम् अदेवि(द्ध्व) ध्वम् दिदेवे ऋदित् । देवयति ते अदि
देवत् त । देवनमिह रोदनमिति भट्टमल्लः ।
परि + विलापे । “विलापः परिदेवनम्” अमरः ।
“खरदूषणयोर्भ्रात्रोः पर्य्यदेविष्ट सा पुरः” भट्टिः ।

देव पु० दिव--अच् । १ अमरे सुरे नाट्योक्तौ २ राजनि

अमरः । ३ नृपे ४ मेघे पु० ५ इन्द्रिये न० मेदिनि० ६ पारदे
पु० राजनि० । ७ व्राह्मणानामुपाधिभेदे “ततश्च नाम
कुर्वीत पितैव दशमेऽहनि । देवपूर्वं नराख्यं हि
शर्मवर्मादि संयुतम्” इति भवि० पु० । “नरमाचष्टे
इति नराख्यं नरनाम, देवात् पूर्वं तच्चविशिष्टं शर्म-
युतम् । “शर्मा देवश्च विप्रस्य वर्मा त्राता च भूमुजः ।
भूतिगुप्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्” इति
यमवचने समुच्चयोपलब्धेः । “शर्मान्तं ब्राह्मणस्य स्यात्”
इति शातातपीयेन शर्मान्तता च । ८ देवदारुणि
शब्दार्थचि० । ९ पूज्ये १० दीप्ते च त्रि० ११ परात्मनि पु०
एकोदेवः सर्वभूतेषु गूढः” श्रुतिः । “भर्गोदेवस्य” गायत्री
“दीव्यते क्रीडते यस्मात् रोचते द्योतते दिवि । तस्मा-
द्देव इति प्रोक्तः स्तूयते सर्वदैवतैः” योगियाज्ञ०
“उद्भवः क्षोभणो देवः” विष्णुसं० “यतः क्रीडति
सर्गादिभिर्पिजिगीषते शत्रून, व्यवहरति सर्वभूतेषु आत्म-
तया, द्योतते स्तूयते स्तुत्यैः सर्वत्र गच्छतीति तस्मात्
देवः” भा० । सुराश्च यद्यपि बहवस्तथापि प्राधान्यात्
त्रयस्त्रिंशत्संख्यया त्रयस्त्रिंशत्पतिशब्दे ३३५९ पृ०
दृश्याः तत्र सुरे “देवा अप्यस्य रूपस्य नित्यं दर्शन-
काङ्क्षिणः” गीता । “देवानृषीत् मनुष्यांश्च पितॄन्
गृह्याश्च देवताः” मनुः । नृपे “देवाकर्णय सुश्रुतेन
चरकस्योक्तेन जानेऽखिलम्” नैष० नाट्योक्तौ नृपे “यथाऽऽ-
ज्ञापयति देवः” भूरिनाटकेषु । मेथे देवो गर्जति
देवगर्जनम् देवे वर्षति । “देवाश्च आजानदेवाः कर्मदेवाश्च”
कर्मदेवशब्दे १७२८ पृ० दृश्यम् ।

देवऋषभ पु० नित्यकर्म० प्रकृतिवद्भावः । कश्यपकन्यायां

धर्मस्य पत्नीभेदे भानौ जाते पुत्रे दशधर्मायेत्युपक्रमे
“भानुर्लम्बा ककुब्जामिर्विश्वा साध्या मरुत्वती । वसुर्मु-
हूर्त्ता सङ्कपो धर्मपत्न्यः सुतान् शृणु । भानोस्तु
देवऋषभ इन्द्रसेनस्ततो नृप!” भा० ६ । ५ । ४ । ५

देवऋषि पु० देवानामृषिः, पूज्यवत्वात् प्रकृतिवद्भावो वा ।

देवर्षौ नारदादौ “अथ देवऋषी राजन्! संपरेतं
नृपात्मजम्” भाग० ६ । १६ । १ पक्षे देवर्षिरप्यत्र ।
वृहस्पतेर्वृहत्कीर्त्तेर्देवर्षेर्विद्धि भारत” भा० आ० ६७ अ० ।

देवक त्रि० दिव--ण्वुल् । १ क्रीडके २ गन्धर्वपतिभेदे ३ श्रीकृ-

ष्णस्य मातामहे आहुकपुत्रे नृपभेदे च पु० “यस्त्वासी-
द्देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिर्मुख्यः
क्षितौ जज्ञे नराधिपः” भा० आ० ६७ अ० तस्यैव देवक-
नाम्ना कलाववतारः इत्यर्थः । “आहुकस्य तु काश्यायां द्वौ
पुत्रौ सम्बभूवतुः । देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ।
देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशोपमाः । देववानुपदेवश्च
सन्देवो देवरक्षितः । कुमार्यः सप्त चास्यासन् वसुदे-
वाय ता ददौ । देवकी शान्तिदेवा च सन्देवा देवर-
क्षिता । वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी” हरिवं०
३८ अ० । ४ तत्कन्यायां स्त्री ङीष् । देवकीशब्दे दृश्यम्

देवकर्दम पु० देवप्रियः कर्दम इव । श्रीखण्डागुरुकर्पूर

कुङ्कुमैर्मिलितैः कृते कर्दमरूपे गन्धद्रव्यभेदे राजनि० ।

देवकात्मजा स्त्री ६ त० । देवकनृपसुतायां देवक्यां प्राधान्यात्

शब्दरत्ना० ।

देवकार्य न० देवप्रियार्थं कार्यम् । १ देवप्रियार्थे होमपूजादौ

कार्ये “देवकार्यात् द्विजातीनां पितृकार्यं विशेष्यते” मनुः ।
देवानाममिलषितं कार्यम् । २ देवाभिलषिते कार्ये च
“अनुष्ठितदेवकार्यम्” रघुः कृतरावणबधादिरूपदेवकार्य-
मित्यर्थः । देवकर्मादयोऽप्यत्र “देवकर्मकृतश्चैव युक्ताः
कामेन कर्मसु” भा० शा० १६७ अ०

देवकाष्ठ न० देवप्रियं काष्ठमस्य । देवदारुवृक्षे रत्ना० ।

“मनःशिला देवकाष्ठं रजन्यौ त्रिफलोषणम्” सुश्रु० ।

देवकिरी स्त्री मेघरागस्य भार्य्याभेदे रागिणीभेदे तद्रागस्य

रागिणीभेदाः तत्स्वरूपञ्च सङ्गीतदा० उक्तं यथा
“ललिता मालती गौरी नाटी देवकिरी तथा ।
मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः” । अस्या स्वरूपं
यथा “भ्रमन्ती नन्दने श्यामा पुष्पप्रचयतत्परा । ख्याता
देवकिरी ह्येषा करार्पितसखीकरा” देवगिरीति वा पाठः ।

देवकिल्विष न० देवेन कृतं किल्विषमनिष्टकर्म । देवकृते

अनिष्टे कार्ये यथा वरुणकृतपाशबन्घनं यमकृतपादबन्ध-
नमित्यादि । “मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । “अथो
यमस्य पड्वीशात् सर्वस्माद्देवकिल्विषात्” ऋ० १० । ९७ । १६ ।
पृष्ठ ३६७६

देवकी स्त्री देवक + पुंयोगे ङीष् पुंयोगश्च न केवल दा-

म्पत्यलक्षणः किन्तु जन्यजनकत्वादिरूपोऽपीति हरदत्तः
तेन केकयीति सिद्धम् । देवकराजकन्याभेदे देवकशब्दे
दृश्यम् । देवकी च कश्यपपत्न्या अदितेरवतारः यथोक्तं
हरिवं० ५६ अ० “तस्य (कश्यपस्य) भार्याद्वयञ्चैव अदितिः
सुरभिस्तथा । देवकी रोहिणी चैव वसुदेवस्य धीमतः”

देवकीनन्दन पु० ६ त० । वसुदेवपत्न्या देवक्यानन्दने श्रीकृष्णे ।

“नन्दगोपस्य जायैका वसुदेवस्य चापरा । तुल्यकालं
हि गर्भिण्यौ यशोदा देवकी तथा । देवक्यजनयद्विष्णुं
यशोदा तान्तु कन्यकाम् । मुहूर्त्तेऽभिजिते प्राप्ते सार्द्ध-
रात्रे विभूषिते” हरिवं० । ६० अ० “देवकीनन्दनः स्रष्टा
क्षितीशः पापनाशनः” विष्णुसं० “गृहीत्वा हरणं प्राप्ते
कृष्णे देवकिनन्दने” भा० आ० १ अ० संज्ञात्वात् ङीषो
ह्रस्वः

देवकीय त्रि० देवस्येदम् गहा० छ “देवस्य च” पा० ग० तदनुशिष्टः कुक् च । देवसम्बन्धिनि ।

देवकीपुत्र पु० ६ त० । १ श्रीकृष्णे “बलवान्नैव दास्यामि

देवकीपुत्रमाश्रितः” हरिवं० १४२ अ० । २ पुरुषयज्ञदर्शन-
विद्यायां घोरनामकाङ्गिरसस्य शिष्यभूते कृष्णे च । यज्ञ-
दर्शनमुपक्रग्य “तद्धैतद्घीर आङ्गिरसः कृष्णाय देवकी-
पुत्रायोक्तोवाचाऽपिपास एव स बभूव सोऽन्तवेलाय
मेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणशंसितम-
सीति” छा० उ० ३ । १७ । ६ “तद्धैतत् यज्ञदर्शनं घोरोना-
मतः, आङ्गिरसो गोत्रतः कृष्णाय देवकीपुत्राय शिष्या-
योक्त्वोवाच तदेतत्त्रयमित्यादि व्यवहितेन सम्बन्धः । स
चैतद्दर्शनं श्रुत्वाऽपिपास एवान्याभ्यो विद्याभ्यो बभूव ।
इत्थञ्च विशिष्टेयं विद्या यत् कृष्णस्य देवकीपुत्रस्यान्यां
विद्यां प्रति तृड्विच्छेदकरीति पुरुषयज्ञविद्यां स्तौति
घोर अङ्गिरसः कृष्णायोक्त्वेमां विद्यां किमुवाचेति तदाह
स एवं यथोक्तयज्ञविदन्तवेलायां मरणकाल एतन्मन्त्रत्रयं
प्रतिपद्येत जपेदित्यर्थः । किं तत् अक्षितमक्षीणमक्षतं
वाऽसीत्येकं यजुः” भा० अत्र परमेश्वरस्य वासुदेवात्मकेश्वरस्य
अन्यशिष्यत्वानुपपत्तौ इह तदन्यस्यैव शिष्यत्वम् । श्रुतौ
सृष्टेः अनादिप्रवाहरूपतया वासुदेवस्य शिष्यत्वकल्पनया
जनकयाज्ञवल्कयोरिव कल्पान्तरस्थयोरियमाख्यायिका
स्तुत्यर्थेत्यन्ये । देवकीसुतादयोऽपि वासुदेवे । “अथ
भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे । अष्टाविंशतिमे
जातः कृष्णोऽसौ देवकीसुतः” ति० त० ब्रह्मपु० “न्याधा-
यिषातामभिदेवकीसुतम्” माघः ।

देवकीमातृ पु० देवकी माता यस्य समासान्तविधेरनित्यत्वात् न

कप्, देवकीं मिनोति प्रसूतित्वेन मा--तृच् वा । वासु
देवे श्रीकृष्णे । “पश्यैतान् देवकीमातर्मुमूर्षूनद्य संयुगे”
भा० द्रो० १८ अ० प्रथमे विग्रहे सर्वनामस्थाने परे गुणः
देवकीमातरमित्यादि द्वितीये देवकीमातारमिति भेदः ।

देवकुण्ड न० देवकृतं कुण्डम् । देवखातके सुभूतिः

देवकुरुम्बा स्त्री महाद्रोण्यां राजनि० ।

देवकुल न० कुल--संहतौ क देवार्थं कुलमल्पद्वारतया

संहतम् । अल्पमुखे (देउल) ख्याते देवगृहभेदे हारा० ।
देवानां २ वंशे ३ समूहे च

देवकुल्या स्त्री देवकृता कुल्या अल्पसरित् । १ देवसरिति

गङ्गायाम् ६ त० । मरीचः कन्यायाः पूर्णिमासः २ कन्या-
याञ्च “पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।
कश्यपं पूर्णमासञ्च ययोरापूरितं जगत् । पूर्णिमा-
सूत विरजं विश्वगञ्च परन्तप । देवकुल्यां हरेः
पादशौचाद् याऽभूत् सरिद्दिवः” भाग० ४ । १ । १२ । सा च
भरतवंश्यस्य भूम्नः पत्नीभेदः यथाह भाग० ५ । १५ । ६
“भरतस्यात्मजः सुमतिर्नाम” इत्युपक्रमे “प्रतिहर्तुः स्तुत्याम-
जभूमानावजनिषाताम् । भूम्न ऋषिकुल्यायामुद्गीथः ततः
प्रस्तारा देवकुल्यायाम्” ।

देवकुसुम न० देवप्रियं कुसुमम् । लवङ्गे अमरः ।

देवकूट न० वशिष्ठाश्रमसन्निकृष्टस्थे तीर्थभेदे “तत्राश्रमो व

शिष्ठस्य त्रिषु लोकेषु विश्रुतः । तत्राभिषेकं कुर्वाणो
वाजपेयमवाप्नुयात् । देवकूटं समासाद्य देवर्षिगणसे-
वितम्” भा० व० ८४ अ० ।

देवक्षत्र पु० क्रोष्टुवंश्ये नृपभेदे “तस्मात् करम्भः कारम्भि-

र्देवरातोऽभवन्नृपः! । देवक्षत्रोऽभवत्तस्य दैवक्षत्रिर्महा-
यशाः । देववर्गसमो जज्ञे देवक्षत्रस्य नन्दनः” हरिवं०
३७ अ० । देवानां क्षत्रं बलं यत्र । २ यज्ञे च “उच्छन्त्यां मे
यजता देवक्षत्रे रुशद् गवि” ऋ० ५ । ६४ । ७ “देवक्षत्रे
यज्ञे” भा० ।

देवखात न० देवेन खात खन--क्त । १ अकृत्रिमे २ जलाशये

७ त० । ३ देवसमीपस्थे खाते च “नदीषु देवखातेषु तडागेषु
सरित्सु च । स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च”
मनः खार्थे क तत्रार्थे अमरः । ३ गुहायां भरतः ।

देवलातबिल पु० नित्यकर्म० । गुहायाम् अमरः ।

देवगण पु० ६ त० । १ देबसमूहे “उदर्कस्तव कल्याणि! तुष्टो देव

गणेश्वरः” भा० भी० १२३ अ० । देवगणाश्च त्रयस्त्रिंशत्पति-
शब्दे ३३५९ पृ० उक्ताः वस्वादीनुक्त्वा “त्रयस्त्रिंशत
पृष्ठ ३६७७
इत्येते देवास्तेषामहं तव । अन्वयं संप्रवक्ष्यामि पक्षशः
कुलतो गणान्” इत्युपक्रमे “एते देवगणा राजन्!
कीर्तितास्तेऽनुपूर्वशः” भा० आ० ६६ अ० उक्ताः । देवसंज्ञ-
कोगणः । २ नक्षत्रभेदे उपयमशब्दे १२५० पृ० गणकूटे
दृश्यम् ६ त० । ३ देवपक्षे ४ देवानुचरादौ

देवगणग्रह पु० सुश्रुतोक्ते देवादिगणरूपे ग्रहे देवानाञ्च

शुद्धस्वभावत्वात् ग्रहत्वासम्भवमाशङ्क्य । तद्गणाना मेव
ग्रहत्वं च तत्रोक्तं यथा
“गुह्यानागतविज्ञानमनवस्था सहिष्णुता । क्रिया
वाऽमानुषी यस्मिन् स ग्रहः परिकीर्त्त्यते । अशुचिं भि
न्नमर्य्यादं क्षतं वा यदि वाऽक्षतम् । हिस्युर्हिंसाविहा-
रार्थं सत्कारार्थमथापि च । असंख्येया ग्रहगणा
ग्रहाधिपतयस्तु ये । व्यज्यन्ते विविधाकारा भिद्यन्ते ते
तथाष्टधा । देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः
पितरो भुजङ्गाः । रक्षांसि या चापि पिशाचजाति
रेषोऽष्टधा देवगणग्रहाख्यः । सन्तुष्टः शुचिरपि चेष्ट-
गन्धमाल्यो निस्तन्द्रो ह्यवितथसंस्कृतप्रमाषी । तेजस्वी-
स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति च यः स
देवजुष्टः । संस्वेदी द्विजगुरुदेवदीषवक्ता जिह्माक्षो विगत-
भयो विमार्गदृष्टिः । सन्तुष्टो भवति न चान्नपानजातै-
र्दुष्टात्मा भवति च देवशत्रुजुष्टः । हृष्टात्मा पुलिनवना-
न्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः । नृत्यन्
वा प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो
मनुष्यः । ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो-
द्रुतगतिरल्पवाक् सहिष्णुः । तेजस्वी वदति च किं द
दामि कस्मै यो यक्षप्रहपरिपीड़ितो मनुष्यः । प्रेतेभ्यो
विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि
चापसव्यवस्त्रः । मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो
भवति पितृग्रहाभिभूतः । भूमौ यः प्रसरति सर्पवत्कदा-
चित् सृक्कण्यौ विलिहति जिह्वया प्रसक्तम् । निद्रालु-
र्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः ।
मांसासृग्विविधसुराविकारलिप्सुर्निल्लज्जो भृशमतिनि-
ष्ठुरोऽतिशूरः । क्रोधालुर्विपुलबलो निशाविहारी
शौचद्विड़्भवति च रक्षसा गृहीतः । उद्धस्तः कृशप-
रुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथातिलोलः ।
बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याचेष्टं भ्रमति रुदन्
पिशाचजुष्टः । स्थूलाक्षस्त्वरितगतिः स्वफेनलेही
निद्रालुः पतति च कम्पते च योऽति । यश्चाद्रिद्विरदनगा-
दिविच्युतःसन् संसृष्टो न भवति वार्द्धकेन जुष्टः ।
देवग्रहाः पौर्णमास्यामासुराः सन्ध्ययोरपि । गन्धर्वः प्राय-
शोऽष्टम्यां यक्षाश्च प्रतिपद्यथ । कृष्णपक्षे च पितरः
पञ्चम्यामपि चोरगाः । रक्षांसि निशि पैशाचाश्चतुर्दश्यां
विशन्ति च । दर्पणादीन् यथा छाया शीतोष्णं प्रा-
णिनो यथा । स्वमणिंभास्करार्चिश्च यथा देहं च देहि-
नः । विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् ।
तपांसि तीव्राणि तथैव दानव्रतानि धर्मो नियमश्च
सत्यम् । गुणास्तथाष्टावपि तेषु नित्या व्यस्ताः समस्ताच्च
यथाप्रभावम् । न ते मनुष्यैः सह संविशन्ति नवा
मनुष्यान् क्वचिदाविशन्ति । ये वाविशन्तीति वदन्ति
मोहात्ते भूतविद्याविषयादपोह्याः । तेषां ग्रहाणां
परिचारका ये कोटीसहस्रायुतपद्मसंख्याः । असृग्वसामां
सभुजः सुभीमा निशाविहाराश्च तमाविशन्ति । निशा-
चराणां तेषां हि ये देवगणसंसृताः । ते तु तत्सत्वसंस-
र्गाद्विज्ञेयास्तु तदञ्जनाः । देवग्रहा इति पुनः प्रोच्यन्ते
शुचयश्च ये । देववत् ते नमस्यन्ते प्रत्यर्थन्ते च देववत्” ।

देवगणिका स्त्री ६ त० । स्वर्वेश्यायामप्सरःसु ।

देवगन्धर्व पु० देवानां गन्धर्वः गायनः । १ देवससीपे गायने

गन्धर्वभेदे । देवगन्धर्वाश्च मौनेयाः प्राधेयाश्च गन्धर्वशब्दे
२५२८ पृ० उक्ताः ।

देवगन्धा स्त्री देवप्रियोगन्धोऽस्याः । महामोदयामोषधौ राजनि० ।

देवगर्भ पु० देवात् गर्भोयस्य । देवाहितगर्भके देवपुत्रे १ नरादौ

“प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् । पुत्रं
कमलगर्भाभं देवगर्भं श्रियावृतम्” भा० व० ३०८ अ० ।
“देवकश्चोग्रसेनश्च देवगर्भसमावुभौ” हरिवं० ३८ अ० “स
तस्यां जनयामास देवगर्भोपमं सुतम्” ११९ अ० २
कुशद्वीपस्थ २ नदीभेदे स्त्री “रसकुल्या मधुकुल्या मित्राविन्दा
श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति यासां प
योभिः कुशद्वीपौकसः” भाग० ५ । २०११

देवगान्धार पु० देवप्रियः देवयोग्यो वा गान्धारः । स्वरभेदे

“ततस्तु देवगान्धारं छालिक्यं श्रवणामृतम् ।
भौमस्त्रियः प्रजगिरे मनःश्रोत्रसुखावहम्” हरिवं० १५२ अ०
२ श्रीरागस्य रागिणीभेदे स्त्री “गान्धारी देवगान्धारी
मालवी श्रीश्च सारवी । राम (गि) किर्य्यपि रागिण्यः श्रीरा-
गस्य प्रिया इमाः” सङ्गीत० दा०

देवगायन पु० ६ त० । गन्धर्वे हेमच० ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/दुवोयु&oldid=57776" इत्यस्माद् प्रतिप्राप्तम्