वाक्यपदीयम् (सवृत्ति)/द्वितीयः भागः (वाक्यकाण्डम्)

विकिस्रोतः तः

अथ द्वितीयकाण्डम्

एवं शब्दस्य प्रयोजनसहितं स्वरूपादिकं लेशतो निर्णोतम् । तस्य च साधारण्येन वाचकत्वं व्यवस्थापितम् । इदानीं मतभेदेन केषाञ्चित्पदं वाचकमन्येषां वाक्यमिति वाचकात्मनो वाक्यस्वरूपस्य तावद्वितत्य स्वरूपप्रतिपादनाय द्वितीयकाण्डप्रारम्भः ।
तत्राचार्यमतभेदाश्रयेण तावद्वाक्योद्देशार्थमाह---

आख्यातशब्दः सङ्घातो जातिः सङ्घातवर्तिनी ।
एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ।। 1 ।।
पदमाद्यं पृथक्‌ सर्वं पदं साकाङ्क्षमित्यपि ।
वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायवादिनाम् ।। 2 ।।

एतेऽष्टौ वाक्यविकल्पा आचार्यणाम् । तत्राखण्डपक्षे जातिः सङ्घातवर्त्तिनी, एकोऽनवयवः शब्दः, बुद्ध्यनुसंहृतिरिति त्रीणि लक्षणानि । खण्डपक्षे तु-- आख्यातशब्दः, क्रमः, सङ्घातः, पदमाद्यम्, पृथक्सर्वं पदं साकाङ्क्षमिति पञ्च लक्षणानि । अत्रापि सङ्घातः क्रम इत्यभिहितान्वयपक्षे लक्षणद्वयम् । आख्यातशब्दः, पदमाद्यम्, पृथक्यर्व पदं साकाङ्क्षमित्यन्विताभिधानपक्षे लक्षणत्रयमिति विभागः ।
इह च "पदप्रकृतिः संहिता" इति प्रातिशाख्यम् । तत्र पदानां प्रकृतिः कारणं पदप्रकृतिः संहितेत्यखण्डपक्षः पदानि प्रकृतिर्यस्याः सेति खण्डपक्षः प्रादुर्भवति।
तत्राख्यातशब्दो वाक्यमिति परस्ताच्छब्दार्थनिर्णय इति प्रकरणे दर्शयिष्यत।यथा---
आख्यातशब्दे नियतं साधनं यत्र गम्यते ।
तदप्येकं समाप्तार्थं वाक्यमित्यभिधीयते ।। इति (वाo पo 2/326)
"केवलेन पदेनार्थः" इत्यादिना ।
श्लोकाष्टकेन सङ्घातो वाक्यमिति दर्शयिष्यति । "यथैक एव सर्वार्थः" इत्यादिना "देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः" इत्यन्तेन ग्रन्थेन, तथा "अव्यक्तः क्रमवान्" इत्यादिना "व्यावृत्तभेदो येनार्थः" इत्यन्तेन चाखण्ड एव स्फोटलक्षणः शब्दो वाक्यमति दर्शितम् । उक्तञ्च---"येनोच्चारितेन सास्नालाङ्‌गूलखुरककुदविषाण्यर्थरूपं प्रतिपाद्यते स शब्दः", तथा---"स्फोटः शब्दो ध्वनिः शब्दगुणः" इति ।
स्फोटश्च द्विविधः--बाह्य आभ्यन्तरश्चेति । बाह्योऽपि जातिव्यतिक्तिभेदेन द्विविधः । तत्र जातिलक्षणस्य जातिः सङ्घातवर्तिनीति, व्यक्तिलक्षणस्यैकोऽनवयवः शब्द इति । आभ्यन्तरस्य तु बुद्ध्यनुसंहृतिरित्यनेनोद्देशः । तत्र जातिव्यक्तिलक्षणस्य बाह्यस्य `यथैक एवे' त्यादिना पुनः `अव्यक्तः क्रमवानि' त्यादिना ग्रन्थेन स्वरूपमुक्तम्‌ । `यदन्तः शब्दतत्त्वमि' त्यादिना श्लोकचतुष्टयेन आन्तरस्य स्वरूपमुक्तम्, `संप्रत्यये' त्यादिश्लोकचतुष्टयेन क्रमो वाक्यमिति दर्शयिष्यति । `नियतं साधने साध्यमि' त्यनेन च श्लोकद्वयेन पदमाद्यं पृथक्सर्वं पदं साकाङ्क्षमिति लक्षणद्वयं व्याख्यस्यति । अन्यदपि वार्त्तिककारीयं पारिभाषिकं शास्त्रे वाक्यलक्षणमस्ति ।
"आख्यातं साव्ययकारकविशेषणं वाक्यमेकतिङिति" च।
जरन्मीमांसकोक्तं लौकिकमप्यस्ति--"अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्" इति । अनयोः सङ्घातपक्षेऽन्तर्भावः ।
एतेऽपि प्रथममेव `निघातादिव्यवस्थार्थंमि' त्यादिना विचारयिष्यन्ते । इत्थमष्टावेव वाक्यविकल्पा मतभेदेन सम्पद्यन्त इति वोद्धव्यम् ।
यत्पुनरनेन वृत्तावुक्तम्---उदाहरणमात्रमेतत्, अन्यान्यपि वाक्यलक्षणानि दर्शयिष्यतीति । तद्वार्त्तिककारीयवाक्यलक्षणादेरन्तर्भावमनपेक्ष्येति मन्तव्यम् । उद्दिष्टानां च वाक्यलक्षणानां यथान्यासमग्रे कारिकाभिरेव दर्शितक्रमेण स्वरूपमुन्मीलयिष्यतीति नार्थ इह तत्प्रदर्शनेन ।
वाक्यलक्षणप्रसङ्गेन च तथा वाक्यार्थस्य सम्बन्धस्य च मतभेदं दर्शयिष्यति । तत्राखण्डपक्षे त्रिष्वपि लक्षणेषु प्रतिभा वाक्यार्थः । यथा दर्शयिष्यति--
"विच्छेदग्रहणेऽर्थानां प्रतिभान्यैव जायते ।
वाक्यार्थ इति तामाहुः" इति (2/144) ।
अवशिष्टेषु पञ्चसु लक्षणेषु मध्यादाख्यातशब्दो वाक्यमित्यस्मिन् पक्षे क्रिया वाक्यार्थः । यथा वक्ष्यति---"क्रिया क्रियान्तराद्भिन्ना" (2/414) इत्यादि ।
यथा च--
प्रतिभा यत्प्रभूतार्था यामनुष्ठानमाश्रितम् ।
फलं प्रसूयेत यतः सा क्रिया वाक्यगोचरः ।। इति ।
सङ्घातपक्षे च संसर्गो वाक्यार्थः । स च ---
सम्बन्धे सति यत्त्वन्यदाधिक्यमुपजायते ।
वाक्यार्थमेतं सम्प्राहुरनेकपदसंश्रयम् ।।
इत्यादिना दर्शयिष्यते । तथा सङ्घातपक्ष एव "सर्वभेदानुगुण्यम्" इत्यादिना प्रकारान्तरेणाभिहितान्वयपक्षे प्रतिपाद्यमाने "कार्यानुमेयः सम्बन्धो रूपं तस्य न विद्यते" इत्यनेन श्लोकेन विशेषविश्रान्तः पदानामेवार्थो वाक्यार्थ इति लक्ष्यते ।
पदमाद्यम्, पृथक्सर्वं पदं साकाङ्क्षमित्यस्मिन् तु पक्षद्वये संसृष्ट एव प्रथमतरं प्रकम्यते वाक्यार्थः । यथा निरूपयिष्यति --
"तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते" (इति),
तथा---
पूर्वैरर्थैरनुगतो यथार्थात्मा परः परः ।
संसर्ग एव प्रक्रान्तस्तथाद्येष्वर्थवस्तुषु ।। इति ।
"अभिधेयः पदस्यार्थो वाक्यास्यार्थः प्रयोजनम् । "
इत्यनेन प्रयोजनं वाक्यार्थत्वेन प्रदर्शितम् ।
तत्केषाञ्चिन्मते सर्वलक्षणसाधारणमिति न प्रयोजनवाक्यार्थो वाक्यलक्षमेषु पृथग् विभज्यते ।
तदेवं प्रतिभा, संसर्गः, संसर्गवशान्निराकाङ्क्षो विशेषावस्थितः पदार्थ एव,संसृष्ट एवार्थः क्रिया, प्रयोजनं चेति षड् वाक्यार्था इहोपदर्शिताः ।
संसर्गे, संसर्गवशाद्विशेषावस्थिते पदार्थे च वाक्यार्थेऽभिहितान्वयः । संसृष्टे क्रियायां चान्विताभिधानम् । प्रतिभायां त्वेकरसैव प्रतिपत्तिरिति न तत्र काचिदभिहितान्वयान्विताविधानचर्चा । प्रयोजने त्वभिहितान्वय एव ।
विधिनियोगभावनासंज्ञास्तु वाक्यार्था न निरूपिताः, यस्माद्भावनाक्रिययोः पर्यायता प्रयशो लक्ष्यते । केवलं प्रकृत्यर्थप्रत्ययार्थतायामत्र वैयाकरणमीमांसकयोर्विवादः ।
किञ्चि, भावना सकर्मिकेवाकर्मिकापि क्रियेति सत्यपि भेदे साध्यत्वाविशेषादभेद एवानयोः । यथा धात्वर्थभूता क्रिया साध्यरूपैव, तथा भावनाऽपीति कथमवान्तरभेदाद्भेदोऽनयोर्भवेत् ? विधिनियोगौ तु लिङ्लोट्‌कृत्यान्तेष्वेव वाक्येष्वर्थावित्यसर्वविषयत्वादनादृताविहेति न तत्प्रदर्शनं कृतम् ।
तत्तदनादिवाक्यार्थविकल्पाहितवासनाप्रबोधजन्मा क्रमवद्भिरिवाक्रमैर्बहीरूपतयाऽध्यस्तैः पदार्थैश्चित्रीकृत इव विकल्पविशेषोल्लिख्यमान आकारो बहीरूपतयाऽध्यस्तो निर्विभाग एव शाक्यानां वाक्यार्थ इति प्रयशः प्रतिभासोदर एवासौ मन्तव्यः
वाक्यमपि तत्तदनादिवाक्यविकल्पाहितवासनाप्रबोधजन्म क्रमबद्भिरिवाक्रमैः पदैश्चित्रीकृत इव बहीरूपतयाऽध्यस्यमानो विशिष्टविकल्पोल्लिख्यमान आकारविशेष एव बहीरूपतयाध्यस्त इति प्रयशो बुद्ध्यनुसंहृतिरित्यस्य सोदरमेवेति न तन्मतानुसारेण वाक्यवाक्यार्थयोरिहासंग्रहो वेदितव्यः ।
नैयायिकादीनां तु पूर्वपूर्ववर्णस्मृतिसचिवोऽन्त्यो वर्णो नश्यदवस्थानुभवविषयीक्रियमाणः पदं यथा, तथैव पूर्वपूर्वपदस्मृतिसचिवमन्त्यमेव पदंनश्यदवस्थानुभवविषयीक्रियमाणं वाक्यमिति प्रायशः संसर्गपक्ष एवन्तर्भवति । तथा पूर्वपूर्वपदार्थस्मरणसचिवेनान्त्येन पदेनोपजन्यमाना प्रतीतिर्वाक्यार्थ इति प्रायशः संसर्गपक्ष एवास्यान्तर्भाव इति न तदसंग्रहेणाव्याप्तिरत्र वक्तव्या ।
अथात्राऽनवयव एवैकस्मिन् स्फोटात्मके वाक्ये प्रतिभा लक्षणे च वाक्यार्थे वाक्यवाक्यार्थयोरध्यासरूपः सम्बन्धः । यद्वक्ष्यति `वाक्यवृत्तस्य वाक्यार्थे वृत्तिः" इत्यादि ।
अवशिष्टेषु पक्षेषु वाच्यवाचकभावलक्षणो योग्यताख्य एव शब्दर्थयोः सम्बन्धो मीमांसकदृष्ट्या । शाक्यदर्शनानुसारेण तु विज्ञानवादनयेन बौद्धे शब्दार्थे सर्वत्र कार्यकारणभाव एव । वाक्यार्थवादे तु तत्र संकेतलक्षणोऽसौ बोद्धव्यः ।
नैयायिकाद्यनुसारेण च संकेतलक्षण एवासावित्येवमत्र वाक्यवाक्यार्थसम्बन्धानां संक्षेपतः स्वरूपं बोद्धव्यम् । सम्बन्धेषु मध्यादत्राध्यासमेव दर्शयिष्यति । पदकाण्डे तु सर्वानभिधास्यति ।
तत्र वैयाकरणस्याखण्ड एवैकोऽनवयवः शब्दः स्फोटलक्षणो वाक्यम्, प्रतिभैव वाक्यार्थः, अध्यासश्च सम्बन्ध इति पदवादिपक्षदूषणपरः परं टीकाकारो व्यवस्थापयतीत्यस्य काण्डस्य संक्षेपः ।। 1 - 2 ।।
अथ वार्त्तिककारमीमांसकोक्तयोर्वाक्यलक्षणयोः किं समावेश उत भिन्नविषयतेति विचारार्थमाह--
निघातादिव्यवस्थार्थं शास्त्रे यत् परिभाषितम् ।
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणम् ।। 3 ।।
इह पदविधिः सामथ्यं सति परिभाषितः । तत्र सत्यपि पदानां सामर्थ्ये निघातादयः क्कचिन्नेष्यन्ते । यथा--अयं दण्डो हरानेन । ओदनं पच मम भविष्यति । ओदनं पच तव भविष्यतीति । अत्रानेनेति सर्वनाम्ना दण्डस्य परामर्शाद्धरतिना सह तस्य सामर्थ्यम् । तथा युष्मदर्थस्यौदनेन सम्बन्धात् पचत्यर्थस्य तेन सह सामर्थ्यम् । एवं च सति सामर्थ्ये तिङ्तिङ् इति निघातः प्राप्नोति । तेमयावेकवचनस्येति चादेशौ । न चेष्यन्ते, वाक्यभेदात् । सामर्थ्याभावेऽपीष्यन्ते । यथा -- नद्यास्तिष्ठति कूले, शालीनां ते ओदनं दास्यामीति ।
अत्र नद्यास्तिष्ठतीत्यस्य च सम्बन्धानुपपत्तेः सामर्थ्यं नास्ति । इष्यते च निघातः । तथा शालीनां युष्मदश्च सामर्थ्याभावः । इष्यते च तेमयावेकवचनस्येति युष्मादादेश इत्यालोच्य वार्त्तिककृता निघातादिव्यवस्थार्थमारब्धम्--`समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' इति ।
एवं चायं दण्ड इत्यत्र सत्यपि सामर्थ्ये नास्ति निघातस्य प्रसङ्गोऽवध्यधिमतोभिन्नवाक्यतयावस्थानात् । अस्तीत्यध्याहारेण ह्ययं दण्ड इत्येकं वाक्यम् । हरानेनेति च द्वितीयं वाक्यम् । नद्यास्तिष्ठतीत्यादौ त्ववध्यवधिमतोः पदयोः सामर्थ्याभावेऽप्येकवाक्यव्यस्थितौ प्रवर्तन्त एव निघातादय इति नास्त्येषामव्यवस्था । समानवाक्ये निघातादयो वक्तव्या इत्युक्तम् । तत्र वाक्ये विज्ञाते समानवाक्यत्वं ज्ञायत इति प्रसङ्गात्त्त्र वार्त्तिककारेणादावेव वाक्यलक्षणमुक्तम्-- `आख्यतं साव्ययकारकविशेषणं वाक्यमेकतिङिति च' इति ।
एवं च मीमासकोक्तेनास्य सर्वत्र समावेशोऽस्ति, न वेति विचार्यते । शास्त्रे वाक्यकारेण निघातादिव्यवस्थार्थं यद्वाक्यलक्षणं परिभाषितं तेन मीमांसकोक्तं वाक्यलक्षणं सकलं न तुल्यलक्षणम् । साकाङ्क्षावयवमित्यनेन मीमांसकोक्तं वाक्यलक्षणं सूचितम् । तत्र कचिदेते समाविशतः । यथा निद्यास्तिष्ठति कूले, शालीनां त ओदनं दास्यामीति । अयं दण्डो हरानेन ओदनं पच तव भविष्यतीत्यादावसमावेशः मीमांसकवाक्यलक्षणसमाश्रणेनात्र प्राप्नुवन्ति निघातादयः, एकप्रयोजनत्वात् । न चेष्यन्ते । तस्माद्वार्त्तिककारीयमेव वाक्यलक्षणं ज्यायः ।। 3 ।।
अथआत्र प्रसङ्गान्मीमांसकवाक्यलक्षणमर्थद्वारेण प्रदर्शयितुमाह--
साकाङ्क्षावयवं भेदे पारानाकाङ्क्षशब्दकम् ।
कर्मप्रधानं गुणवदेकार्थं वाक्यमिष्यते ।। 4 ।।
भेदे विभागे विशेषजिज्ञासायां यत्साकाङ्क्षावयवम्, अविभागे तु परानाकाङ्क्षाः शब्दाः पदानि यस्मिन् तत्परानाकाङ्क्षशब्दकम् । कर्मप्रधानं क्रियापदप्रधानमित्यर्थः । तस्यैव प्रधानाभिधेयप्रयुक्तत्वादित्यभिप्रायः । गुणवद्विशेषणपदयुक्तम् । एकार्थमेकप्रयोजनम् ।। 4 ।।
इदानीं वार्त्तिककारीयस्य वाक्यलक्षणस्याव्याप्तिमाशङ्क्याह--
सम्बोधनपदं यच्च तत् क्रियाया विशेषकम् ।
व्रजानि देवदत्तेति निघातोऽत्र तथा सति ।। 5 ।।
व्रजानि देवदत्तेत्यत्र देवदत्तेत्येतत्पदं नाव्ययम्, न च कारकम्, नापि तद्विशेषणमिति वाक्यलक्षणेनासंगृहीतत्वादाष्टमिक आमन्त्रितस्य चेति निघातो न प्राप्नोतीति चोद्यम् । आख्यातं साव्ययं सकारकं सविशेषणमिति सामान्येनाभिधानात् सक्रियाविशेषणस्याप्याख्यातस्य वाक्यतेत्यदोषः ।
तथा हि--अत्र संबोध्यमानदेवदत्तविषया व्रजतिक्रिया, असंबोध्यमानदेवदत्तविषयायाः संबोध्यमानयज्ञदत्तविषयाया वा पृथगेवेति विशिष्टैवात्र व्रजतिक्रिया ।
क्रियायाश्च विशेषणं कदाचित् सामानाधिकरण्येन भवति । यथा--सुष्ठु करोति शोभनं करोतीति । अत्र करोत्यर्थस्य सुष्ठिवत्यादिविशेषणविशिष्टस्यैव प्रतीतेः सुष्ठिवत्यादीनां करोत्यादिक्रियया सामानाधिकरेण्यम् ।
एवं चासत्त्वभूतायाः क्रियाया विशेषणमित्यसत्त्वप्रधानत्वाल्लिङ्गसर्वनाम्ना नपुंसकेन योगः क्रियायाश्चेत् निर्वर्त्यत्वात् कर्मत्वमिति न्यायसिद्धमेव `कर्मत्वं नपुंसकता चेति `क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गता च' इति नारम्भणीयं वचनम् । वैयधिकरण्येनापि विशेषणं भवति, यथा--व्रजानि देवदत्तेति ।
अत्र हि देवदत्त व्रजानीति देवदत्तस्य व्रजनक्रियायाश्च सामानाधिकरण्यं नास्ति। केवलमामन्त्र्य देवदत्तं व्रजत्यसाविति देवदत्तामन्त्रणिशेषिता केवला या विलक्षणा व्रजनक्रियेत्याख्यातं सविशेषणमेवेति वाक्यलक्षणसद्भावात् प्रवर्तत एव निघातः । देवदत्त व्रजानीत्येवमुदाहरणं न प्रदर्शितम् । आमन्त्रितं पूर्वमविद्यमानवदिति न निघातः स्यादिति ।। 5 ।।
पुनरप्यव्याप्तिं वार्त्तिककारलक्षणस्याशङ्क्य परिहर्तुमाह--
यथानेकमपि क्त्वान्तं तिङन्तस्य विशेषकम् ।
तथा तिङ्न्तं तत्राहुस्तिङन्तस्य विशेषकम् ।। 6 ।।

इह पूर्वं स्नाति पचति ततो व्रजति तत इत्यत्र तत इत्येतस्मादुत्तरस्य व्रजतीत्यस्य निघातो न प्राप्नोति, वाक्यभेदात् । इष्यते च । अत्र तिङन्तादुत्तरस्य तु तिङन्तस्यातिङिति प्रतिषेधान्निघातनिवृत्तिः सिद्धेति नात्र स्नातीत्यस्मादुत्तरस्य पचतिशब्दस्य निघातः प्राप्नोतीति चोद्यमुद्भावनीयम् । इष्टस्य निघातस्याप्राप्तिरेवात्रोद्भावनीया ।
अत्रोच्यते--नास्त्यत्र वाक्यभेदः । व्रजतीत्येतत्प्राधान्येनैकं क्रियापदमत्र स्थितम् । अन्यानि क्रियान्तराणि तद्विशेषणान्येव । यथा स्नानभोजनपानैः कृदन्तैर्विशिष्यते व्रजतिक्रिया तथात्र तिङन्तैः स्नातिप्रभृतिभिः प्रधानं व्रजतिक्रियैव विशिष्यत इत्येकैवात्र सविशेषणा व्रजतिक्रिया । केवलायास्त्वस्याः पृथगेवेत्येतत्सविशेषणमेकमेव वाक्यमिति वाक्यभेदाभावान्नास्ति निघातासिद्धिदोषः । एकवाक्यत्वे च तिङन्तादुत्तरस्य तिङन्तस्यातिङिति प्रतिषेधान्निघाताभावः । यथा वक्ष्यति --
बहुष्वपि तिङन्तेषु साकाङ्क्षेष्वेकवाक्यता ।
तिङां तिङ्भ्यो निघातस्य पर्युदासस्तथार्थवान् ।। इति ।
एवं चातिङ्‌ग्रहणे सप्रयोजने स्थिते वार्त्तिककारेण यदुक्तम्--अतिङ्‌ग्रहणमनर्थकं समानवाक्याधिकारादिति तत्राभिप्रायो वाच्यः । एवं वादिनस्तस्य वाक्यभेदोऽत्राभिमत इत्यभिप्राय आख्यातं साव्ययकारकविशेषणमित्यत्रैकवचनस्य विवक्षितत्वादिति । तथा च टीकाकारः प्रदर्शयिष्यति --
एकतिङ् यस्य तु शास्त्रे नियतलक्षणम् ।
तस्यातिङ्‌ग्रहणेनार्थो वाक्यभेदान्न विद्यते ।। इति ।
सूत्रकारस्य त्वतिङ्‌ग्रहणादेकमेवाखण्डं वाक्यमर्थैकत्वादख्यातभेदेऽप्यभिप्रेतमिति गम्यते । तदभिप्रायानुसारेणैव निरूपयिष्यति--
अनेकाख्यातयोगेऽपि वाक्यं न्यायपथानुगैः ।
एकमेवेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् ।।
(वाo पo 2/356) इति । 6 ।।
टीकाकारश्चामुमेव पक्षं सूत्रकाराभिप्रायसमाश्रयणेन युक्तियुक्तं मन्यमानो बहीरूप आन्तरो वा निर्विभागः शब्दार्थमयो बोधस्वभावः शब्दः स्फोटलक्षण एव वाक्यमितिक्रमेण व्याजिहीर्षुश्चित्रज्ञानचित्ररूपदृष्टान्तप्रदर्शनपूर्वमुपक्रमते । तत्र चित्रबुद्धिदृष्टान्तप्रदर्शनार्थमाह---
यथैक एव सर्वार्थप्रत्ययः प्रविभज्यते ।
दृश्यभेदानुकारेण वाक्यार्थानुगमस्तथा ।। 7 ।।

चित्रज्ञानं सर्वाकारमेकमेव । प्रविभागस्त्वस्य दृश्यभेदसमाश्रयेण क्रियते । नीलपीताद्यनेकाकारमेव विज्ञानमुपजातमिति । वस्तुस्थित्या तत्र ज्ञान आकारभेदो नास्ति । तथा वाक्यवाक्यार्थयोः स्वरूपं बोद्धव्यम् ।
वाक्यार्थानुगमस्तथेत्यनेन हि वाक्यवाक्यार्थयोरखण्डत्वं पानकरसमयूराण्डरसचित्ररूपनरसिंहगवयचित्रज्ञानवत् समानमेवेत्युच्यते । यथा वाक्यं निर्विभागं स्फोटलक्षणं वाचकम्, तथा वाक्यार्थोऽपि तथाविध एवेत्यनयोरेकयोगक्षेमत्वमुक्तम् ।। 7 ।।
एवमान्तरं दृष्टान्तमुपदर्श्य बाह्यमप्युपदर्शयितुमाह--
चित्रस्यैकस्वरूपस्य यथा भेदनिदर्शनैः ।
नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ।। 8 ।।

चित्रं हि रूपमवयविगतमनंशमेकमेव । तस्यैवाक्यवगतैर्यथा नीलादिभिर्भेदेन निदर्शनं प्रदर्शनं येषां तैः पृथग्रूपैरेव समाख्यानं क्रियते ।। 8 ।।
तथा प्रकृते किमित्याह--
तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः ।
शब्दान्तरैः समाख्यानं साकाङ्क्षैरनुगम्यते ।। 9 ।।

एकस्य निर्विभागस्य वाक्यस्य सर्वतः परिपूर्णस्य वाक्यान्तरगतैः पदान्तरैरन्वाख्यानं तथाव क्रियत इति ।। 9 ।।
न वा पदस्यार्थे प्रयोगादित्यस्मिन दर्शने यथाखण्डमेव पदं प्रकृतिप्रत्ययादिभिः कल्पितैरेव विभज्यते तथा वाक्येऽप्यसत्यभूतानामेवाबुधबोधनाय पदानां विभागो द्रष्टव्य इति प्रदर्शयितुमाह--
यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः ।
अपोद्धारस्तथा वाक्ये पदानामुपवर्ण्यते ।। 10 ।।

पदे हि यथा प्रकृतिप्रत्ययविभागोऽसत्य एव बालव्युत्पादनाय क्रियते, तथा वाक्ये वाक्यार्थप्रतिपादनायापोद्धारः पदानामुपर्ण्यत इति बोद्धव्यम् ।। 10 ।।
तत्र वाक्यादपोद्‌धृतानां पदानां केवलमितरपदसारूप्यमात्रं दृश्यत इति प्रतिपादयितुमाह--
वर्णान्तरसरूपं च वर्णभागेषु दृश्यते ।
पदान्तरसरूपाश्च पदभागा अवस्थिताः ।। 11 ।।

यथा संध्यक्षरेषु भागा वर्णान्तरसरूपा दृश्यन्ते, परमार्थस्त्वव्यपवृक्तत्वान्निर्विभागा एव । एवं वाक्ये दान्तरसरूपाः पदरूपा भागाः पदभागाः । पदे वा निरंशे ये भागाः प्रकृतिप्रत्ययरूपास्तेऽवस्थिता इति ।। 11 ।।
एतदेव व्यक्तीकुर्वन्नाह--
भागैरनर्थकैर्युक्ता वृषभोदकयावकाः ।
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ।। 12 ।।

नही वृषभे ऋषभस्योदकयावकयोर्वोदयावशब्दयोरर्थानुगमः कश्चिदस्ति, अपि तु शास्त्रे पदस्य प्रकृतिप्रत्ययोरन्वयव्यतिरेकाभ्यां विना कथमज्ञो व्युत्पाद्येत ? एवञ्च निरंशमेव वाक्यं वाचकमित्येव युक्तम् ।। 12 ।।
शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति ।
विभागैः प्रक्रियाभेदमविद्वान् प्रतिपद्यते ।। 13 ।।
<B2> (स्वोपज्ञवृत्तिरूपं विवरणम्)--यस्तावन्निमित्तरूपफलभेदादप्रसिद्धभेदक्रमवद्भिरयुगपद्‌भावैरवयवैर्युक्त इत्येवं प्रतीतः शब्दस्तस्यैवं नित्यत्वपक्षे योऽयं परिकल्पितो व्यवहारविषयो द्रव्यशक्तिनिमित्तानुपाती शब्देषु प्रत्यस्तरूपो विभागः स नास्ति । कुतो बुद्धिष्वलब्धयौगपद्यासु बुद्ध्यन्तरस्य बुद्ध्यन्तरे <B2>
अथ वाक्यार्थस्यापि तथैव निर्विभागत्वं प्रतिपादयितुमाह--शब्दस्येति । शब्दस्य स्फोटलक्षणस्य विभागो नास्ति, तद्वाच्यस्य प्रतिभारूपस्यार्थस्य कुतो भविष्यति, यथा निदर्शयिष्यति--
"विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते ।
वाक्यर्थ इति तामाहुः" (वाo पo 2/144 ) इति ।
<B2> सततसन्निधानेनानुग्रहं कुर्वति व्यवहारं प्रत्येकबुद्धिप्रत्यवमृष्टरूपेषु मूर्त्तिभेदक्रमयुक्तेषु व्यर्थरूपेषु विभागरूपेणाविभागमापादितेष्वात्मान्तरत्वादनवयवायामतथाभ्युपगतभेदरूपबुद्धावुपसंसृष्टबुद्धिमात्रारूपनिर्भासेषु सत्यप्यात्मभेदे सर्वार्थेषु विभागो भविष्यति । तस्मात् समीहितपौर्वापर्योऽर्थात्मा स्वरूपादप्रच्युतोऽपि सर्वो विभागातीततत्त्व एव ।
विभागैः प्रक्रियाभेदमिति भेदग्रहणं हि तस्यार्थात्मनः शब्दात्मनश्चाभिन्नस्य प्रतिपत्तिद्वारम् । पदप्रतिपत्तिपूर्विका हि सामान्यविशेषावग्रहणोपाया लघुप्रक्रमा विभागेनाविभक्तस्य प्रतिपत्तिः, प्रकृतिप्रत्ययादिप्रतिपत्तिवत् । गुरुप्रक्रमा त्वत्र संसृष्टरूपस्य प्रतिपत्तिरविभागेन प्रतिपदं पाठवत् । कुशलस्तु प्रतिपत्ता सर्वमेव भेदमभेदानतिक्रमेण पश्यति । प्रक्रियाभेदास्तु शास्त्रे विभागनिबन्धनम् ।
तथा हि--हरिद्रुर्मितद्रुर्दुर्दशो दुस्तर इत्यत्र मितद्रुरवगृह्यो हरिद्रुरनवगृह्यः । तत्र विभागे प्रक्रिया भिद्यते । हरिद्रुर्हरितरवो हरिद्रव इति । तथा दुस्तर इत्यपि तरतेस्तृणातेर्वा । अतश्च विभागे भिद्यमानायां प्रक्रियायामनवग्रहः । तथा--इन्द्राणी वरुणानी पूतक्रतायी । इन्द्रादीनामानुक, पूतक्रतोरै चेति सामान्यविशेषवता लक्षणेन भेदेनान्वाख्याने शास्त्रप्रक्रियाभेदेनाविद्वांसः प्रतिपद्यन्ते ।। 13 ।। <B2>
तस्य पदानुरोधेन पदार्थस्यापि प्रकृतिप्रत्ययानुरोधेन भागकल्पना । मूढस्तु विभागेन प्रक्रियाभेदं प्रक्रियाभेदे चार्थभेदमसत्यमपि प्रतिपद्यत इति किं कुर्मः । कथं पुनः श्रुयमाणरूपा एव देवदत्तादयः प्रतीयमानाभिधेया अनर्थकाः स्युरित्येतद् विचारयिष्यामः । अपि तु ---
ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणाकम्बले ।
देवदत्तादयो वाक्ये तथाव स्युरनर्थकाः ।। 14 ।।

यथा हि विच्छेदेनोच्चार्यमाणे ब्राह्मणकम्बल इति ब्राह्मणशब्द उपलभ्यमानस्वरूपोऽपि विच्छेदग्राहिभिः समाप्तिमनपेक्षमाणैः प्रतिपत्तृभिः, प्रतीयमानार्थोऽप्यनर्थक एवेति प्रसिद्धः । एवं सत्यपि रूपविच्छेदग्रहणे सम्प्रत्यये चानर्थका एव वाक्यरूपान्ना देवदतादिसरूपा अत्यन्तमसन्तः परिकल्पितात्मानो विभागाभिमताः ।। 14 ।।

<B2> युक्तं चैतत् यद्वाक्ये पदार्थभेदो नास्तीति दृष्टन्तप्रदर्शनपूर्वकमाह--ब्राह्मणार्थ इति । यथा ब्राह्मणकम्बलशब्दे ब्राह्मणशब्दस्य न कश्चिदर्थो विद्यते, तथैव देवदत्त गामभ्याजेत्यादौवाक्ये देवदत्तादीनां पृथगर्थो नास्तीत्यनर्थकान्येव पदानि । अतश्च स्थितमेतद् यदखण्डं निराकाङ्क्षमेकं पदव्यतिरिक्तं वाक्यं पदार्थव्यतिरिक्तो वाक्यार्थश्च तथैवेति ।। 14 ।। <B2>
    देवदत्तादीनां च भागाभिमतानामर्थयोगाभ्युपगमे सामान्येऽवस्थितानां पदानां विशेषेऽवस्थानमित्येतस्मिन् सत्येकान्तेन परिगृह्यमाणे--
सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते ।
उपात्तस्य कुतस्त्यागो निवृत्तः क्कावतिष्ठताम् ।। 15 ।।

<B2> इह सामान्यवृत्तिरुच्चरितो देवदत्तशब्दः सामान्यार्थसम्बद्ध एव तिरोभवति । तत्र येन शब्देनाविर्भावकाल एव विशिष्टोऽर्थो न प्रतिलब्धः स शब्दः विशेषेऽवस्थातु न पुनरुत्सहते । न च सामान्यविशेषयोर्विवक्षा युगपत् संभवति । विशेषविवक्षायां हि सर्वस्यानियमेन सामान्यादवच्छेदो विज्ञायते । तत्रोपात्तस्य नित्ये शब्दर्थसम्बन्धे कुतस्त्यागः, युक्तिनिरूपणेषु चार्थात्मस्वभिधानक्रियायोगाभावे विनिवृत्तोऽनवधार्यमाणात्मा शब्दः शब्दोपक्रमस्यार्थस्याभावादविषयः क्वावस्थाप्यताम् ।
यत् पुनर्मोमांसकैरुच्यते यथा पदसंघात एवाकाङ्क्षायोग्यतासन्निधानवशात् परस्परसमन्वितो वाक्यं संसर्गश्च वाक्यार्थ इति तद् दूषयितुमाह--सामान्यार्थ इति । इह देवदत्त गामभ्याज शुल्कां दण्डेनेति देवदत्तादीन्येव पदानि वाक्याम् । तत्र देवदत्तपदं तावद् यदि सामान्यमात्रे प्रथमं वर्तते तत्तस्य गवादिपदकाले वाचः क्रमवर्तित्वात्तिरोधानादसत्त्वमेवेति कुतः पदान्तरश्रवणकाले तदर्थप्रतीतिः । असत्त्वादेव च न पदान्तरसंनिधाने तस्य विशेषेऽवस्थानम् ।
अभ्युपगम्यापि स्मर्यमाणतया पदान्तरसंनिधाने विद्यमानत्वं पदस्य न विशेषेऽवस्थानं युज्यत इत्याह--उपात्तस्येति । सामान्य-सामान्यार्थस्तिरोभूतो लक्षणस्य सकलपदार्थसाधारणस्यार्थस्य पूर्वमुपात्तस्य वाच्यत्वेन परिगृहीतस्येदानीं पदान्तरसंनिधाने त्यागः कुतो युज्यते शब्दार्थसम्बन्धस्यानित्यताप्राप्तेः ।
न च तथा मीमांसकस्याभ्युपगम इति । तदप्यभ्युपगम्योच्यते---निवृत्त इति । स्वार्थान्निवृत्तोऽसौ पदान्तरसन्निधाने शब्दः क्वेदानीमवतिष्ठताम् । शब्दान्तरभोध्येऽर्थे तस्य वाचकभावविरहात् स्थितिः कथं युज्यते ।। 15 ।। <B2>
एव तर्ह्यशब्दो वाक्यार्थः । शब्दष्वात्मरूपमात्राप्रतिपत्तिहेतुषु तिरोभूतेष्वपदेश्यसंस्कारविशेषायां बुद्धावुपजातायां पदेषु पदार्थमात्रं प्रत्याय्य निवृत्तेष्वशब्दवाच्योऽसत्त्वभूतः सम्बन्धः संज्ञार्थानां सामान्यरूपाणां भेदहेतुरुपप्लवमानः शोकहर्षादिवदुत्तरेषु बुद्ध्यन्तरेष्वनुसन्धीयते । एतस्मिन् दर्शन उच्यते---
अशब्दो यदि वाक्यार्थः पदार्थोऽपि तथा भवेत् ।
एवं च सति सम्बन्धः शब्दस्यार्थेन हीयते ।। 16 ।।

कथं वर्णष्वप्यनर्थकेषु स्वरूपमात्रं बुद्धौ संनिवेश्य निवृत्तेष्वभ्यासान्नियतनिमित्तमानख्येपायमर्थरूपं दुद्ध्यन्तरेष्वनुसन्धीयते । तथा च शब्दार्थयोः सम्बन्धो हीयते । तथैव तु द्रव्यगुणकर्माणि विनिविष्टनिमित्तरूपाणि प्रबोजकैर्निमित्तैः सम्बद्धान्याख्यायन्ते । ज्ञानं च विनिविष्टज्ञेयरूपम् । अपरेण सम्बन्धकल्पेन ज्ञेयैरर्थैः सम्बन्ध इत्याख्यायते । ज्ञानाच्चोपगृहीतबुद्धिरूपो बुद्ध्या सम्बन्ध उच्यते । तथा शब्दोऽपुयपरेण योग्यताख्येन सम्बन्धकल्पेनोपगृहीतार्थरूपो विनिवेशिताभिधयतत्त्वः शब्दार्थयोर्भेदे तेन तेनार्थेन सम्बन्ध इत्युच्यते । अर्थभावपरिणतिपक्षे तु सर्वतो नेदीयान् सम्बन्ध इति ।। 16 ।।
<B2> अथोच्यते---अर्थप्रतिपत्तिर्दृष्टा देवदत्तेत्यादिकात् समुदायात् सा कथमपह्नूयते । तत्राह---अशब्द इति ।
उक्तनीत्या शब्दान युज्यन्ते वाचकाः । तदभावाच्चाशब्दो वाक्यार्थो यद्यभ्युपगम्यते तदयमपरस्ते दोषः । पदार्थोऽपि पदप्रतिपाद्यो न कश्चिद् अनेकवर्णवर्त्तित्वाद् वाच उच्चरितप्रघ्वंसित्वाच्च, वर्णानामितिपदमप्येकं नास्ति । तदभावात् कः पदार्थः स्यात् । इत्थमशब्दोऽवाचको वाक्यार्थ इति वाच्यवाचकभावलक्षणः सम्बन्धः शब्दार्थयोस्त्यक्तः स्यान्मीसांसकेनेत्याह---एवं चेति ।। 16 ।। <B2>
विशेषशब्दाः केषाञ्चित् सामान्यप्रतिरूपाकाः ।
शब्दान्तराभिसम्बन्धाद् व्यज्यन्ते प्रतिपत्तृषु ।। 17 ।।

केषाञ्चितु प्रक्रियान्तरवादिनामक्षादिवदश्नोत्यादिक्रियायोगविशेषे विशेषान्तरयुक्ता देवदत्तादयो वाक्यविषया नित्यं परितः परिच्छिन्नार्थवृत्तयो विशेषशब्दवाचकस्य विशेषस्य प्रतिपत्तृभिः सामान्यापहृतबुद्धिभिः परोक्षविशेषैरपरिच्छेदात् सामान्यशब्दप्रतिरूपकाः शब्दान्तराभिसम्बन्धादागन्तुना केनचिदप्यर्थेनायुज्यमाना नित्यसिद्धनियतत्वान्नियमं विशेषान्तराध्यारोपरूपं चातिक्रान्ताः केवलमनुवादमात्रेण शब्दान्तराणां यथायथमर्थाभिधानसिद्धये व्यज्यन्ते प्रतिपत्तृषु प्रयोक्तृभिर्निर्धारितविशेषा इत्यभिप्रायः ।। 17 ।।
<B2> एवं तावदभिहितान्वयवादी निरस्तः । इदानीमन्विताभिधानसमाश्रयणेन पदमाद्यं पृथक् सर्वपदं साकाङ्क्षमित्युद्दिष्टे वाक्यलक्षणे प्रदर्शयितुकाम आह---विशेषशब्दा इति । इह देवदत्त गामभ्याजेत्यत्र देवदत्तपदं गां बधानेत्यस्माद् विशिष्टमेव वक्त्रा समुदीरितं भ्रमात्तु सकलसाधारणं प्रतिभाति । उत्तरकालं गावादिपदसम्बन्धाद् विश्ष्टा प्रतिपत्तिरभिव्यज्यत इति तदेव वाक्यम् । सकलविशेषणखचितश्च प्रथमतरमेवोपक्रान्तः संसृष्ट एवार्थो वाक्यार्थ इति । यथा वक्ष्यति---
पूर्वैरर्थैरनुगतो यथार्थात्मा परः परः ।
संसर्ग एव प्रक्रान्तस्तथाद्येष्वर्थवस्तुषु ।। इति ।। 17 । (वाo पo 2/411) <B2>
निर्भागैकशब्दाभिधेयं त्वेकं वाक्यार्थं प्रतिपन्नाः स्वमतमुपपादयन्तो निदर्शयन्ति---
तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते ।
व्यक्तोपव्यञ्जना सिद्धिरर्थस्य प्रतिपत्तृषु ।। 18 ।।

तेषामेवमुपगृहीतसर्वविशेष एकस्मिन्नर्थे बहुशब्दानभ्युपगच्छतामविकल्पः कृत्स्नो वाक्यार्थः प्रतिपदं प्रतिवर्णं वा समाप्यते । तदेतत् पक्षान्तरैः सह दर्शनं विचारयिष्यते । एवं व्यक्तेषु ह्युपव्यञ्जनेष्वर्थः प्रतिपत्तृषु प्रसिद्धिं लभते । न तु सन्निधानमात्राद् अनभिव्यक्तोपव्यञ्जन इति ।। 18 ।।
<B2> एतदेव स्फुटीकर्तुमाह---एषां त्विति । उपक्रम एव विवक्षितार्थप्रत्यायनाय विशिष्टपदोदीरणमारभत इत्याद्य एव पदे प्रत्येकं वा सकलस्य वाक्यार्थस्य समाप्तिरवगन्तव्या । यद्येकस्मादेव पदात् सकलवाक्यार्थप्रतीतिस्तर्होतरपदवैयर्थ्यमित्याशङ्क्याह---व्यक्तेति । प्रतिपत्तृषु वाक्यार्थस्य सिद्धिरवगतिर्व्यक्तोपव्यञ्जना । व्यक्ता उदीरिता उपव्यञ्जना अभिव्यञ्जकाः पदविशेषा यस्याः सा तथोक्ता । अभिव्यक्ताभिव्यञ्जका वाक्यार्थावगतिरिति पदान्तराणां वाक्ये नास्त्येव वैयर्थ्यमित्यन्विताभिधानप्रदर्शनम । दूषणमस्याग्रे तत्र तत्राभिधास्यति । यथा --- नियमार्था श्रतिर्भवेदित्यादि। तथाहि---यद्येकेन पदेन सकलवाक्यार्थस्याशेषविशेषणखचितस्यावगतिस्तदोत्तरेषां पदानां नियमायानुवादाय वोच्चारणं स्यात् । न चैतद्युक्तमिति वक्ष्यामः । एकस्मादेव पदात् समस्तविशेषणखचितस्य वाक्यार्थस्य प्रतीतिरुचरेषामानर्थक्यं स्यादेव । न च तस्मादेव वाक्यार्थप्रतीतिर्दृश्यते ।
व्यक्तोपव्यञ्जनेत्यसमाधानमेव । यतः किमेकस्माद् वाक्यार्थावसायोऽन्येषामुपव्यञ्जकत्वम । अथ समस्तेभ्य एव तेभ्यः । सर्वथोत्तराणि पदानि वाक्यार्थप्रतीतय उपादीयन्त एवेत्यन्विताभिधानमसमञ्जसमेव । एकस्य वा परदोच्चारणकाले तिरोधानादभिहितान्वयस्याप्यसम्भव इत्यर्थभागे दूषणम् । शब्दभागसमाश्रयणेन द्वयोरपि पक्षयोर्दूषणं पदानि वाक्ये तान्येवेत्यादिश्लोकद्वयेनाभिधास्यति ।। 18 ।। <B2>
अव्यक्तः क्रमवात्र्शब्दः उपांश्वयमधीयते ।
अक्रमस्तु वितत्येव बुद्धिर्यत्रावतिष्ठते ।। 19 ।।

उपाधिमतो ह्येकस्य शब्दस्य विभागा इवावस्थिताः संहितासंहितयोर्द्रुतमध्यमविलम्बितासु वृत्तिषु शनैरुच्चैरुपांशु परमोपांशु संहृतक्रमं चेति । तत्र प्राणवृत्त्यनुग्रहे सत्येव यत्र शब्दरूपं परैरसंवेद्यं भवति तदुपांशु । अन्तरेण तु प्राणवृत्त्यनुग्रहं यत्र केवलमेव बुद्धौ समाविष्टरूपो बृद्‌ध्युपादान एव शब्दात्मा तत् परमोपांशु ।
यत्र तु प्रतिसंहृतक्रमशक्तियोगया बुद्ध्या निमित्तान्तरोपसंप्राप्तमव्यक्ते शब्देऽध्यारोपितं हि शब्दानां क्रमरूपमिव साक्षात्क्रियते तत् प्रतिसंहृतक्रमम्। शब्दानां क्रमरूपोपसंहारविषयायां बुद्धावसम्प्रख्याततत्त्वमिव प्रतिपद्यमानायामारभ्यते शब्दातीतो व्यवहारः ।
संसृष्टशक्तयश्च क्रमसंहारेण समाविष्टवाचां प्रयोक्तॄणां शब्दौ प्रयत्नेन प्राणे करणेषु च क्रमवृत्तितामनुभूय प्रतिपतृष्वपि क्रमप्रत्यस्तमयेनैव समावेशं प्रतिपद्यन्ते ।
तत्रोपलब्ध्युपायानुपाती क्रमवृत्तिलक्षितो भेदो व्यावहारिकमपि शब्दतत्त्वं नानुपतति । क्रमसंहारानाश्रयणे हि व्यवहार एव विच्छिद्यते ।
तस्माच्च नभोगादिवत् प्राप्तदेशविभागैवैका यत्र बुद्धिः स एवाद्यन्तयोरेको वाक्याख्यः शब्द इति ।। 19 ।।
<B2> सम्प्रति प्रतिभाभेदव्याचिख्यासयाऽखण्डपक्षमेवानुबध्नन्नाह--अव्यक्त इति । इह निरंश एवाभिन्नो व्यक्तिस्फोटो जातिस्फोटो वा बहीरूप आन्तरः शब्दार्थमयो वा बुद्ध्यनुसंहारो वाक्यमिति स एव वाचक उपपन्नः । यस्तु भेदप्रतिभासः सोऽसावुपाधिकृत एवेत्यर्थः । तथोपांशु परमोपांशु व्यक्तो व्यक्ततरश्च विलम्बितो विलम्बिततरश्च द्रुतो द्रुततरश्चेत्यादिकाः प्रतिभासा अभिव्यञ्जकध्वनिकृता न पुनः सत्या इति बोद्धव्यम्। तस्माद्यः शब्दो व्यक्त उपांशु कृत्वाधीयते सोऽभिव्यञ्जकध्वनिकृतात् क्रमात् क्रमवान्नानाविधावस्थायुक्तः प्रतीयते ।
परमार्थतस्त्वसावक्रम एव स्फोटात्मा प्रतिभासः उपाधिवशात्तु तत्र बुद्धिर्विततेवानुगम्यत इति बोद्धव्यम् । अनेनैकोऽनवयवः शब्द इत्युद्दिष्टस्य व्यक्तिस्फोटस्य स्वरूपमुक्तमिति बोद्धव्यम् ।। 19 ।। <B2>
एतस्मिंश्चैकत्वपक्षे निरवयवा शब्दव्यक्तिरेवैका स्यात् । या वा शब्दव्यक्तिः शब्दाकृतिरेव वाक्यमिति प्रतीयेत । तत्र निरवयवस्यैकस्यार्थस्य कुतो भेदसादृश्ये? भेदसिद्धिविशेषो ह्यात्मान्तरं सादृश्यं च । नह्यात्माभेदः सादृश्यं वा । अपि तु विनापि सामान्यविशेषाभ्यां सामान्यविशेषान्तरवत् प्रसिद्धिः । तद्यथाऽप्रसिद्धरूपस्यापि निरवयवस्योत्क्षेपणत्वादेः । (तत्राह)--
यथाक्षेपविशेषेऽपि कर्मभेदो न गृह्यते ।
आवृत्तौ व्यज्यते जातिः कर्मभिर्भ्रमणादिभिः ।। 20 ।।
वर्णवाक्यपदेष्वेवं तुल्योपव्यञ्जना श्रुतिः ।
अत्यन्तभेदे तच्वस्य सरूपेव प्रतीयते ।। 21 ।।

आक्षेपविशेषाद्धि स्वजातिप्रयुक्ते भिन्नात्मनि प्रतिभेदं विनिविष्टस्वजातिविशेषे भ्रमणादौ कर्मणि कम्पनरेचनोत्क्षेपणादिभ्यो यो भेदः स न गृह्यते । आवृत्तौ तु दिग्विशेषावधिसंयोगविभागोपाधिकायामुपलब्धायामनुपलब्धपूर्वाऽव्यक्तोपलब्धा वा भ्रमणरेचनाख्या जातिरुपलब्धॄणां स्वनिमित्तप्रत्ययहेतुः सम्पद्यते । तथैव यावत् सदृशानि जात्युपव्यञ्जनानि तावदत्यन्तभिन्नीऽप्यर्थः सर्व एव सारूप्येण गृह्यते ।
अपरः कल्पः । शब्दजातेरेव वाक्यत्वे भ्रमणत्वादयो दृष्टान्तत्वेनोपन्यस्ताः। वर्णत्वपदत्ववाक्यत्वानि हि तुल्यातुल्योपव्यञ्जनानि, यावत्तुल्योपव्यञ्जनसन्निपातस्तावद् बुद्धिभेदं कुर्वन्ति । कथम् ? अपचितध्वनिव्यङ्ग्यस्तावदेको वर्णस्तस्याभिव्यक्तिनिमित्तैः सदृशैरन्यैश्च श्रुतिभिन्नैरेकं निरवयवं च पदं व्यज्यते । तथेव तुल्यातुल्यैः पचिततमैर्वाक्यमिति ।। 20 - 21 ।
<B2> अथ जातिः सङ्घातवर्तिनीत्युद्दिष्टस्य जातिस्फोटस्यापि दृष्टान्तप्रदर्शनद्वारेण स्फुजीकरणायाह--यथाक्षेपेति ।
इह भ्रमणलक्षणा कर्मजातिर्यथा विश्ष्टप्रयत्नजतितेनाक्षेपविशेषेणाभिव्यक्ता, प्रत्येकपरिसमाप्तत्वात् । न च पार्श्वस्थेन सा विज्ञायते । भ्रमणानामावृत्तौ तु भ्रणमं भ्रमणं प्रति प्रतिपत्त्रा सा गृह्यते । एवं वर्णपदवाक्येषु श्रुतिरभिव्यञ्जको ध्वनिरत्यन्तभेदे तत्त्वस्य वर्णपदवाक्यस्फोटलक्षणस्य साभिव्यञ्जका सरूपेव प्रतीयते परमार्थतो भिन्नाऽपि सती कीदृशी ? तुल्योपव्यञ्जनेति । तुल्यः सदृश उपव्यञ्जनःस्थानकरणाभिघातलक्षणो यस्याः सा तथेति । तेन भिन्नप्रयत्नोदीरितध्वन्यभिव्यक्तोऽयं जातिस्फोटो विलक्षण एवेति बोद्धव्यम । युक्तं चैतत् ।। 20 - 21 ।। <B2>
व्यक्येकत्वपक्षे तु वाक्यस्यैकस्य पौर्वापर्यव्यवस्थां प्रत्युच्यते---
नित्येषु तु कुतः पूर्वं परं वा परमार्थतः ।
एकस्यैव तु सा शक्तिर्यदेवमवभासते ।। 22 ।।

कालाख्या हि कर्तृ शक्तिः कार्येष्वेव प्रतिबन्धाभ्यनुज्ञाभ्यां पौर्वापर्यं प्रकल्पयति । न ह्यणूनामविश्ष्टे सतां योगे पौर्वापर्यमस्तीति ।
ननु च नित्यत्वग्रहणे न तस्य पौर्वापर्यं स्यात् । एकस्मिंस्तु वाक्याख्ये निरवयवे एकग्रहणविषये वर्णपदविषयं पौर्वापर्यं न संभवतीति । अत हदमुच्यते--`एकस्यैव तु सा शक्तिः' इति । यदेवमिति । क्रमप्रत्यवभासत्वमेकत्वानतिक्रमेणाक्रमे बुद्धिलक्षणे क्षणिकवादिनः सर्वस्य विरुद्धरूपमिवाविरुद्धं भवति ।
त्रय्यन्तविदां तु--विश्वात्मन्येकत्वानतिक्रमेण क्रमप्रत्यवभासत्वं भवति । तथा शब्देऽपि स्यादिति नास्ति विरोधः । स्वशक्तियोगाद्धि प्रत्यवभासमात्रभेदान्नात्रोपायापायौ क्वचिदपि पक्षे विद्येते ।। 22 ।।
<B2> यथा निरंशस्यास्य स्फोटस्य पूर्वापरभाव उपाधिकृतो न स्वतो नित्यत्वादिति वैतत्येन नित्यत्वसमर्थनार्थमाह--नित्येष्विति ।
नित्येषु हि परमार्थतः पूर्वापरभावोऽसंभव्युपाधिकृतो दृश्यत एव । ननु सदैकरूपतया किं नावभासते ? नहि तत्र स्वभावभेदस्य सम्भव इत्याशङ्क्योक्तम्--एकस्येत्यादि । एकस्वभावोऽपि तथाविधशक्तियुक्त एव वस्तुस्वाभाव्यात् । यदेवं वैतत्येन पूर्वापरभावस्वरूपतया उपाधिभेदानुवर्तनेनावभासत इति । ।। 22 ।। <B2>
कथं पुनर्वाक्यपदह्णस्वदीर्घप्लुतव्यञ्जनादिषु नित्येष्वविशिष्टेषु कालभेद उपपद्यते---
चिरं क्षिप्रमिति ज्ञाने कालभेदादृते यथा
भिन्नकाले प्रकाशेते स धर्मो ह्लस्वदीर्घयोः ।। 23 ।।

तद्यथा चिरमिति ज्ञानस्य यदात्मकत्वं क्षिप्रमित्येतस्मिंश्च ज्ञानेऽपि । न च तयोरात्मनोः कश्चिदपि स्थितिकालभेदोऽस्ति । लब्धात्मकं हि सर्वज्ञानमविशिष्टकालं ज्ञानान्तरेण ।
अथ च चिरमित्येकं ज्ञानं ज्ञानान्तरेणातिक्रान्तप्रत्यवर्शरूपेण तद्भावना विशेषावधानाच्च भाविनापि प्रत्यवर्शरूपेण प्रकृष्टतामिव कालाध्वनः प्रदर्शयति । क्षिप्रमित्येतस्मिंस्तु लघुप्रवृत्तिरूपेण प्रत्यपकृष्यत इव कालाध्वा ।। 23 ।
<B2> पुनरप्युपाधिभेदेनैव शब्दस्य भेदप्रतिभासो न स्वतः, नित्यत्वादिति दृष्टान्तप्रदर्शनपूर्वकमाह--चिरमिति ।
चिरमिति ज्ञानं क्षिप्रमिति च यथा ज्ञानत्वाविशेषादेककालमपि ज्ञेयसमाश्रयणेन भिन्नकालमिव प्रथते । चिरज्ञानं विततप्रतिभासमिवाभाति । क्षिप्रज्ञानमेतद्विपरीतम् । तद्वद् ह्रस्वदीर्घयोर्धर्मः स्वभावोऽवगन्तव्यः । न तु ह्रस्वादिरूपता काचित् स्फोट इति नास्ति स्फोटस्य स्वतो भेदः ।। 23 । <B2>
कथं दीर्घप्लुतादिषु कालाध्वपरिमाणभेददर्शनमविरुद्धम्‌ ?
न नित्यः परमात्राभिः कालो भेदमिहार्हति ।
व्यावर्त्तिनीनां मात्राग्णमभावे कीदृशः क्रमः ।। 24 ।।

नित्यपक्षेऽनित्यपक्षे वा कालस्य मात्राणां वा आश्रीयमाणे न कालात्मनः सत्यतः कौचित् प्रकर्षापकर्षौ विद्येते । यदि नित्यः कालः, नास्यादित्यगतिभिर्बह्वीभिरात्मपरिमाणमुत्कृष्यते, नाप्यल्पाभिरपकृष्यते । क्रोशयोजनादिपरिमाणमिव भिद्यमानाभिर्गन्तृक्रियाभिः । कालस्यैव चोपाधिविशिष्टस्य परिमाणत्वात् कुतोऽस्यापरं परिमाणमित्येतत्कालसमुद्देशे व्याख्यास्यते ।
अथ गतिरपि नित्या सर्वमेवाव्यतिपाति च प्रतिज्ञायते । अथैता व्यावर्तिन्य एव विश्वस्य मात्राः, तत्र न पूर्वमपरेणानुसन्धीयते, सर्वं समीहितमसंसृष्टमेव व्यतिपतति, निरुपाख्ययोश्च पूर्वापरयोः कोट्योर्मध्यमनवबद्धं पश्चात् पुरस्ताच्चानालम्बनमनुपाख्यं पूर्वभागापरभागप्रत्यवमर्शिनेवाहङ्कारेणानुस्यूतमपकर्षपर्यन्तगतमभेद्यमप्यसतः पररूपस्योपग्रहेण चात्यन्तमनुपग्राहि परिमाणाभेदेऽपि मिथ्यासादविदुषो दीर्घमिव प्रकाशते ।
तदेतस्मिन् पक्षे एकधर्माविबद्धेष्वेकधर्मप्रतिष्ठितेष्वभिन्नकालेषु सर्वव्यवहारेषु कीदृशः सतामत्यन्तासतां च मात्राभेदानां क्रमः ?
नहि शशविषाणस्योष्ट्रविषाणेन हिमवता वा कश्चिदपि क्रमो विद्यते ।
यद्यप्येकस्यार्थस्य संमुखीभावे सद्भिः समानकालैर्भिन्नकालैश्च व्यापारैः सह क्रमो न संभवति, तथाप्येतस्मिन् दर्शने नान्यथा क्रमः संभवतीत्येवम्भूतव क्रमव्यवस्था, सत्यमेवम्भूता क्रमव्यवस्था, न तु कस्यचिन्मूर्तिपरिमाणभेदातिक्रमेण परिकल्पितपरिमाणभेदो विद्यते । सहोत्पादा हि सर्वे भावाः कालान्तरावस्थापरिकल्पिते कालाध्वनि मन्वन्तराख्ये क्षणाख्ये वा नात्मतत्त्वमतिक्रमान्तोऽनैकान्तिकेनागन्तुनाप्यनागन्तुकेन भेदेन संस्पृश्यन्ते ।
नहि तेभ्यो व्यतिरिक्तः क्षणाख्यः कालाध्वा मन्वन्तराख्यो वा कश्चिदन्यो विद्यते, यस्मिन्नधिकरणभूते प्राप्तविशेषभावाः कालान्तरावस्थायिनो नित्याः क्षणिका इति वा प्रतिज्ञाभेदविषयतामापद्येरन् ।। 24 ।
<B2> अथोच्यते--न नित्यमुपाधिवशाद्भिन्नं वक्तुं युक्तम्, स्वभावभेदप्रसङ्गादित्याशङ्क्याह--न नित्य इति । इह कालोऽपि नित्य एवाभ्युवगतो नित्यमेकमित्यादिलक्षणकथनात् । तस्येदानीं क्षणलवनिमेषेत्यादिव्यवहारः कथमुपपद्यते ? अथ परमात्राभिस्तस्य भेद उपचर्यते । यथा परमाणोः स्वावरुद्धनभोदेशत्यागोपलक्षितः कालः क्षणः, क्षणद्वयं च लव इत्यादि । तथा निरंशे वाक्य औपाधिकभेदपरिकल्पनायां कः प्रद्वेषः ?
अथ ब्रूषे न वयं नित्यमेकमित्यादिलक्षणलक्षितं कालं व्यतिरिक्तं जानीमः, पूर्वापरीभूताः पदार्थमात्रा एव स्वभावभिन्नाः कालः, तत्समाश्रयणेन चायं क्रमयौगपद्यव्यवहारः, न पुनस्तद्व्यतिरिक्तनित्यस्वभावकालकृत इति । तत्राप्याहव्यावर्तिनीनामिति। ताः पूर्वापरीभूताः पदार्थमात्रा उदयव्यययोगिन्य एवेति विशरारूणां तासां कीदृशः क्रमः, कथं च तत्समाश्रयणेन कालव्यवहार इति यत्किञ्चिदेतत् ।। 24 । <B2>
एवं तर्हि क्रमवतीभ्यो मात्राभ्य उत्पन्ना बुद्धिः प्रचितमात्रा वाऽप्रचितमात्रा वा परिमाणभेदव्यवहाराय कल्पिष्यते, सर्वथा साध्वनुपात्तमात्रारूपैव---
ताभ्यो या जायते बुद्धिरेका सा भागवर्तिनी ।
सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ।। 25 ।

एकत्वाद्धि बुद्धावात्मभूतानि संसर्गिणीनां विरोधिनीनां वा मात्राणां भिन्नानि तत्त्वानि न संभवन्ति । सा त्वेका भागवर्जिता बुद्धिः प्रकाशस्वरूपत्वान्मात्राणां क्रमसंकीर्णपौर्वापर्य्याणां तद्‌रूपापरित्यागेनासंहार्यमपि संहृत्यैव प्रत्यवमृशति । एवम्भूत एव बुद्धिप्रत्यवमर्शः ।। 25 ।
<B2> अथ तथाविधपदार्थसमाश्रयणेन बुद्धिरुपजायमाना कालव्यवहारं निर्वर्तयिष्यतीत्याशङ्क्याह---ताभ्य इति ।
ताभ्यः पदार्थमात्राभ्यो या जायते बुद्धिः साऽपि न शक्नोति कालव्यवहारं निर्वर्तयितुम् । यत एकासौ बुद्धिर्निर्विभागेति कथं पूर्वापरव्यवहारं निर्वर्तयेत् । तत्राह--सा हीति । बुद्धिर्हि भिन्नेव स्वशक्त्या क्रमप्रत्यवमर्शिनी भविष्यति । यतः क्रमोल्लेखानुषङ्गेणैवासावनुभववासनावशादुपजायत इति कालव्यवहारनिर्वर्तनचतुरैव सा।। 25 । <B2>
क्रमोल्लेखानुषङ्गेण तस्यां यद् बीजमाहितम् ।
तत्त्वनानात्वयोस्तस्य निरुक्तिर्नावतिष्ठते ।। 26 ।

इह यद् व्यवहितानां मात्राणामनुपाख्यानां पूर्वासु बुद्धिषूपयुक्तसामर्थ्यानां सामापशिनी (सामिस्पर्शिनी) न रूपोपग्रहोल्लेख्या.......बीजानामिव व्यपदेशातीतं तत्त्वम् ।
कुतः स्तत्र विरुद्धफलानां मात्रोपहितानामात्म शक्तिबीजानामेकस्यां बुद्धौ लौकिकमेकत्वं लौकिकं वा नानात्वं निर्वक्तुं न शक्यते ? कथं हि विरुद्धात्मकमनवयवमेकं वस्तु स्यादनेको वा विरुद्ध आत्मा कथमेकस्य प्रकल्पकः ।। 26 ।।
<B2> एतद् दूषयितुमाह--तस्यामिति । तस्यां बुद्धौ यदाहितं पदार्थमात्राभिरनुभववशाद् बीजं वासनारूपं संस्कारस्वभावं तत् किं व्यतिरिक्तं तस्या उताव्यतिरिक्तमिति द्वयी गतिः । व्यतिरेके तस्यास्तेन न किञ्चिदिति कथं तद्वशात् क्रमादिको व्यवहारः ? अव्यतिरेके पुनरपि सैवैका निर्विभागेति पदार्थमात्रावत् कालव्यवहारं कथं निर्वाहयेदिति तत्त्वनानात्वाभ्यां निर्वचनं बुद्धेः कर्तुं न पार्यत इति यत्किञ्चिदेतत् ।। 26। <B2>
भावनासमये त्वेतत् क्रमसामर्थ्यमक्रमम् ।
व्यावृत्तभेदो येनार्थो भेदवानपलभ्यते ।। 27 ।

भेदभावनानुगतबुद्धीनामेकत्वेन व्यवहरतामनादिना मिथ्याभ्यासेन विहितसमवायानामेकस्यां बुद्धावव्यतिरिक्तास्वनपायोपायिनीषु सर्वमात्रासु क्रमाख्यायाः शक्तेः सामर्थ्यमविद्यमानं प्रकल्प्यते क्रमप्रसिद्धये । तद्‌व्यावृत्तभेदोऽपि सर्वा प्रा (सर्वो वाक्यरूपः) शब्दाख्योऽर्थो विरुद्धधर्मक्रमरूपोपग्रहेणासतामपि भेदेन प्रयुक्तइवोपलभ्यते ।
तथाहि--ऊर्ध्वमधस्तिर्यगित्येकत्वेऽपि दिशा यथायथं विनिविष्टभावनाविशेषाः सर्वप्राणिनः । गुरुत्वाहियुक्ता लोष्टादयोऽपि नात्मवत् प्राणिनां भावनासमयमनुवर्तन्ते । एकं तु वाक्यं प्रतिपद्यमानस्यासदपि नित्यत्वादत्यन्तनानात्वं व्यवहारेण ।। 27 ।
<B2> पुनश्चातकाण्डकललवदविभक्त एव युक्त इति प्रतिपादयितुमाह--भावनेति । ब्रह्मकाण्डे सर्वशङ्कानिवारणपूर्वकं स्फोटस्वरूपं निरूपितमेव । तस्मादेतद्‌वाक्यमक्रमं स्फोटस्वभावमेकं वाचकम् । स्वपदार्थभावनावसरे तूपाधिवशात् क्रमसामर्थ्यं क्रमे सामर्थ्यं शक्तिर्यस्य तत् क्रमसामर्थ्यमवगतम् । येनार्थो वाच्यस्वरूपो व्यावृत्तभेदोऽखण्ड एव पदार्थोपाधिवशाद्भेदवानिवोपलभ्यते, न परमार्थतः ।। 27 । <B2>
पदानि वाक्ये तान्येव वर्णास्ते च पदे यदि ।
वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् ।। 28 ।

<B2> यस्य पुनस्तानि पदान्येवोपलभ्यमानानि वस्तु सन्ति वाक्येऽभिमतानि, न तद्व्यतिरिक्तमेकमनंशमस्त्यखण्डस्वभावं वाक्यम्, तस्य पदान्यपि न वर्णव्यतिरेकेण विद्यन्ते । वर्णा अपि भागवन्त इति प्रकर्षप्राप्तो भेद एव सर्वत्र स्यादिति पदवादिनं दूषयितुमाह--पदानीति ।
यथावयवव्यतिरेकेणावयविन एकस्यानङ्गीकरणेऽवयवानामपि भागवत्त्वाद् भागपरिकल्पनाया अतिप्रसङ्गात् परमाणूनामवशेषः । तेषामपि केषाञ्चिन्मते षट्‌केन युगपद्योगात् संशतायामणीयसोऽप्यवयवस्यानुपपत्तिः । अतश्च व्यपदेश्यपदार्थविरहितं निरीहमेव जगदापतितम् ।। 28 । <B2>
भागानामनुपश्लेषान्न वर्णौ न पदं भवेत् ।
तेषामव्यपदेश्यत्वात् किमन्यदपदिश्यताम् ।। 29 ।

यदि वाक्ये तान्येव पदानि यानि पृथगुपलब्धानि वर्णाश्च ये पृथगुपलब्धास्त एव समुदिता यदि पदेष्वाश्रीयन्ते, न च वर्णेभ्यो वाक्यपदयोरात्मा व्यतिरिक्त इति प्रतिज्ञायते । तथा सति वर्णेष्वपि यावदपकर्षपर्यन्तगतिस्तावद्वर्णभागानां परमाणुकल्पो भेदः प्रसज्यते । तथा च क्रमवतामलब्धयौगपद्यानां भागानामन्योन्यासंस्पर्शान्न वर्णो नाम कश्चिदेकः पदं वा विद्यते । अव्यपदेश्यत्वाद्धि तेषु प्रतिभागं व्यवहाराभावात् किं तदेकमस्ति शब्दरूपं यदिदं तदित्युपाख्यायेत । एवं तर्हि नानिर्देश्यभागभेदरूपेण बहिरनुपसंहारेण शब्दतत्त्वेन व्यवहारोऽस्तीति ।। 29 ।
<B2> तथैव वर्णभागानामनुपश्लेषान्न वर्ण एकः कश्चित् स्यात् । तदभावे पदमपि न भवेदिति प्रतिपादयितुमाह--भागानामिति ।
अतश्चोक्तरीत्या भागानामसत्त्वाद् व्यपदेशविरहात् किमत्र वाचकमेतद्व्यतिरिक्तमन्यदपदिश्यताम् । अखण्डस्यानङ्गीकरणात् पदानामुक्तेन न्यायेनानुपपत्तेरिति न कश्चिद् वाचकः स्यात् । अस्ति च वाक्यार्थस्य प्रतीतिः । सा सनिमित्ता भवितुमर्हंतीत्येक एव नित्यः पदाभिव्यङ्गयोऽखण्डो व्यक्तिस्फोटो जातिस्फोटो वा वाचकोऽङ्गीकार्य इति सिद्धान्तः ।। 29 । <B2>
यदन्तः शब्दतत्त्वं तु नादैरेकं प्रकाशितम् ।
तदाहुरपरे शब्दं तस्य वाक्ये तथैकता ।। 30 ।

बाह्यास्याक्षरचिह्नादिवच्छब्दव्यपदेशमात्रायुक्तस्य यदुदयस्तमयनिबन्धनं वाचस्तत्त्वमक्षरचिह्नादिवदेवातथाभूतेः क्रमवद्भिर्भागैरक्रमं प्रकाश्यते, तदेव मुख्यं शब्दस्यात्मरूपमित्यपरे मन्यन्ते ।
स चेष बुद्ध्यनुसंहारलक्षण आन्तरः शब्दात्मा तत्र समाम्नातः । तस्य चेत्थम्भावे विच्छिन्नपदरूपप्रविभागदर्शन एक एवायं वाक्याख्यः शब्दो यथैव वर्णपदाख्य इति प्रसिद्ध एष समाम्नाये मार्गः ।। 30 ।
<B2> एवं तावद् बहीरूपं व्यक्तिस्फोटं जातिस्फोटं वा वाचकमाश्रित्य वाक्यं व्याख्यातम् । इदानीमन्तरेवानवयवं बोधस्वभावं शब्दार्थमयं निर्विभागं शब्दतत्त्वमिति यद् गीतं तदेव नादैर्बहिः प्रकाशितं वाक्यमाहुराचार्या इत्यान्तरं बुद्ध्यनुसंहृतिरित्युद्दिष्टं व्याख्यातुमाह--यदन्तरिति ।
वाक्यविचारे प्रस्तुते तस्यान्तरस्यैकता निरंशतैव प्रतिपाद्यत इति तदेव सत्यत्वाद्वाक्यमस्तु किं तद्व्यतिरिक्तेनासत्येन वाक्येनेत्यर्थः ।। 30 । <B2>
अर्थभागैस्तथा तेषामान्तरोऽर्थः प्रकाश्यते ।
एकस्यैवात्मनो भेदौ शब्दार्थावपृथकस्थितौ ।। 31 ।

यथैवाव्यपदेश्यशब्दभागोपायमन्तर्निवेशि वाक्तत्त्वमभिन्नं मुख्यः शब्दात्मेति प्रसिद्धं तथा व्यतिपातिनीषु व्यावहारिकीषु बाह्यास्वर्थमात्रास्वव्यपदेश्योपचीयमानविशेषं क्रमेण प्रत्यर्थनियतमुत्पद्यमानं बुद्धितत्त्वं बाह्यवस्तुतत्त्वेनैव प्रत्युपभुज्यते ।
नित्यपक्षे वा क्रमशक्तिरूपनिर्भासमात्रया निवर्तते । नहि प्रतिलब्धार्थरूपविपर्यासां बुद्धिमन्तरेण बाह्यं वस्तु व्यावहारिकीष्वर्थक्रियासु समर्थं भवति । तस्मादन्तर्निविष्टरूपेणार्थेन सर्वो व्यवहारः क्रियते ।
अन्ये तु संक्रान्तविषयरूपाया बुद्धेरात्मनि समवायाद् बुद्धिरूपनिवेशेन तद्‌रूपतामिवापन्ने बोधात्मके पुरुषे पुरुषार्थस्य प्रसिद्धिं मन्यन्ते ।
प्रकाशस्वभावया बुद्ध्या चितिस्वरूपस्यार्थरूपस्य च प्रतिबिम्बकयोगेनोपग्रहे सम्भवति प्राप्तविषयरूपविपर्यासायामुपगृहीतपुरुषरूपायां बुद्धौ भोग्यभोक्तृशक्त्योरत्यन्तविभक्तयोरत्यन्तसंकीर्णयोरविभागप्राप्ताविव सत्यां विभागः प्रकल्पते ।
अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्‌वृत्तिमनुपतति ।
तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्ते (बुद्धेः) रनुकारमात्रया बुद्धिवृत्त्या विशिष्टज्ञानस्य प्रवृत्तिराख्यायते ।
     सर्वेषु च पक्षष्वन्तर्निवेशिन इव (एव) प्राप्तानुसंहारात् शब्दादन्तर्निविष्टरूपेष्विव (ष्वेव) प्रतिसंहृतेष्वविभक्तेषु विभागरूपानतिक्रमेणार्थेषु गृह्यमाणेष्वेक एवायं परिसमाप्तिप्राप्तानुसंहारो बुद्ध्यात्मा प्रतिपादकप्रतिपत्तव्यशक्त्योरविभागेन पृथगात्मनोर्भेदशक्तिरूपापरित्यागमात्रया व्यवतिष्ठते । नित्यवादिनां त्वानागन्तुकमनतिक्रान्तमनुपचयापचयम् ।। 31 ।
<B2> न केवलं वाक्यं तथा यावद्वाक्यार्थोऽप्यखण्डः प्रतिभात्मकः पदार्थभागैरभिव्यज्यत इति प्रसङ्गादाह--अर्थभागैरिति ।
तेषामान्तरवाक्यवादिनामाचार्याणां मते आन्तर एवात्रापि वाक्यार्थ इति बोद्धव्यम् । तौ च शब्दार्थावभिन्नावेकस्यान्तरस्य तत्त्वस्य सम्बन्धिनौ वस्तुतो बहिः स्थितौ भेदाविव प्रतिभासेते इति बोध्यमित्याह--एकस्यैवेति ।। 31 । <B2>
प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता ।
अन्तर्मात्रात्मनस्तस्य शब्दतत्त्वस्य सर्वदा ।। 32 ।

अयमन्तर्मात्राशब्दोऽनपायिन्यपायिनीभ्यां द्वाभ्यां शब्दशक्तिभ्यामनुगतः । तस्यैतस्मिन्नात्मन्यविभक्तमपि प्रकाशकत्वेन प्रकाश्यत्वं विभक्तमिव प्रत्यवभासते।अन्योन्यानुविधायिरूपतया च कार्यकारणरूपता, तस्यादेशस्यान्तर्मात्रेत्येवमाख्यायमानस्य शब्दात्मनः सर्वदा ।
सर्वदेति नास्यान्यः कालाध्वा विद्यते । भावाभावविभागाभावप्रतिपत्त्यर्थं तु व्यवहारप्रदर्शनाय सर्वंदेत्युच्यते । भावाभावविभागाभावादन्तर्मात्रानिवेशिशब्दार्थकत्वम् ।
सर्वदैवानपायिनिर्भासोप(ग) मोऽपि चास्याव्यतिरेकानतिक्रमेण तथैव व्यवस्थितः, सर्वव्यतिरेकानतिक्रमात् (व्यतिरेकातिक्रमात) तत्र किं कृतं कदाचित् संप्रत्ययहेतुत्वम् ।
सर्वादा कदाचिदित्येतदव्यतिरिक्तस्याधाराधेयभावविकल्पना, अवस्थितेरर्थस्य मिथ्याभ्यासभावनानुगमात् परिकल्पितभेदमात्मतत्त्वमेव तत्राविशेषो विशेष इव व्यामोहं जनयति ।। 32 ।
<B2> ननु शब्दर्थौ वाच्यवाचकाविति प्रसिद्धम् । अतः कथं तयोरभेद इत्याशङ्क्याह--प्रकाशकेति । तस्य हि शब्दतत्त्वस्यान्तरस्य ज्योतीरूपस्य शक्तिभेदादयं भेदप्रतिभासो न विरुद्धः । एतच्चादावेनोक्तमागमकाण्डे `एकस्य सर्वबीजस्य' इत्यादिना।।32।<B2>
तस्यैवास्तित्वनास्तित्वसामर्थ्ये समवस्थिते ।
अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ।। 33 ।

एकस्यात्मनो ह्यन्तर्मात्रानिवेशिनः शब्दार्थतत्त्वस्यात्मभूते नित्ये अनागमागपमे एकत्वमनतिक्रान्ते द्वे सामर्थ्ये भावाभावाख्ये एकबुद्धिगतमिव क्रमरूपमक्रमे संवेद्येते यथैव (तथैव) भावाभावावित्येका प्रख्या । अत्र ग्रन्थपातः
<B2> इदमपि तस्य शक्तिभेदादवभासत इति प्रसङ्गादाह--तस्यैवेति
तस्य तदेवैकं निर्विभागं परं तत्त्वमाश्रित्यायं सकललोकसंव्यवहारः शक्तिभेदात् प्रतीयते, किं पुनरयं वाच्यवाचकविभागमात्ररूप इत्यखण्डपक्ष एव युक्तः।।33। <B2>
संप्रत्ययप्रमाणत्वात् पदार्थास्तित्वकल्पने ।
पदार्थाभ्युच्चये त्यागादानर्थक्यं प्रसज्यते ।। 34 ।
<B2> इदानीं पदवादीमतमाशङ्क्य पुनरपि दूषयितुमाह---
यदि पदार्थसंप्रत्ययः प्रमाणं पदपदार्थसत्तायामुच्यते, तदा देवदत्त गामभ्याज शुक्लां दण्डेनेत्यस्मिन् वाक्ये पूर्वपूर्वपदार्थानामुत्तरोत्तरपदार्थाभ्युच्चये स्वार्थत्यागात् तत्तत्पदोपादानस्यानर्थक्यं प्रसज्यते । ततश्चानर्थकस्योच्चारणवैफल्यादुच्चारिताद्वा तस्माच्छब्दमात्रात् पदार्थप्रत्ययस्यानुपपत्तेः किं निबन्धना वाक्यार्थप्रतीतिः स्यादिति यत्किञ्चिदेतत् ।। 34 । <B2>
राजशब्देन राजार्थो भिन्नरूपेण गम्यते ।
<B2> तथा च पदानामव्यवस्थितेः पदवादोऽनुपपन्न एव लक्ष्यते इत्यभिधातुमाह--
राजा राजानं राज्ञा राज्ञे राज्ञो राज्ञि राजनीत्येवमनियतस्वरूपेण राजपदेन राजार्थप्रतीतिर्दृश्यते । यदि पदस्य सत्यता स्यात् , तदा नियतं तत् परिदृश्येत । सर्वत्र न च दृश्यते, अतो मन्यामहे मिथ्यैव पदानीति । <B2>
वृत्तावाख्यातसद्दशं पदमन्यत्र युज्यते ।। 35 ।
<B2> इतोऽपि नास्ति पदमित्याह---
राजपुरुष इत्यस्यां वृत्तौ राजशब्द आक्यातसदृशः । ततश्च हे राजपुरुषेत्यत्र राज भ्राजस्व पुरुषेत्यर्थप्रतीतिः स्यात् । न चैतदिष्टम् । तस्मात् पारमार्थिकानि पदानि न सन्त्येव ।। 35 । <B2>
यदि च न केवलो राजशब्दोऽन्यत्र दृष्टप्रयोगः , स राजपुरुषादिषु भिद्यते; किं कृता पुरुषे राजपुरुषो ब्राह्मणपुरुष इति विशिष्टार्थस्यावगतिः (अत आह)---
यथाश्वकर्ण इत्युक्ते विनैवाश्वेन गम्यते ।
कश्चिदेव विश्ष्टोऽर्थः सर्वेषु प्रत्ययस्तथा ।। 36 ।

तद्यथा--अजकर्णोऽश्वकर्ण इत्युक्ते नाश्वार्थस्य कर्णार्थस्य वा स्वल्पोऽपि समन्वयो विद्यते । भेदविषयेण त्वत्यन्तमतदर्थेन वाक्येनार्थप्रदर्शिका क्रियते, बहुव्रीहितत्पुरुषसंज्ञादिभिः समुदायान्तरेषु शब्दसंस्कारः ।
अश्वादीनां पदार्थनामत्यन्तासमन्वयेऽपि गम्यते व्यावृत्तानुवृत्तस्वलक्षणः कश्चिदेव नियतोऽर्थः । तथैव सर्वासु वृत्तिष्वर्थान्तरासमन्वये गंस्यत एव विशिष्टोऽर्थः ।। 36 ।
<B2> नकेवलं केवलानां नियतरूपासंभवस्तेषां यावद्वृत्तावपि स्थितानामित्याह---यथाश्वकर्ण इति ।
अश्वकर्ण इत्यत्राश्वपदार्थेन विनैव जात्यन्तरविशिष्टः कश्चिदर्थो गम्यते ।तस्मात् सर्वेष्वपि पदेषु परामृष्टविभागेषु वाक्याभिव्यञ्जकेषु सत्स्वखण्डवाक्यावगतिपूर्वको वाक्यार्थप्रत्यय इत्येव युक्तम् ।। 36 ।। <B2>
यदि तर्हि राजपुरुषादीनामश्वकर्णादिभिस्तुल्यः पूर्वपदोत्तरपदार्थ (र्था)- समन्वयः , तत्कुतो रूढ्यरूढिविभागः (अत आह) --
वाक्येष्वर्थान्तरगतेः सादृश्यं परिकल्प्यते ।
केषाञ्चिद् रूढिशब्दत्वं शास्त्र एवानुगम्यते ।। 37 ।

इह स्वभावसिद्धे वृत्तिवाक्ययोरत्यन्तमर्थस्याभेदे वृत्त्या वाक्येन प्रक्रम्यमाणेऽस्य यत्र प्रधानस्याविशिष्टः क्रियादिसम्बन्धस्तत्र वाक्यस्य विच्छेदवृत्तिमात्रकृतभेदमिव सादृश्यं कल्प्यते, सत्स्वप्युपसर्जनविशेषणादिषु भेदेषु । अतश्च सादृश्यकल्पनया तेऽरूढिशब्दा इत्यवगम्यते ।
येषां तु वाक्यप्रक्रमोऽन्य एवार्थः क्रियासम्बन्धी वृत्तिप्रक्रमोऽन्य एव, तेषां रूढिशब्दत्वम् । तेषु च `शिल्पिनि चाकृञः' (6-2-77), `संज्ञायामनाचितादीनाम्' (6-1-146), ङ्यापोः संज्ञाछन्दसोर्बहुलम्' (6-3-63), `बहुलं तणि'--इत्येवमादीनि कार्य्याणि शास्त्र एवोपव्याख्यायन्ते ।। 37 ।
<B2> नन्वेवं सति योऽयं रूढ्यरूढिविभागः शब्दानामुच्यते स वृथेत्याशङ्क्याह--वाक्य इति ।
वृत्तिवाक्ययोः सादृश्यपरिकल्पने केषाञ्चिच्छब्दानां वाक्ये विग्रहरूपेऽर्थान्तरप्रतीते रूढिशब्दत्वमुच्यते । यथा---तैलपायिकेति । अत्र तैलं पिबतीति वाक्यवेलायामर्थप्रादुर्भावः । वृत्यवस्थायां तैलपायिकेति जात्यन्तरयुक्तार्थस्य कस्यचित् प्रतीतिः । न च तस्य तैलपानक्रिया लक्ष्यत इति रूढिरूपतास्योच्यते । केषाञ्चित्तु वृत्तिवाक्ययोरर्थस्य सादृश्याद् यौगिकत्वम् । यथा -- राजपुरुष इति । परिकल्पन इत्यनेन सर्वमेतदवयवविभागादिकं शास्त्रसमय एव कल्पनामात्रम् , परमार्थतस्तु व्यवहारकाले निर्विभागमेवोपलभ्यत इति प्रतिपाद्यते । एतदेव शास्त्र एवानुगम्यत इत्यनेन व्यक्तीकृतम् ।। 37 । <B2>
उपादायापि ये हेयास्तानुपायान् प्रचक्षते ।
उपायानां च नियमो नावश्यमवतिष्ठते ।। 38 ।

इह शब्दसंस्कारे क्वचिदर्थस्यापि समधिगममात्रायां बुद्धौ पदानि वाक्यस्योपकारायोपादीयन्ते । चर्चादिपदानि संहितायाम्, वाक्यपदानि समासतद्धितसुब्धात्वेकशेषवृत्तिषु । तेषां च यदर्थमुपादानं तत्सन्निधाने नियत एषां त्यागः, उपायभावात् ।
शास्त्रे ह्यामन्त्रितस्य पदात् परस्य तिङ्ङतिङ इति निघातादयः शब्दसंस्काराः । तथा `एकादेश उदात्तेनोदात्तः' (8-2-5) , `स्वरितो वा अनुदात्ते पदादौ' (8-2-6), `उदात्तस्वरितयोर्यण' (8-2-4) इति । तथा तत्पुरुषे तुल्यार्थतृतीया (6-2-2), `सप्तमीहारिणौ' (6-2-6) इत्येवमादयोऽर्थप्रतिपत्तिमात्रा अपि दृश्यन्ते ।
यथा मे मात् तथा मे पिता, सुस्नातं भोः, नमो भरन्त एमसि, सौभाग्यमस्यै दत्त्वायाथास्तं विपरेतनेति ।
तः परो यस्मात् सोऽयं तपरः, तादपि परस्तपर इति (द्रo अष्टाo 1-1-70), वियातस्य भावो वैयात्यम् (द्रo 7-2-19) इति । त एते पुरुषसम्बोधनोपायाः ।
यदि त्वन्यथापि पुरुषाः प्रतिपादयितुं शक्यन्ते तदर्थान्युपायान्तराण्यपि प्रक्रम्यन्ते ।। 38 ।
<B2> कथमेतदुच्यत इत्याह--उपादायापीति । शास्त्रमुपायः शब्दपरिज्ञाने । ज्ञातेषु तेषु प्रयोजनसम्पत्तेरनुपयोग इति तस्य परित्यागः । उपायाश्च न नियता इत्याह--उपायानां चेति ।। 38 । <B2>
अर्थं कथञ्चित् पुरुषः कश्चित् संप्रतिपद्यते ।
संसृष्टा वा विभक्ता वा भेदा वाक्यनिबन्धनाः ।। 39 ।

विचित्रा हि बहुधा प्रतिपत्तॄणां प्रतिपत्तिः । श्रोत्रियंश्छन्दोऽधीत इति (5-2-64) वाक्यार्थे पदवचनम्, छन्दसो वा श्रोत्रभावः घँश्च प्रत्ययः, श्रोत्राभ्यां कृतं कर्मेति वा (द्रo भाष्यo 5-2-84) । तथा `इको वक्तव्यः' आखनिकः, `इकवको वक्तव्यः' (द्रo 3-3-125 वा o)आखनिकवकः । पात्रेसमितादिषु (2-1-48) वाऽऽखनिकवक इति पठ्यते ।
तथा---उष्ट्रगोयुगाश्वषड्‌गवादिषु प्रत्ययत्वेनान्यथान्यथा चान्वाख्यानं क्रियते । ते यदि विभक्ताः कदाचिदप्यनिबद्धा वाक्ये विद्यन्ते, संसृष्टा राजपुरुषः प्लक्षन्यग्रोधौ । विभक्ता राज्ञः पुरुषः, प्लक्षश्च न्यग्रोधश्चेति ।
अपर आह---संसृष्टाः देवदत्त गामभ्याज शुक्लामिति । विभक्ताः यत्र पदान्तरैः, सह पदस्याप्रयोगः । सर्वथा यान्यविच्छिन्नरूपग्रहणानि निदर्शनाय सामान्यरूपावस्थितानि पदान्युपादीयन्ते, तान्यप्यन्ततः सत्तायामुनिबद्धानि न कस्याञ्चिदप्यवस्थायां निदर्शनायालम् ।
तस्माद्यदि संसृष्टा यदि विभक्ताः, नानिबद्धा वाक्ये भेदा विद्यन्ते । भेदसंसर्गो त्वध्यारोपनियमानुवादैः पुरुषप्रतिपत्त्युपायावेवेति ।। 39 ।
<B2> कश्चिदाचार्यः पाणिनिविरचितेन लक्षणशास्त्रेण शब्दानधिगच्छति, कश्चिदन्येनेति न नियमः । एतदेव स्पष्टीकृतम्---अर्थं कथञ्चिदित्यादिना । तस्मात् संसृष्टस्य विभक्तस्य वार्थविशेषस्य वाक्यमेकमनंशमेव प्रतीतिनिबन्धनमिति पदपदार्थप्रविभागकल्पनमसमञ्जसमेवेति प्रतिपादयितुमाह---संसृष्टा वा इति ।। 39 । <B2>
सोऽयमित्यभिसम्बन्धो बुद्‌ध्या प्रकम्यते यदा ।
वाक्यार्थस्य तदैकोऽपि वर्णः प्रत्यायकः क्वचित् ।। 40 ।

नावश्यं विच्छिन्नपदरूपविग्रह एव शब्दः पौर्वापर्ययुक्तमनुगतविभागमेवार्थं प्रत्याययति । यदा हि वाक्यार्थस्यैवेग्यणः स्थाने भवतीत्येवमादेर्बुद्धिविषयः सम्प्रसारणमिति वा, `भ भि' इति वा सोऽयमित्यभिसम्बन्धः क्रियते, अथो यथैवेग्यण इत्यनेन पौर्वापर्यानुपातिनी प्रतिपत्तिर्भवति, एवमपौर्वापर्यया `भ भि' इत्येकवर्णया तस्यार्थस्य संज्ञया प्रत्यस्तमितपौर्वापर्यः स एवार्थात्मा प्रतीयते । न चावश्यं शब्दव्यवहितैव तत्र प्रतिपत्तिर्भवति । कृताभ्यासानां हि शब्दान्तरेणार्थप्रतिपत्तिर्न व्यवधीयते ।
यदि च लघूपायं सामान्यविशेषयुक्तं शास्त्रं सदृशसंव्यवहारमलस इतीव मिथ्याभ्या (ध्या) सविपर्ययस्तद्‌दर्शिनो लोके नानुपतेत् तदा प्रतिपत्तारस्तमेवाक्रमं प्रतिपद्यरेन् । भेदरूपेण चै (नै) कत्वं संकीर्णम् । तेन सापराधैव प्रकर्षविनिवेशिन्याः प्रक्रान्तक्रमरूपोपप्लवाया वोचो वृत्तिः । सा हि सापराधेषु पुरुषेष्वन्यथैवात्मानं दर्शयति । अतश्च तामेके पश्यन्तोऽपि न पश्यन्ति, श्रृण्वन्तोऽपि न श्रृण्वन्ति । तां तु वैयाकरणा वाग्योगविदः शब्दात्मानमभिसंभूता भेददर्शनमतीत्य स्वेन स्वरूपतत्त्वेनोपलभन्ते ।
सा च तेभ्य एवात्मानं विवृणोति । उक्तमिदम्---`अर्थं कथञ्चित् पुरुषः कश्चित् संप्रतिपद्यते' इति । श्रतः पुरुषप्रतिपत्तिभेदानां परिमाणविकल्पानां निदर्शनमात्रं क्रियते ।। 40 ।
<B2> अतश्चनिरंशएवायं पदार्थशून्यो वाक्यार्थोऽध्यासमात्रसम्बन्धगर्भएकस्मादपि वर्णात् प्रतीयत एवत्यभिदातुमाह---सोऽयमिति ।
सोऽयमित्यभिसम्बन्धोऽध्यासरूपो वाक्यार्थस्य वाक्येन सह यदा वक्त्रा प्रकम्यते, तदैकोऽपि वर्णो वाक्यार्थस्य वाचको भवत्येव, किं पुनरनेकमशोषविशेषाभिधानविवक्षयोदीरितं पदमिति । एवमध्यासवशाद् वाक्यवाक्यार्थयोरभिन्नस्वरूपत्वाद् वाक्यार्थाभिव्यक्तौ वाक्यमपि स्फोटात्मकर्माभव्यक्तमेवेक्युक्तम्---वाक्यार्थस्य तदैकोऽपीत्यादि ।। 40 ।। <B2>
केवलेन पदेनार्थो यावानेवाभिधीयते ।
वाक्यस्थं तावतोऽर्थस्य तदाहुरभिधायकम् ।। 41 ।

इह यावन्तं केवलो वृक्षशब्दो जातिमात्रं भिन्नमर्थं ब्रवीति तावन्तमेव वृक्षोऽस्ति वृक्षो नास्ति वृक्षश्छिन्न इत्येवमादिष्वपि वाक्येषु प्राप्तयोगं (गः) प्रत्याययति । भावाभावच्छेदादियोगो (न) भिन्नजातियुक्तात्मकतां प्रदर्शयति । नापि जातियोग्यो भावाभावच्छेदादिसम्बन्धः । नहि माभान्तरनिबन्धनस्य मात्रान्तरप्रत्यायने सामर्थ्यमस्ति ।। 41 ।
<B2> इदानीमाभिहितान्वयपक्षसमाश्रयणेन संघातपक्षस्य प्रदर्शनायाह---केवलेनेति । केवलं पदं यस्यैवार्थस्य वाचकम् , वाक्यस्थमपि तमेवाभिदधाति । <B2>

सम्बन्धे सति यत्त्वन्यदाधिक्यमुपजायते ।
वाक्यार्थमेव तं प्राहुरनेकपदसंश्रयम् ।। 42 ।

यत्तु पदान्तरेण सम्बन्धे वीरः पुरुष इति विशेषणविशेष्यत्वात् सामानाधिकरण्यं जातिगुणविशेषयोरेकार्थसमवायप्रतिपत्तिपूर्वकमर्थेष्वाधिक्यं दृश्यते वाक्यार्थ एवासौ । नहि तस्यान्तः पदं शब्दसंस्कारे निमित्तत्वेन व्यापार आश्रीयते ।
यस्त्वेकपदविषयो व्यतिरेकः कर्मादिवद् बाह्यनिमित्तोपजनितो राज्ञः पुरुष इति सोऽन्तः पदं प्रातिपदिकान्येव विभक्तियोगविशेषयोगे नियमयति । स चायं वाक्यपदयोराधिक्ययोर्भेदो भाष्य एवोपव्याख्यातः ।
अतश्च तत्रभवानाह---`यथैकपदगतः प्रातिपदिकेऽन्तः पदं संस्कारहेतुरर्थो वचनं प्रति भवति तथैकपदगतः पदसंस्कारहेतुरेव विभक्तियोगं प्रत्यहेतुर्भवति । ग्रामो ग्रामो रमणीय इति । अनेकपदसंश्रयस्तु वाक्यार्थः प्रतिनिघातादिव्यवस्थार्थंहेतुराख्यायत इति ।। 42 ।।
<B2> ततः समुदाये पदानां परस्परान्वये पदार्थवशाद्यदाधिक्यं संसर्गः स वाक्यार्थः । उक्तं च-`यदत्राधिक्यं वाक्यार्थः स' इति । अनेकपदसंश्रयमित्यनेन संघातो वाक्यमिति दर्शितम् ।। 41 - 42 । <B2>

अथाप्यनेकपदसंश्रयत्वेऽप्यपरो दर्शनभेदः--
स त्वनेकपदस्थोपि प्रतिभेदं समाप्यते ।
जातिवत्समुदायेऽपि संख्यावत्कल्प्यते परैः ।। 43 ।

यद्यथा जातिवत् सत्तावाने (या अने) काधिकरणयोगेऽपि प्रत्यधिकरणमन्यूनकार्या (या), तथायमेकेषां वाक्यार्थ आवृ(कृ) तिन्यूनतासमतिक्रमेण प्रतिपदमेवाविकलः समाप्यते । अथापरः कल्पः---यथैकस्या विंशत्यादिकायाः संख्यायाः प्रत्त्यधिकरणं तन्निमित्तप्रत्ययहेतुत्वं तथा वाक्यार्थस्य प्रतिपदं प्रत्याय्यत्वेनावस्थानमिति ।। 43 ।
<B2> वाक्यार्थस्य चास्य जातिवत् प्रत्येकपरिसमाप्तिः, केषाञ्चिन्मते संख्यावत् समुदायपरिसमाप्तिरिति पक्षद्वयं दर्शयितुमाह--स त्वनेकेति ।। 43 । <B2>
सर्वभेदानुगुण्यं तु सामान्यमपरे विदुः ।
तदर्थान्तरसंसर्गाद् भजते भेदरूपताम् ।। 44 ।
भेदानाकाङ्‌क्षतस्तस्य या परिप्लवमानता ।
अवच्छिनत्ति संबन्धस्तां विशेषे निवेशयन् ।। 45 ।

अपरे तु मन्यन्ते--स्वार्थमात्रोपादायिनः सर्वभेदान् प्रति या योग्यता तदेवानुगुण्यमात्रं सामानाधिकरण्यमात्रम् । नहि तथान्यथा सर्वथा चेति सामान्यावस्थारूपं किञ्चिदस्ति । सर्व एते विशेषा एव । तस्यान्तु सामान्यावस्थायां भेदस्य कस्यचिदनिरूपणादानुगुण्याच्च या सर्वभेदोपग्रहयोग्यता परिप्लवमानकल्पनार्थस्य तां सम्बन्धो विषयान्तरादवच्छिद्य विशिष्टे विषये नियमयति । तस्मिंश्च योग्यतावच्छेदमात्रेऽर्थस्य क्रियमाणे नाध्यारोपनियमः, नानुपादानयोग्यता किञ्चिदर्थरूपं (प्रति) नाप्यर्थरूपादन्या ।। 44 - 45 ।
<B2> अथात्र संघातपक्ष एव प्रकारान्तरेणान्विताभिधानप्रदर्शनात् पदार्थ एव वाक्यार्थ इति प्रक्रमितुमाह---सर्वभेदेति । सर्वेषां भेदानामानुगुण्यं यस्मिन् तत्तथाविधं सामान्यं संसर्गलक्षणमाकाङ्‌क्षायोग्यतासन्निधानवशेन पदान्तरसंसर्गान्नियतस्वरूपं वाक्यार्थः ।। 44 ।
तत्र चाकाङ्‌क्षावसरे येयमस्फुटरूपता वाक्यार्थस्य तामितरपदार्थसन्निधिर्निवारयतीत्याह--भेदानिति । पूर्वत्र पदानां वाक्ये तावानेवार्थो यावानेव केवलानाम्, संसर्गस्तु संघातवाच्यः । इह तु तथाभूत एव सामान्यरूपः पदस्यार्थो यस्तत्तद्विशेषसन्निधौ तत्तद्विशेषविश्रान्त इति ।। 45 । <B2>
यस्तर्हि योग्यतावच्छेदहेतुः सम्बन्धः, स च नार्थेभ्यो वाक्यस्याभिधेय इति प्राप्तं सोऽपि सर्वाभिधेयधर्मानतिक्रान्तः सम्बन्धः । यदि सर्वाभिधेयधर्मानतिक्रान्तः कथं तर्हि सोऽस्तीत्यवसीयते--
कार्यानुमेयः संबन्धो रूपं तस्य न दृश्यते ।
असत्त्वभूतमत्यन्तमतस्तं प्रतिजानते ।। 46 ।

नहि तस्य सम्बन्धस्य स्वरूपमवधारयितुं शक्यम् । स एव योग्यतावच्छेदकार्यप्रसवानुमेय एव नित्यम्, प्राप्तसंविज्ञानपदविशेषनिबन्धनः साक्षात्सम्बन्धेऽसम्बन्धे वा सर्वप्रत्ययात्मसु (अ) विशिष्टस्वरूपः । अतश्चेदन्तदिति साक्षात्पर्यायशब्देन वा व्यपदेष्टुमशक्यत्वादत्यन्तासत्त्वभूतमनेकसम्बन्धिविषयं सम्बन्धमाचक्षते।।46।
<B2> संघातपक्षे संसर्गो वाक्यार्थ इत्युक्तम् । स च पूर्वत्र जातिवत् संख्यावद्वा पदार्थव्यतिरेकेण वाक्यार्थत्वेन कल्पितः । इदानी पदार्थव्यतिरेकेणासन्नैवैकान्तानुमेयो न समुदायवाच्यः, किं तर्हि सर्वभेदानुगुणसामान्यरूपो विशेषान्तरसन्निधानाद्विशेषविश्रान्तः पदार्थ एव वाक्यार्थ इति दर्शयितुमाह--कार्यानुमेय इति । कार्येण पदार्थानां विशेषविश्रान्तिलक्षणेनानुमीयत इति कार्यानुमेयः । इदं तदिति तु रूपं तस्य न दृश्यते । अत एवासत्त्वभूतं पदार्थव्यतिरेकेण सत्त्वं नास्ति, यस्य तमेवं भूतमाचार्याः प्रतिजानते ।। 46 ।। <B2>
नियतं साधने साध्यं क्रिया नियतसाधना ।
स सन्निधानमात्रेण नियमः सन् प्रकाशते ।। 47 ।

नियतसाधनः साध्योऽर्थः । नियतक्रियाणि च साधनान्यविभक्तरूपोपकाराण्यपि युतव्यवस्थानि प्रतिपदमभिधेयत्वेनावस्थितानि । नित्यनियतत्वाच्च नियमोऽप्यत्र विधेयः । संस्तु नियमः प्रयोगे सन्निधिमात्रेण पदान्तराणां पुरुषं प्रति प्रकाशते नानुगृह्यते ।। 47 ।
<B2> एतदेव व्यक्तीकर्तुमाह--नियतमिति ।
साध्यं साधनं च परस्परं नियतमेव । केवलमाकाङ्‌क्षावशादितरपदार्थसन्निधाने सति नियमः सन्नेव प्रकाशत इत्याक्षिप्तपदान्तराणि पदान्येव वाक्यम्, पदार्थस्च वाक्यार्थ इत्यव्यतिरिक्तः संघातपक्षोऽयम् ।। 47 । <B2>
  यदि तर्हि नियतसंसर्ग एव नित्याविभक्तोऽयमर्थ एवं सति किं कृता गुणप्रधानभावप्रत्यवस्था---
गुणभावेन साकाङ्‌क्षं तत्र नाम प्रवर्तते ।
साध्यत्वेन निमित्तानि क्रियापदमपेक्षते ।। 48 ।

इह साध्येनानुपकारकेणाङ्गिना मुख्येनार्थेन प्रयुक्तानि सर्वतः सिद्धानि परार्थान्युपकारं प्रति शेषभावेनौत्सुक्यवन्तीवाङ्गान्युपादीयन्ते । साध्यत्वेनैव तु निमित्तानि क्रियापदमपेक्षते ।
एतदुक्तं भवति---अर्थेषु सतीमसतीं वा शब्दवृत्त्यनुकारेण पुरुषो व्यपेक्षां समीहते । तां शब्द एव प्रकाशयति । सा हि नित्यनिविष्टरूपेव शब्दात्मनि।।48।।
<B2> अथात्र परस्परापेक्षायां समानायां विशेषमभिधातुमाह---गुणभावेनेति ।
नाम कारकपदं क्रियायां गुणभूतं सत् पदान्तरमाकाङ्‌क्षति । क्रियापदं तु प्रधानभावेनावस्थितं कारकपदान्यपेक्षत इति ।। 48 । <B2>
   अपर आह---
सन्त एव विशेषा ये पदार्थेषु व्यवस्थिताः ।
ते क्रमादनुगम्यन्ते न वाक्यमभिधायकम् ।। 49 ।

अर्थत्वमापद्यमानेषु यावन्तो विशेषाः सन्निहिता नियतप्रसिद्धिव्यवस्थास्ते शब्दान्तरविषयेण कालवृत्त्यनुग्रहेण प्रतिबन्धाभ्यनुज्ञाख्येन प्रतिपत्तृभिरनुगम्यन्ते, नापरं वाक्यं नाम किञ्चिच्छब्दरूपमभिधायकं विद्यते ।। 49 ।
<B2> कमो वाक्यमित्युद्दिष्टं क्रमपक्षं व्याख्यातुमाह--सन्त इति । पदार्थेषु देवदत्तादिपदवाच्येषु गोकर्मिकायामभ्याजक्रियायां देवदत्तपदार्थस्य कर्तृत्वं गोपदार्थस्य देवदत्तकर्तृकायां कर्मत्वमित्यादयो विशेषाः सन्त एव पदेभ्यः क्रमेण प्रतीतेभ्योऽवगम्यन्त इति क्रम एव वाक्यम् । न वाक्यमभिधायकमित्यनेन क्रमव्यतिरेकेण शब्दात्मकं न वाक्यमभिधायकमस्तीत्युच्यते ।। 49 । <B2>
शब्दानां क्रममात्रे च नान्यः शब्दोऽस्ति वाचकः ।
क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ।। 50 ।

नहि पदेषु प्रतिबन्धाभ्यनुज्ञाभ्यां कालेनानुगृह्यमाणेष्वपरः शब्दः कश्चिदुपजायते येनार्थान्तरं प्रत्याय्येत । क्रमो हि शब्देषु कालशक्तिरूपविशेषस्य निवेश इव । स कालात्मनो न व्यतिरिच्यते । तेन वाक्यमित्यवस्तुकमेवेदमभिलापमात्रम्, पदमेवार्थवदिति ।। 50 ।
<B2> एतदेव स्फुटीकुर्वन्नाह--शब्दानामिति । अनपेक्षितविशिष्टानुपूर्वोकः क्रमः क्रमामात्रम् । तस्मिन् सत्यर्थप्रतीतेर्न्नान्यस्तद्व्यतिरिक्तः कश्चित् स्फोटादिः शब्दो वाचकोऽभ्युपगन्तुं युक्तः । अपि तु क्रम एवोपलभ्यमानो वाचकः । अथ क्रम इति किमुच्यत इत्याह--क्रमो हीति । क्रमवत् पदपदार्थोपाधिवशेनापि कालस्य स धर्म उच्यते ।। 50 । <B2>
किमर्थं तर्हि क्रमवतां कालशक्तिरूपनिवेशानुग्रहाद्वर्णानामेवार्थवत्ता नाभ्युपगम्यत इत्याह--
ये च संभविनो भेदाः पदार्थेष्वविभाविताः ।
ते सन्निधाने व्यज्यन्ते न तु वर्णेष्वयं क्रमः ।। 51 ।।

यथा ह्यु च्चरिते पदे संभविनां भेदानां.......(अत्र ग्रन्थपातः).....
<B2> युक्तं चैतत्, यत्क्रम एव वाक्यमित्याह---ये चेति ।
पदार्थेषु ये भेदाः पूर्वोक्ताः सन्ति ते केवलेष्वविभाविताः सन्तः क्रमवत्पदार्थान्तरसंनिधानेऽभिव्यज्यन्त इति दर्शनात् क्रम एव वाक्यमिति पदक्रमो वाक्यमुक्तम् । वर्णक्रमस्तु न तथेत्युक्तम्, न तु वर्णेष्वयं क्रम इति ।। 51 ।। <B2>
वर्णानां च पदानां च क्रममात्रनिवेशिनी ।
पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ।। 52 ।।
<B2> एतदेवोपसंहारेण स्फुट यितुमाह---
वर्णक्रमः पदमुच्यतां नाम । वाक्यसंज्ञा पदक्रम एव युक्ता, तथार्थप्रतीतिदर्शनात् । क्रम एव शब्दो न वर्णपदे इत्युक्तमुपसंहर्तुमाह शब्दत्वमिति । तयोर्वर्णपदयोः शब्दत्वं श्रोत्रेन्द्रियग्रह्यत्वेऽपि वाचकत्वलक्षणं नेष्यते, अपि तु क्रमस्यैव ।। 52 ।।
पदक्रमस्य शब्दत्वं वाक्यार्थेनार्थवत्तायाम् । वाक्यार्थभागैस्तु पदानामर्थवत्त्वम् । एवं वर्णक्रमस्यापि शब्दत्वं पदार्थेनार्थवतः, तदर्थवतां वर्णानां किं नाङ्गीक्रियत इत्याह-- <B2>
समानेऽपि तु शब्दत्वे दृष्टः संप्रत्ययः पदात् ।
प्रतिवर्णं त्वसौ नास्ति पदस्यार्थमतो विदुः ।। 53 ।

<B2> वर्णपदलक्षणस्योभयरूपस्यास्य शब्दत्वे समाने पदानां क्रमाद्वाक्यार्थस्यावगमो दृश्यते न वर्णादित्यतः पदान्येवार्थवन्ति । तत्क्रमश्चैव वाक्यम् । संसर्गो वाक्यार्थ इति ।। 53 ।
इदानीं संघातः क्रमस्तथैकोऽनवयवश्च शब्दः स्फोटात्मेति व्याख्यातानि त्रीणि वाक्यलक्षणानि श्लोकत्रयेणोपसंहरति । तत्र संघातपक्षमुपसंहर्तुतावदाह--<B2>
यथाऽस्यावयवा वर्णा विना वाच्येन केनचित् ।
अर्थवन्तः समुदिता वाक्यमप्येवमिष्यते ।। 54 ।

<B2> वर्णानां समुदायार्थवत्त्वे केवलानामनर्थकत्वं यथा तथा पदानां केवलानामर्थासंभवात्तत्समुदाय एव वाक्यमिति ।। 54 । <B2>
अनर्थकान्युपायत्वात् पदार्थेनार्थवन्ति वा ।
क्रमेणोच्चरितान्याहुर्वाक्यार्थं भिन्नलक्षणम् ।। 55 ।

<B2> क्रमपक्षमप्युपसंहर्तुमाह---
पदानि केवलान्यनर्थकानि, केषाञ्चिन्मते स्वार्थेनार्थवन्ति, क्रमेणोच्चारितानि वाक्यम् । तथाविधाद्वाक्याद्वाक्यार्थं भिन्नलक्षणं व्यतिरिक्तस्वरूपं संसर्गात्मकं विशिष्टमेव वा संसर्गवशान्निराकाङ्‌क्षविशेषावस्थितपदार्थस्वरूपमेव व्यतिरिक्तमवगम्यत इति ।। 55 । <B2>
नित्यत्वे समुदायानां जातेर्वा परिकल्पने ।
एकस्यैकार्थतामाहुर्वाक्यस्याव्यभिचारिणीम् ।। 56 ।

<B2> स्फोटपक्षमप्युपसंहर्तुमाह---
इह देवदत्तगामभ्याज सुक्लां दण्डेनेत्यादिकानि भिन्नवक्त्रुदीरितानि पदसमुदायात्मकानि शब्दरूपाद्भिन्नान्येव ।
अयमर्थः- तत्र तत्र वक्तरि भिन्ना अपि ध्वनय एकमेव स्फोटं व्यक्तिस्फोटात्मकं नित्यमभिव्यञ्जन्ति । देवदत्त गामभ्याजेत्यादिषु भिन्नवक्त्रुदीरितेषु वा स्फोटजातिर्नित्या देवदत्तादिपदसमुदायाभिव्यङ्ग्या वाक्यार्थस्यैकस्य प्रतिभात्मकस्य प्रतिपादिकेति मतभेदाज्जातिव्यक्तिस्फोटोपसंहारः ।। 56 ।
तदेवं संघातादीनि त्रीणि वाक्यलक्षणानि व्याख्यातानि । आख्यातं वाक्यमिति व्याख्यास्यति । एषां च मध्यादखण्डपक्ष एवोभयोरपीति सूत्रकाराभिप्रायमनुसृत्याखण्डपक्ष एव वाक्यवाक्यार्थयोरभ्युपगम्यत इति प्रदर्शितम् । इदानीं भाष्यकाराभिप्रायेणापि स एवाभ्युपगन्तव्य इत्युपक्रम्यते । <B2>
अभेदपूर्वका भेदाः कल्पिता वाक्यवादिभिः ।
भेदपूर्वानभेदांस्तु मन्यन्ते पददर्शिनः ।। 57 ।

<B2> तथा च भाष्यम्--`न लक्षणेन पदकारा अनुवर्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम्'। तथा--`यथालक्षणमप्रयुक्ते'इति । अत्र यदि पदानां सत्यता स्यात् तदा तेषां स्वत एव सिद्धत्वात् पदानि कुर्वन्तीति पदकारा इत्येतदसंगतं स्यात् । लक्षणेन च तदननुवर्तनम्, वस्तुसत्त्वात्तेषाम् । पदकारैर्नाम लक्षणमनुवर्त्यमित्यप्यसंगतम् । तथाऽप्रयुक्तपदविषये पदानामसत्यत्वात् तत्प्रविभागोऽयं न सिद्ध इति यथालक्षणं लक्षणानुसारेण पदकरणमप्रयुक्त इत्येतदनुपपन्नमेव । आह चैवं भाष्यकारः । तस्मान्मन्यामहे पदान्यसत्यानि, एकमभिन्नस्वभावकं वाक्यम् । तदबुधबोधनाय पदविभागः कल्पित इति । तेवाभिधातुमाह---
यत एवं सूत्रकारस्य भाष्यकारस्य चाखण्डपक्षोऽभिरुचितः । तस्माद्वाक्यवादिभिः स्फोटवादिभिरभेदकल्पनमाश्रितम् । काल्पनिकः पदवादोऽभ्युपगत इत्यर्थः ।
पदवादिमतमपि प्रसङ्गादुपदर्शयति--भेदपूर्वानिति । भेदप्रतिभासपूर्वकानभेदान् स्वाभिमतान् पददर्शिनः, पदमेव सत्यं ये न मन्यन्ते ते ह्येकमखण्डं वाक्यं नाम काल्पनिक्रमाहुः ।। 57 । <B2>

पदप्रकृतिभावश्च वृत्तिभेदेन वर्ण्यते ।
पदानां संहिता योनिः संहिता वा पदाश्रया ।। 58 ।

     ..ति तत्पुरुषवृत्त्याशब्दसंस्कारमाचक्षाण विवभितमर्थं प्रतिपादयन्ति । तेषां (येषां) तु चतुर्णामेव पदजातानां संसर्गमात्रेण पदेष्वेव प्रसिद्धः सम्बन्धः कश्चिदर्थात्मा प्रकाश्यते । तै बहुव्रीहिवृत्त्या शब्दसंस्कारमाचक्षाणास्तथैव विवक्षितमर्थं प्रतिपादयन्ति ।
तत्र केषांचित्पौरुषेयाण्याम्नायपदानि शब्देषु स्मृतिपक्षस्य वा ।
केषांचित्तु पदरूप एवाम्नायः संहिता पौरुषेयी स्मृतिपक्षस्य वा ।
केषाञ्चित्तु नित्यावुभाप्येतौ समाम्नायौ । पदसमाम्नायस्तु प्रतिपादकत्वेन नित्यः, इतरस्तु प्रतिपाद्यत्वेन नित्यः ।
केषाञ्चिन्नित्यस्यैकस्याम्नायस्य द्व एते विभागाविभागशक्ती प्रतिपादकप्रतिपत्तव्यरूपेण वर्तेते ।। 58 ।
<B2> अथ यदि नैवं स्थितिः तत्कथं `पदप्रकृतिः संहितेति' प्रातिशाख्यम् । अत्र हि पदानि प्रकृत्तिर्यस्याः संहिताया इत्यर्थो व्याख्यायते । पदानां चासत्यत्वात् तत्कारणिका संहिताऽप्ययुक्ता स्यादित्यालोच्याखण्डपक्षेणाप्येतत्संवादयितुमाह--- पदप्रकृतीति । वृत्तिभेदमेव प्रदर्शयितुमाह--पदानामिति । अखण्डपक्षे पदप्रकृतिः संहितेति षष्ठीसमासेन व्याख्यायत इत्यर्थः ।। 58 । <B2>

पदाम्नायश्च यद्यन्यः संहिताया निदर्शकः ।
नित्यस्तत्र कथं कार्यं पदं लक्षणदर्शनात् ।। 59 ।

यद्यन्य एव पदाम्नायो नित्यः पुरुषप्रयत्नव्यतिरेकेण सिद्धस्तत्रायं भाष्यग्रन्थः समर्थयितव्यः । न लक्षणेन पदकारा अनुवर्त्याः पदकारैर्नाम लक्षणमनुवर्तम्, यथालक्षणं पदं कर्तव्यम् इति ।
लोकेऽप्यर्थेन प्रयुक्तेषु शब्देषु शास्त्रेण धर्मनियममात्रमेव क्रियते । अतः शास्त्रेण नित्यस्य लक्ष्स्यानुविधानं कर्तव्यं न तु नित्येन लक्ष्येण शास्त्रमनुविधेयम् ।
अपि च बहुशक्तेः समाम्नायस्य कैश्चित् पदकारैः काचिद्विभागशक्तिरनुगम्यते । वक्षस्सुरुक्मेति वक्षस्तु रुक्म इति ।
तदेवं विभागशक्त्यन्तरदर्शनेन प्रवृत्तेर्विभागशक्त्यन्तरस्यापसारितत्वाद् न शक्त्यन्तरदर्शनप्रक्रमो (मे) यथालक्षणं पदानां करणं संभवति ।। 59 । <B2> इदानीं येनाभिप्रयेण भाष्येन लक्षणेनेत्यादिकमुक्तं तमभिव्यङ्‌क्तुमाह-- पदाम्नायश्चेति । यदि हि पदाम्नायः संहिताप्रदर्शको नित्यः सत्यभूतोऽभ्युपगतस्तदा कथं लक्षणदर्शनात् पदं कार्यमिति न लक्षणेन पदकारा इत्यादिना भाष्यकारो दर्शयेत् । यतश्च पदान्यसत्यानि तस्य प्रतिभासन्ते तत एवमभिहितमिति भाष्यकारस्यप्यखण्डपक्षोऽभिप्रेत इति दर्शितम् ।। 59 । <B2>
अपरे तु मन्यन्ते--वाक्यार्थ एकः, तेन चात्यन्तमनर्थकान्येव पदानि यथैव च पदार्थेन वर्णाः--

प्रतिवर्णमसंवेद्यः पदार्थप्रत्ययो यथा ।
पदेष्वेवमसंवेद्यं वाक्यार्थस्य निरूपणम् ।। 60 ।

यथैव वर्णे वर्णे पदाथप्रत्ययो नोत्पद्यत इत्यर्थो न विभज्यते, तथैव पदे पदे वाक्यार्थस्यासंनिधानात् प्रतिपदं तद्विषयोऽपि प्रत्ययो न निरूपयितुं शक्यते । अर्थनिर्भासा हि प्रकाशस्वरूपत्वादात्मनिरूपण एव । अतश्च वाढमर्थानामपि संवेद्यत्वं न व्यतिक्रामन्ति ।। 60 ।
<B2> इदानीं पदवादिनं प्रति दूषणमाह--प्रतिवर्णमिति ।
देवदत्तादौ पदे यथा न दकारादि वर्णं वर्णं प्रति देवदत्तप्रत्ययो जायते, तथैव देवदत्त गामभ्याजेत्यादिवाक्यार्थस्य देवदत्तादि पदं पदं प्रति नास्ति प्रत्ययोऽत उच्यते--एतान्यनर्थकान्येव वाक्यादेवार्थप्रतीतिदर्शनाद् वाक्यमेवार्थवदिति ।। 60 । <B2>
यस्य तु वाक्याथ पदानि प्रतिभेदमर्थवन्ति तस्य पदार्थेन वर्णाः प्रतिभेदमर्थवन्तः प्रप्नुवन्ति ।

वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु ।
यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु ।। 61 ।

यदि पदेषु सहवृत्तिष्वपि सन्निविष्टो वाक्यार्थः प्रतिपदं निविष्ट इति कल्प्यते तथैव सहवृत्तिषु वर्णेषु कामं संनिविष्टः पदार्थः कल्पयितव्यः ।। 61 ।
<B2> एतावत् प्रतिविधातुं पदवाद्याह--वाक्यार्थ इति ।
इह पदे वर्णा अर्थवन्तो वाक्ये पदान्यपीति द्रष्टव्यम् । केवलं यथा समुदितेषु पदेषु सत्सु वाक्यार्थः संनिविशते स्वरूपं प्रतिलभते, तथैव वर्णेष्वपि बुद्धौ सहवृत्तिष्वेव पदार्थ उपजायत इति नैतावता वर्णदृष्टान्तेन पदानामनर्थकत्वम्।।61।<B2>
यदि तर्हि पदार्थः प्रतिवर्णं निविष्टः कस्मात् पदस्येव प्रयोगे वर्णस्यापि प्रयोगे कश्चिदर्थो न प्रतीयते---

सूक्ष्मं ग्राह्यं यथाऽन्येन संसृष्टं सह गृह्यते ।
वर्णोऽप्यन्येन वर्णेन संबद्धो वाचकस्तथा ।। 62 ।

यथा हि सूक्ष्मं ग्राह्यं दूरात् केशमक्षिकाद्यन्तिके च वातायनरजः केवलं नोपलभ्यते । संसृष्टं त्वसंयुक्तमप्युपलभ्यते । वर्णोऽप्येवमेवासत्यपि शब्दान्तरप्रादुर्भावेऽन्येन सम्बद्धः सत्यप्वर्थयोगे पूर्वमगृहीतस्यार्थस्य प्रत्यायको भविष्यति ।। 62 ।
<B2> एतदेव दृष्टान्तेन दर्शयितुमाह--सूक्ष्ममिति ।
(अ) ग्राह्यमपि सूक्ष्मं वस्तु रजः प्रभृति यथाऽन्येन केनचित्सजातीयेन विलक्षणेन वा संसृष्टं सद् गृह्यते, एवमर्थवानपि वर्ण एकैकं न संप्रत्यायकोऽन्येन संसृष्टस्तु वाचक एव ।
एतदुक्तं भवति--अर्थवन्त एव वर्णाः प्रतिपत्त्रा तु पाटवविरहादेकैकंन तथा गृह्यन्त इति नात्र तेषामपराधः ।। 62 । <B2>


पदस्योच्चारणादर्थो यथा कश्चिन्निरूप्यते ।
वर्णानामपि सान्निध्यात्तथा सोऽर्थः प्रतीयते । 63 ।

पदे किलोच्चारिते योऽर्थो निरूप्यते तेनार्थेन तदुच्चरितं पदं तदर्थवदिति वा प्रतिज्ञायते । वर्णेष्वप्युच्चरितेषु पदवत् स एवार्थस्तथैव प्रतीयते । तस्माद्येनैव हेतुना पदार्थवादी पदस्यार्थवत्तां प्रतिजानीते तनैव हेतुना केवलवर्णार्थवाद्यपि वर्णस्यार्थवत्तां प्रतिजानीत इति ।। 63 ।
<B2> न चानर्थकमेव पदमिति वक्तुं युक्तं प्रत्यक्षविरोधादित्याह---पदस्येति ।
नही किञ्चित् पदं केनचिदर्थेनानिरूपितमिति युज्यते वक्तुमनुभवविरोधात् । यथा चैवं पदोच्चारणकालेऽस्ति काचिदर्थप्रतीतिरेवं तेनैवार्थेन संहता अप्यर्थवन्त इति प्रतिपादयितुमाह---वर्णानामिति ।
केवलं सान्निध्यात् सहोच्चारणादसावर्थस्तेषां प्रतीयते । तस्माद्यथा समुदिताः परस्परशक्त्यावेशाद्वर्णा वाचकाः, एवं पदान्यपि तथैवेति वर्णपदव्यतिरेकेण वाक्यं नाम नास्तीति । तद्वक्तम्---
"यावन्तो यादृशा ये च यदर्थप्रतिपादने ।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः" ।। इति ।। 63 । <B2>
(श्लो o वा o स्फोटवादे, 69)
येषामत्यन्त (म) संसृष्टस्याश्रयविशेषवद्भिः साधनैः क्रियाविशेषस्यार्थभेदेष्वलब्धपदविभागमेकभिन्नस्यार्थस्य वाचकं वाक्यं तेषामङ्गभ्रेषे यत्र प्रतिनिधिरुपादीयते तत्र क्रियायाः प्रतिनिधिः प्राप्नोति । अप्रतिनिधेया च क्रिया, तस्मात् प्रसक्तानुप्रसक्तं प्रतिनिधिसम्बन्धेनेदमुच्येते--

प्राप्तस्य यस्य सामर्थ्यान्नियमार्था यतः श्रुतिः ।
तेनात्यन्तं विशेषण सामान्यं यदि बाध्यते ।। 64 ।

इह यजेतेत्याह, द्रव्यदेवतास्सामर्थ्यप्राप्ताः । नहि द्रव्यं देवतां साधनं चान्तरेम यजतिशब्दप्रयोगलक्षणार्थस्याभिधाव्यक्तिरस्ति तत्र द्रव्यं यजतिक्रियारूपैकदेशभावादङ्गत्वेन श्रुतिप्राप्तसन्निधानम् । व्रीहित्वादयस्तु सामान्यविशेषा विरुद्धैकार्थसमवाया अप्यविरुद्धेकार्थसमवायेन द्रव्यत्वेनादृष्टसाहचर्यव्यभिचाराः सामान्यमात्रा (त्र) प्राप्तसन्निधानाः । तेषां नियतेऽपि सन्निधाने शब्दरूपेणानुपादानाद् द्रव्यत्ववदङ्गभावो न प्रतीयते । यस्य तु सामर्थ्यमात्रेणापि प्राप्ता व्रीहित्वादयः पुनः श्रुत्या नियम्यमानानां यवत्वादीनां सामान्यविशेषान्तराणां निवर्तका इति दर्शनं तस्य व्रीहित्वेन यवत्वादिसहचारिणो द्रव्यस्यात्यन्तं (म) श्रुतिलभणमपसारणं प्राप्नोति ।। 64 ।
<B2> यदि च पदार्थनिबन्धनो वाक्यार्थावभासो नाङ्गीक्रियते तदा प्रतिनिधिकल्पनं पिकादिनियतपदप्रश्नः श्रुतिवाक्ययोर्विरोधे श्रुतिर्बलीयसीत्यवान्तरवाक्यानामर्थवत्त्वं च न स्याल्लक्षणानुपपत्तिश्चेति पञ्च चोद्यान्यापतन्ति । तानि क्रमेण प्रदर्शयितुमाह--प्राप्तस्येति ।
इह यजेतेत्याख्यातपदप्रतिपाद्यो यजनविधिरुपदिश्यते । तत्र क्रियाप्रधानमाख्यातभित्यत्र यजतिक्रिया साधननिर्वर्त्येत्यसौ कारकमात्रस्याक्षेपिका, कदाचिद्विशिष्टस्यैवेति द्वयी गतिः । तत्र यसाय व्रीहित्वस्य यजतिक्रियासामर्थ्यात् प्राप्तस्य व्रीहिभिर्यजेतेति पुनर्व्रोहिश्रतिरुच्चरन्ती नियममवगमयति व्रीहिभिरेव न यवैरिति, ततश्च तेन द्रव्यविशेषेणात्यन्तं द्रव्यसामान्यमात्रं यदि बाध्यते ।। 64 । <B2>

यजेतेति यदा द्रव्यं प्राप्तं सामर्थ्यलक्षण्म् ।
व्रीहिश्रुत्या निवर्त्तेत न स्यात्प्रतिनिधिस्तदा ।। 65 ।

यदि सामान्यलक्षणप्राप्तं यवादिद्रव्यं व्रीहिश्रुत्या शास्त्रेण प्रतिषिध्यते तच्छास्त्रान्तराभावाद्यथैवान्यानि द्रव्याण्ययज्ञियानि तथा व्रीहीणामसन्निधाने मैव प्रतिनिधेयं स्यात् । सत्यप्यर्थित्वे दृष्टेऽपि सामर्थ्ये शास्त्रणापर्युदस्तस्याधिकारो युक्तः । तस्मान्मा भूत् प्रसिद्धस्यासहचरितस्य प्रतिनिधिरभावादिति ।। 65 ।
<B2> अतः किमित्याह--यजेतेतीति ।
यजेतेत्येतया क्रियया निः साधना क्रिया न भवतीति यामर्थ्याद्यदाक्षिप्तं द्रव्यमात्रं तत् व्रीहिभिर्यजेतेति पुनर्व्रोहिश्रुत्या बाधितं सन्निवर्तेत तदभावे प्रतिनिधिर्न स्यात् । क्रियया द्रव्यमात्राक्षेपे व्रीहिलक्षणस्य द्रव्यस्याभावे तत्सदृशं द्रव्यान्तरमेव नीवारादिकं समानीय तन्निर्वर्तनं क्रियते । विशिष्टद्रव्यक्षेपे तु तया कृते तदुपादानं नियमाय पर्यवस्यतीति कथं व्रीहिकरणकं यजनमन्यो निर्वर्तयेदिति प्रतिनिध्यभावः । तस्माद् द्रव्यमात्राक्षेपे प्रतिनिध्युपपत्तिः ।। 65।<B2>
इदमन्यद्दर्शनमाश्रीयते । शब्देनानङ्गीकृतं व्रीहित्वमङ्गभावेनाधिकं व्रीहिशब्दः प्रकल्पयतीति निगमयति--

तस्माद् व्रीहित्वमधिकं व्रीहिशब्दः प्रकल्पयन् ।
द्रव्यत्वमविरुद्धत्वात् प्राप्त्यर्थः सन्न बाधते ।। 66 ।।

व्रीहिशब्दो ह्यधिकार्थाध्यावापायोपादीयमानो द्रव्यत्वविरूद्धैकार्थसमवायं प्राप्त्यर्थः सन्न बाधते । नहि यवत्वादीनां विवृत्तौ तस्य व्यापारोऽस्ति, नाप्यनुज्ञायाम् ।। 66 ।।
<B2> तदेतदेव दर्शयितुमाह--तस्मादिति ।
तस्माद् द्रव्यमात्राक्षेपे व्रीहिशब्दोऽत्र प्रप्त्यर्थो व्रीहित्वमात्रपापणप्रयोजने व्रीहित्वमेवाधिकं कृत्वाऽभ्युपकल्पयन् प्रकटीकुर्वन् द्रव्यत्वं न बाधते, अविरुद्धत्वात् सामान्यस्य विशेषण सहाविरोधात् ।। 66 ।। <B2>
इदं च द्रव्यत्वस्य बाधनं यस्सामान्यविशेषान्तरैश्च्र साहचार्यादवच्छेदः ।

तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि ।
असम्भवाद् विशेषाणां तत्रान्येषामदर्शनम् ।। 67 ।

न च सामान्यवत्सर्वे क्रियाशब्देन लक्षितः ।
विशेषा नहि सर्वेषां सतां शब्दोऽभिधायकः ।। 68 ।

यदि तर्हि व्रीहिश्रुतिर्न नियमार्था तर्हि विकल्पितत्वं यवादीनां कस्मान्न विज्ञायते । तत्राहुः--असंभवो नामानियमशब्दव्यापारो नियमसदृशफलः क्वचिद्विषयेऽन्य एव धर्मोऽयमसंभवियम इति नियमविभागे न्यायविदः
केचिदाचक्षते--यत्र व्रीहित्वमधिकं शब्देनाङ्गभावं प्रतिपद्यते तत्र विरुद्धैकार्थसमवायत्वादप्रतिषिद्धान्यपि श्रुत्या यवत्वादीनि न संभवन्ति । यदि च संभवेयुः काममविरोधसामथ्यप्राप्तसन्निधानानि विना शब्दव्यापारेण समुच्चीयेरन् । न त्वेष विकल्पस्य विषयः । न च सामान्यवत् क्रियाशब्देन लक्षिता विशेषाः । नहि सर्वेषां सतां शब्दोऽभिधायकः ।। 67 - 68 ।।
<B2> अतश्च किमित्याह--तेनेति ।
तेन च व्रीहिशब्देन व्यवच्छिन्ने कृताभ्युच्चये दत्तोपचये द्रव्यत्वे सति । कीदृशे सहचारिणि अविरुद्धैकार्थसमवेते । द्रव्यविशेषाणां तत्रान्येषां समस्तानामसंभवाददर्शनमनाक्षेप एव ।। 67 ।
एवदेवोन्मीलयितुमाह--न चेति ।
यजतिना हि क्रियाशब्देनात्र द्रव्यत्वसामान्यवत्सर्वे विशेषास्तदन्तर्गता न लक्षिता आक्षिप्ता अपि तु द्रव्यत्वमेव । तदेव चाभ्युच्चयीकृतं व्रीहिशब्देन ।
सामान्यमात्राक्षेपः किमिति नाङ्गीक्रियत इत्याशङ्क्याह---नहीत्यादि । नही सकलसंनिहितविशेषाभिधायकः शब्दः परिदृष्टः, तथाऽप्रतीतेः ।। 68 । <B2>

शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः ।
तथाऽविवक्षा भेदानां द्रव्यत्वसहचारिणाम् ।। 69 ।।

तत्रैतत् स्यात् । यथा द्रव्यत्व (त्वं ) नियतसन्निधानं (न) क्रियासन्निधानं क्रियापदार्थैकदेशभूतमिव सन्निधानात् क्रियाशब्देन लक्ष्यते, तथा सर्वविशेषाणां द्रव्यत्वसहचारिणां क्रियापदार्थैकदेशभूतानामिव कस्माच्छब्देनोपादानं न विज्ञायते । अत आह--नहि सर्वेषां वस्तुत्वेन सतामर्थत्वेन शब्दोऽभिधायको भवति ।
विवक्षानिबन्धनं हि वस्तु सतामप्यर्थानामर्थत्वेनासत्त्वम् । विवक्षा हि शब्दे रूपसामर्थ्यनिबन्धना । तत्र यथैव द्रव्यत्वसहचारिणो नियतसन्निधाना अपि शुक्लादयो गुणाः सत्यपि सन्निधानाद् द्रव्यत्ववदुपयोगे शब्दशक्त्यनुरोधादभिन्नत्वेन क्रियाशब्दरूपेणाङ्गत्वेन प्रत्याययितुमशक्यत्वादविवक्षिताः, तथेव शब्दसामर्थ्यप्रतिबन्धा व्रीहित्वादीनां द्रव्य (त्व) सहचारिणामुपयोगवतां भेदानामङ्गत्वेनाविवक्ष।।69।
<B2> एतदेव दृष्टान्तेन स्फुटीकर्तुमाह---शुक्लादय इति ।
व्रीहिभिरित्यत्र यथा शुक्लकृष्णादिगुणयोगो न विवक्षितः, तथाऽत्र व्रीहिभिर्यजेतेति भेदानां द्रव्यविशेषाणां सामान्य (न्या) विरोधिनामविवक्षैवेति । ततश्च स्थितमेतद् यदत्र यजक्रियाक्षिप्तद्रव्यमात्राभ्युच्चयाभिधायको व्रीहिशब्दो न द्रव्यविशेषवचन इति । ततश्च न क्रिया प्रतिनिधईयते, द्रव्यं तु प्रतिनिधीयत इति मुख्याभावे तत्सदृशनीवारादिद्रव्यान्तरोपादानेन यागनिर्वृत्तिरिति प्रतिनिधिसमाश्रयणेन विध्यर्थानुष्ठानं सिद्ध्यतीति न तदवसादः ।। 69 ।। <B2>
तत्रैवं शास्त्रेणापर्युदस्ते विशेषान्तरसहचारिणि द्रव्यत्वे---

असंन्निधौ प्रतिनिधिर्मा भून्नित्यस्य कर्मणः ।
काम्यस्व वा प्रवृत्तस्य लोप इत्पपदिश्यते ।। 70 ।।

नित्यं यत्कर्म तस्याकरणे प्रत्यवायः । तस्य प्रधानस्याङ्गमात्रासन्निधाने मा भूदावृत्तिः (भूदनापत्ति), काम्यस्य वा सन्निहितेष्वङ्गेषु प्रकान्तस्य मा भूदङ्गभ्रेषे विच्छेद् इति शास्त्रेणापर्युदस्तः प्रतिनिधिः प्रथमकल्पासम्भवे उपादीयत इत्यविरुद्धं भवति ।। 70 ।
<B2> तदेतदेव प्रतिनिधिप्रयोजनमाह--असन्निधाविति ।
मुख्यस्यासन्निधानेऽभावे मा भून्नित्यस्य कर्मणो लोप प्रतिनिधिरुपपद्यते । काम्यस्य वा प्रवृत्तस्य तथैव लोपो मा भूदिति । प्रवृत्तस्य काम्यस्येत्यनेनैतदाह यन्मुख्याभावे काम्येऽप्रवृत्तिरेव न ज्यायसी । प्रवृत्तौ वा केनचिद्वैगुण्येनासंपत्तौ समुदायस्य (स्या) प्रतीतेस्तत्रापि प्रतिनिध्युपादानेन तन्निर्वर्तनं विधेयम् । अन्यथा शिष्टविगर्हणलक्षणः प्रत्यवायः ।। 70 ।। <B2>

  विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते ।
द्रव्याभावे प्रतिनिधौ तस्य तत्स्यात् क्रियान्तरम् ।। 71 ।।

यस्य तु पूर्वोक्तेन धर्मेण क्रियाविशेषः शक्तिद्रव्यसंसर्गभिन्न एको वाक्यार्थस्तस्याविभक्तिशब्दार्थत्वाद्विशेषान्तरावगमे तस्मिन्नर्थात्मन्यविकल्पेन वृत्ते विशेषन्तरोपादाने पुत्रीयति प्रक्रियान्तरं मुण्डयति वा प्रतिपाद्यमानोद्देश (श्य) विभागं तत्प्रतिनिहितं स्यात्, अनिष्टश्च क्रियायाः प्रतिनिधिरिति विभागपक्ष एव न्याय्यः ।
अपर आह---क्रियायाः क्रिया निवर्तिका भवति, द्रव्यं द्रव्यस्य । तस्मात् क्रियान्तरोपादाने क्रियान्तरपरित्यागात् क्रियासु प्रतिनिधिर्भवति । क्रियात्यर्थगृहीतेषु योग्यताप्रापितेषु साधनेषु विशिष्टद्रव्यविषये नियमे कृते तस्य द्रव्यस्याभावे समर्थद्रव्यान्तरं पूर्वमेव क्रियायामङ्गीकृतमुपादीयते (दत्ते) । तत्र नियममात्रं बाध्यत इत्येतस्मिन्नपि प्रतिनिधिदर्शने यस्तु जात्युद्देशे प्रतिनिधिं प्रत्यपरो दर्शनभेदःष तत्र वा (ऽ) विभागपक्षाभ्युपगमे क्रियैवाप्रतिनिधेया प्रतिनिधीयत इत्यनिष्टप्रसङ्गः ।। 71 ।
<B2> एवं द्रव्यमात्राक्षेपपक्षे प्रतिनिधिमुपपाद्येदानीं पदपदार्थानामनङ्गीकरणेऽखण्डवादिनो दूषणमाह--विशिष्टैवेति ।
येनाखण्डवाक्यवादिना व्रीहिकरणिका यजतिक्रिया निरस्तावयवार्था व्रीहिभिर्यजेतेत्यत्र वाक्यार्थ इत्युच्यते । तेन द्रव्यस्य व्रीहिलक्षणस्याभावे यदा प्रतिनिधिसमाश्रयणेन तन्निर्वर्तनं कार्यं तदा व्रीहिभिर्यजेतेति व्रीहिकरणकयागलक्षणस्य वाक्यार्थस्यत्यागात् प्रतिनिधइना तन्निवर्तने नीवारकरणिकायजतिक्रियाऽन्यैवानुष्ठिता भवतीति न क्रिया प्रतिनिधीयते, द्रव्यं तु प्रतिनिधीयत इति न्यायस्योपेक्षणात् चोदितस्याकरणमेव स्यात् ।
अथ त्वया प्रतिनिधिर्नाश्रीयत इत्युच्यते, तन्नं, मा भून्नित्यस्येत्यादिना तदाश्रयणस्य सप्रयोजनत्वादवश्याश्रयणीयः प्रतिनिधिरिति पदपदार्थानामभावे वाक्यस्याखण्डरूपस्याभ्युपगमे प्रतिनिध्यभाव इति चोद्यम् ।। 71 । <B2>

विज्ञातार्थं पदं यच्च तदर्थे प्रतिपादिते ।
पिकादि यदविज्ञातं तत्किमित्यनुयुज्यते ।। 72 ।।

इतश्च विभागदर्शनमेव युक्तम् । इह वनात् पिक आनीयतां व (वा)- राङ्गीजर्जरा वृषलाय दीयतामिति बहूनां पदानामर्थेष्वाहितप्रत्ययाः प्रतिपत्तारो यदेव पिकाद्यविज्ञातार्थरूपं पदं तन्मात्रमेव जिज्ञासमाना विच्छेदेन पृच्छन्ति---कोऽयं पिको नाम, यो वनादानेयः ? का च व (वा) राङ्गी नाम, या वृषलाय दातव्येति । न च वृक्षवृषभकाण्डीरादिषु प्रसिद्धभेदेषु ऋक्षऋषभभाण्डीराद्यर्थे निर्ज्ञाते वर्णमात्रविषयो वकारार्थे ककारार्थे वा प्रश्नो दृश्यते । तस्मादविभागधर्मात् प्रच्युतेन विभागे वाक्यार्थेन व्यवस्थितेन भावितव्यम् ।। 72 ।।
<B2> पिकादिनियतपदप्रश्नो नोपपद्यत इत्यप्यभिधातुमाह--विज्ञातार्थमिति ।
वनात् पिक आनीयतामित्युक्ते वनादानीयतामिति पदद्वयं विज्ञातार्थम् । तदर्थे चावगते कः पिक इति कस्यचिन्नगरिकस्य प्रश्नो नोपपद्यते किल । वनादित्याद्यखण्डमेव निरस्तपदप्रविभागं वाक्यमनंशमेव वाचकं वैयाकरणस्य मतम् ।
अतः किं पिकपदार्थः पृथगविज्ञातः कश्चिदस्ति । तदविज्ञातपिकपदार्थानुयोगो नोपपद्येत । अस्ति च तदर्थे कस्यचित्संदेह इति पृथगेवार्थवन्ति पदानि विज्ञातानि वाक्यमित्येव वक्तं युक्तमिति ।। 72 । <B2>

सामर्थ्यप्रापितं यच्च व्यक्त्यर्थमनुषज्यते ।
श्रुतिरेवानुषङ्गे सा बाधिका लिङ्गवाक्ययोः ।। 73 ।।

अप्राप्तो यस्तु शुक्लादिः सन्निधानेन गम्यते ।
स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः ।। 74 ।।

इतश्चाविभागपक्षो न युक्तः, श्रुतिवाक्यसमवाये श्रुतित्वाविशेषेण पारदौर्बल्यासंभवात् । इह श्रुतिर्नामैकशब्दविषयैकपदनिबन्धनार्था । तत्र सामर्थ्यप्रापितं यावदेकशब्दोपादनामर्थरूपं शब्दान्तरेण व्यक्त्यर्थमनूद्यमानमनुषज्यते, तदप्यनाधेयसम्बन्धत्वात् श्रुतिर्वाक्यमेव । तद्यथा---पच्यतामवहन्यतां पिष्यतामित्येकत्र सम्बद्धानां चेष्टाविशेषाणां प्रक्रान्तत्वात् पाक्यपेष्यावघृते(त्ये)षु शब्दरूपसामर्थ्यादङ्गीकृतेषु यद् व्रीह्यादिद्रव्यमात्रं व्रीहित्वादिप्रापणाय व्रीहित्वादिभिव्यक्तमात्मानं प्रदर्शयत् क्रियारूपादाक्षिप्तसम्बन्धं सम्बद्धमेव सन्निपतति, तद्वस्तूपनिबन्धनाः सर्वे श्रुतिशब्दास्तद्वस्तूपनिबन्धनत्वेन प्रतिज्ञायन्ते, न त्वधिकार्थप्रापणेन । यथा वा `दिवा सूर्य उदेति देवो वर्षति'इति व्यक्त्यर्थोऽनुषङ्गः साधनस्य साधनाश्रयस्य चेति । सर्वस्य चानुषङ्गमात्रे तथाभूता श्रुतिर्वाक्याख्यस्य श्रुत्यन्तरस्य बाधिका विज्ञायते ।
यस्तु शब्दरूपसामर्थ्यात् सन्निहितोऽपि शब्दव्यापारेणाप्राप्तसन्निधानः शुक्लादिर्गुणः शुक्लादीनां शब्दानामुपदानमन्तरेण वस्तुतः सन्नपि शब्दार्थत्वेनाप्रतीतः शुक्लादिशब्दसन्निधानेन व्यापारवान् प्रतीयते । स यत्नप्रापितसम्बन्धः श्रुत्यर्थविलक्षणो वाक्यार्थ एव । तत्र पयसा भुक्ते देवदत्तः स्त्रुतेनेति वाक्यप्रापितस्य प्रयोगविषयस्य स्त्रवणस्यासम्भवे स्त्रुतिप्रापितमुपसेचनं निवर्तते । स्त्रवणानुग्रहाय वोपसेचनत्वेन यदपि प्रसिद्धं लोके तेन स्त्रुतेन स्त्रवणस्यानुग्रहः कथं स्यादिति न भुज्यते । श्रुतिवाक्यसविकल्पसम्भवेन (वाक्ययोर्विकल्पासम्भवेन) श्रुत्यर्थ एव क्रियते न वाक्यार्थः ।। 73 - 74 ।
<B2> इदानीं श्रुतिवाक्ययोविरोधे श्रुतिरेव बलीयसीति न्यायो न स्यादिति प्रदर्शयितुमाह--सामर्थ्येति ।
इह श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यालक्षणाः संदिग्धवाक्यार्थविचारे वार्क्यावदां प्रसिद्धाः । तेषां च परस्परविरोधे पूर्वः पूर्वो बलीयानिति व्यवस्थाप्यते । तत्र श्वेतं छागमालभेतेत्यत्रालम्भनक्रियया यो द्रव्यस्य सम्बन्धः, स द्वितीयाश्रुत्या साक्षात् प्रतिपादितः । गुणस्य तु तत्सामानाधिकरण्याद्वाक्यीयः । निर्गुणस्य हि द्रव्यस्याभावाद् गुणस्य च निरधिकरणस्यासम्भवाद्वाक्यीय आश्रयाश्रयिणोः सम्बन्धः । तदुच्यते `आश्रयाश्रयिणोर्वाक्यान्नियमस्त्ववतिष्ठते'३(वाo पo 3-75) इति । यदा तु द्रव्यगुणयोर्द्वयोरप्यालम्भनक्रियया साक्षात् सम्बन्धः । यद्वक्ष्यति` क्रियया योऽभिसम्बन्धः स श्रुतिप्रापितस्तयोः'(वाo पo 3-1-75) इति । ततश्च श्वेताभावेऽन्यगुणस्य छागस्यालम्भनमनुष्ठीयते । छागाभावे च श्वेतगुणयुक्तस्य मेषस्याप्यालम्भनमिति प्रतिनिधिसमाश्रयणेन न श्रुतिबाधः । वक्ष्यति च ---
तत्र द्रव्यगुणाभावे प्रत्येकं स्याद्विकल्पनम् ।
श्रुतिप्राप्तो हि सम्बन्धो बलवान् वाक्यलक्षणात् ।। इति ।।
(वाक्य पo 3-1-76)
यदि च वाक्यीयः सम्बन्धो बलवान् स्यातदाऽन्यतराभावे नालम्भनमनुष्ठीयेतेति । विध्यर्थः श्रतिः । अतः श्रौतस्यैव सम्बन्धस्य वाक्याद् बलीयस्त्वादन्यतराभावेऽपि श्रुतिप्रापितमालम्भनमनुष्ठितमिति न कश्चिच्छ्रतिबाधः । तदेतत्प्रतिपादयितुमुक्तम्--सामर्थ्यप्रापितमित्यादि । निर्गुणस्य द्रव्यस्याभावाच्छ्‌वेतगुणयुक्तस्यालम्भनं क्रियासामर्थ्यप्रापितं श्रौतमेव । व्यक्तार्थं स्फुटीकरणाय श्वेतमाल भेतेति श्वेतादि तत् (यत्) संबध्यते, ततः किमित्याह--श्रुतिरित्यादि । ततश्च साक्षात् द्रव्यगुणयोः श्रुतावनुषङ्गोऽभिसम्बन्धः श्रुतिरेव तत्र लिङ्गवाक्ययोर्बाधिकेति न वाक्यीयसम्बन्धस्तत्र भवति ।। 73 ।
श्रौतवाक्यीययोर्भदमुपदर्शयितुमाह---अप्राप्त इति । छगमालभेतेत्यत्र द्रव्यस्यैव साक्षात् सम्बन्धः, शुक्लादिगुणस्य तु सन्निधानवशाद्वाक्यीयो यत्नप्रतिपाद्यः । स वाक्ये यत्नादवगतः श्रुतिधर्मविलक्षणः साक्षात् सम्बन्धविलक्षण इति व्यक्तम् ।। 74 ।। <B2>

अभिन्नमेव वाक्यं तु यद्यभिन्नार्थमिष्यते ।
तत्सर्वं श्रुतिभूतत्वान्न श्रुत्यैव विरोत्स्यते ।। 75 ।।

यस्याभिन्नमविभक्तोद्देशमेकार्थमेकं वाक्यं मुण्डिकुट्टिसूत्रिवदविकलं श्रुनिभूतं तस्य कथं श्रुत्यर्थाव्यतिरेकेणात्मभूतैर्यत्नप्रापितसन्निधानाभिमतैरसति विरोधे बाधव्यवस्था प्रकल्पते । तत्र श्रुतिलङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षादित्येतदसमर्थितं स्यात् । वाक्यनिबन्धने चैकस्मिन्नर्थे परतन्त्रणां शब्दानामभावमानर्थक्यं चाभ्युपगच्छतो वाक्यास्याप्यानर्थक्यं प्राप्नोति । तत्र---"एकस्यैवार्थता (स्यैकार्थता) माहुर्वाक्यस्याव्यभिचारिणीम्" इत्येतत् प्रतिज्ञातं हीयेत ।। 75 ।।
<B2> इदानीं प्रकृते योजयितुमाह---अभिन्नमेवेति ।
यदि पुनरभिन्नखण्डमेव निरस्तपदविभागं वाक्यमभिन्नर्थ श्वेतगुणविशिष्टच्छागालम्भनरूप एव नाना अर्थो यस्य तत्तथाभूतमभ्युपगम्यते, तदा कुत्रायं प्रविभागोऽयं श्रौतोऽयं वाक्यीय इति । ततश्च सर्वस्य श्रौतत्वात् क्रेन कस्य बाध इति न श्वेतगुणाभावे छागालम्भन (नं) छागाभावे च श्वेतगुणयुक्तस्यान्यस्य स्यादिति श्वेतं छागमालभेतत्यत्रान्यतराभावे आलम्भनानुपपत्तेर्विध्यर्थस्य संकोच इति ।। 75 ।। <B2>

वाक्यानां समुदायश्च य एकार्थप्रसिद्धये ।
साकाङ्‌क्षावयवस्तत्र वाक्यार्थाऽपि न विद्यते ।। 76 ।।

इह गौर्दुह्यताम्, उपाध्यायः पयसा भुक्त्वा मामध्यापयिष्यतीति साधनद्रव्यक्रियान्तरावधिविशिष्टायां क्रियायां यदेकं वाक्यान्तरावयवं वाक्यं वर्तते तदवयवानां साकाङ्‌क्षाणां पदवदेकार्थेनासम्बन्धे सति वाक्यान्यप्यनर्थकानि संपद्यन्ते । न च वाक्यरूपावधिपरिग्रहे नियमोऽस्ति । कदाविद् गामभ्याजेति वाक्यं भवति, कदाचिद्देवदत्त गामभ्याजेति । कदाचिद्देवदत्त गामभ्याज शुक्लामिति । तत्र तदेवार्थवत्तदेवानर्थकमिति विरुद्धोऽभ्युपगमः सम्पद्यते । सर्वन्यायलक्षणव्यवस्थाविरुद्धश्चायमविभागपक्षः । तत्र द्वादश षट् चतुर्विशतिर्वा लक्षणानीति लक्षणसमुद्दशे सापदेशं सविरोधं विस्तरेण व्याख्यास्यते ।। 76 ।।
<B2> अवान्तरवाक्यार्थानुपपत्तिमप्यत्रोपदर्शयितुमाह--वाक्यानामिति । एकस्यमुख्यार्थस्य प्रसिद्धये प्रतीतये योऽयमवान्तरवाक्यानां समुदायः साकाङ्‌क्षावयवः, साकाङ्‌क्षा अवयवा यस्मिन् समुदाये स तथाभूतोऽभिजानासि देवदत्त कश्मीरेषु वत्स्याम इत्याद्यात्मकोऽत्रावयवार्थोऽवान्तरवाक्यार्थात्मको न विद्यते कश्चित् । युगपत्सकलशास्त्रस्य ग्रहणं प्रतिपादनं वा न संभवतीति सकलव्यवहारोच्छेदः ।। 76 ।। <B2>
इह तु प्रदर्शनार्थमुदाहरणमात्रं प्रसक्तानुप्रसक्तं च किञ्चिदुच्यते ---

प्रासाङ्गिकमिदं कार्यमिदं तन्त्रेण लभ्यते ।
इदमावृत्तिभेदाभ्यामत्र बाधसमुच्चयौ ।। 77 ।।

<B2> किंचामी पदार्थोपनिबन्धना वाक्येषु न्यायाः सकलशास्त्रीयलौकिकव्यवहारनिबन्धनभूताः पदपदार्थानङ्गीकरणे न प्रकल्पन्त इत्याह--प्रासङ्गिकमिति ।
एतैश्च निर्ज्ञातैर्वाक्यगोचरोऽर्थात्मा यथावल्लक्ष्यते निश्चीयत इत्येतानि मीमांसकैर्लक्षणानीत्युच्यन्ते । तत्र षङ्‌द्वादश चतुर्विशतिर्वैतानि लक्षणानि तावदिह प्रदर्श्यन्ते । एतेषां च वितत्य सोपपतिकं सनिदर्शनं स्वरूपं पदकाण्डे लक्षणसमुद्देशे विनिर्दिष्टमिति ग्रन्थकृतैव स्ववृत्तौ प्रतिपादितम् । आगमभ्रंशाल्लेखकप्रमादादिना वा लक्षणसमुद्‌देशश्च पदकाण्डमध्ये न प्रसिद्धः । तत्र तावद् द्वादशलक्षणानि द्वाादशस्वध्यायेषु सप्रपञ्चं प्रासङ्गिकविचारसहितानि निर्णोतानि ।
तथा च तत्र `अथातो धर्मजिज्ञासा (पूo मीo 1-1-1) इत्युपक्रम्य को धर्मः किं लक्षणश्चेत्याद्याशङ्कानिरासार्थं चोदनालक्षण इत्युक्त्वा प्रथमेनाध्यायेन) चोदनालक्षणे निर्णोते चोदनैव प्रमाणमित्युक्तम् । मतभेदेनापि विधिनियोगेत्यादिका अप्यत्रास्याः संज्ञा उपवणिताः । तत्रैव च स्वतः प्रामाण्यं व्यवस्थापितम् । तदनुरोधेन च प्रत्याक्षादीनामपि स्वत एव प्रामाण्यमुपपादितम् । चोदना च शब्दादिवैचित्र्याद्‌भिन्नरूपेति भेदप्रतिपादनायास्या एव द्वितीयोऽध्यायः । भिन्नस्य च शेषशेषिभावेन विनियोगप्रतिपादनाय तृतीयोऽध्यायः । विनियुक्तस्य प्रयोजकाप्रयोजकभावप्रतिपादनाय चतुर्थः । क्रमेण विनियोग इति तदर्थं पञ्चमः । एतत्समग्रं यदर्थमसावर्थो शास्त्रेणापर्युदस्तोऽधिकारीति तत्प्रतिपादनाय षष्ठ इति ।
एवं विधिभेदशेषिभावप्रयुक्तिक्रमाधिकारिणां प्रतिपादनायाध्यायाः षडिति षड्लक्षणानि । तत्र प्रकृतिषट्‌कमुपदेशषट्‌कमिति चोच्यते । तदनन्तरमनुक्तेतिकर्तव्यताकमपि कर्मान्यतो विध्यन्तमाप्नोति सामान्यातिदेशादिति प्रतिपादनाय सप्तमः । क्वचित्सामर्थ्याद्विशेषा एवातिदिश्यन्त इति निरूपणायाष्टमः । अतिदेशप्राप्ते मन्त्रे प्रकृतिदेवता विकृतियागदेवतात्वेन विपरिणमयितव्येत्यादिसमर्थनाय नवमः । सामान्यस्य विशेषेणे बाधाभिदानाय दशमः । येन सकृदनुष्ठानादुभयसिद्धस्तत्तन्त्रं तदर्थमेकादशः । यदन्यदर्थ (न्यार्थ) मारब्धमन्यदप्येकेनैव प्रयत्नेन संभवलाघवाभ्यां निष्पादयति तत्प्रासङ्गिकम् । तदुक्तये द्वादशोऽध्याय इत्यनेनातिदेशषट्केन सह द्वादशलक्षणानि । एतत्प्रतिपक्षभूतान्यन्यानि द्वादश यथायोगमेतेष्वेवाध्यायेषु दर्शितानि ।
तत्र प्रमाणस्य प्रतिपक्षोऽसंभवः । नह्यप्रमाणं प्रमाणम्थाने नियुज्याभिमतसंपत्तिर्भवति । भेदस्य तु शास्त्रादि (शब्दादि) भेदभिन्नस्य तदभेदादभेदः प्रतिपक्षः ।
तत्र भेदस्य स्वरूपं निर्दिष्टम्--"शक्तिव्यापारभेदोऽस्निम् फलमत्र तु भिद्यते । संबन्धाज्जातभेदोऽयम्" (वा o पo 2-83) इति । भेदस्तत्राविवक्षित इति तत्प्रतिपक्षः । तथा शेषशेषिभावस्य गुणप्रधानभावाविवक्षा प्रतिपक्षः । सा प्रतीयमानत्वादत्र नोक्ता । तत्र शेषशेषिभावस्य इदं प्रधानं शेषोऽयमिति' (2-82) स्वरूपकथनम्, `विनियोगक्रमस्त्वयम्' `साक्षादस्योपकारीदमिदमाराद्विशेषकम्' (वा o प o 2-83) इत्यस्यैवेतिकर्तव्यतायाः प्रभेदस्य च निर्देशः । प्रयुक्तेरप्रयोजकः प्रतिपक्षः । तत्र `इदं पराङ्गैः संबन्धमङ्गानामप्रयोजकम्' इत्यनेनैकफलतया प्रयोजकाप्रयोजकप्रदर्शनं कृतम् । `प्रयोजकमिदं तेषामत्रेदं नान्तरीयकम्' (वाo पद 2-42) इत्यनेन फलभेदेन प्रयोजकाप्रयोजकोपन्यसः ।
तदेवं प्रयुक्तेर्द्विभेदायाः सापवादायाः स्वरूपं निर्दिष्टमनेन श्लोकेनेति विज्ञेयम् । क्रमस्याविवक्षा प्रतिपक्षः । अस्य `इयं श्रुत्या क्रमप्राप्तिरियमुच्चारणादिभः' (2-81) इति स्वरूपम् । `क्रमोऽयमत्र बलवान् अस्मिस्तु न विवक्षितः' (2-81) इति प्रतिपक्षः । अधिकारिणः स्वरूपापवादौ `शास्त्रात् प्राप्ताधिकारोऽयं व्युदासोऽस्य क्रियान्तरे'(वाo प o 2-80) इति कृतौ ।
सामान्यातिदेशविशेषातिदेशयोस्त्वपवादविरहितं स्वरूपं निर्दिष्टम्---`सामान्यस्यातिदेशोऽयं विशेषोऽत्रातिदिश्यते' इति । ऊहस्य संबन्धाबाधोऽपवादः । अस्य `ऊहोऽस्मिन् विषये न्याय्यः' इति स्वरूपम् । `संबन्धोऽस्य न बाध्यते' इत्यपवादः । तुल्वबलानामविरोधात् समुच्चयो बाधस्यापवादः ।
तुल्यबलानामचरितार्थानां विरोधाद्विकल्पोऽपि बाधस्यापवादत्वेन दर्शितः । `अत्र बाधसमुच्चयौ' इति बाधस्य स्वरूपमपवादश्चोक्तः ।
तन्त्रस्याप्यावृत्तिप्रतिपक्षः । तस्य `इदं तन्त्रेण लभ्यते' इति स्वरूपम् । `इदमावृत्तिभेदाभ्याम्' (2-77) इत्यनेन तन्त्रस्यावृत्तिः प्रतिपक्ष उक्तः । एकप्रयत्न निर्वर्त्यमपीच्छावशाद्भेनेच्छतीति प्रासाङ्गिकस्यापवादो भेदः । तत्र `प्रासङ्गिकमिदं कार्यम्'(2-77) इति प्रासङ्गिकस्वरूपनिर्देशः । `आवृत्तिभेदाभ्यामि'त्यस्माद्भेदः प्रासङ्गिकस्यापवादो योजनीयः । ?
यद्यपि परेषां चोदनैव प्रमाणं प्रसिद्धम्, तथापीह टीकाकारो न्यायमात्रस्य प्रमाणत्वमङ्गीकरोति । अतः प्रकृतशास्त्रव्याख्योपयोगितत्तत्स्थाने न्यायजातं `प्रसज्य प्रतिषेधोऽयम्' इत्यादिना प्रदर्शयति ।
अत एव चोदनायामेव प्रमाणत्वस्याभावात् प्रथममेव लक्षणनिदर्शनं न कृतम् । सामान्येन वाक्यधर्माणां प्रसङ्गिकादीनां सापवादानामत्र निर्देशः कृत इत्यभिप्रायः ।
एतदुक्तंभवति---पदपदार्थव्यवस्थापनाप्रस्तावेयोयः कश्चित्तद्‌व्यवस्थापने न्यायः प्रभवति स स कीर्तनीयः । तदत्र चोदनायाः कीदृशं प्राथम्यं प्राधान्यं वा तन्त्रप्रसङ्गौ तु सूत्रे कृताविति तत्पुरः सरत्वेनैव पदपदार्थावधानमिति । समुच्चयो विकल्प आवृत्तिश्चेत्येवमादिभिः सह द्वाविंशतिर्लक्षणानि भवन्ति ।
द्वे लक्षणे लक्षणसमुद्देशादूह्ये । अथवा सामान्यतिदेशस्य तदभाव एवापवादः । विशेषातिदेशस्य सामान्यातिदेश एव विशेषान्तरातिदेशो वेत्यनयोः सप्रतिपक्षत्वमाश्रित्य चतुर्विशतिः संपद्यन्त इत्येवमनेन क्रमेणैतानि लक्षणानि । एतदेव मनसिकृत्य षड्‌द्वादश चतुर्विंशतिर्वा लक्षणानीत्युक्तम् ।
अथैषां निदर्शनार्थं लेशतः स्वरूपसहितान्युदाहरणानि टीकाकारेण प्रदर्शितानि । तत्र द्वयोरर्थिनोः कार्येण संभविना प्रयोजकत्वेन निर्ज्ञातसामर्थ्ययोर्यत्रान्यतरप्रयुक्तेनापरोऽभिसंबध्यमानः कृतार्थत्वात् पृथक्प्रयोजकत्वं नोपैति स प्रसङ्गः । तत्प्रयोजनकं प्रासङ्गिकम् । तद्यथा सघाताध्ययनम् । तत्र हि कञ्चिदेव शिष्यमुद्दिश्य प्रवृत्तेऽध्यापने भेदेनाध्यापनान्तरस्य प्रयोजने समर्थतरा अध्येतारः सत्यप्यर्थित्वे पृथगध्यापनं संभवाल्लाघवाच्च न प्रवर्तयन्तिः अपित्वेकेनैव यत्नेन तदनुतिष्ठन्ति ।
वेदे यथा--अग्रीषोमीयस्य वपया प्रचर्याग्रीषोमीयं पशुपुरोडाशमेकादशकपालं निर्वपन्ति । अत्राग्नीषोमीयपश्वर्थः प्रयाजानुयजविध्यन्तः प्रसङ्गादग्रीषोमीयं पशुपुरोडाशमप्युपकरोति ।
शब्दानुशासनेऽपि यथा--सर्वादीनि सर्वनामानीत्यत्र णत्वाभावं प्रासङ्गिकमुदाहरन्ति । तत्र हि संज्ञासंज्ञिसंबन्धविधानपरे वाक्ये रूपविशेषमात्रादकृतणत्वादुभयसाधनत्वं विज्ञायते । शक्यो ह्यस्य स्वरूपनिर्देशात् पृथग् णत्वप्रतिषेधो वक्तुमित्येकेनैव प्रयत्नेनोभयमत्र वर्तत इति ।
अथ तन्त्रम् । यत्रार्थिनः सर्वे प्रयोजका (क) भेदेनावृत्त्या वा योऽर्थः प्रतिपत्तव्यस्तमर्थमेकमेव संभवाल्लाघवाच्च प्रयोजयन्ति तत्तन्त्रम्। तद्यथा--शालायामेकं प्रदीपं व्याकरणाध्यायिनः प्रयोजयन्ति ।
वेदे यथा--प्रधानभूता ये षड्‌यागा आग्नेयादयस्तदर्थं ये प्रयाजादयस्ते पूर्वं पश्चाद्वा कृताः सर्वेषां तन्त्रेण साधारण्येनोपकारका भवन्तीत्युच्यते ।
शास्त्रे यथा--भिन्नार्थयोस्तपरशब्दयोस्तपरस्तत्कालस्येति तन्त्रिणोः सूत्र उपादानं क्रियत इति । एवं च तत्र तत्र लक्षणेष्वपि तन्त्रलक्षणं प्रभवत्येवेति विज्ञेयम् । तद्यथा--संख्यासंज्ञायां रूपविशेषानुरोधात्ततत्प्रदेशेषु तन्त्रेणैव युगपदुभयप्रतिपत्तिरिति । अथावृत्तिभेदयोस्तन्त्रप्रसङ्गप्रतियोगिनोर्निदर्शनमुच्यते । आवृत्तौ तावत्तन्त्रप्रतिपक्षभूतायां निदर्शनम् । यथा एकं वस्त्रमाभरणं वा रणभूमिषु भटानामुपयेगाय कल्पत इति ।
वेदे यथा---सप्तदश सामिधेन्यो भवन्तीति । अत्रैकशब्ददर्शने सामिधेनीषु सप्तदशत्वमावृत्तिसंख्यामात् प्रकल्प्यते । यदुच्यते--"त्रिः प्रथमामन्वाह, त्रिरुत्तमामन्वाह" इति ।
व्याकरणे यथा---संप्रसारणसंज्ञायां ज्ञापकपक्षानाश्रयणेन वर्णवाक्यविषयया आवृत्त्या कृत्स्नस्य भिन्नप्रतीयमानोपस्कारा प्रवृत्तिराख्यायते । यथा चैकशब्ददर्शने "एकाजनेकाज्‌ग्रहणेषु चावृत्तिसख्यानात्" इति परिहार उच्यते । भेदस्य तन्त्रप्रतियोगिनो निदर्शनम् । यथा भिन्नानि पात्राण्यसह(णिसह) भुजां भुजिक्रियायां भेदेनाधिकरणभावं प्रतिपद्यन्ते ।
वैदिकेऽपि विषये यथा---ग्रहं संमार्ष्टि" इत्यत्र यः संमार्गो ग्रहविषये चोदितः, स भेदेनैव व्यवतिष्ठन इति । शास्त्रे यथा--`न वेति विभाषा" इत्येतस्मिन् योगे प्रत्याख्यानमुभयत्र विभाषाणां क्कचिद्विधिमुखेन क्कचित् प्रतिषेधमुखेन विभक्तानां विभक्त (प्र) वृत्तिराश्रीयत इति ।
अथ बाधानिदर्शनं क्रियते । अर्थित्वात् सामान्योपदेशाद्वा सति प्रवृत्तिसंभवे दृष्टादृष्टार्थमप्राप्त्यनुमानमात्रं यत्र सा बाधा । यथार्थित्वात् प्रवृत्ते सामान्येन भक्षणे `अभक्ष्यो ग्राम्यकुकुटः'इति ग्राम्यकुकुटभक्षणं क्षुत्प्रतिघातार्थमर्थित्वात् प्राप्तमनेन बाध्यत इति वैदिकमुदाहरणम् ।
लौकिकं यथा--`ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय' इत्यत्र दधिदानमौत्सर्गिकं तक्रदानेन विशिष्टे विषये बाध्यत इति । शास्त्रे यथा--- `कर्मण्यण्‌' इत्यस्य `आतोऽनुपसर्गे कः' इति कप्रत्ययेन बाधेति । एषा च टीकाकृता स्ववृत्तौ सा च तुल्यबलेष्वसंभवादित्यादिना बहुप्रकारा दर्शिता । न चेयत्ता प्रकाराणामस्यास्तेनापि तत्र दर्शिता । यस्मादुक्तम्--"सेयमपरिमाणविकल्पा बाधा विस्तरेण बाधासमुद्देशे समर्थयिष्यते" इति ।
अथ समुच्चयः । तुल्यबलानामविरोधिनां समुच्चयः । तद्यथा---`देवदत्तं भोजय लवणेन सर्पिषा शाकेन च' इति । वेदेऽपि -- `ब्राह्मणेभ्यः पाद्यमाचमनं च दीयताम्' इति शास्त्रेऽप्यविरोधात् फलभेदाच्च प्रत्ययकृत्‌कृत्यसंज्ञाः प्रत्ययतद्धिततद्राजसंज्ञाश्चैकत्र समुच्चीयन्त इति ।
विकल्पोऽपि बाधाप्रतियोगी । स च तुल्यप्रमाणविशिष्टानां विरुद्धानां भवति । वेदे यथा--`व्रीहिभिर्यजेत', `यवैर्यजेत' इति । लोके दधितक्रे कौण्डिन्याय दीयेतामित्येकफलदधितक्रदानचोदने ।
शास्त्रेऽपि ण्वुलतृचावित्यादि विधिप्रतिषेधयोरपि तुल्यबलत्वे विरोधाद्विकल्पो भवत्येव । यथा -- वेदे "षोडशिनं गृह्णाति न गृहणाति" इति । लोकेऽपि किंचिदस्य दीयतां न दीयतामिति । शास्त्रेऽपि---"वाग्रहणानर्थक्यं विधिनिषेधसामर्थ्यादुभयोः सिद्धत्वात्" इति । यथा प्रदर्शितं स्ववृत्तौ टीकाकारेण ।
विधिप्रतिषेधयोः खल्वपि तुल्यबलत्वे वेरोधाद्विप्रतिषेधमाह---नासिकादिभ्यो विभाषायाः `सहनञ्‌विद्यमानपूर्वेभ्यः प्रतिषेधो विप्रतिषेधेन ।' अयं विधिः स प्रतिषेधो विधिप्रतिषेधयोश्चायुक्तो विप्रतिषेधः । अयमपि विधिर्न मृद्वनामिव कार्पासानां कृतः प्रतिषेधविषय एवारभ्यते । स यथैव बह्वज्‌लक्षणं संयोगोपधलक्षणं च बाधते । एवं विद्यमानपूर्वलक्षणमपि । तत्र पुरस्तान्मध्येऽपवादा इति बाधकत्वे प्रतिषिद्धे विप्रतिषेथाद्वाधाव्यवस्थाप्यत इति ।। 77 । <B2>

ऊहोऽस्मिन् विषये न्याय्यः सम्बन्धोऽस्य न बाध्यते ।
सामान्यस्यातिदेशोऽयं विशेषोऽत्रातिदिश्यते ।। 78 ।

<B2> ऊहः खल्वपि प्रकृतौ समर्थानां विकारे सामर्थ्याभावात् प्रकृतिरूपलिङ्गवचनान्तरोपादानेन क्रियते । तद्यथा--प्रकृतावग्नय इत्यग्निशब्दः समर्थोऽङ्गरार्थो दृष्टः । तत्र विकारे सूर्यायेत्यूह इत्येवमादिना निमित्तभेदेन बहुभेदो भवत्यूह इति वैदिकमुदाहरणम् ।
लोकेऽपि यथा--देवदत्तस्योच्चानि गृहाणि आढ्यो वैधवेय इत्यत्र षण्ठ्यन्तमपोह्य निमित्तवशात् प्रथमान्त ऊह्यते । व्याकरणेऽप्यूहविषयत्वमापन्नाः सर्वे विभक्तिविपरिणामाः । तेषु हि योगान्तरे यथा विभक्त्या सम्बद्धो यः शब्द उपलब्धस्तत्संबन्धत्यागेनैव विभक्त्यन्तरयोगं स प्रतिपद्यते । तद्यथा -- `उपदेशेऽजनुनासिक इत्, इतो लोपः, भूवादयो धातवः, धातोरनुदात्तेतो ङित आत्मनेपदमि'ति ।
अथोहप्रतिपक्षभूतं सम्बन्धाबाधनमपि निदर्श्यते । यथा देवदत्तस्योच्चानि गृहाणि युक्तं तान्यभिजातस्येति । अत्र यद्विभक्त्यन्तस्यैव श्रुतिः, तथा वाक्यान्तरेऽप्यभिसम्बन्ध इति । तथा बदरी सूक्ष्मकण्टका मधुरा वृक्षः, पञ्चाला जनपद इत्येवमादिषु सम्बन्धाबाधनं भवतीत्याहुः ।
वेदेऽपि यथा---यजमानं दण्देन दीक्षयति, अद्भिर्दोक्षयति, मेखलया दीक्षयतीत्यत्र यजमानमित्यबाधितमेव सम्बध्यते । शास्त्रेऽपि -- बहुगणवतुडतिसंख्ये (पा o 1-1-23) ति योगे विधीयमानसम्बन्धस्य स्वरूपपदार्थकस्य संख्याशब्दस्य श्रुतस्य योगान्तरे संज्ञिवेशेषणत्वं विज्ञायते । ष्णान्ता संख्या षट्‌संज्ञा भवतीति ।
अथातिदेशनिर्देशः क्रियते । अन्यत्रान्यधर्मपरिप्रापणमतिदेशः । तस्य च द्वौ प्रकारौ सामान्यतिदेशो विशेषातिदेशश्चेति । सामान्यातिदेशो यथा---अन्यत्र रूढसम्बन्धा धर्मा निर्ज्ञातभेदेष्वर्थेषु प्रसिद्धेरनुमेयभेदसम्भवैः सम्बन्धिभिर्व्यपदिश्यन्ते । तद्यथा--ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमित्यत्र यावानर्थो ब्राह्मणशब्दं न व्यभिचरति तावत्यर्थे यान सम्बद्धानि कार्याणि तान्यत्यन्तमलब्धब्राह्मणव्यपदेशे क्षत्रियेऽतिदिश्यन्ते । तथा गुरुवद् गुरुपुत्रे वर्तितव्यमिति । वेदे यथा--दर्शपूर्णमासवदन्येष्वपि यागेषु प्रचरितव्यमिति । शास्त्रेऽपि -- `स्थानिवदादेशोऽनल्विधौ' इति ।
अथविशेषातिदेशः । निर्ज्ञातसामान्यकार्यषु ब्राह्मणादिषु पुनरतिदेशसमर्थ्याद्विशिष्टप्रकृतिगतकार्यातिदेशः । यथा ब्राह्मणवदस्मिन् ब्राह्मणे वर्तितव्यमिति । अत्र ये ब्राह्मणे ब्राह्मणवदेव वर्तन्ते तान् प्रत्ययमेवंभूतोऽतिदेशो विज्ञायते । येषां तु संभेदात् प्रसङ्गाद्वा व्यतिकरस्तेषु नियम एव क्रियते । उक्तं च --

सामान्यमात्रं शब्दार्थो विशेषा व्यभिचारिणः ।
सामर्थ्यमन्तरेणातो विशेषो नातिदिश्यते ।। इति ।

तत्र वेदे यथा--`आग्नेयवत् सौर्ये' इत्यत्रैकदेवताकस्यैकदेवताकसंबन्ध्येव विध्यन्त इति । विध्यन्त इतिकर्तव्यतोच्यते ।
शास्त्रे रूपातिदेशादिभिः षड्‌भिः प्रकारैर्विशेषातिदेशः परिदृश्यते । तत्र रूपातिदेशो यथा---`द्विर्वचनेऽचि' इत्यत्र हि धातुरूपमेवादेशस्यातिदिश्यते । ततश्च `या' कृ इत्यादीनामेव द्विर्वचनं भवति । यथा---ययतुश्चक्रतुरिति ।
निमित्तातिदेशो यथा--पूर्ववत्सन इति । अत्र पूर्वस्य यन्निमित्तमात्मनेपदे ङकारादि तदेव सन्नन्तस्यातिश्यति इति ।
तादात्म्यातिदेशो यथा---`सुबामन्त्रिते पराङ्गवत् स्वरे' इति । सुबन्तमामन्त्रितस्य मृत्पासूदकवत् तादात्म्यमापद्य तत्स्वरं लभत इति ।
शास्त्रातिदेशः कार्यातिदेशो वा यथा---कर्मवत्कर्मणातुल्यक्रिय इति । अत्र हि शास्त्रातिदेशे यकः शपा बाधनं स्यादिति यग्विधौ कर्मकर्तर्युमसंख्यानमारभ्यते । विप्रतिषेधाद्धि शपो बलीयस्त्वमिति । कार्यातिदेशे तु कर्मवत्कर्मणेत्यनेनैव यग्विधीयत् इति यक एव परत्वान्नास्त्यस्य शपा बाधेति नोपसंख्यानारम्भः ।
व्यपदेशातिदेशस्तु--व्याकरणे नैव सम्भवति, संज्ञापक्षादविशेषाद् वत्करणवैफल्यप्रसङ्गच्चेति ।। 78 । <B2>

अर्थित्वमत्र सामर्थ्यमस्मिन्नर्थो न भिद्यते ।
शास्त्रात् प्राप्ताधिकारोऽयं व्युदासोऽस्य क्रियान्तरे ।। 79 ।

<B2> अथाधिकारस्य निदर्शनम् । अर्थित्वं सामर्थ्यं शास्त्रापर्युदासयोगित्वमधिकारः स विद्यते यस्यासावधिकारी । अर्थित्वमधिकारकारणम् । परं हि पुरुषार्थमत्रापवर्गमाचक्षते । अस्मादप्यर्थो प्रमाद्यति कश्चिदिति सत्येवार्थित्वे सामथ्यमधिकारकारणम् । उत्पन्नायामपि ह्यभिनयदिदृक्षायामन्धो दर्शने नाधिक्रियते । अर्थिनः खल्वपि सामर्थ्याभावः केषुचित्कर्मसु शास्त्रेण पर्युदासात् । यथा शूदास्त्रय्यां नाधिक्रियन्ते । अदृष्टार्थविशेषे हि सामर्थ्यासामर्थ्ये शास्त्रादेव समधिगम्येते । तस्मात् प्रधानमधिकारकारणं शास्त्रोपदेशमाचक्षते । तत्र लोके यथा---अद्यप्रभृति त्वमत्र ग्रामे नगरे वाऽधिकृत इति राजा नियुङ्‌क्ते ।
वेदे यथा---`अग्रिहोत्रं जुहुयात् स्वर्गकामो ब्राह्मणः' इत्यत्र ब्राह्मणस्यार्थित्वादिभिरधिकार इति । शास्त्रस्य तु शब्दार्थपुरुषधर्मेष्वधिकारः ।
तत्र षोढा शब्दः--साधुरसाधुश्च । साधुरपि शास्त्रीयः प्रयोगिकश्च । शास्त्रीयोऽपि त्रेधा--प्रतिपाद्यः, प्रतिपादकःष उभयरूपश्च । तत्र प्रतिपाद्यो यथा---दाधर्त्यादिर्निपात्यमानः । प्रतिपादको यथा---प्रकृतिप्रत्ययादिः । तेन हि कुम्भकारादिः प्रयोगस्थः प्रतिपाद्यते । उभयरूपो यथा---इतव्यशब्दः । स हि तव्यशब्देन प्रतिपाद्यते । प्रयोगस्थं च स इतव्यशब्दं प्रतिपादयति ।
प्रायोगिकश्च लौकिकवैदिकभेदेन द्विधा---इत्येवसाधुना सह षोढा शब्दः । तेषु मध्ये प्रतिपाद्येषु व्याकरणशास्त्रस्याधिकारः, न प्रकृत्यादिषु । नहि ते व्याकरणेन व्युत्पाद्यन्त इति ।
अर्थोऽष्टादशधा । तत्र वस्तुमात्रमभिधेयश्च । अभिधेयोऽपि द्विधाशास्त्रीयो लौकिकश्च । पुनरपि विशिष्टावग्रहसंप्रत्ययहेतुस्तद्विपरीतश्च, मुख्यः परिकल्पितरूपविपर्यासश्च, व्यपदेश्योऽव्यपदेश्यश्च, सत्त्वभावमापन्नोऽसत्त्वभूतश्च, स्थिरलक्षणो विवक्षाप्रापितसंनिधानश्च, अभिधीयसानः प्रतिपाद्यमानश्च, अभिसंहितो नान्तरीयकश्चेति । तत्र वस्तुमात्रं बाह्यार्थो यो वक्तुं प्रतिपादयितुं न समीहितः । यस्तु समीहितोऽसावभिधेयः । तत्रैव च शब्दस्याधइकारः ।
स च द्विधा शास्त्रीयलौकिकभेदेन । तत्र शास्त्रिय आवापोद्धारिकः । लौकिकस्त्वखण्डः । लौकिके चार्थे शब्दस्याधिकारो न शास्त्रीये । शास्त्रीयो हि पौरुषेयः परिकल्पितः ।
एवमतथाभूतोऽपि शब्दसाधुत्वस्य निमित्तभावेन प्रतिपादको विज्ञायते । अतश्च तस्य व्यभिचारेऽप्यव्यभिचार एव स्मर्तॄणाम् । स चानियतावधिर्बहुधा प्रविभज्यत व्याख्यातृभिः ।
विशिष्टावग्रहसंप्रत्ययहेतुर्यथा--कंसं घातयति, बलिं बन्धयतीति । अत्र ह्यर्थो न तथाभूतोऽपि तु विशिष्टाकारेणैव सम्प्रत्ययेन गोचरीकृतो व्यवहारविषयतामनुपतति । तद्विपरीतो यो बहिरेव तथा ब्यवस्थितः । यथा गौः शुक्ल इत्यादि । मुख्यो यथा सास्नादिमान् गौरिति । परिकल्पितो निमित्तवशेन रूपविपर्यासो यस्यासौ परिकल्पितनिमित्तरूपविपर्यासो गौणोऽर्थ उच्यते । यथा गौर्वाहीक इति । व्यपदेश्य आवापोद्धारिक (अपोद्धारिकः) एव जातिर्वा द्रव्यं वेत्येवमुक्त इति । अव्यपदेश्यस्त्वखण्ड एव वाक्यार्थलक्षण इति ।
सत्त्वभावमापन्नो व्यपदेश्य एवावापोद्धारिकसंज्ञकः । असत्त्वभूतो वाक्यार्थलक्षण एव । उक्तिभेदादेवात्र प्रयशो भेदकथनम् । स्थिरलक्षणो यथा---राजरुरुष इत्यत्र राजसंबन्धित्वं पुरुषस्य, तद्धि न व्यभिचरति ।
विवक्षाप्रापितसन्निधानो यथा--राज्ञः, पुरुषस्येति । अत्र हि संबन्धित्वं व्यभिचरति, विशेषणाविशेष्ययोर्यथेष्टत्वात् । अभिधीयमानो यथा---राजसख इत्यत्र राज्ञः सखाऽयमित्यर्थोऽभिधीयते । तस्मिंस्त्वभिधीयमाने राजा सखाऽस्येत्ययमर्थः प्रतीयमान एव ।
अभिसंहितो यथा---गोशब्दे जातिर्द्रव्यं वेति । नान्तरीयको यथा तत्रैव वर्णसंस्थानादिः- इत्येवमभिधेयभेदा उपदर्शनीयाः ।
पुरुषधर्मा वक्तृत्वप्रतिपत्तृत्वप्रभृतयः । तत्र वक्तृधर्मा आबाधः, असूयाऽसम्मतिकोपकुत्सनभर्त्सनादयश्चेति । प्रतिपत्तृधर्मास्तु कुत्स्यमानत्वप्रभृतय एव । तत्र शास्त्रस्य प्लुतद्विर्वचनादिविधायकत्वेनाधिकार इति ।
अत्र च य एव धर्माः शब्दानां शास्त्रस्य वाऽनधिकारविषयत्वेनोक्तास्तानेवापेक्ष्योच्यते---व्युदासोऽस्य क्रियान्तर इति ।। 79 । <B2>

इयं श्रुत्या क्रमप्राप्तिरियमुच्चारणादिभिः ।
क्रमोऽयमत्र बलवानस्मिंस्तु न विवक्षितः ।। 80 ।

<B2> अथ क्रमस्य निदर्शनम् । `इयं श्रुत्या क्रमप्राप्तिरियमुच्चारणादिभिः' इति श्रुत्यादिभेदेनायं क्रमो नैकप्रकारः । तथा च श्रुतिक्रमः, अर्थक्रमः, पाठक्रमः, काण्डक्रमः प्रवृत्तिक्रमः, प्रयोगक्रमः, बुद्धिक्रमश्चेति । तत्र श्रुतिक्रमो यथा---स्नात्वा व्रजतीति । अत्र क्त्वाप्रत्ययेनैव श्रुत्या क्रम उक्तः । वेदे यथा--"हृदयस्याग्रेऽवद्यत्यथ जिह्वायाः" इत्यत्र श्रुत्यैवाग्रेऽथशब्दाभ्यां क्रमः उक्तः । शास्त्रेऽपि च `परस्मैपदानां णलतुस्' इत्यादौ यथासंख्यमनुदेशः समानामिति श्रुत्यैव क्रमः । अर्थः सामर्थ्यं तन्निमित्तः क्रमोऽर्थक्रमो यथा---भुक्त्वा स्नात्वा व्रजतीत्यत्र स्नानादीनामन्यथाशब्दोपात्तानामप्यर्थस्वरूपपर्यालोचनया स्नानादिक्रमो लक्ष्यते । वेदे यथा---अग्रिहोत्रं जुहोति यवागूं श्रपयतीत्यत्र श्रपणं पश्चाद्विनिर्दिष्टमपि पूर्वमनुष्ठीयते, ततोऽग्रिहोत्रमित्यर्थक्रमः ।
शास्त्रेऽपि `गुणकर्मणि लादिविधिः' इत्युक्तम् । तथा हि--गां दोग्धि पय इत्यत्र गावा कमेणा पूर्वं दुहेर्योगस्ततः पयसः । नह्यनुपादाय गां कश्चित् पय आदातुमर्हति । तस्मादत्र गोपयसोर्दुहिना यः क्रमेण सम्बन्धः, सोऽर्थसामर्थ्यादुपजायते । तस्मात् सत्यपि प्रधाने पयसि दुहेर्गवैव पूर्वं सम्बन्ध इति तत्रैव लादयोऽन्तरङ्गत्वादुत्पद्यन्ते गौर्दुग्धा सुदोहा गौरिति । उच्चारणक्रम एवपाठक्रमो यथा---

इन्दुस्वर्णैणमातङ्गपुंस्कोकिलकलापिनः ।
वक्त्रकान्तीक्षणगतिस्वरकेशैस्त्वया जिताः ।।

इत्यत्र यथापठितानां यथापठितैरेव सम्बन्ध इति । वेदे यथा---समिधो यजति, तनूनपातं यजति, इडो यजति बर्हिर्यजति, स्वाहाकारं यजतीत्वेवमात्मकेषु प्रयाजेषु यथापाठमेव क्रमेणानुष्ठानम् । शास्त्रे यथा--विप्रतिषेधे परं कार्यम्, पूर्वत्रासिद्धम् इति च । अत्र हि शास्त्रपाठमेवापेक्ष्येदं पूर्वमिदं परमिति व्यवस्थाप्यते । काण्क्र्मो यथा येनैव क्रमेण ब्राह्मणक्षत्रियविशां वर्णसमाचारप्रतिपादकानि प्रकरणान्युद्दिष्टानि तेनैवाभिधीयन्त इति ।
वेदे तु कुत्रचिद् याज्ञे कर्मणि येनैव कण्डिकाक्रमेण कर्माणि चोद्यन्ते, तेनैव क्रमेण प्रवर्तन्ते । यथा याज्यानुवाक्यानामग्नेयादीनां च । अत्र येनैव क्रमेण याज्यानुवाक्यानां सन्निवेशः, तेनैव क्रमेणाग्नेयादीनां सन्निवेशात् काण्डक्रमेण सम्बन्धः । शास्त्रे यथा--द्विर्वचनकाण्डात् सम्प्रसारणकाण्डमिति । तदेव विप्रतिषेधे सति पूर्वं भवतीति ।
प्रवृतिक्रमो यथा---येनैव क्रमेण ब्राह्मणाः समानाः प्रविशन्ति तेनैव क्रमेण यथास्वं चोदितं कार्यं प्रतिलभन्त इति । वेदे यथा---"सप्तदश प्राजापत्यान् पशूनालभेत" इत्यत्र सप्तदशानामजानां प्रोक्षणविशसनपर्यग्निकरणानि क्रमेण चोदितानि । अनुष्ठातुः पुनरिच्छावशात्तेषु प्रवर्तमानस्य यत एवारभ्य पशोस्तेनानुष्ठात्रा तेषामाद्यस्यानुष्ठानमारब्धं तेनैव प्रवृत्तिक्रमेण पुनरपरयोरप्यनुष्ठानं विधत्त इति सोऽयं प्रतिपत्तरिच्छावशात् प्रवृत्तः क्रमः प्रवृत्तिक्रम इत्युच्यते ।
शास्त्रे यथा--भाष्य उक्तं ययैवानुपूर्व्याऽर्थानां प्रादुर्भावः, तयैव शब्दानामपि । यथापट्‌व्या मृद्‌व्येत्यत्र प्रथमं लिङ्गसंबन्धात् स्त्रीप्रत्यय उत्पद्यते, तदनु कर्मसंख्यादिसंबन्धादेकवचनमुत्पद्यते । तथैव च यणादेशादिकार्यं तेनैव क्रमेण प्रवर्तत इति ।
प्रपतिपत्तिक्रमो यथा--लुङलङ्‌लृङ्‌क्ष्वडुदात्त इत्यत्र यद्यपि प्रयोगे पूर्वमडागम उच्चार्यते, तथापि वयं विधिवाक्यार्थं प्तिपद्यमाना लुङादीन् प्रतिपद्यामहे, पश्चादडागममिति शास्त्रीयमुदाहरणम् ।
लोके यथा पुरुषो राज्ञ इत्युक्तेऽप्युच्चारणक्रममतिक्रम्य पाजार्थव्यवच्छेदेनैव पुरुषस्य प्रतिपत्तिः। वेदे यथा--प्रधानयागाः पूर्वमुक्ता अप्यवान्तरयागनिवर्तनानुसारेणैव प्रतिपत्तिमुपारोहन्ति । यथा--दीक्षणीयादीनां सोमस्य च । अत्र हि सोमयागस्य प्रधानस्य पूर्वं बुद्ध्युपारोहेऽपि दीक्षणीयादियागनिर्वतनपूर्वकमेव सोमप्रतिपत्तिः ।
प्रयोगक्रमस्तु यथा--डुकृञित्यादौ यथाऽऽनुपूर्व्या अनुबन्धाः प्रयुक्तास्तयैवेत्संज्ञां लभन्त इति शास्त्रीयमुदाहरणम् ।
वेदे यथा--दर्शपूर्णमासाभ्यामिष्ट्वाऽन्येन यजेते इत्यत्र दर्शपूर्णमासयागपूर्वकमन्यानुष्ठानं विज्ञेयम् । बुद्धिक्रमो यथा--शास्त्रे वर्णानामिको यणचीत्यादौ बुद्ध्या पौर्वापर्यं कल्प्यते । तथा च पौर्वापयमकालव्यपेतं संहिता चेत् पूर्वपराभावादसंहितम् । एकवर्णवर्तित्वाद्वाच उच्चरितप्रध्वंसित्वाच्च वर्णानामित्याशङ्क्योक्तं भाष्यकारेण ।

"बुद्धौ कृत्वा सर्वाश्चेष्टाः कर्ता धीरस्तन्वन्नीतिः ।
शब्देनार्थान् वाच्यान् दृष्ट्वा बुद्धौ कुर्यात् पौर्वापर्यम् ।। "

इति शास्त्रे बुद्धिक्रमः । लोकेऽपि विद्यतः क्रमेण प्रवृता बुद्धौ संकलयति । वेदे प्रयाजादीनामुत्पन्नप्रधवंसिनां बुद्ध्यैव संकलनमिति बौद्धः क्रमः । सर्व एव वा बौद्धः क्रमो न वस्तुसमुत्थ इति । यदाहुः--"प्रतिपत्तिक्रमो न वस्तुसमुत्थः" इति ।
अथ एषां क्रमाणां बलाबलचिन्तां करोति--क्रमोऽयमत्र बलवानिति । यथा वेदे--प्रथमं भोजयितव्यस्ततोऽभ्यञ्जनमिति ।
अथ क्रमप्रतियोगिनं दर्शयितुमाह---अस्मिंस्तु न विवक्षित इति । क्रम इति प्रकृतम् । अविवक्षा क्रमस्य प्रतिपक्षः । तद्यथा वेदेऽनुष्ठातॄणां क्रमविवक्षा निमित्तवशाद् दृश्यते । लोके प्रतिपत्तॄणामपि दृश्यते । शास्त्रे यथोक्तं वार्त्तिककृता---अतिप्रसङ्गो गुणवृद्धिप्रतिषेधे क्ङिति इत्यादि ।। 80 । <B2>
अथ प्रयोजकाप्रयोजके निदर्श्येते--

इदं पराङ्गैः संबद्धमङ्गानामप्रयोजकम् ।
प्रयोजकमिदं तेषामत्रेदं नान्तरीयकम् ।। 81 ।

<B2> तत्र राजा छत्रच्छायायाः प्रयोजकः, इस्त्यादयस्तदाधारा अप्रयोजका अपि छत्रच्छायया संबध्यमानाः प्रयोजका उच्यन्त इत्येकफलतया प्रयोजकभावः । फलभेदेऽप्यूह्यमुदाहरणमिति लोके । वेदशास्त्रयोरप्यूह्यम् ।। 81 । <B2>

इदं प्रधानं शेषोऽयं विनियोगक्रमस्त्वयम् ।
साक्षादस्योपकारीदमिदमाराद् विशेषकम् ।। 82 ।

<B2> अथं शेषिशेषौ दर्शयितुमाह--इदं प्रधानं शेषोऽयमिति ।
वेदे यथा--व्रीहीनवहन्तीति व्रीहयः शेषिणः, अवघातः शेषस्तदर्थत्वात् । लोकशास्त्रयोरुह्यमुदाहरणम् ।
अस्यैव शेषिशेषभावस्येतिकर्तव्यतां प्रदर्शयितुमाह--विनियोगक्रमस्त्वयमिति । तदेवं गुणप्रधानभावस्य परिकरबन्धसहितस्योपदर्शनं कृत्वा तत्रैवावान्तरभेदमाह--साक्षादस्योपकारीदमिदमाराद्विशेषकमिति ।
तत्र लोके साक्षादुपकारकं यथा स्वात्मन्यलङ्कारादि । आरात् तदेव पुत्रदारादिषु । शास्त्रेऽपि साक्षादुपकारकं प्रत्ययस्य प्रकृत्यादि ।
यत्तु प्रकृत्यादेर्विशेषणं तदारादुपकारकम् । यथा एरजित्यादाविवर्णान्तत्वादि धातोर्विशेषणम् । कर्तृविशेषणं च पश्वादीति । वेदेऽप्यवघातादि दर्शपूणमासयोः साक्षादङ्गम्, प्रयाजादिकं त्वारादुपकारकम् ।। 82 । <B2>

शक्तिव्यापारभेदोऽस्मिन् फलमत्र तु भिद्यते ।
संबन्धाज्जातभेदोऽयं भेदस्तत्राविवक्षितः ।। 83 ।

<B2> इत्येवं सप्रभेदं सपरिकरबन्धं शेषशेषिभावमुपदर्श्येदानीं भेदं प्रदर्शयितुमाह--शक्तिव्यापारभेदोऽस्मिन्निति ।
शक्तिव्यापारभेदाश्रयणेन बहुविधो भेदो लक्ष्यते । तत्र लोके बलाहकाद् विद्योतते, बलाहके विद्योतते, बलाहको विद्योतत इत्यत्र बलाङकस्यापादानाधिकरणकर्तृशक्तीनां भेदः शास्त्रे चात्रैव विवक्षावशाद् व्यापारभेदश्चेत्येवं शक्तिव्यापारभेदः ।
(क्कचित्तु) शक्तिभेदमात्रम्, न तु व्यापारभेदः । यथा--धनुषा विध्यतीति । अत्र हि गर्भोकृतापादानशक्तिः करणशक्तिर्विध्यत्यर्थाभेदेन व्याप्रियते । न ह्यन्यथानाश्रितापादानशक्तिधनुषः करणत्बं संभवति । अत एवात्र संज्ञयोर्विप्रतिषेधो वर्ण्यते । व्यापारभेदस्तु शुद्धो न संभवति, शक्तिभेदमन्तरेण व्यापारभेदस्यासंभवात् ।
अथ फलभेदेन भेदमाह--फलमत्र तु भिद्यत इति । यथैकस्य दानस्यायुरारोग्यैश्वर्याणि भिन्नानि फलानि । अन्ये त्वायुष्यप्रभृतिषु सत्सु प्रीतिविशेषमेवैकं फलमाहुः । तथा बह्वीनां क्रियाणामेकं फलम्, यथा व्यवहारदर्शने प्रजानामेको निर्णयः । यथा वक्ष्यति--

भिन्नव्यापाररूपाणां व्यवहारादिदर्शने ।
कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् ।। इति (2-379) ।

प्रकारान्तरेणापि भेदं दर्शयितुमाह--संबन्धाज्जातभेदोऽयमिति । यथाऽऽख्यातेषु धातूपात्तायाः क्रियायाः प्रत्ययवाच्यकर्तृभेदे सति संबन्धात् क्रियाया अपि भेदः प्रतीयते, पचतः पचन्तीति । यथोक्तम्--"साधनभेदात् तिङ्‌क्षु फलाभावात् फलं भवत्येवावबोधश्चेत् साधनेभ्यः प्रसिद्धोऽसौ" इति ।
इदानीमस्यैव प्रतिपक्षभूतभेदं दर्शयितुमाह--भेदस्त्वत्राविवक्षितः इति । अत्र शक्त्यभेदो यथा--समानकर्तृकयोरित्यत्र पक्त्वौदनं भुङ्‌क्त इति कर्तृकर्मणोः क्रियाभेदेन प्राप्तः शक्तिभेदो वक्त्रा न विवक्षितः । तथा च सत्यत्र समानकर्तृकत्वमुपपन्नं भवति । व्यापाराभेदः प्रागेव दर्शितो धनुषा विध्यतीत्यत्र फलाभेदोऽपि पूर्वमुक्त एव । यथा दानस्यैका प्रीतिः फलमिति केचिदिति ।
संबन्धाज्जातभेदत्वस्य प्रतिपक्षो यत्र न सम्बन्धभेदाज्जातभेदत्वम् । यथाऽऽस्यते देवदत्तेनेत्यत्र भावे लकार उत्पन्नः साधनभेदानुपादानात् क्रियाभेदमपि गमयितुं न शक़ोति ।
देवदत्तेनेत्यस्मात्तत्प्रतीतिरिति चेदेकपदापेक्षयैतदुक्तमस्माभिरित्यदोषः। तदेवं शक्त्यादिभेदेन बहुविधोऽयं भेद इति लक्ष्यैः स्वयमेवोत्प्रेक्ष्यः । तथा तत्प्रतिपक्षभूतस्तद्वदभेदोऽपि बहुविधि एव विज्ञेयः । अनयोश्च भेदोभेदयोः क्कचिद्वास्तवत्वम् क्कचिद्विवक्षामात्रशरणत्वम् । विवक्षापि क्कचिल्लौकिकी, क्कचित् प्रयोक्त्रीत्येतदप्यत्रानुसर्तव्यमिति ।
वेदेऽपि भेदव्यवहारो दृश्यते । यजते, ददाति, जुहोतीत्यादौ यागदानहोमरूपादनुबन्धबेदादपूर्वस्य भेदः । अभेदोऽपि यथा---षण्णामप्याग्नेयादियागानामेकस्मिन्नेवापूर्वे साध्ये ऐक्यमिष्यति इति । एवं षड्‌द्वादश चतुर्विंशतिश्च लक्षणानि प्राकृतानि वैकृतानि च सप्रतिपक्षाणि दर्शितानि ।। 83 । <B2>
इदानीं षड्‌द्वादशचतुर्विंशतिव्यतिरिक्त अप्यमी बहुप्रकारा न्यायाः पदार्थनिश्चयहेतवः सन्तीति प्रौढवादितया टीकाकारः प्रदर्शयितुमाह---

प्रसज्यप्रतिषेधोऽयं पर्युदासोऽयमत्र तु ।
इदं गौणमिदं मुख्यं व्यापीदं गुरु लध्विदम् ।। 84 ।

तत्र प्रसज्यप्रतिषेधोऽयमिति । यत्र क्रियापदेन नञः संबन्धो वाक्यभेदश्च ।
<B2> शास्त्रे यथा--"अकर्तरि च कारके" इति ।
वेदे यथा---"ब्रह्मणो न हन्तव्यः । नानृतं वदेत्" इत्यादि ।

लोके यथा--"असूर्यंपश्या राजदारा" इति । "पर्युदासोऽयमत्र तु" इति । पयुदासः खलु प्रसज्यप्रतिषेधविपरीतस्तत्र ह्याख्यातेनैव नञः संबन्ध एकवाक्यता च ।
उक्तं च---"नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः" इति ।
तत्र शास्त्रे यथा---"आतोऽनुपसर्गे कः" इति । वेदे यथा---"अब्राह्मणः सोमविक्रयी" इत्यत्र जातिमात्रानुगमेन ब्राह्मणसदृशस्य कस्यचिदेव प्रतिपत्तिः । यथा च "नोद्यन्तमादित्यमीक्षेत" इत्येवमादि स्मार्तमुदाहरणदूरविप्रकर्षादत्र वैदिकमेव ।
लोके यथा---"अब्राह्मणमानय" इति । "इदं गौणम् " इति । शास्त्रे यथा---"तत्पुरुषः समानाधिकरणछ" इति । अत्रावयवानां समानाधिकरणत्वात् तत्पुरुषस्यापि समानाधिकरणत्वम् ।
वेदे यथा---"आदित्यो यूपः, यजमानः प्रस्तरः" इति । अत्र गुणाच्चाकचैक्यादेर्यूपादिरप्यादित्यादिरित्युच्यते ।
लोके च---"सिंहो माणवकः, गङ्गायां घोषः" इत्यादि ।
इदं मुख्यमिति । अत्र शास्त्रे यथा---"धातोछ", "प्रतिपदिकात्" इत्यादावभिधेयस्य मुख्यत्वम् ।
वेदे यथा---"यजमानोऽध्वर्युमन्वालभते" इत्यत्राध्वर्युयजमानौ मुक्यावेव ।
लोके यथा---"शूरो माणवकः" इति ।
"व्यापीदम्" इति । शास्त्रे यथा---"एकश्रुति दूरात्संबुद्धौ" इति । तत्र हि लौकिक्याः संबुद्धर्ग्रहणं व्यापित्वात् । तद्‌ग्रहणे हि शास्त्रीयापि संबुद्धिः परिगृहीता भवति । वक्ष्यति च---

विषयं कृत्रिमस्यापि लौकिकः क्कचिदुच्चरन् ।
व्याप्नोति दूरात् संबुद्धौ तथा च ग्रहणं द्वयोः ।। इति ।

यावत्सु चोभयानुग्रहस्तत्तत्र सर्वमनुगन्तव्यं व्यापित्वेनेति ।
वेदेऽपि---"सर्वे प्रधानयागविषया ज्योतिष्टोमेन" इत्याद्यधिकारविधयः ।
लोकेऽपि यथा---कयाचिदितिकर्तव्यतया सन्निहत्याममरसिन्धुस्नानम् ।
यदुच्यते---

उपोष्य रजनीमेकां सन्निहत्यां नरोत्तमः ।
सौर्ये तमसि गङ्गायां चान्द्रे चापि विमुच्यते ।। इति ।

अत्र सकृदेव स्नानात् त्रैलोक्याभ्यन्तरगतसर्वतीर्थस्नानमिति व्याप्युदाहरणं प्रसङ्गादुक्तम् ।
गुरु लध्विदमिति । तत्र शास्त्रे यथा---`पृषोदरादीनि यथोपदिष्टमि'ति शिष्टप्रसिद्धसाधुशब्दौघप्रतिपादने लघुरुपायः । स एव तु प्रातिपदिकादनभिहितकर्मादिगतैकत्वादौ स्वादय इत्यादिना गुरुरुपायः ।
लोकेऽपि--लोहितशालिमानयं ग्राम इत्यादिवचनव्यक्तिषु कर्मधारयमत्वर्थोययोरेकत्र क्र्ियमाणयोः गुरुप्रक्रम उपजायते, उघुत्वं तु प्रकमस्य बहुव्रीहेस्तेत्रेति ।
वेदे तु गुरुलाघवव्यवहारतन्त्रप्रसङ्गावृत्तिषु । तत्रावृत्तौ गुरुः प्रक्रमो यथा---त्रिः प्रथमामन्वाह त्रिरुत्तमामिति । तन्त्रप्रसङ्गयोस्तु लाघवव्यवहारो यथा निदर्शितं प्रागिति ।। 84 ।। <B2>

भेदेनाङ्गाङ्गिभावोऽस्य बहुधेदं विकल्प्यते ।
इदं नियम्यतेऽस्यात्र योग्यत्वमुपजायते ।। 85 ।।

<B2> भेदेनाङ्गाङिगभावोऽस्येति । यथा शास्त्रे---संयुक्तविधानेषु तस्यापत्यं कर्तरि कृदित्यादि ।
वेदे यथा---एकस्यैवावयवः संबध्यमानो व्यवहितैरपि वाक्यान्तरैः संबन्धमुपयाति । यथा---अच्छिद्रेणेत्यादिश्चित्पत्यादिभिरिति । पूर्वमेकैकस्यैवाङ्गाङ्गिभावः इदानीं बहूनामङ्गिनां यथा प्रदर्शितमेकमङ्गमिति पुनरस्योपादानम् ।
लोकेऽपि---
मणिः शाणोल्लीढः शरदि सरितः श्यानपुलिनाः
कलाशेषश्चन्द्रः सुरतमृदिता बालललनाः ।
मदक्षीणो नागः समरविजयी हेतिनिहत
स्तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ।। (नीतिशतकम् 30)
इत्यादिदीपकालङ्गारेष्वेकस्या एव क्रियाया बहुभिर्वाक्यैः सम्बन्ध इति ।
बहुभेदं विकल्प्यत इति । तत्र शास्त्रे यथा---क्कचित्प्राप्तिविकल्पः, क्कचिदप्राप्तविकल्पः, क्कचिदुभयविकल्पः ।
वेदे यथा---"यत्किञ्चित् प्रागग्नीषोमीयात्तत्सर्वमुपांशु कर्तव्यम्" इत्यत्रोपांशुस्वरे प्राप्ते दीक्षणीयायां यथेष्टमुच्चैः स्वरविधानमित्यादि ।
लोके यथा--`किं तारुण्यतरोरियमि' त्यादौ महाकविभिरुत्प्रेक्षिता विकल्पाः । इदं नियम्यत इति । शास्त्रे यथा--`पतिः समास एव", "ते प्राग्धातोछ" इत्यादि।
वेदे यथा---"नक्षत्रदृष्ट्‌वा वाचं विसृजेत्" इति । अत्र नियत एव काले वाग्विसर्गो नियमितः ।
लोकेऽपि यथा--पार्थ एव धनुर्धर इत्यत्र धानुष्कत्वं पार्थे नियम्यते ।
अस्यात्र योग्यत्वमुपजायत इति । यथा शास्त्रे---"उः स्थानेऽणः प्रसज्यमानस्यैव रपरत्वं प्रति योग्यत्वमुपजायते" इति । यथा वा--"पद एकस्मिन्नुदात्ते स्वरिते वा क्रियमाणे वर्ज्यमानशेषस्य निद्याते योग्यत्वमुपजायते" इति ।
वेदे यथा---"ज्योतिष्टोमेन यजेत" इत्यत्र त्रैवर्णिकस्यैव योग्यत्वम् ।
लोके यथोच्यते---"धुरि धुर्यो नियुज्यते" इति । यो यः कश्चिदर्थो समर्थः शास्त्रेणापर्युदस्तः स योग्य इत्युच्यते ।। 85 ।। <B2>

अस्य वाक्यान्तरे दृष्टाल्लिङ्गाद्भेदोऽनुमीयते ।
अयं शब्दादपोद्‌धृत्य पदार्थः प्रविभज्यते ।। 86 ।।

<B2> अस्य वाक्यान्तरे दृष्टाल्लिङ्गात् भेदः प्रतीयत इति । शाश्त्रे यथा---`ओः पुयण्‌ज्यपरे' इति वचनाण्‌ णौ कृतं स्थानिवद्भवतीति ।
वेदे यथा---"अक्ताः शर्करा उपदधाति" इत्यत्र केनाक्ता इत्याकाङ्‌क्षायाम् "तेजो वै घृतम्" इति घृतस्तुतेर्वाक्यान्तराल्लिङ्गाद् घृतेनाक्ता इति विशेषः प्रतीयते ।
लोके यथा---रामोऽसौ भुवनेष्वत्यादौ दाशारथिः परशुरामो वेति संशये वाक्यान्तरगतात् "एकबाणहतश्रेणीभूतविशालतालविवरोद्‌गीर्णैः स्वरैः सप्तभिः" इति लिङ्गाद् दाशरथिप्रतिपत्तिरेवेति । अयं शब्दादपोद्धत्य पदार्थः प्रविभज्यत इति ।
शास्त्रे यथा---धृषिशसी वैयात्ये इत्यास्माद्वैयात्यशब्दादपोद्धत्य वियातभावो वैयात्यमिति विभज्यते ।
वेदे यथा---वायव्यं श्वेतमालभेतेत्यस्माद्वाक्याद्वायव्यपदार्थादपोद्‌धृत्य "वायुर्वै क्षेपिष्ठा देवता" इति प्रविभज्यते । लोकेऽपि राजपुरुष इत्युक्ते कस्य राज्ञः, शूद्रकस्येति प्रशनोत्तरयो राजपदार्थप्रविभागः ।। 86 ।। <B2>
 
इदानीं प्रकृते चोद्यमुपसंहर्तुमाह---

इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः ।
सर्वे ते न प्रकल्पेरन् पदं चेत् स्यादवाचकम् ।। 87 ।।

<B2> अनंशे वाक्येऽभ्युपगम्यमाने वाक्येषु पदसमुदायरूपेषु सत्यपदार्थोपनिबन्धनेषु ये धर्मा वाक्यार्थानुग्राहिणः पदार्थविशेषसंप्रत्ययप्रतिबद्धस्ते सर्वेऽत्राऽविद्यमानोद्देशप्रविभागे न प्रतिष्ठां लभेरन्, यदि सत्यं पदं वाचकं न स्यादिति पदवादी प्रत्यवतिष्ठते ।। 87 ।। <B2>
एवं पदवादिनाऽखण्डवाक्यवादिनो दूषणव्राते समापिते इदानीमेतत् समाधातुमखण्डवाक्यवाद्याह---

अविभक्तेऽपि वाक्यार्थे शक्तिभेदादपोद्‌धृते ।
वाक्यान्तरविभागेन यथाक्तं न विरुध्यते ।। 88 ।।

<B2> एतत्सव यथोक्तमस्मत्पक्षे न विरुध्यते । तथा चास्मत्पक्षेऽविभक्ते निर्विभागे वाक्यार्थे एकस्मिन्नपि तस्मिन् पानकरसादिवत्समाश्रीयमाणे शक्तिभेदसमाश्रयणेन चापोद्‌धृते कृतापोद्धारे सत्यवान्तरवाक्यार्थोपजननात् सर्वमेतत्सिध्यतीति तात्पर्यम् । यथा शाक्यदर्शने निर्विभागमेकमेव सकलत्रैलोक्यविलक्षणं सत्त्वं स्वलक्षणमभ्युपगम्यते, तत्तदितरपदार्थव्यावृत्तिसमाश्रयणेन च जात्यादिव्यवहारः कश्चिन्निर्वाह्यते, तथैवाखण्डवाक्यवादिना शक्तिभेदाद्वाक्यार्थप्रविभागे कृते सर्वं युज्यत इति न कश्चिद् दोषः । `वाक्यान्तरविभागेन' ।
`अविभक्तेऽपि वाक्यार्थे' इति च वाक्यवाक्यार्थयोरेकयोगक्षेमत्वादुक्तम् । पदार्थासंभवपूर्वके चोद्ये `वाक्यान्तरविभागेन' इत्युत्तरमसमीचीनमिव लक्ष्यत इति चेत्, बाध्यबाधकभावादिन्यायो वाक्येष्वपि दृश्यते । ततो महावाक्यापेक्षयाऽवान्तरवाक्योपप्लावनेन तदपि न विरुध्यत इत्युपदर्शितम्, तदुपदर्शनेन परिमितपरिमाणेऽपि वाक्ये पदार्थापोद्धारनिबन्धना अप्येते न्यायाः सम्भवन्तीत्युपदर्शितमेव भवति।।88।। <B2> एतदेव प्रसिद्धदृष्टान्तोपदर्शनेन द्रढयितुमाह---

यथैवैकस्य गन्धस्य मेदेन परिकल्पना ।
पुष्पादिषु तथा वाक्येऽप्यर्थमेदो विधीयते ।। 89 ।।

<B2> स्त्रक्‌चन्दनादावेक उपसन्निविष्ट एव गन्धस्तस्य त्वपोद्धारसमाश्रयणेन भेदः कल्प्यतेऽयं पुषपगन्धोऽयं चन्दनगन्ध इत्यादि । तथा वाक्य एवार्थापोद्धारसमाश्रयणेन पदार्थभेद उपपद्यते---अयं देवदत्तपदार्थः, अयं गोपदार्थ इत्यादि ।। 89 ।। <B2>

गवये नरसिंहे वाप्येकज्ञानावृते यथा ।
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ।। 90 ।।

<B2> दृष्टान्तान्तरमाह--
एकज्ञानेनाभिन्नेनैवावृते विषयीकृते परिच्छिन्ने गवयादौ सति तदेकदेशं प्रसिद्धजात्यन्तरस्यैव प्रतिपद्यते । एवमपोद्धारसमाश्रयणेन सर्वन्यायसमर्थने कृते तत्समानयोगक्षेमतया प्रतिनिधिः स्तुतिवाक्यविरोधश्च समर्थित एव । अग्रे त्ववान्तरवाक्यानामर्थवत्त्वं समर्थयिष्यते ।। 90 ।। <B2>

अप्रसिद्धं तु यं भागमदृष्टमनुपश्यति ।
तावत्यसंविदं मूढः सर्वत्र प्रतिपद्यते ।। 91 ।।

<B2> अधुना तमेवापोद्धारमाश्रित्य पिकादिसंदेहे चोद्यमुद्धर्तुं प्रस्तावनां करोति---
तत्र च गवयादौ भागमप्रसिद्धमदृष्टमनिश्चितमनुपश्यति मूढः परमार्थतस्तु संवित्तस्य सर्वत्र निर्विभागे तस्मिन् कुतश्चित्कारणान्नोत्पन्ना । सर्वत्रायमसंविदं तावत्पुनः (मसंविदानोऽप्यसंविदं तावत्येव पुनः) प्रतिपद्यत इति ।। 91 ।। <B2>

तथा पिकादियोगेन वाक्येऽत्यन्तविलक्षणे ।
सदृशस्येव संज्ञानमसतोऽर्थस्य मन्यते ।। 92 ।।

<B2> प्रकृते योजयितुमाह--
वनात् पिक आनीयतामित्येतद्वनाद् ऋक्ष आनीयतामित्येतस्माद्वाक्यान्तरादत्यन्तविलक्षणमेव । वनादानीयतामिति चात्रासन्नेवार्थो वनाद् ऋक्ष आनीयतामित्यस्य क्रमवशात् सदृश इति मन्यते । परमार्थतस्तु पिकादियोगात् सकलमेवात्यन्तविलक्षणम् । एकपदार्थसंदेहे सकलमेवाज्ञातं वाक्यमित्युच्यते ।। 92 ।। <B2>

एकस्य भागे सादृश्यं भागे मेदश्च लक्ष्यते ।
निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा ।। 93 ।।

<B2> दृष्टान्तमाह--
यथैकमेव नीलपीतादिज्ञानं प्रकाशस्वभावाद् निरंशमेवोपजातं तस्यज्ञानत्वेन सादृश्यं मन्यते । नीलपीतादिना च भेदः । वस्तुतः पुनर्भिन्नमेव नीलज्ञानं पीतज्ञानादिति न तत्रानुगमः कश्चित् ।
अथवा चित्रज्ञानयोरेव भागे सादृश्यं भागे भेदं प्रतिपद्यते । किञ्चिद्धि चित्रज्ञानं नीलहरितोल्लेखि । किञ्चिद्धि नीलपीतोल्लेखीति नीलादिना तत्र सादृश्यं हरितादिना भेदं प्रतिपद्यत इति ।। 93 ।। <B2>

तथैव भागे सादृश्यं भागे मेदोऽवसीयते ।
भागाभावेऽपि वाक्यानामत्यन्तं भिन्नधर्मणाम् ।। 94 ।।

<B2> दार्ष्टान्तिके योजयितुमाह--
प्रतीतार्थः श्लोकः ।। 94 ।। <B2>

रूपनाशे पदानां स्यात् कथं चावधिकल्पना ।
अगृहीतावधौ शब्दे कथं चार्थो विवच्यते ।। 95 ।।

<B2> इदानीमखण्डवादी पदवादिनं दूषयितुमाह---
यदि पादन्येव सत्यानि, तदादध्यानयेत्यादिसंहितायां रूपविनाशात् पदस्य नियतस्याभावे कमवधिं गृहीत्वा तदर्थो विविच्यताम्, अतः प्रविभागशून्यं वाक्यमेवैकं सत्यमभ्युपगन्तव्यम् ।। 95 ।। <B2>

संसर्ग इव रूपाणां शब्देऽन्यत्र व्यवस्थितः ।
नानारूपेषु तद्रूपं तन्त्रेणापरिमिष्यते ।। 96 ।।

<B2> अथाखण्डपक्षे श्वेतो धावतीत्येतत्प्रश्रद्वयाऽपाकरणाय कथमेकं वाक्यम्, अत्र हि श्वा इत्येतद्रूपं संहितावशाद्विनष्टमित्येतत्पदार्थासंभवात् कथं तदवगतिः ? तत्राह--
श्वेत इत्यादौ शब्दे अन्यत्राखण्डपक्षे रूपाणां संसर्ग इव व्यवस्थितः, अतश्च तद्रूपमपरं तन्त्रेणावस्थितं तेषु नानारूपेषु प्रत्यायकमिष्यत इत्यदोषः।।96।।<B2>

तस्मिन्नभेदे भेदानां संसर्ग इव वर्तते ।
रूपं रूपान्तरात्तस्मादनन्यत् प्रविभज्यते ।। 97 ।।

<B2> तदेव व्याचिख्यासुराह--
तस्मिन्नभेदे एकस्मिन्नेव श्वेत इत्येवं रूपे भेदानां श्वा इतः श्वेतश्च इत्येतेषां संसर्ग इव स्थितः । तस्मात्तद्रूपं रूपान्तरादनन्यदपि तन्त्रन्यायसमाश्रयणेनोभयार्थप्रत्यायकतया प्रविभज्यत इत्यस्मिन् पक्षे श्वेत इत्येतदखण्मेपव प्रत्यायकम् ।। 97 ।। <B2>

शास्त्रे प्रत्यायकस्यापि क्कचिदेकत्वमाश्रितम् ।
प्रत्याय्येन क्कचिद्भेदो ग्रहणग्रह्ययोः स्थितः ।। 98 ।।

<B2> अथात्रैव प्रसङ्गात् प्रत्याय्यप्रत्यायकयोर्विषयभेदेन भेदाभेदौ स्मृतावित्याह---
ऊ इत्यभेदाश्रित्य यथासंख्यं प्रकल्पितम् ।

<B2> तत्राभेदं प्रत्याय्यप्रत्यायकयोः, दर्शयति --
ऊकालोऽज्झ्रस्वदीर्घप्लुत इत्यत्रोक्तम् । ह्रस्वादिषु समसंख्याऽप्रसिद्धरुद्देशनिर्देशवैषम्यात् । सिद्धं तु समसंख्यत्वात् त्रयाणां हि विकारनिर्देश इति ततश्च ऊकाल इत्यत्र मात्रिकद्विमात्रत्रिमात्राणां संसृज्य निर्देशात् प्रत्याय्यप्रत्यायकयोरभेदे समसंख्यत्वान्निर्देशसाम्ये संख्यातानुदेशे सिद्धे ह्रस्वदीर्घप्लुतसंज्ञाः पृथगवतिष्ठन्त इति न कश्चिद्दोषः । <B2>

लृङ्‌लृटोर्ग्रहणे भेदो ग्राह्याभ्यां सह कल्पितः ।। 99 ।।

<B2> प्रत्याय्यप्रत्यायकयोर्भेदं निदर्शयितुमाह---
स्यतासी लृलुटोरित्यत्र लृशब्देन लृङ्‌लृटौ प्रत्याय्येत इति निमित्तनिमित्तिनोर्वैषम्यात् संख्यातानुदेशाभावः प्राप्नोति । यथासंख्यमनुदेशः समानामित्यत्रोक्तम्---"संख्यासाम्यं शब्दश्चेद् णलादयः परस्मैपदानाम् । डारौरसः प्रथमस्य । एचोऽयवायाव इत्यनिर्देशः । अर्थतश्चेत् लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः" इति चोद्यमेवं पक्षदूय उपस्थितम् ।
तत्रोच्यते-लृलुटोरित्यत्र लृरूपमुत्सृष्टानुबन्धसामान्यमात्रं प्रत्यायकमभिन्नमेव, न पुनः प्रत्याय्यभेदाद्भिन्नमत्राभ्युपगम्यते । ततश्च निमित्तनिमित्तिनोः साम्यात् संख्यातानुदेशः सङ्गच्छत इति न किञ्चिदनिष्टम् ।। 99 ।। <B2>

यस्येत्येतदणो रूपं संज्ञिनामभिधायकम् ।
नहि प्रतीयमानेन ग्रहणास्यास्ति सम्भवः ।। 100 ।।

<B2> अथ प्रत्याय्यप्रत्यायकयोरन्यत्राप्यभेदं दशर्यितुमाह---
इश्च अश्च तद्यं तस्य यस्य यदेतत्संसृष्टेकाराकारयो रूपमणोः प्रत्यायकं तत्संज्ञिनामिवर्णावर्णानामभेदात्प्रत्यायकं भवति, तेन ईकाराकारयोरपि सौपर्णेयो वैनतेय इत्यत्र लोपः प्रवर्तते । यदि चात्र प्रत्याय्यप्रत्याय्यकयोरभेदो नाश्रीयते तदा प्रतीयमानेन प्रत्याय्यमानेनान्येषां ग्रहणस्य प्रत्यायनस्यासंभव इति नात्रेष्टं सिध्येत् । तस्मात्तन्त्रेणोच्चारितमेकमेवोभयोः प्रत्यायकं संसष्टरूपत्वादित्यस्त्येव श्वेतो धावतीत्येतस्मादुभयार्थप्रतीतिः ।। 100 ।। <B2>

ऊ इत्येतदभिन्नं च भिन्नवाक्यनिबन्धनम् ।
भेदेन ग्रहणां चास्य पररूपमिव द्वयोः ।। 101 ।।

<B2> अवान्तरवाक्योपप्लावनेनैतद्वोभयार्थप्रत्यायकं भविष्यतीति दृष्टान्तेन प्रदर्शयितुमाह---
ऊकाल इत्येतदुपात्तम् । तद्‌ध्रस्वदीर्घप्लुतानां त्रयाणां सामान्येनाभिन्नं रूपं बोधव्यम् । ततश्चैतदेकं ग्रहणकवाक्यस्थानीयम् , अवान्तरवाक्यनिबन्धनं भवतीत्याह--भिन्नवाक्यनिबन्धनमिति । उकालोऽज्झ्रस्वसंज्ञः । ऊकालोदीर्घसंज्ञः । उ3कालः प्लुतसंज्ञो बोद्धव्य इति । अतश्च यदा संसृष्टत्वादस्याभेदेनैव ग्रहणं प्रत्यायके स्थितं तदा ऊ इत्येतद्रूपं भिन्नवाक्यनिबन्धनमेव भवति । यथा पररूपं संसृष्टत्वादेकमपि द्वयोः प्रत्यायकं दृश्यते । तथैतद् बोद्धव्यम् । ततश्च श्वेतो धावतीत्यादाववान्तरवाक्योपप्लावनेनोभयार्थता भविष्यतीति योजनीयम् ।। 101 ।। <B2>

प्लुतस्याङ्गविवृद्धिं च समाहारमचोस्तथा ।
व्युदस्यता पुनर्भेदः शब्देष्वत्यन्तमाश्रितः ।। 102 ।।

<B2> शब्दानां भेदपक्ष एव वार्तिककारस्याभिरुचित इति दर्शयितुमाह--
प्लुतावैच इदुतावित्यत्रोक्तम् "अङ्गविवृद्धिर्नोपपद्यते । न ह्यैचोऽवयवोऽकार इकार उकारो वा" इत्येवमङ्गविवृद्धिं व्युदस्यता तावेव शब्दावेकत्र संमिलिताविति य उपदर्शितः प्रागभेदः स पराकृतः । तथाऽचोः समाहारं व्युदस्यता भेद एवेष्यत इति । यदाह "समाहारोऽचोश्चेन्नाभावाद्" इति । तस्मात् श्वेतो धावतीत्यादौ सदृशयोर्मेलनमनुपदमवान्तरवाक्योपप्लावनेन तन्त्रन्यायसमाश्रयणेन वा समर्थनं (यत् समर्थितं न) तज्ज्याय इति ।। 102 ।। <B2>

अर्द्धर्चादिषु शब्देषु रूपभेदः क्रमाद्यथा ।
तन्त्रात्तथैकशब्दत्वे भिन्नानां श्रुतिरन्यथा ।। 103।।
 
<B2> अथ तन्त्रमुपसंहर्तुमुपक्रमते--
यथा क्रमवशेन ऋचोऽर्द्धम् अर्द्धर्च इत्येकस्यैव शब्दस्य रूपभेदस्तथा तन्त्रन्यायाश्रयणेनै कशब्दत्वे भिन्नानां रूपाणामन्यथा श्रुतिरभिन्ना श्रुतिर्बोद्धव्येति तन्त्रमुपसंहृतम् ।। 103 ।। <B2>

संहिताविषये वर्णाः स्वरूपेणाविकारिणः ।
शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ।। 104 ।।

<B2> एतदेव स्फुटीकर्तुमाह--
स एव शब्दोऽनेकशक्तिवर्णतया संहिताविषये प्रतिभासत इत्येकस्यैव श्वेतशब्दस्य संहितयोच्चारणाच्छक्त्यन्तरपरिग्रहेणोभयार्थप्रत्यायकत्वं मन्यते ।। 104 ।। <B2>

इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु ।
आत्मत्यागादृते भिन्नं ग्रहणं स क्रमः श्रुतौ ।। 105 ।।

<B2> एकस्यापि निमित्तभेदाद्भेद उपजायत इति दृष्टान्तप्रदर्शनेनाह--
यथा काचाद्युपहतचक्षुषामेकाकारमपि वस्तु नानारूपतायाऽवभासते, तथा संहितावशादेकोऽपि शब्दो रूपान्तरेणावभासते ।। 105 ।। <B2>

अभिधानक्रियायोगाच्छब्देष्वविकृतेष्वपि ।
रूपमत्यन्तभेदेन तदेवैकं प्रकाशते ।। 106 ।।

<B2> एतदेवोपसंहर्तुमाह---
अभिधानक्रिया संहितयोच्चारणमेव तया योगात्तत्सम्बन्धादविकृतेष्वपि शब्देष्वेकमेव शक्त्यन्तरपरिग्रहादत्यन्तभेदेन प्रकाशते ।। 106 ।। <B2>

ऋचो वा गीतिमात्रे वा साम द्रव्यान्तरं न तु ।
गीतिभेदाद्विगृह्यन्ते ता एव विकृता ऋचः ।। 107 ।।

<B2> अथैतदेवागमविषये दृश्यते तेन संवादयितुमाह--
ऋच एव तथोदीरिताः सामाख्यां यथा प्रतिलभन्ते । विशेषेणोदीरणमात्रं वा साम । यथोच्यते "गीतिषु सामाख्या" इति । ऋचो वा सामेत्येतद् ज्ञापयितुमाह---गीतिभेदादित्यादि ।
तदेवं भेदाभेदविवक्षाभिन्नेन प्रत्याय्यप्रत्यायकभावेनात्यन्तभेदरूपेण वा "संहिताविषये वर्णाः" इत्यत्रोक्तप्रकारेण तन्त्रेण तत्प्रतिपक्षेण वाऽवान्तरवाक्योपप्लावनरूपेण श्वेतो धावतीत्यत्रैकत्वेऽपि वाक्यास्यार्थभेदो भविष्यतीति नास्मत्पक्षे पदानामनभ्युपगमेऽपि काचित् क्षतिः ।। 107 ।। <B2>

उपायाच्छ्रुतिसंहारे (रो) भिन्नानामेकशेषिणाम् ।
तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वमिष्यते ।। 108 ।।

<B2> अथ पुनरपि तन्त्रन्यायेनैतत् समर्थयितुमाह---
उपायात्तन्त्रलक्षणाद्भिन्नानामपि शब्दानामेकस्यां श्रुतौ संहारः संश्लेषो गीर्णत्वम् । कीदृशानां भिनाननामित्याह--एकशेषिणामिति । एकशेषसाधर्म्यात्तन्त्रेणोच्चारिता अप्येकशेषिण उच्यन्ते ।। 108 ।। <B2>

परिगृह्य श्रुतिं चैकां रूपभेदवतामपि
तन्त्रेणोच्चारणं कार्यमन्यथा ते न साधवः ।। 109 ।।

<B2> तस्मादेवंविधेविषये भिन्नानासपि शब्दानां किंचत्सादृश्यमुपादाय तन्त्रेणैव प्रतिपादनं कार्यमित्याह---
यद्यपि च सरूपाणां वाक्यानां शास्त्रेण साक्षात्तन्त्रेण प्रतिपादनं न कृतम् , नाप्येकशेषस्य प्रतिपादनम् , तथापि समानन्यायत्वात्सर्वमपि शब्दानुशासनोपयोगीति प्रतिपादितमुक्तमेवेत्यूह्यत इति प्रतिपादयितुमाह---
यथोक्तं वार्त्तिककृता "हलन्त्यमेकशेषनिर्देशाद्वा" (1-3-3 भा o) इति । तेनैकशेषिणां तन्त्रन्यायवतामिति यावत् । उपायादित्यादेः पूर्वस्य श्लोकस्य स्फुटीकरणायेक्तं तन्त्रेणोच्चारण इत्यादि ।। 109 ।। <B2>

सरूपाणां च वाक्यानां शास्त्रेण प्रतिपादतम् ।
तन्त्रेणोच्चारणादेकं रूपं साधूपलभ्यते ।। 110 ।।

एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् ।
यथा तथैव तन्त्रात् स्यात् बहूनामेकरूपता ।। 111 ।।

<B2> एतदेव दृष्टान्तप्रर्दशनपूर्वकमुपसंहर्तुमाह--
यथैकोऽपि ध्वनिर्नालिकादिपरिग्रहोपधानवशान्नानाविधषड्‌जऋषभादिरूपभेदवानुपजायते, तथा तन्त्रसमाश्रयणेन श्वा इतः श्वेत इत्येवमात्मकानां भिन्नानामपि शब्दानामेकरूपता श्वेत इत्येवरूपतेति न कश्चित्तत्र दोषः ।। 111।। <B2>

यथा पदसरूपाणां वाक्यानां सम्भवः पृथक् ।
तथा वाक्यान्तराभावे स्यादेषां पृथागर्थता ।। 112 ।।

<B2> इदानीं यदुक्तमवान्तरवाक्यानामर्थवत्त्वं न स्यादिति तत्प्रतिविधातुमाह---
यथाऽखण्डपक्षे वाक्यानां पदसरूपाणामवान्तरवाक्यानामपोद्धारबुद्ध्या सम्भवमुपकल्प्यार्थस्तेषां महावाक्योपयोगी व्यवस्थाप्यते । यदि तथा न प्रकल्पेत न तदा महावाक्यार्थसम्प्रत्ययः स्यात् । तथा वाक्यान्तराभाव एषां पृथगर्थता स्यात् । यावताऽपोद्धारसमाश्रयणेन वाक्यान्तराण्युपकल्प्य पृथगर्थत्वमसत्यमप्येषामभ्युपगम्यति इति नास्त्यवान्तरवाक्यानुपपत्तिचोद्यम् ।। 112 ।। <B2>

अभिधेयः पदस्यार्थो वाक्यास्यार्थः प्रयोजनम् ।
यस्य तस्य न संबन्धो वाक्यानामुपपद्यते ।। 113 ।।

<B2> इदानीं प्रयोजनं वाक्यार्थ इति पक्षं दूषयितुमाह---
वाक्यास्यार्थो वाक्यप्रयोजनमुच्यते । न त्वभिधेयः । कस्यायमर्थः स्यादित्याह--अभिधेयः पदस्यार्थ इति । पदानामर्थोऽभिधेय उच्यते । एतन्निराकरोति---यस्या तस्येत्यादि । एवं वादिनः परस्परं वाक्यानां सम्बन्धो न स्यात् । कीलायः--शलाकाकल्पानां वाक्यानां किं कृतः संबन्धो भवति ? अभिधेयद्वारकः परस्परं संबन्धः स्यात् । अभिधेयं च वाक्यानां नास्तीत्यसम्बन्धानि वाक्यानि प्राप्नुवन्तीति यत्किञ्चिदेतत् ।। 113 ।। <B2>

तत्र क्रियापदान्येव व्यपेक्षन्ते परस्परम् ।
क्रियापदानुषक्तस्तु सम्बन्धोऽतः प्रतीयते ।। 114 ।।

<B2> अथान्विताभिधानसमाश्रयणेनैतत्समर्थयितुमाह--
क्रियापदमाक्षिप्तसमस्तसाधनव्रातं निराकाड्‌क्षं संपद्यते, क्रियापदानुषक्तः परस्परसम्बन्धो निराकाड्‌क्षस्तस्मादुपपन्न इति न काचित् क्षतिः ।। 114 ।। <B2>

आवृत्तिरनुवादो वा पदार्थव्यक्तिकल्पने ।
प्रत्येकं तु समाप्तोऽर्थः सहभूतेषु वर्तते ।। 115 ।।

<B2> ननु चान्विताभिदानं न युक्तमिव प्रतिभाति । तथा हि--यदि प्रथममेव सकलविशेषयुक्तो वाक्यार्थोऽवगतः स्यात् तदुत्तरकालभाविनां गवादीनामभिधाने न किंचित्प्रयोजनमुत्पश्यामः । अवगतार्थानां हि पदानां पुनर्वचने वैयर्थ्यमापद्यत इत्याशङ्क्य समर्थयितुमाह--
अवगतार्थानामप्यावृत्तिर्नियमाय भविष्यति । उक्तस्य वार्थस्य स्फुटीकरणायानुवादस्तेषामसाविति नास्त्यानर्थक्यम् । एकमपि पूर्वस्य पूर्वस्य तिरोहितत्वात् सहत्वासम्भवान्वयस्यासम्भवादर्थनवगम एव । एकस्मादेव च पदात्समस्तविशेषान्वितस्य वाक्यार्थस्याप्रतितेरुत्तरेषां चानवगतार्थानां नियमानुवादपरिकल्पनायोगादसमञ्जस एवान्विताभिधानपक्षः । यदा पुनः सहभूतेष्वेवासौ प्रत्येकं समाप्तोऽर्थ इत्युच्यते ।
यथोक्तम्---"व्यक्तोपव्यञ्जना सिद्धिरर्थस्य प्रतिपत्तृषु" इति । तदा नास्त्येव सहभूतानामुपादाने वैफल्यमिति न कश्चिद्दोषः ।। 115 ।। <B2>

अविकल्पेऽपि वाक्यार्थे विकल्पा भावनाश्रयाः ।
अत्राधिकरणे वादाः पूर्वेषां बहुधा गताः ।। 116 ।।

<B2> तदेवं सङ्घातादीन्युद्दिष्टानि वाक्यलक्षणानि प्रासङ्गिकविचारसहितानि व्याख्यातानि । आख्यातं वाक्यमिति दर्शयिष्यते । वाक्याव्याख्याप्रसङ्गेन च वाक्यार्था आपे संसर्गसंसृष्टिनिराकाङ्‌क्षपदार्थप्रयोजनलक्षणाश्चत्वार उपदर्शिताः । प्रतिभां क्रियां च दर्शयिष्यति । नन्वेकस्यैव वाक्यार्थस्य कथं विकल्पप्रपञ्च इत्याशङ्‌क्य निरूपयितुमाह---
वाक्यार्थोऽविकल्प एव निर्विभाग एवाभ्युपगन्तुं युक्तः, तस्मिंश्च तथाभूतोऽपि येऽमी विकल्पास्ते पुरुषाणामनेकशास्त्रभावनासमाश्रया बोद्धव्याः । न वस्त्वनुपातिन इति तद्वाक्यार्थ एक एव युक्तः ।
एतदेव प्रतिपादयितुमाह--अत्राधिकरण इति । अस्मिन्नधिकरणे विचारस्थाने पूर्वेषामाचार्याणां प्रवादा बहुधा गताः शास्त्रसंस्कारवासितचेतसां तेषामिति कस्य पर्यनुयोगः क्रियते ।। 116 ।। <B2>

अभ्यासात् प्रतिभाहेतुः शब्दः सर्वोऽपरैः स्मृतः ।
बालानां च तिरश्चां च यथार्थप्रतिपादने ।। 117 ।।

<B2> परमार्थतस्तु वाक्यार्थ एव एव, सर्वोऽपि शब्दः प्रतिभाया एव हेतुरिति तत्स्वरूपमिदानीं प्रस्तावयितुमाह---
अपरैराचार्यौः । सर्वः यः कश्चिच्छब्दः स प्रतिभाहेतुः । जडानामपि प्रतिभाहेतुरित्याह--बालानामित्यादि । आस्तां विदितसमयस्य किं न भविष्यत्यसौ प्रतिभाहेतुः । येऽप्यविदितसंकेता अमी बाला जडप्राया वा तिर्यञ्चः, तेषामप्यनादिवासनावशात्तदर्थः प्रतीयमानो दृश्यते शब्दः । तथा च जडानामपि प्राणिनां नियतपदः शब्दः सम्बोधनायोदीर्यते । तेन प्रतिनियतजात्यनवुसारेणैव नियतैव काचित् प्रतिभा प्रबोध्यत इति तन्मूल एव सर्वः कश्चित्तेषां व्यवहारः । अनेनैतदुच्यते--- यदियं प्रतिभा सर्वप्राणिसंवेद्या शब्दनिमित्ता सकलव्यवहारमूलभूताऽनपह्नवनीया तदपह्नवे स्वात्मैव विप्रलभ्यते । तत्प्रतिभाऽभ्युपगमोऽवस्याश्रयणीयः ।। 117 ।। <B2>

अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यते ।

<B2> अभ्यासात् प्रतिभाहेतुरित्युक्तं, तत्राभ्यासः किमिदानीन्तन उत जन्मान्तरभावी, तस्य च किं स्वरूपमित्याशङ्‌क्याह--- <B2<

अनन्तरमिदं कार्यमस्मादित्युपदर्शनम् ।। 118 ।।

<B2> स चाभ्यासोऽनागम इदानीन्तनो न भवति । नहि बालस्य तदैवोपदिष्टं केनचिदिति जन्मान्तरभाव्येव स च समय इष्यते । संकेतस्वरूपोऽसाविष्यत इति स्वरूपमेवास्य स्फुटयितुमाह--
स चानन्तरमिदं कार्यमित्युपदर्शनस्वभावः । यथा कशाभिघातमात्रसमनन्तरमेव वाजिनोऽतियान्ति, अङ्कुशाभिघातेन च गजाः, एवमन्येऽपि यथास्वं प्राणिनोऽनादिवासनाभ्यासवशेन प्रतिभातः समुचितव्यवहारं कुर्वन्तो लोकयात्रां निर्वाहयन्तीति स्थितम् । एवमखण्डमेव वाक्यं प्रतिभा च वाक्यार्थ इति समाश्रयणीयम् । पदपदार्थापोद्धारमाश्रित्य प्रतिनिध्यादिकल्पनं प्रासङ्गिकादिन्यायनिर्वाहश्च भविष्यतीति व्यस्थापितम् ।। 118 ।। <B2>

अस्त्यर्थः सर्वशब्दनामिति प्रत्याय्यलक्षणम् ।
अपूर्वदेवतास्वर्गैः सममाहुर्गवादिषु ।। 119 ।।

<B2> अथ पदार्थप्रविभागश्चेत् समाश्रितस्तदुच्यतां पदस्यार्थ इति प्रविभागप्रसङ्गात् पदार्थविवेचनं मतभेदेन कर्तुमाह--
सर्वशब्दानामपरामृष्टाकारविशेषमर्थमात्रं वाच्यमिति केचिदाहुः । एतत्सर्वशब्दानां प्रत्याय्यलक्षणं प्रत्याय्यस्य वाच्यस्य लक्षणं बोद्धव्यम् । केन तुल्यमेतत् स्यादित्याह--अपूर्वदेवदेत्यादि । अपूर्वदेवतादिपदेषु हि नाकारप्रथनम् । यत्तु गवादिपदेष्वाकारप्रथनं तन्नान्तरीयकतया बोद्धव्यम् । अन्यथाऽपूर्वशब्दाद्देवताशब्दात् स्वर्गशब्दादश्वगवादिशब्दवदाकारादिप्रथनं स्यात् । यतश्च तेभ्यो नास्त्याकारादिप्रथनम्, अतोऽर्थमात्रमेव तैः प्रत्याय्य इति युक्तम् ।। 119 ।। <B2>

प्रयोगदर्शनाभ्यासादाकारावग्रहस्तु यः ।
न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ।। 120 ।।

<B2> अथ गावादिशब्देभ्य आकारदिप्रथनं दृष्टं ततश्च तद्वक्तुं शक्यं यद्विशिष्टपदार्थप्रत्ययो युक्त इतीत्याशङ्‌क्याह--
सास्नादिमत्स्वेव यदा गोशब्दप्रयोगं पश्यति तद्दर्शनाभ्यासाच्च तत्राकारपरिग्रहो यः स शब्दस्य प्रत्ययो न भवति । कस्मादित्याह--स हीत्यादि । तस्मात् प्रयोगाभ्यासेन (प्रयोगदर्शनाभ्यासेन) यत्नान्तरेण शब्दावगम्यतिरिक्तेन स प्रथते ततश्च शब्दव्यापारोऽसौ न भवतीति शब्दस्यार्थमात्रमेवापरामृष्टाकारविशेषं वाच्यं युक्तमित्येकः पक्षः ।। 120 ।। <B2>

केचिद् भेदाः प्रकाश्यन्ते शब्दैस्तदभिधायिभिः ।
अनुनिष्पादिनः कांश्चिच्छब्दार्थ इति मन्वते ।। 121 ।।

<B2> इदानीं कश्चिच्छब्दवाच्यः कश्चित्तत्राकारोऽनुनिष्पादीति पक्षान्तरमाह--
केचिद्भेदा जात्यादयः शब्दवाच्याः, केचित्तत्रार्थप्रयोजका अनुनिष्पादिन एव । तथा तांश्च शब्दार्थ इत्यपरे मन्यन्ते ।। 121 ।। <B2>

जातेः प्रत्यायके शब्दे या व्यक्तिरनुषङ्गिणी ।
न तद् व्यक्तिगतान् भेदान् जातिशब्दोऽवलम्बते ।। 122 ।।

<B2> एतदेव प्रत्याख्यातुमाह--
जातिशब्दा जातिमात्रं प्रत्याययन्ति । व्यक्तिस्तु तत्रानुषङ्गिणी । निरधिकरणाया जातेरसम्भवादिति कृत्वा । तद्व्यक्तिगतानाकारविशेषान् जातिपदार्थपक्षे जातिशब्दो नावलम्बते ।। 122 ।। <B2>

घटादीनां न चाकारान् प्रत्ययति वाचकः ।
वस्तुमात्रनिवेशित्वात् तद्‌गतिर्नान्तरीयकी ।। 123 ।।

<B2> एतदेव व्यक्तीकर्तुमाह--
घटादीनां प्रसिद्धानामाकारान् वचकः शब्दो घटादिर्न प्रत्याययति, पृथुबुध्नोदराकारमात्रनिवेशित्वात् । नहि सकलविशेषसहितमर्थं शब्दः प्रत्याययितुमलमिति तत्राकारविशेषावगतिर्नान्तरीयक्येवानुनिष्पादि येव बोद्धव्य ।। 123 ।। <B2>

क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता ।
प्रयोगस्त्वनुनिष्पादी शब्दर्थ इति गम्यते ।। 124 ।।

<B2> नान्तरीयकत्वमेव प्रदर्शयितुमाह--
यदेतेतिशब्दचोदिता क्रिया कर्तृकर्मसाधनसामग्रींविना न दृश्यते । ततश्चासौ साधनयोगोयथा तत्रानुनिष्पादी तथा शब्दार्थोऽवगन्तव्य इत्युपसंहृतम् ।। 124 ।। <B2>

नियतास्तु प्रयोगा ये नियतं यच्च साधनम् ।
तेषां शब्दभिधेयत्वमपरैरनुगम्यते ।। 125 ।।

<B2> अथ सर्व एवाकारा गुणप्रधानभावेन पदस्यार्थ इति तृतीयं पक्षं दर्शयितुमाह--
येन केनचिद्विना शब्दस्याभिधेयं न निर्वहति तत्सर्वं साध्यसाधनात्मकं शब्दाभिधेयं वक्तुं युक्तम् । किञ्चित् प्रत्याय्यते, अन्यत्तत्र नान्तरीयकतयाऽवगम्यत इत्यपि न शोभनम्, किन्तु सर्वाकारमेवाभिधेयं गुणप्रधानभावेन तस्मात् प्रतीतमित्ययं पक्षः शोभनः ।। 125 ।। <B2>

समुदायोऽभिधेयो वाऽप्यविकल्पसमुच्चयः ।

<B2> समुदाय एव तुल्यकक्षतया शब्दस्यार्थ इति चतुर्थपक्षं दर्शयितुमाह--
ननु यद्याकारसमुदायं समुच्चितमेव प्रत्याययति, तहिं बहुवचनमेव तत्र स्यात् । अथ विकल्पितं प्रत्याययति तदा वचनविकल्पः स्यादित्याशङ्‌क्याह--अविकल्पसमुच्चय इति। अविद्यमानौ विकल्पसमुच्चयौ यस्यासौ तथाभूतस्तस्मात् प्रतीयत इति सम्भाव्यते । एतच्चोपमासमुद्देशेऽप्यर्थविचारणावसरे सविस्तरं प्रदर्शयिष्यति । <B2>

असत्यो वाऽपि संसर्गः शब्दार्थः कैश्चिदिष्यते ।। 126 ।।

<B2> अथ जातिगुणक्रियात्मकस्यार्थस्यासत्यभूतः संसर्ग एव शब्दार्थ इति पञ्चमं पक्षं दर्शयितुमाह--
घटादिभिः शब्दैर्घटादीनां जात्यादिसंसर्ग उच्यते । स चात्र तद्‌व्यतिरेकेणानुपलम्भादसत्यभूत एवोच्यते । तस्मात् संसृष्टः पदार्थ एव सत्यभूत इति।।126।।<B2>

असत्योपाधि यत्सत्यं तद्वा शब्दनिबन्धनम् ।

<B2> अथ सत्यमेवासत्योपाधिविचित्रितं शब्दवाच्यमिति षष्ठं पक्षमाह--

शब्दो वाप्यभिजल्पत्वमागतो याति वाच्यताम् ।। 127 ।।

<B2> शब्दस्य वा स्वरूपमेवाभिधेयमिति सप्तमं पक्षं दर्शयितुमाह--
अभजल्पत्वमध्यसरूपत्वमागतः शब्द एव स्वरूपलक्षणः शब्दस्य वाच्यः।।127।।<B2>

सोऽयमित्यभिसम्बन्धाद् रूपमेकीकृतं यदा ।
शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ।। 128 ।।

<B2> अभिजल्पस्वरूपमाह--
सोऽयमित्यभिसम्बन्धोऽध्यासाख्य उच्यते । तेन पदार्थस्वरूपमाच्छदितमेकीकृतमिव प्रत्याय्यते । तदाऽभिजल्पः शब्द उच्यते । अध्यासवशाच्छब्दार्थयोरेकात्मत्वेऽप्यर्थां शस्यैव प्राधान्यमुपयोगवशात् ।। 128 ।। <B2>

तयोरपृथागर्थत्वे रूढेरव्यभिचारिणि ।
किञ्चिदेव क्कचिद् रूपं प्राधान्येनावतिष्ठते ।। 129 ।।

<B2> क्कचित्तु विषयभेदेन द्वयोरपि दृश्यत इति प्रसङ्गादभिधामाह--
तयोः शब्दार्थयोरध्यासवशाद् रूढेर्नियमादेवाव्यभिचारिण्यपृथगर्थत्वे एकरूपत्वे सति किञ्चिदेवरूपं योगवशात् क्कचिदेव लोके शास्त्रे वा प्राधान्येनोद्रिक्तयाऽवितिष्ठते ।। 129 ।। <B2>

लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते ।

<B2> तत्र लोकेऽर्थंशस्यैव प्राधान्यमित्यपि दर्शयितुमाह--
अर्थरूपतां प्रतिपन्नोऽर्थेन सहैकत्वमिव प्राप्तः शब्दः प्रवर्तते । अयं गौरित्यादि । तत्रार्थ एव बाह्यतया प्रधानमवसीयते । <B2>

शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ।। 130 ।।

<B2> शास्त्रे तु शब्दस्योभयरूपतापि विभागेन परिदृश्यत् इत्याह--
शास्त्रे हि स्वरूपप्रधानो निर्देशः क्वचित् क्वचिच्चार्थप्रधानोऽपीत्युभयरूपता शब्दस्य दृश्यते ।। 130 ।। <B2>

अशक्तेः सर्वशक्तेर्वा शब्दैरेव प्रकल्पिता ।
एकस्यार्थस्य नियता क्रियादिपरिकल्पना ।। 131 ।।

<B2> इदानीमथषु न शक्तिः पृथगस्ति किन्तु शब्दाधीनेति । यथा ते शब्दैर्विधीयन्ते तथैवावगम्यन्त इति स्वमाहात्म्योपस्थापित एव शब्दार्थ इत्यष्टम पक्षं दर्शयितुमाह-
अथवा सर्वशक्तिरर्थो व्यवस्थितः । तस्य प्रतिनियतशक्त्यभिधानं शब्देनेतिनवमं पक्षं दर्शयितुमत्रैवोक्तम्--सर्वशक्तेर्वेति । शक्त्यार्थः कदाचित् क्रियारूपतयाभिधीयते, कदाचित् सिद्धरूपतयेति नियता क्रियादिरूपता शब्दार्थतया प्रतिपाद्यते ।। 131 ।। <B2>

यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः ।
स बाह्यवस्त्विति ज्ञातः शब्दार्थः कैश्चिदिष्यते ।। 132 ।।

<B2> अथवा बुद्ध्युपारूढ एव शब्दस्यार्थो न बाह्य इति दशमं पक्षमुपदर्शयितुमाह--
शब्दस्य बुद्ध्यपारूढस्य वैकल्पिकस्य यो बुद्ध्युपारूढो बाह्यवस्तुनिबन्धनः, बाह्यं वस्तु विकल्पजननद्वारेण निबन्धनं यस्य स तताभूतः । स च वैकल्पिकोऽर्थो भ्रमवशाद् दृश्यविकल्पैकाकारेणाबहीरूपोऽपि बहीरूपतयाऽध्यस्तोऽध्यस्तमेव वस्त्ववगच्छामि शब्दादेति शब्दनिमित्तमिति (निमित्त इति ) शब्दार्थ इष्यते ।। 132 ।। <B2>

आकारवन्तः संवेद्या व्यक्तस्मृतिनिबन्धनाः ।
ये ते प्रत्यवभासन्त संविन्मात्रं त्वतोऽन्यथा ।। 133 ।।

<B2> इदानीं गावदीनां शब्दानामाकारविशेषवानर्थोऽपूर्वप्रभृतीनां संविन्मात्रमपरामृष्टाकारविशेषमर्थ इत्येकादशं पक्षमाह--
कैश्चिच्छब्दैः संवेद्याः प्रत्याय्या आकारविशेषवन्तो व्यक्तस्मृतिनिबन्धनाः प्रत्यवभासन्ते । कैश्चिन्निराकाराः संविद्रूपाः प्रत्याय्यन्ते । तेषां तथैवार्थो व्यवस्थाप्यते ।। 133 ।। <B2>

यथेन्द्रियं सन्निपतद्वैंचित्र्येणोपदर्शकम् ।
तथैव शब्दादर्थस्य प्रतिपत्तिरनेकधा ।। 134 ।।

<B2> इदानीं प्रतिनियतवासनावशेनैव प्रतिनियताकारोऽर्थस्तत्त्वतस्तु कश्चिदपि नियतो नाभिधीयत् इति द्वादशं पक्षमाह--
अविपरीतमप्यर्थमिन्द्रियं दोषवशान्नानारूपमवभासयति यथा, नियतवासनावासिसां शब्दार्थप्रतीतिरिति नास्ति कश्चिन्नयत एकः शब्दस्यार्थः ।। 134 ।। <B2>

वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु ।
स्वप्रत्ययानुसारेण शब्दार्थः प्रविभज्यते ।। 135 ।।

<B2> एतदेव व्याख्यातुमाह--
तथाहि--सांख्यजैनसौगतप्रभृतयः प्रतिपत्रनुसारेणान्यथैव शब्दार्थं प्रतिपद्यन्ते , वक्त्रा तु वैसेषिकादिना स्वप्रत्ययानुसारेण वक्तुं प्रकान्तः । तथा च वैशेषि केणावयविनं प्रतिपादयितुं घटशब्दः प्रयुक्तः, सांख्यैर्गुणसमाहारमात्रमभिमन्यते, जैनसौगतैः परमाणुसंचयमात्रमिति तथैव तसमात्तेषामर्थप्रतिपत्तिः ।।135।। <B2>

एकस्मिन्नपि दृश्येऽर्थे दर्शनं भिद्यते पृथक् ।
कालान्तरेण चैकोऽपि तं पश्यत्यन्यथा पुनः ।। 136 ।।

<B2> एतदेव व्यरक्तयितुमाह--
वस्तुत एकस्मिन्नेकरूपे दृश्येऽर्थे शास्त्रवासनाभेदाद्दर्शनं ज्ञानमस्मिन् भिद्यते । एकोऽपि च पुरुषः सुगतदर्शनसंस्कृतमतिरन्यथाध्यवस्यत्यर्थं कालन्तरेण वैशेषिककशास्त्रश्रवणादन्यथेति ।। 136 ।।

एकस्यापि च शब्दस्य निमित्तैख्यवस्थितैः ।
एकेन बहुभिश्चार्थो बहुधा परिकल्प्यते ।। 137 ।।

<B2> अतः किमित्याह--
एकस्य घटशब्दस्य निमित्तैः शास्त्रसंस्कारैक्यवस्थितैरेकेन पुरुषेणानियतशास्त्रवासनावशात् क्रमेण बुहधार्थः प्रकल्प्यते, बहुभिश्च नानाशास्त्रसंस्कृतबुद्धिभिर्युगपत स्वप्रत्ययानुसारेण बहुधापि परिकल्प्यत इति किमत्र कुर्मः ।। 137 ।। <B2>

तस्माददृष्टतच्वानां सापराधं बहुच्छलम् ।
दर्शनं वचनं चापि नित्यमेवानवस्थितम् ।। 138 ।।

<B2> अतः किमित्याह--
यत एवं तस्माददृष्टतत्त्वानां पुरुषाणां दर्शनमनवस्थितम् । अदृष्टतत्त्वया च सापराधमत एव बहुच्छलं बहुविधबाधकाघ्रातं तथा सति वचनमपि तेषां तथैवेति तत्त्वकथनं सुदूरमवस्थितम् ।। 138 ।। <B2>

ऋषीणां दर्शनं यच्च तच्वे किञ्चिदवस्थितम् ।
न तेन व्यवहारोऽस्ति न तच्छब्दनिबन्धनम् ।। 139 ।।

<B2> ननु सन्त्येव परावरज्ञा मुनयस्तदनुसारेण सर्वं व्यवस्थापयिष्याम इति तदर्थमाह--
परमर्षोणां भगवतां दर्शनं तात्त्विकं भवति, किन्तु परमार्थेन व्यवहारासम्भवः, व्यवहारसाधनानां निबन्धनं न भवतीति न तेन व्यवस्था । व्यवहारवेलायां व तेऽप्यदृष्टतत्त्वसदृशा इति पुनरव्यवस्थैव । यदुच्यते--"रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ । ज्ञाने प्रत्यभिलापे च सदृशौ बालपाण्डतौ"।। 139 ।। <B2>

तलबद् दृश्यते व्योम खद्योतो हव्यवाडिव ।
नैव चास्ति तलं व्योन्मि न खद्योतो हुताशनः ।। 140 ।।

<B2> ननु पुरुषबुद्धयो विचित्रा भवन्तु, प्रत्यक्षेण खलु वयं यथार्थो दृष्टस्तथैव व्यवहरिष्याम इत्याशङ्क्य प्रत्यक्षस्याव्यवस्थितिमाह--
अतिनिर्मलं गगनतलमित्यविप्लुतदृशामप्युक्तिर्दृश्यते, तदत्र किं कुर्मः ।। 140 ।। <B2>

तस्मात् प्रत्यक्षमप्यर्थं विद्वानीक्षेत युक्तितः ।
न दर्शनस्य प्रामाण्यात् दृश्यमर्थं प्रकल्पयेत् ।। 141 ।।

<B2> यत्पुनरुपपत्त्या निश्चीयते तद् दृष्ट मित्येव तथैवोपगम्यतेत्युपसंहरन्नाह

असमाख्येयतत्त्वानामर्थानां लौकिकैर्यथा ।
व्यवहारे समाख्यानं तत्प्राज्ञो न विकल्पयेत् ।। 142 ।।

<B2> यस्य यथैव स्वदर्शनानुसारेण प्रतिभाति तथैव तस्य स शब्दार्थ इत्येवाश्रयणीयमित्यलं निर्वस्तुबहुविकल्पप्रदर्शनेनेत्याह--
तस्माद्व्यवहारवेलायामसमाख्येयतत्त्वानामर्थानां यथा लौकिकैरन्वाख्यानंक्रियते तथैव तदनुसारेण शब्दार्थमाश्रित्य व्यवहारं निर्वाहयेन्न पिष्टपेषणमाचरणीयमिति। एवं मतभेदेन प्रदर्शितस्य द्वादशधा पदार्थस्य पदकाण्डे जात्यादिप्रपञ्चैः प्रविभज्य स्वरूपं निर्णेष्यति । एतदत्र (एषोऽत्र) वैयाकरणस्याखण्डे एव स्फोटलक्षणो वाक्यार्थोऽध्यासः सम्बन्धः पदार्थस्त्वसत्य एवेति निर्णयः ।। 142 ।। <B2>

विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते ।
वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम् ।। 143 ।।

<B2> अथ प्रतिभास्वरूपमेव पूर्वोपक्रान्तमनुबध्नन्नाह--
देवदत्तादिपदेभ्यो विच्छिन्नेभ्यस्तदर्थानां विच्छेदेनैव ग्रहणे प्रत्ययवेलायामेका प्रतिभा पदार्थमतिव्यतिरिक्तैव जायते तां च वाक्यार्थं वैयाकरणा आहुः । कस्तस्या उपाय इत्याह--"पदार्थैरुपपादिताम्" इति । पदार्थैरसत्यैरेवोपाधिभूतैरुपपादितामभिव्यक्तामिति ।। 143 ।। <B2>

इदं तदिति सान्येषामनाख्येया कथञ्चन ।
प्रत्यात्मवृत्तिसिद्धा सा कर्त्रापिन निरूप्यते ।। 144 ।।

<B2> कीदृशीं तामित्याह--
सा चोपजायमाना आख्यातुमन्यस्य न शक्यते, केवलं स्वसंवेदनसिद्धैवासौ, प्रतिपत्त्रापि स्वसंवेदनसमये नियतेन रूपेण निरूपयितुमशक्यैव सा ।। 144 ।। <B2>

उपश्लेषमिवार्थानां सा करोत्यविचारिता ।
सार्वरूप्यमिवान्ना विषयत्वेन वर्तते ।। 145 ।।

<B2> किं स्वभावाऽसावित्याह--
असंसृष्टानां पदर्थानामसावुपश्लेषं मेलनं करोति, सर्वरूपेव वाक्ये पदार्थानां वासौ विषयत्वेन वर्तते, तन्निष्ठास्ते साफल्यं भजन्त इति ।।145।। <B2>

साक्षाच्छब्देन जनितां भावनानुगमेन वा ।
इतिकर्तव्यतायां तां न कश्चिदतिवर्तते ।। 146 ।।

<B2> तां च न किञ्चित्प्राणिमात्रमतिवर्तते, अतिक्रम्य तिष्ठतीत्याह--
सा साक्षाच्छब्देन कदाचिद्व्यवहारकाले जन्यते जन्मान्तरभावनावशेन वा गजवाजिप्रभृतीनामिति तन्मूल एवेतिकर्तव्यतारूपः सर्वस्य व्यवहारः ।। 146 ।। <B2>

प्रमाणात्वेन तां लोकः सर्वः समनुपश्यति ।
समारम्भाः प्रतायन्ते तिरश्चामपि तद्वशात् ।। 147 ।।

<B2> एतदेव स्फुटयति--
सर्वः कश्चित्तामेव भगवतीं स्वप्रतिभां प्रमाणत्वेन पश्यति । तथा चोच्यते--`सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः' इति । तिरश्चां च जातमात्राणां तन्मूल एव व्यवहार इति न तदपह्नवेन आत्मा वञ्चनीयः ।। 147 ।। <B2>

यथा द्रव्यविशेषाणां परिपाकैरयत्नजाः ।
मदादिशक्तयो दृष्टाः प्रतिभास्तद्वतां तथा ।। 148 ।।

<B2> सिद्धैव चेयं सर्वस्य प्रतिभेत्युपपादयितुमाह--
यथा द्रव्यविशेषाणां परिपाकव्यतिरिक्तयत्नान्तरनिरपेक्षा मदादिशक्तयो दृश्यन्ते, तथैवेयं प्रतिनियतसंस्कारजन्या प्रतिभावतां स्फुटमुपलभ्यत एव ।। 148 ।। <B2>

स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः ।
जन्त्वादयः कुलायादिकरणे केन शिक्षिताः ।। 149 ।।

<B2> जन्मान्तराभ्यासहेतुकेयमिति सनिदर्शनमुपपादयितुमाह--
पञ्चमस्वरविरावी मधुमासे पुंस्कोकिल इत्ययन्तजमेतत्सिद्धम्, लूताजन्तूनां कुलायरचना च प्रतिभामाहात्म्यादेव दृश्यते ।। 149 ।। <B2>

आहारप्रीत्यपद्वेषल्पवनादिक्रियासु कः ।
जात्यान्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ।। 150 ।।

<B2> एवदेव स्फुटयितुमाह--
प्रतिप्रण्याहारादिक्रिया नियताऽनादिप्रतिभावशादेवेति प्रसिद्धम् ।। 150 ।। <B2>

भावनानुगतादेतदागमादेव जायते ।
आसत्तिविप्रकर्षाभ्यामागमस्तु विशिष्यते ।। 151 ।।

<B2> प्रतिभायाश्च शब्द एव मूलमित्याह--
स चागमः कदाचिदासन्नोऽस्मिन्नेव जन्मन्यवगतः कदाचिज्जन्मान्तर इत्यासत्तिविप्रकर्षाभ्यां शब्द एव प्रतिभाहेतुः ।। 151 ।। <B2>

स्वाभावचरणाभ्यासयोगादृष्टोपपादिताम् ।
विशिष्टोपहितां चेति प्रतिभां षड्‌विधां विदुः ।। 152 ।।

केचिदाचार्य्या मन्यन्ते--काचित् स्वाभाविकी प्रतिभा । तद्यथा--परस्याः (प्रकृतेः प्र) थमं सत्तालक्षणमात्मानं महान्तं प्रत्यानुगण्यं सुषुप्तावस्थास्येव प्रबोधानुगुण्यं फलसत्तामात्रं निद्रायाः । चरणनिमित्ता काचित् प्रतिभा । तद्यथा--का (च) रणेनैवावधृतप्रकाशविशेषाणां (वसिष्ठादीनाम् ) ; अभ्यासनिमित्ता काचित् । तद्यथा -- कूपतटाकादीनाम् (कादिखनकानाम्) । योगनिमित्ता काचित् । तद्यथा--योगिनामव्यभिचारेण पराभिप्रायज्ञानादिषु । तथा काचिददृष्टनिमित्ता । तद्यथा रक्षः पिशाचादीनां परावेशान्तर्धानादिषु । काचिद्विशिष्टैरुपहिता । तद्यथा--सञ्जयादीनां कृष्णद्वैपायनादिभिः ।
एवं प्रतिभा बहुविधाऽपि सर्वैवागमिकवाक्यनिबन्धना वाक्यप्रतिपाद्या व्याकरणात्ययेऽपि सर्वशक्तिप्रत्यस्तमये प्रत्यस्तमितनिविष्टशब्दशक्तिबीजकारणाऽन्तर्भूता निबद्धबीजा वृत्तिकाले प्रथमं सूक्ष्मेणापि वर्त्मना विवर्तमात्रामनुभूय क्रमेण वर्णवाक्यनियताभिरव्यवस्थाभिः संमूर्च्छती प्राप्तबीजपरिपाकाकारापुनः पुनर्व्यक्तेन रूपेण प्रत्यवभासते ।। 152 ।।
<B2> तस्याश्च निमित्तभेदेन षाड्‌विध्यं दर्शयितुमाह--
स्वभावेति । स्वभावेन यथा कपिः । चरणादिषूदाहरणान्यूह्यानि । एवमखण्डेऽपि वाक्येऽभ्युपगते पदपदार्थप्रविभागमन्तेरण व्यवहारो न निर्वहतीति पदार्थः सामन्येन मतभेदप्रदर्शनपूर्वकं निर्णोतः ।। 152 ।। <B2>

यथा संयोगिभिर्द्रव्यैर्लक्षितेऽर्थे प्रयुज्यते ।
गोशब्दो न त्वसौ तेषां विशेषाणां प्रकाशकः ।। 153 ।।

आकारवर्णावयवैः संसृष्टेषु गवादिषु ।
शब्दः प्रवर्तमानोऽपि न तानङ्गीकरोत्यसौ ।। 154 ।।

द्रव्यपदर्थिकस्य जातिपदार्थिकस्य वा शब्दप्रवृत्तिकाले शब्दार्थविलक्षणभूतोऽर्थः प्रथममपि प्रतीयमानेन शब्देनोपगृह्यत इत्येष पक्षः । तद्यथा--गवादीनां नियतस्वामिविशेषाणां पयोदानादिसंयोग्युपलक्षणानि परिच्छेदार्थमप्युपादीयमानानि नाभिधेयत्वेन श्रुतिभिः प्रकाश्यन्ते । तथैकादिप्रकाशादिभि (तथाकारादिभिः) (?) रुपलक्षणैर्निय (सं) सृष्टेष्वाकाराद्यः प्रतिपत्तिहेतुत्वेन आ... म.. पि (आद्याया मध्यया वापि) बुद्ध्या परिगृह्यमाणाः शब्दाभिधेयत्वं न प्रतिपद्यन्ते ।। 153 - 154 ।।
<B2> इदानीं मुख्यनान्तरीयकविभागेन पदार्थविचारोपक्रममाह--यथेति । इह शब्दस्य सामान्यं वाजप्यायनमतेनार्थः, व्यक्तिर्वा व्याडिमतेनार्थः । तत्रेह सामान्यमात्रं वा व्यक्तिमात्रं वा तस्य प्रयोजकर्थत्वेनावबुध्यते, विशेषास्तु नान्तरीयकतयाततोऽवगम्यन्ते ततः शब्दस्यादृष्टव्यभिचारं सामान्यम्त्रमेवार्थः । यथा संयोगिनो द्रव्यविशेषाः सूक्ष्मा मण्यादय उपलक्षणामात्रभावेन गवादीनामर्थानां स्थिता न गवादिशब्दवाच्या भवन्ति तथान्तरङ्गा अप्याकारवर्णसंस्थानादय इति न तेषामसौ प्रकाशक उच्यते ।। 153 । एतदेव स्फूटीकर्तुमाह--आकारेति । आकारादयो व्यभिचारित्वाच्छब्दवाच्या न भवन्तीत्यर्थः ।। 154 ।। <B2>

संस्थानवर्णावैवर्विशिष्टे यः प्रयुज्यते ।
शब्दो न तस्यावयवे प्रवृत्तिरुपलभ्यते ।। 155 ।।

संस्थानविशिष्टोपक्रमः परिमण्डलो दीर्घश्चतुरस्त्र इति तदवयवो नाभिधीयते । तथा मुष्टिग्रन्थिसन्धि......(सक्तकुण्लइकादयः शब्दास्तदवयवेषु न प्रयुज्यन्ते । वर्णशब्दानां चित्रः कल्माषः सारङ्ग इति तदवयवेष्वप्रवृत्तिः । अवयवशब्देन शतं सहस्त्रं प्रस्थो द्रोणो मासः संवत्सर इत्यादयो गृह्यन्ते । अवयवे गृह्यमाणे जातिरभिषक्ताऽतस्तावति विषये जातिप्रयुक्तः शब्दः प्रवर्तत इति । क्वचिदेव हि दृष्टे कदाचिद्दन्तशृङ्गे खुरादावप्ययं गौरिति प्रयुज्यत एव । तथा वृको वा ग्राम्यसूकर इति । यतः कश्चिदवयवोऽनेन लक्ष्यत इति तदेतन्न्यायापेतं दर्शनमित्यपरे मन्यन्ते । कथम् ? यदि जातिमात्रवाची शब्दः स जातिभावमेव प्रत्यायति, किं तत्रोपव्यञ्जनैः ।। 155 ।।
<B2> नन्वाकारवाचरकानां स्थूलह्रस्वकर्बुरशबलादीनां शब्दानां किमाकारादिवचकत्वं नाङ्गीकार्यमेवेत्याशङ्क्याह--संस्थानेति । स्वशब्दैराकारादय उच्यन्त एवेति न सर्वत्र वयं तदप्रतीतिं ब्रूमः, यद्धि प्रयोजकं शब्दस्य तदेव तस्य वाच्यम् , अन्यन्नान्तरीयकमिति ब्रूमः । अत आकारादिवाचकानां नावयवमात्रे एकदेशमात्रे प्रवृत्तिरङ्गीकार्या, अतः शब्दैरर्थस्य क्कचिद्विशेष उच्यते, क्कचित्सामान्यमात्रम् ।। 155 ।। <B2>

संख्याप्रमाणसंस्थाननिरपेक्षः प्रवर्तते ।
बिन्दौ च समुदाये च वाचकः सलिलादिषु ।। 156 ।।

यत्राकृतिनिरपेक्षं सामान्यस्य रूपावधारणं तत्र यावदेव भवति तावदेवाभिधीयते शब्देन । तथा चोक्तम्--केवलं घृतमिति बिन्दावपि भवति खार्यामपीति ।। 156 ।।
<B2> ततश्च शब्दोऽपरामृष्टविशेषे वस्तुमात्र एव प्रवर्तत इत्याह--संख्येति । एकापि जलकणिकाऽऽपो बहुलमपि सरित्स्त्रोतस्तथैवोच्यते , एकापि शिला शुक्ला हिमवानपि शुक्ल इति शब्दाः प्रयोजकमात्रमेव जात्यादिकं स्वार्थोकृत्य प्रवर्तन्ते, आकारादिविशेषावभासस्तु नान्तरीयक इति स्थितम् ।। 156 ।। <B2>

संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः ।
आहैकदेशं तत्त्वेन तस्यावयववर्तिता ।। 157 ।।

इह संस्कारपक्ष उपघातपक्षो वा यदा कस्मिंश्चिन्निर्ज्ञातेऽर्थं शब्दप्रवृत्तौ व्यवस्थितः, तदावयवोपयोगापेक्षायामिदमुपन्यस्तम् । यत्तत्काकेनोपहतं तदनेन भुक्तम् । यद्वा यादतुरार्थं संस्कृत तद्देवदत्तेन पीतमिति सामानाधिकरण्यमुद्देशप्रतिनिर्देशयोरिति ।। 157 ।।
<B2> ननु समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते;यथा तैलं भुक्तं;घृतं भुक्तं, शुक्लो नीलः कपिश इत्युक्तं तदेतत्कथम् । उक्तं च--
न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः ।
ते जातिगुणसंबन्धभेदमात्रनिबन्धनाः ।।
तथा--
"नेक्षिता जातिशब्दानां समुदायानुपातिता ।
जातिम्चक्षते ते हि व्यक्तीर्वा जातिसंगताः ।। " इति । इह च --
"संख्याप्रमाणसंस्थाननिरपेक्षः प्रवर्तते ।
बिन्दौ च समुदाये च वाचकः सलिलादिषु ।।" इति ।
तदेतदाशङ्‌क्याह--संस्कारादीति । संस्कारोपघातादिपरिच्छिन्ने तैलादौ तैलघृतादिः शब्दो व्यवथितोऽसावेकदेशं समुदायाध्यारोपेणाह ।
एतदुक्तं भवति--न ते जातिशब्दाः , अपि तु तत्सदृशा एव ते नियतपरिमाणाभिधायिनस्तदध्यारोपेण तदेकदेशवाचिन उच्यन्त इति ।
अतस्तेषामवयववर्तिता भाष्य उक्तेति न कश्चिद् दोषः । उक्तं च--
"संस्कारादुपघाताद्वा वृत्तोऽक्तपरिमाणके ।
तैलादौ जातिशब्दोऽत्र समत्वादवगम्यते ।। "इति ।। 157 ।।
(वाo 4-3 वृत्ति o 488)

येनार्थेनाभिसंबद्धमभिधानं प्रयुज्यते ।
तदर्थापगमे तस्य प्रयोगो विनिवर्तते ।। 158 ।।

प्रयुज्यते शब्द इत्यन्ये, तत् प्रयोजनस्याभिधेयस्य नियतं लक्षणमाचक्षते ।। 158 ।।
<B2> एतदर्थं परमार्थत इदं बोद्धव्यमित्याह--येनार्थेनेति । येनार्थेन जात्यादिना प्रयोजकेन ।। 158 ।। <B2>

यांस्तु संभविनो धर्मानन्तर्नोय प्रयुज्यते ।
शब्दस्तेषां न सान्निध्यं नियमेन व्यपेक्षते ।। 159 ।।

ये शब्दस्याप्रयोजकाः प्रयोजकसहकारिणः सम्बन्धिनः शब्दप्रवृत्तिकाले पदार्थैकदेशभूता इवोपलभ्यन्ते, तेषां सान्निध्यमसान्निध्यं वा शब्दप्रवृत्तावकारणम् ।।159।।
<B2> वक्तुरिच्छया धर्मान्तर्भावनेन तु प्रयुज्यमानोऽपि शब्दो न तेषां सर्वेषां नियमेन प्रत्यायनं करोतीत्याह--यांस्विति ।। 159 ।। <B2>

यथा रोमशफादीनां व्यभिचारेऽपि दृश्यते ।
गोशब्दो न तथा जातेर्विप्रयोगे प्रवर्तते ।। 160 ।।

शृङ्गरोमसफादीनां (नाम) प्रयोजकानामसान्निध्येऽपि गोशब्दस्य मुख्या प्रवृत्तिः । गोत्वेन प्रत्यये तु जातिविशिष्टे जात्याश्रये द्रव्ये वर्तते । तत्रावयविप्रवर्तनायामवयवेषु `अभक्ष्यो ग्रामसूकरः' इत्यत्र भक्षयतिक्रिया तथाभूतमेव साधनभूतं द्रव्यावयवमपेक्षते । दृष्टा च विकारे च प्रकृतौ च प्रकृतिशब्दप्रवृत्तिः । अवयवे च समुदाये च समुदायशब्दप्रवृत्तिदर्शनम् ।। 160 ।।
<B2> एतदेवान्वयव्यतिरेकाभ्यां स्फुटीकुर्वन्नाह--यथा रोमेति ।। 160 ।। <B2>

दुर्लभं कम्यचिल्लोके सर्वावयवदर्शनम् ।
कैश्चित्त्ववयवैर्दृष्टैरर्थः कृत्स्नोऽनुमीयते ।। 161 ।।

नहि परिपूर्णावयवं कश्चित् कलापं प्राकृतदर्शनो ह्यवि (कलं) प्रतिपद्यते । तत्र केषाञ्चिदवयवानां ग्रहणे व्यक्ति (क्ति) जातीयोऽवयवी निर्धार्यते । तद्यथा--गवादीनां पूर्वार्धस्यापरार्धस्य वा दर्शने । क्वचित्तु सन्देहो नैव निवर्तते । तद्यथा--दधिमात्रदर्शने । पटप्रावरणादिदर्शने त्ववयवा दृश्यमाना नियता नियतानुमानहेतवो भवन्ति । तत्रापि केचिज्जात्यन्तरनिवृत्त्यर्थायां श्रुतौ श्रुतिपक्षस्य मन्यन्ते, केचिद्देसान्तर्भूतेभ्यस्तेभ्योऽवययेभ्योऽनुमानात् स्वविषये शब्दाः प्रवर्तन्त इत्याचक्षते ।। 161 ।।
<B2> एवं च न शब्दस्यैवंरूपं (वाच्यं) प्रत्यक्षमप्यर्थसाक्षात्कारोपनायकमेवमेवार्थत्वरूपपरिच्छेदकं दृष्टमित्याह--दुर्लभमिति । युगपत्सर्वावयवदर्शनस्यासंभवात् कतिपयावयवदर्शनेन सकलार्थपरिच्छेतस्तानुमानिक एवेति प्रत्यक्षमपि नैव सकलमर्थस्वरूपं परिच्छिनत्ति ।। 161 ।। <B2>

तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् ।
नित्यसंबन्धिनां दृष्टं गुणानामवधारणम् ।। 162 ।।

गन्धोत्पलबुद्ध्यनुमितो (जातिगन्धोत्पलगन्धबुद्ध्यनुमितितो) हि जात्युत्पलादिषु यः शब्दः प्रयुज्यते, न स गन्धमात्रमाश्रित्य गन्धसमवायं वा द्रव्यमात्रं प्रत्ययति, सहचारीणि गुणान्तराण्यपि तत्रानुमीयन्ते । न च तद्वाचिनः शब्दा दृष्टे सहचारिण्यनुमानेन हेतौ प्रवर्तन्त इत्यभ्युपगम्यन्ते । केषाञ्चित् समुदायवाचि (दि) नामुत्पलादिशब्दवाच्यत्वमिति संख्याप्रमाणसंस्थानजनकत्वेन विना गावदिषु गोशब्दस्य विषाणादिसन्निधिप्रयुक्ताभिमुख्य प्रवृत्तिर्दृश्यते ।। 162 ।।
<B2> तथैव शब्दादेकदेशावसायेन नित्यसहचारिधर्मान्तरावगमो जायत इत्याह--तथेति । जातिगन्ध उत्पलगन्ध इति शब्दाद्विशिष्टस्य गन्धमात्रस्यावगतिः, तत्सहचारिरूपस्पर्शाद्यवधारणं तत्र नान्तरीयकं न मुख्यमिति बोद्धव्यम् ।। 162 ।। <B2>

तस्मात् संभविनोऽर्थस्य शब्दात् संप्रत्यये सति ।
अदृष्टविप्रयोगोऽर्थः सम्बन्धित्वेन गम्यते ।। 163 ।।

तस्मात् संप्रतीयमानोऽपि सहचारिणः (चारी) संभविनः (वी न ) शब्दार्थ इति विज्ञायते । नहि तथाभूतेनार्थत्मना शब्दस्य सम्बन्धोऽपि युज्यत ।। 163 ।।
<B2> उपसंहर्तुमिदानीमाह--तस्मादिति नैयत्येनादृष्टविप्रयोगो जात्यादिरेव शब्दस्य सम्बन्धित्वेन वाच्यत्वेन गम्यत इति बोद्धव्यम् ।। 163 ।। <B2>

वाचिका द्योतिका वा स्युर्द्वित्वादीनां विभक्तयः ।
स्याद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः ।। 164 ।।

विना संख्याभिधानाद्वा संख्याभेदसमन्वितान् ।
अर्थान् स्वरूपभेदेन कांश्चिदाहुर्गवादयः ।। 165 ।।

यथैव वाक्यात् पदार्थप्रविभागेण व्यवहारः क्रियते, तथा पदादपि प्रकृतिप्रत्ययापोद्धारेण शास्त्रे भूयान् व्यवहारो दृश्यते ।
तत्र केचित्तावन्मन्यन्ते--सत्येवान्वयव्यतिरेके यावानेवान्वयव्यतिरेकाभ्यामर्थः समधिगम्यते तावानेवास्ति, न तु कश्चिदन्यः समुदायार्थः । स तु समुदायार्थः पदस्य वाक्यवदशब्द इति ।
न्यायविदस्तु मन्यन्ते--स्वबुद्धिपरिकल्पितसमर्थापिता एव शिष्टैर्बहुधा प्रकृतिप्रत्ययादयः । तेषां चार्थाः शास्त्र एवमाचार्यार्थे निमित्तभूता अन्वयव्यतिरेकाभ्यां व्यावहारिकाभ्यां कृतप्रविभागा एवाश्रीयन्ते । कथं बुद्ध्योरर्थप्रतिपादनोपायमात्रमेतत् । सर्वथा च प्रतिपत्तौ लौकिकस्यार्थस्य भेदो नास्ति ।
तथा हि केषाञ्चित् स्वार्थद्रव्यलिङ्गसंख्याकर्मादयः प्रातिपदिकेनाभिधीयन्ते, द्योतिकास्तु कर्मादीनां विभक्तयः ।
केषाञ्चित् स्वार्थद्रव्यलिङ्गमात्राभिधायिनी प्रकृतिः, वाचिकाः संख्याकर्मादीनां विभक्तयः । प्रातिपदिकार्थे विकल्पेन संख्याकर्मादीनां यथासंभवमभिधानं विज्ञायते ।
लिङ्गमपि केषाञ्चिद् द्योत्यं केषाञ्चिदभिधेयम् । द्योतनमपि द्विविधम्--अनाविर्भूताविर्भावनम्, अव्युदासप्रसङ्गे वा प्रकारान्तरव्युदासेन कस्यचिदवधारणम् । तद्यथा--प्रतिष्ठते उत्पुच्छयतेऽभिमनायत इति । तदपि प्रसिद्धाप्रसिद्धावियुतप्रयोगाणाम् । उपास्ते, प्रपचति, अधीते, अध्येतीति यथा । सहाभिधानं वा । यावको गोपायिता ब्राह्मणाधीनं जुगुप्सत इति ।। 164 ।।
अथवा संख्यावतोऽर्थस्याविभक्तोद्‌देशः समुदायः संसृष्टानेकशक्तिरभिधायकः । विना संख्याभिदानेन शब्दप्रवृत्तिकाले तैस्तैरभिधीयमानैः संख्याविशेषैः काककण्ठे गुणकम्बलादिवनीयैः (वदनित्यैः) परिच्छिन्नास्तद्वन्तोऽर्थाः स्वरूपभेदयुक्तैः समुदायैरभिधीयन्ते ।। 165 ।।
<B2> एवं नामपदस्यार्थविचारं कृत्वेदानीं तस्यैव भागार्थविचारं प्रस्तौति । तत्र प्रत्ययभागस्यार्थविचारं तावदाह--वाचिकेति । तेन प्रत्ययभागस्य संख्याकर्मादयो वाच्यत्वेन द्योत्यत्वेन वार्था इति ज्ञेयम् । इदानीं प्रकृतिभागस्यार्थमभिधातुं (प्रकृतिभागस्य प्रत्ययभागस्य चानर्थक्यमभिधातुं) प्रकृतिप्रत्ययसमुदाय एव संख्यादिविशिष्टस्यार्थस्याभिधायक इत्याह--स्याद्वेति । अथवा संख्याद्युपलक्षितमेवार्थं प्रकृतिप्रत्ययसमुदायोऽभिधत्त इत्यभिधातुमाह--विनेति । स्वरूपभेदेन द्वित्वादिभेदेनेत्यर्थः ।। 164 - 165 ।। <B2>

ये शब्दा नित्यसम्बन्धा विवेके ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां तेषामर्थो विभज्यते ।। 166 ।।

भिन्नेषु कूपयूपादिवत्समुदायेषु यथायथं शब्देषु नित्यसम्बन्धेषु परिकल्पितानामवयवानां सम्बन्धिभिरव्यभिचरितसम्बन्धानां बुद्ध्या कृतापोद्धारप्रविवेकाणां रूपभेदप्रत्ययपरकल्पप्रत्ययविषयाणामौपचारिकाभ्यां प्रतिपादनार्थमन्वयव्यतिरेकाभ्यामभिधायकत्वेन द्योतकत्वेन वा व्यभिचार (री) प्रविभागः क्रियते ।। 166 ।।
<B2> ननु यदा शब्दा नित्यसम्बन्धा विवेकेन ज्ञातशक्तयः स्वार्थस्य प्रतीतौ तदा कथमेतदवगतमयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इत्याशङ्क्यापोद्धारस्यान्वयव्यतिरेकौ निमित्तमिति प्रतिपादयितुमाह--य इति ।
विवेके सति शब्दार्थविभागे कृते सति च प्रतिपदिके प्रत्यये चासत्येकत्वादिविरहितं वृक्षत्वमात्रमवगम्यत इत्येवमन्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययार्थप्रविभागो व्यवस्थाप्यते ।। 166 ।। <B2>

यत्र चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् ।
नियमस्तत्र न त्वेवं नियमो नुट्‌शबादिषु ।। 167 ।।

अन्वययव्यतिरेकावर्थरूपविषयावनुगम्यमानावव्यभिचारेण यावदनुगन्तुं शक्येते तावदनुगम्येते । कूपयूपसूपेषु तु यूपसमन्वयेऽप्यर्थासमन्वयान्नानुमन्येते । `त-थास्'शब्दादीनाम(न्व) र्थसंज्ञाप्रतिपादितेऽपि प्रत्ययत्वे लिङादिष्वदर्शनादन्वयव्यतिरेकाभ्यामर्थो न प्रकल्प्यते । तत्रापि कैश्चिदेकत्वादिनिबन्धनत्वमेव तिङामभ्युपगम्यते । तथा कैश्चित् स्यति स्यतः स्यन्ति इत्येकमेव प्रत्ययरूपमन्वाख्यानेन प्रतिपादितम् । भाष्येऽपि भूशब्दः प्रकृतिः, अतिशब्दस्तु प्रत्यय इत्युक्तम् । अधुनादीनां चापे..(चापक्षीणरूपाणां) ण रूपाणां व कश्चिदर्थः प्रकल्पितः । केवलं त्वर्थवतो ह्यागमस्तद्‌गुणीभूतस्तद्‌ग्रहणेन गृह्यत इत्युक्तम् ।। 167 ।।
<B2> तत्रापि शक्यत्वाशक्यत्वाभ्यामन्वयव्यतिरेकावाश्रित्य तत्प्रतिपादनं कर्तव्यमित्याह--यत्र चेति ।
यत्रान्वयव्यतिरेकावुपलभ्येते तत्रैव नियमः, न त्वशक्ये विषय इत्याह--नियम इति । भवतामत्तीत्यादावसति शब्नुडादावर्थदर्शनाद् वृक्षाणां पचतीत्यादौ तस्य साहाय्यमात्रं स्थापितं न पृथगर्थतेति । उक्तं च--"भावकर्मकर्तारः सार्वधातुकार्था इति चेदेकद्विबहुषु नियमानुपपत्तिरतदर्थत्वात्, विकरणार्था इति चेत्, कृताभिहितेषु विकरणाभावः" (3-1-67 भाष्यं द्र o ) इति ।। 167 ।। <B2>

सम्भवे वाभिधानस्य लक्षणं तु न कल्प्यते ।
आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ।। 168 ।।

अभिधानसंभवे सति यः कश्चिदपि शब्दाभिधेयमर्थमभ्युपगच्छति, न तस्य लक्षणभावाभ्पुपगमो युक्तः । शब्दसामर्थ्यमेवं सति बाधितं स्यात् । इच्छातश्च सर्वस्य लक्षणत्वमभ्युपगम्येत । तस्मादागमे यस्य सम्प्रत्ययः स तस्याभिधेयत्वेन व्यवस्थाप्यते ।
यद्यपि केवलानां प्रयोगेष्वदृष्टः (प्रयोग इ) त्य (व्यभिचार) संसर्गादिप्रविभागा इवावस्थिताः शक्तयः, तथापि त्वासामितरेतरानपेक्षैवाभिव्यक्तिरभ्युपगम्यते । प्रतिनियमेन कृतविभागा व्यवस्थिताः शब्दानां शक्तयः प्रतिज्ञायन्ते ।। 168 ।।
<B2> यत्र तु पृथगेव तयोः प्रकृतिप्रत्यययोरर्थवत्त्वं दृश्यते, तत्र पृथगर्थाभिधानमेवाङ्गीकार्यम्, न तूपलक्षमार्थत्वं कल्पनीयमित्याह--संभव इति ।
प्रकृतिप्रत्यययोः पृथगर्थाभिधानसम्भवे प्रकृत्यर्थ एव पदवाच्यः प्रत्ययार्थस्तूपलक्ष्यमाणः, प्रत्ययार्थ एव पदवाच्यः प्रकृत्यर्थस्तूपलक्ष्यमाण इति न युक्ता कल्पना ।
ननु यदि प्रकृतिप्रत्यययोः पृथक् पृथगर्थमभिधातुं शक्तिरस्ति तत्किमिति परस्परापेक्षितया स्वार्थाभिधानमित्याह--आपेक्षिक्य इत्यादि । यस्मात् संसर्गे प्रकृतिप्रत्ययार्थयोः शब्दशक्तयोऽन्वयव्यतिरेकापेक्षिता नियता एव प्रातिस्विक्य एव प्रतीयन्त इति ।। 168 ।। <B2>

न कूपसूपयूपानामन्वयोऽर्थस्य दृश्यते ।
अतोऽर्थान्तरवाचित्वं संघतस्यैव गम्यते ।। 169 ।।

यदि तर्हि यावत्किञ्चित्तुल्यरूपं तस्यैकत्वमभ्युपगम्यते, यावांश्च भिन्नोऽर्थः सर्वोऽसौ भिन्नरूपनिबन्धनः प्रतिज्ञायते सत्यपि सम्बन्ध्यन्तराभेदे, तथा सति कूपसूपयूपेषु योऽयमर्थभेदः स वर्णमात्रनिबन्धनः प्रयुज्यते । स्यादेतदेवं यदि भेदाभेदावत्र विषये स्याताम् । न त्वभिन्नमस्ति यदूपशब्दोऽनूपतद्विभागव्यवस्थां कुर्यात् । तस्यान्वयाभावाद् विषयाप्रविभागेणाव्यतिरेकेण व्यवतिष्ठत इत्यर्थान्तरनिबन्धनत्वमविभक्तावयवार्थानां समुदायानामाश्रीयते ।। 169 ।।
<B2> यत्र त्वपेक्षायामपि न पृथगर्थतोपलभ्यते तत्रापोद्धारो नाश्रयणीय इत्याह--न कूपेति । नह्येकापगमे क्कचिद् या काचिदर्थानां वेदनोपजायते ।। 169 ।। <B2>

अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु ।
बहूनां सम्भवेऽर्थानां निमित्तं किञ्चिदिष्यते ।। 170 ।।

लौकिकस्याभिधेयस्याभेदेन सव्यापारमुपलक्षणभूतं वा निमित्तमुपादायोपादाय विशिष्टैः साधुविषयाणि निपातनेन लभणेन वा क्रियामाणशब्दव्युत्पत्तिकर्मसु बहुधा भिन्नान्यन्वाख्यानानि दृश्यन्ते । अनेकशक्तियुक्तेऽर्थे या काचिन्निमित्तभावेनाश्रीयमाण शक्तिः साधुत्वान्वाख्यानेऽङ्गत्वं प्रतिपद्यते । तद्यथा वृञ्लुटितनिताडिभ्य उलच् तण्डश्च । शक्यो ह्यन्येभ्योऽपि धातुभ्यः शब्दव्युत्पत्तिकर्मण्युलच्‌प्रत्ययो विधातुं तण्डादेशश्च कर्तुमिति ।। 170 ।।
<B2> तदेवं शक्याशक्यावन्वयव्यतिरेकावाश्रित्यापोद्धारेणान्वाख्यानं पदभागयोः कार्यमित्युक्तम् । ततश्च किं सनिमित्तमथ निर्निमित्तमेवेत्याशङ्‌क्य सनिमित्तमेव पदभागयोः पदस्य चान्वाख्यानं कार्यमितीदानीमुपपादयितुमाह--श्रन्वाख्यानानीति ।
यत्र खलु बहूनि निमित्तानि सम्भवन्ति तत्र किञ्चिदेवानैयत्येनाश्रित्यान्वाख्यानं क्रियत इत्युच्यते ।। 170 ।। <B2>

वैरवासिष्ठगिरिशास्तथैकागारिकादयः ।
कैश्चित्कथाञ्चिदाख्याता निमित्तावधिसङ्करैः ।। 171 ।।

वीरकर्म वैरम्, वीरेषु भवं वैरम्, वसिष्ठेन दृष्टं प्रोक्तं वा वासिष्ठम्, वसिष्ठशब्दोऽस्मिन् वर्तत इति वासिष्ठम् गिरौ डश्छन्दसि गिरिशः, गिरौ शोत इति वा, गिरौ शिरा (शिरो यस्य) इति वा, ऐकागारिकट् चौरे, ऐकास्सोढाहिंसोरैकागारितत्विति (एकागारं सोढा, एकमसायमगारं प्रयोजनमस्य जिघांसोरैकागारिक इति, मुमुषिषोः) ऐकागारिक इति वा । तथा तप्पर्वमरुद्भ्याम्, ददाति, वृत्तं चेति निमित्तभूतानामर्थानां प्रकृतिप्रत्ययावधीनां वाऽनियमेनान्वाख्यातारः प्रवृत्ताः ।। 171 ।।
<B2> एतदेव दर्शयितुमाह--वैरेति । वीरस्येदं वैरं वीराया वा, तथा वसिष्ठस्येदं वसिष्ठेन कृतं प्रोक्तं वा वासिष्ठम्, गिरौ शेते इति `गिरौ डश्छन्दसि' (3-2-15 वाo) इति डप्रत्ययेऽथवा गिरिं श्यतीति `आतोऽनुपसर्गे कः' (3-2-3) इति के गिरिशः ; इत्येवं निमित्तावधिसाङ्कर्येणान्वाख्यानं कृतम् ।। 171 ।। <B2>

यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः ।
अविरुद्धं गवादीनां भिन्नैश्च सहचारिभिः ।। 172 ।।

एकस्य हि मार्गादेः प्रतिपत्तव्यस्यार्थस्य कश्चिदन्वाख्याता वृक्षेणान्वा ख्यानमपरो वल्मीकेनान्यः पर्वतादिभिः करोति । सर्वेषां हि तेषां सन्निधानात् प्रतिपादकत्वमप्रतिषिद्धम् । गवादीनां चार्थानां सम्बन्धिभिर्जातिगुणस्वाङ्गसंयोजनादिभः सर्वथा प्रतिपादनं क्रियते ।। 172 ।।
<B2> ननु नियतमेव निमित्तमत्र किञ्चिदुच्यतामित्याशङ्‌क्योपायानामनियतत्वादनियतमिति प्रतिपादयितुमाह--यथेति । यथा वृक्षादिभिर्भिन्नैरुपायभूतैरेव कस्यचित्पथः समाख्यानमविरुद्धं तथा गवादीनां शब्दानां भिन्नैरेव सहचारिभिरन्वाख्यानमिति बोद्धव्यम् ।। 172 ।। <B2>

अन्यथा च समाख्यनमवस्थामेददर्शिभिः ।
क्रियते किंशुकादीनामेकदेशावधारणात् ।। 173 ।।

कश्चिद्धि काञ्चिच्छक्तिं पश्यति । स यथादर्शनं तद्व्याचष्टे । पदार्थे वाक्यार्थे वा तुल्यरूपमपि पदं क्वचिदेव कयाचिच्छक्त्यानुग्रहं करोति । ततश्च वाक्यात् पदस्यापोद्धारे क्रियमाणे सा शक्तिर्निमित्तत्वेनाश्रीयते । नियतकालावधयो वा शक्तिविशेषाः प्रतिकालं केचिच्छब्दविशेषेणोपादीयमानाः साधुत्वे निमित्तत्वेनावतिष्ठन्ते । ते च प्रतिकालं तथैवान्वाख्यातृभिः शिष्टैः परिगृह्यन्ते । पर्य्यायेण समुच्चिता विरोधिन्य एकस्यापरिमाणाः शक्तयो रूपभेदं दर्शयन्ति, तत्र च विरुद्धैर्निमित्तैरुपलक्षणं किंशुकानामिव कालभेदे शक्तौ कस्याश्चिच्छब्दस्य व्यवस्थायां न विरुध्यते ।। 173 ।।
<B2> अर्थस्य चावस्थाभेदा बहवः सन्ति येन च योऽवस्थाभेदः परिदृष्टिस्तेनैवासौ तत्समाख्यानं करोतीत्याह--अन्यथा चेति ।
किंशुको नेति किंशुकशब्दं प्रयुञ्जत इति भिन्नमेव निमित्तम् ।। 173 ।।<B2>

कैश्चिन्निर्वचनं भिन्नं गिरतेर्गर्जतेर्गमेः ।
गवतेर्गतदेर्वापि गौरित्यत्रानुदर्शितम् ।। 174 ।।

यथैव हि (गवि) गमिक्रिया जात्यन्तरैकार्थसमवायिनीभ्यो गमिक्रियाभ्योऽत्यन्तभिन्ना तुल्यरूपत्वविधौ त्वन्तरेणेव गमिमभिधीयमाना गौरिति शब्दव्युत्पत्तिकर्मणि निमित्तत्वेनाश्रीयते, तथैव गिरति गर्जति गदतीत्येवदमादयः साधारणाः सामान्यशब्दनिबन्धाः क्रियाविशेषास्तैस्तैराचार्य्यैर्गोशब्दव्युत्पादनक्रियायां परिगृहीताः । व्युत्पत्तिवाक्यस्थेभ्यो व्या (ह्या) ख्यतपदेभ्यः सरूपान् वर्णानुपादाय तत्सङ्घात इव (प) थि पदमन्वाख्यायते यावद्धात्वर्थमात्रा सनादिभात्रा वा यास्वृक्षु वा (याज्यानुवाक्यास्वृक्षु वा) वाक्यार्थानुग्राहिणी लभ्यते । यथा ह्यादित्य इत्येकस्मिन्नेवाम्नायवाक्ये तद्धितार्थेनापत्येन सम्बन्धो दृश्यते । वाक्यान्तरसम्बन्धिनि तु तस्मिन्नादित्याशब्दे निर्वचनान्तराणि क्रियन्ते । यदि निर्वचनेषु विषयानपेक्षं व्युत्पत्तिमात्रं क्रियते, सर्वो रूढिशब्दः सर्वेभ्यो धातुभ्यो रूढानुगममात्रायां तण्डुलादिवच्च प्रकृत्यादेशान् कृत्वा व्युत्पाद्येत । सर्वत्र हि रूढ्यर्थे सर्वनिमित्तं सम्भवति ।। 174 ।।
<B2> एवदेव व्यक्तीकर्तुमाह--कैश्चिदिति ।
गोलक्षणस्यार्थस्य नानाविधा अवस्था दृष्टाः, तदनुगमेनैवार्थमाहुराचार्याः ।। 174 ।। <B2>

गौरित्येव स्वरूपाद्वा गौशब्दो गोषु वर्तते ।
व्युत्पाद्यते न वा सर्वं कैश्चिच्चोभयथेष्यते ।। 175 ।।

अपरे वाचार्य्या औक्थिक्यादयो गौः कस्माद् गौरित्येव गौरिति निर्वचनमाहुः । गोशब्दवाच्यो गोशब्देन नित्यसम्बद्धः । तस्माद् गौरिति वाक्यार्थे पदार्थमात्राशक्तिविशेषसन्निवेशनार्थं विश्ष्टं वक्ष्यामीति व्युत्पत्तिरारभ्यते । अजाश्वो वा पृथू(द) कं वा पादीयं भृत्यभरणीय इत्येवमादिषु । भाष्ये तु द्वावपि पक्षावेकेकस्मिन्नेव कार्यार्थमाश्रितौ । कश्चिद्धि परमार्थमेव निश्चित्य शास्त्रव्यवहारो व्यवतिष्ठते । कश्चित् साधुप्रतिपादनोपायं शास्त्रसमयमेवापेक्षते । शास्त्रगतो व्यवहारस्तत्रापरमार्थो धातुप्रत्ययादिभेददर्शनं च । एकत्वादिवृत्तिभेदस्तु तदा यो यथैव धातुरूपाणि तथायुभ्पगम्यते (भ्युपगच्छति) । व्यवहारपक्षे तु धातवोऽपि कैश्चिद्वर्णाश्च धात्वन्तरेभ्यो वर्णान्तरेभ्यश्च प्रकृतिप्रत्ययाद्यनुगमेव व्युत्पाद्यन्ते ।। 175 ।।<B2> एवं शब्दस्य प्रकृतिवाच्यमेव निमित्तं ततश्च बहुविधनिमित्तप्रदर्शनम् । इदानीं स्वरूपमेव शब्दानां प्रवृत्तिनिमित्तमन्वाख्यनायोपादीयत इति पक्षं प्रदर्शयितुमाह-गौरित्येवेति । अथ कस्माद् गौरित्युच्यते गौरित्येव हि गौर्गविवर्तत इत्यौक्थिक्याः । अतश्च स्वरूपमात्रप्रयुक्ताः सर्वे शब्दा इत्यव्युत्पत्तिपक्ष एवेत्याह--व्युत्पाद्यते न वा सर्वमिति । कैश्चित् स्वरूपं वाच्यं च निमित्तमुच्यत इत्याह--कैश्चिच्चेति । एवं सनिमित्तमन्वाख्यानं निमित्तं च वाच्यं बह्‌धा कैश्चित् कथञ्चित् किञ्चिदुक्तं स्वरूपं निमित्तमुभयमेव वेति दर्शितम् ।। 175 ।। <B2>

सामान्येनोपदेशश्च शास्त्रे लघ्वर्थमाश्रितः ।
जात्यन्तरवदस्यापि विशेषाः प्रतिपादकाः ।। 176 ।।

इह रूपानुगमेनार्थानुगमेन वा यावत्सामान्येनोपदेष्टुं शक्यते तावदुषदिश्यते । विशेषस्त्वर्थविषयो रूपविषयो वा जात्यन्तरयुक्तमिवान्यं शब्दमयमिव चार्थं प्रतिपादयति । तत्र यो रूढिविषयो गम्यर्थः, नासौ प्राकृते गमनमात्रे वर्तते । यथैव स्त्रवति स्प (स्य) न्दते प्लवते पतति गतिसामान्येऽपि पठिता गतिविशेषं सामान्यमात्रयाऽनुगम्यमानं स्वभावादवलम्बन्ते, तथा गौरित्यत्र प्रतिपत्तव्यम् । न चावश्यमत्र गमिः पादविहरणे क्रियते । एवं यावति (ती)रूढिशब्दार्थविशिष्टा क्रिया संभवति सर्वत्रानेकार्थत्वाद्धातूनां प्रवृत्तिरप्रतिषिद्धा गमेः । दृष्टं चेदं गुरुतल्पगादिषु व्यापारान्तरविषयत्वं गमेः । यथैव रूढिषु क्रियाणां फलरूपभेदस्तथा कारकभेदोऽपि । तस्माद्रूढिषु जात्यन्तरवत् सामान्याभिधानेऽप्यर्थान्तरप्रतिपत्तिरिति ।। 176 ।।
<B2> इदानीं किं भिन्नमेव रूपं शब्दस्य, आहोस्विदभिन्नमिति विचार्यते । यदि भिन्नमेव तदा गमनं गरलं गज इत्यादिषु गादीनां भिन्नत्वाद्भेदेनैवापादानं प्राप्नोति, ततश्चानन्त्यादश्क्यत्वमन्वाख्यानस्येत्याह--
शब्दभेददर्शने भिन्नानां सामान्यसमाश्रयेण लाघवादुपदेशः शास्त्रे क्रियते, विशेषा ये तेऽस्यैव जात्यन्तरवत् प्रतिपादका उच्यन्ते ।। 176 ।। <B2>

अर्थान्तरे च यद् वृत्तं तत्प्रकृत्यन्तरं विदुः ।
तुल्यरूपं न तद् रूढावन्यस्मिन्ननुषज्यते ।। 177 ।।

ये रूढिविषया गम्यदयः प्रकृत्यन्तराण्येवैतानि । कर्मकर्तृविषयवत् सत्यपि तुल्यविषयरूपत्वेऽत्यन्तभेदान्न रूढिविषयाणामरूढिष्वरूढिविषयाणां वा रूढिषु कश्चिदनुषङ्गो विद्यते ।। 177 ।।
<B2> एतदेवाह--
रूढौ च तुल्यरूपं स्वरूपेणान्यस्मिन्ना नुषज्यते । तत्त्वतस्तद्भिन्नमेव सादृश्यात्तत्रैकत्वं मन्यते । परमार्थतस्तु भिन्नाः शब्दा गवादयः ।।177।। <B2>

भिन्नाविजियजी धातू नियतौ विषयान्तरे ।
कैश्चिद् कथञ्चिदुद्दिष्टौ चित्रं हि प्रतिपादनम् ।। 178 ।।

यथैव हि रूपसामामान्ये सत्यपि स्वभावसिद्धो रूढिष्वर्थभेदस्तथार्थानुगमसामान्ये सत्यपि शास्त्रे च स्वरूपसामान्यपरिग्रहणोपदेशे कृतेऽपि यजेरन्य एवेजिः किद्विषयः । अस्तेश्चान्यदेव समात्रं स्तः सन्तीत्यन्यदेव विशिष्ट विषयम् । एतदपि च सर्वं परमार्थप्रतिरूपकं व्यावहारिकमेव दर्शनम् । नहि धातुरूपं परमार्थेन किञ्चिद्विद्यते व्यवहारस्तु कैश्चित् क्रियते । केचिदस्ति सकारमात्रमातिष्ठन्ते, तस्य त्वकारागमो विषयविशेषे तैर्विधीयते । तद्यथा निग...न्तीति प्रकृत्यन्तरं गत्यर्थेषु निरुक्ते पठ्यते । तथाऽऽहिधातुं पञ्चपदविषयमन्ये वचनार्थ पठन्ति । त (द्य) था--
गौ(ग्लौ) रिवासितपक्षस्य सा (ऽ) मुदे चारुहासिनि ।
अ(आ)हेः पञ्चपदानीव त्वमेव शरणं मम ।। इति ।
इजेरकृत (रकित्स्वादे) स्वादेर्यशब्दमेके कुर्वन्ति । चित्रा हि प्रतिपादनोपायाः ।। 178 ।।
<B2> स्वतश्च यजिर्भिन्न एवेत्याह--भिन्नाविति ।
अन्यो यजिरन्य् इजिरिति नियतौ बोद्धव्यौ । इजिः कित्येव यजिस्तु तदितरस्मिन्निति । आचायः पुनः क्कचिद् भेदाश्रयेण निर्दिष्टौ क्कचिदभेदेनेति प्रतिपादयितुमाह--कैश्चिदित्यादि । कश्चिद्यजेः किति सम्प्रसारणं शास्ति--इष्टः, इष्ट्‌वेति । तृजादौ तस्य तन्नच्छति--यष्टा यष्टुं यष्टव्यमिति । कश्चिदिजिमेवोपदिशति, तस्य तृजादौ यादेशं विदधातीति प्रतिपादनवैचित्र्यम् ।। 178 ।। <B2>

एवं च बालवायादिजित्वरीवदुपाचरेत् ।
भेदाभेदाभ्युपगमे न विरोधोऽस्ति कश्चन ।। 179 ।।

वैयाकरणा हि व्यवस्थितेषु समुदपेषु परिकल्पितमवयवं व्यवस्थापयन्तः प्रकृत्यन्तरं वा विदूरशब्दं शास्त्रस्य व्यवहारविषयमलौकिकं जित्वरी वदुपाचरन्तो व्याचक्षीरन् । बालवायशब्दस्य वा तुल्यार्थं विदूरशब्दमादेशं कुर्युः । नहि (अ) भेदेनादेशाभ्युपगमे प्रकृत्यन्तरस्य वा नियतविषयस्य प्रतिज्ञाने लौकिकस्यार्थस्य समुदायशब्दस्य वा कश्चिदपि भेदो विद्यते ।। 179 ।।
<B2> अवस्थाभेदाश्रयेणापि प्रतिपादनं दृश्यत इत्याह--एवं चेति ।
इह विदूरात् प्रभवति वैदूर्य इति वैदूर्यशब्दं व्युत्पादयन्ति । न च विदूरादसौ प्रभवति । बालवायादुत्पन्नो विदूरे केवलं संस्क्रियते, तत्रोक्तम्--
बालवायो विदूरं च प्रकृत्यन्तरमेव वा ।
न वै तत्रेति चेद् ब्रूयाज्जित्वरीवदुपाचरेत् ।। इति ।
बालवायो वृत्तिविषये विदूरमापद्यते, ततश्च बालवायात् प्रभवति वैदूर्यो मणिरिति सिद्धम् । अतो बालवायविदूरयोरभेदोऽभ्युपगतः । अथवाऽन्यो वृत्तिविषये विदूरशब्द उच्यते । यथा वणिग्भिर्वाराणसी जित्वरीति । आदिशब्दाद्विश्रवणरवणशब्दाविति भेदोऽवगन्तव्यः । अतोऽभेदाभ्युपगमे भेदाश्रयणे वा न कश्चिद्दोषः । भेदपक्षाश्रयणे च सामान्यमाश्रित्य लाघवेनोपदेशः क्रियते । अभेदपक्षे त्वभिन्नरूपसमाश्रयणेनैवेति न किञ्चिदवद्यम् ।। 179 ।।<B2>

अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः ।। 180 ।।

तथाहि संग्रामयतेः सोपसर्गाद्विधिः स्मृतः ।
क्रियाविशेषाः संघातैः प्रक्रम्यन्ते तथाविधाः ।। 181 ।।

क्रियाविशेषविषया हि धातवः कार्यार्थं भेदेनोपदिष्टाः । निवासयत्यास्फोटयति जुगुप्सते मूत्रयतोति ल्यब्‌द्विर्वचनादीनि विभागे सतीष्टां व्यवस्थां लभन्ते । `संग्राम युद्धे' इति क्रियाविशेषवाची सम्पूर्वः सङ्घात एव प्रक्रम्यते । पुनश्चोक्तम्--अवशयं संग्रामयतेः सोपसर्गादुत्पत्तिर्वक्तव्येति ।। 180-181 ।।
<B2> ततो यदि शब्दभेदपक्षस्तादधातूपसर्गयोः पृथक्त्वकल्पनमित्याह--
अड्‌द्विर्वचनव्यवस्थार्थं केवलं धातवः पृथगुपदिष्टाः, वस्तुतः पुनर्विशिष्टक्रियावचना एव त इति सोपसर्गाणामेव धातुत्वम् ।। 180 ।।
एतदेव प्रतिपादयितुमाह--तथाहिति ।
असङ्‌ग्रमयत, सिसङ्‌ग्रमयिषते, सोपसर्गस्यैवाड्‌द्विर्वचनदर्शनात् सोपसर्गस्यैवास्य धातुत्वम अत उपक्रम एवाख्याते विशिष्टैव धातुवाच्या क्रिया निर्वर्तयितुमुपक्रम्यत इत्याख्यातानां स्वरूपप्रदर्शनार्थमाह--क्रियाविशेषा इत्यादि । संघातैर्धातूपसर्गसमुदायैरित्यर्थः । तथाविधा अभिन्ना भिन्ना वा ।। 181 ।। <B2>

कार्याणामन्तरङ्गत्वमेवं धातूपसर्गयोः ।
साधनैर्याति संबन्धं तथाभूतैव सा क्रिया ।। 182 ।।

उपसर्गसम्बन्धाधीना स्वार्थव्यवस्था धातूनाम । स्वार्थयोगे च सिद्धे सम्बन्ध्यन्तरस्य सन्निधानेन भवितव्यम् । तत्र गौरखरादिवद् विशिष्टार्थे प्रकृतिरूपे प्रतिलब्धे बाह्याः सम्बन्धिन उपजायन्ते । तस्माद् विशिष्टप्रकृतिरूपवाच्या विशिष्टा क्रिया तथाभूतैव साध्या सती साधनसम्बन्ध प्रतिपद्यते ।। 182 ।।
<B2> अतः किं भवतीत्याह--कार्याणामिति ।
एवं धातूपसर्गाश्रयाणि यानि कार्याण्यन्तरङ्गाणीत्युच्यन्ते पूर्वं तान्येवप्रवर्तन्ते, यथा सुडादयः । तथाभूतैव च सा क्रिया साधनसम्बन्धं गच्छतीत्याह--साधनैरिति । तथाभूतैवोपसर्गविशिष्टैव कारकसम्बन्धमुपगच्छति । एवं चानुभूयत इत्यत्र कर्मणि लकारः सिद्ध्यति, तथा `षत्वतुकोरसिद्धः' (अष्टा o 6-1-86) इत्यारम्भणीयम् । `अडभ्यासव्यवायेऽपि' (भाष्य o 6-1-135, वा o 6) इत्यनारम्भणीयमेवति स्थितम् । उक्तं च-- कारकाणां प्रवृत्तिर्विशिष्टक्रियायामन्यथा कृत्वः मांसौदने प्रवर्तन्ते, अन्यथा च शुष्कौदने' (भाष्य o 1-3-1, वा o 11) इति । वृत्तोपसर्गसम्बन्धायाश्च तस्या वैशिष्ट्यमिति क्रमाश्रयणेन पूर्ववोपसर्गेण सम्बन्धः ।। 182 ।। <B2>

प्रयोगार्हेषु सिद्धः सन् भेत्तव्योऽर्थो विशिष्यते ।
प्राक् च साधनसम्बन्धात् क्रिया नैवोपजायते ।। 183 ।।

इह प्रसिद्धं विशेष्यमनेकप्रकारसंभवे सति दृष्टप्रयोगेण शब्देनाभिधीयमानं विशेषणविशेष्यभावं प्रतिपद्यते । साध्यत्वाच्च क्रियायाः साधन सम्बन्धनिर्वृत्तिः । तस्मात् प्राक्र साधनसम्बन्धादनुपजाता क्रिया निरात्मिका द्योतकेनोपसर्गेण सह विशेषणविशेष्यसम्बन्धं नोत्सहते प्रतिपत्तुम् । पूर्वं धातुः साधनेन युज्यत इत्येकेषां दर्शनम् ।। 183 ।।
<B2> इदानीं पूर्वं धातुः साधनेन युज्यत इति क्रमसमाश्रयणेनाख्यातस्वरूपं प्रतिपादयितुमाह--प्रयोगार्हेष्विति । लब्धात्मनस्तस्या विशेष्यत्वोपपत्तेः प्रयोगार्हेषु धातुषु सिद्धः सन्नर्थो भेत्तव्यो विशेष्यो भवत्युपसर्गादिभइः, न तु पूर्वकाल आख्याते विशेषणयोगः । यदि प्राक्साधनसम्बन्धात् क्रियाविशेष इत्युच्यते, तथाऽव्यु (नु) त्पन्नायास्तस्याः स्वरूपाभावेन कथञ्चित् शेषसम्बन्धः स्यादित्याह--प्राक्चेत्यादि । उक्तं च--`साधनं क्रियां निर्वर्तयति तामुपसर्गो विशिनष्टि' इति । पूर्वं साधनसम्बन्धस्तत उपसर्गैस्तद्विशेषणमुपपन्नम् । अस्मिंश्च पक्षे `अडभ्यासव्यवायेऽपि'इत्यारम्भणीयं `षत्वतुकोरसिद्धः' इति तुकि कर्तव्ये एकादेशासिद्धत्वं न वक्तव्यम्, प्रत्यय इत्यन्तरङ्गत्वात् साधनाभिधायकार्ध्दधातुकाश्रयो गुणः प्रवर्तत इति सिद्धम् ।। 183 ।। <B2>
धातोः साधनयोगस्य भाविनः प्रक्रमाद्यथा ।
धातुत्वं कर्मभावश्च तथान्यदपि दृश्यताम् ।। 184 ।।

<B2> अथ पूर्वं धातुरुपसर्गेण युज्यत इत्यमुं पक्षं समाधातुमाह
क्रियावचनो धातुरित्युक्तम्, साधनसम्बन्धाच्च प्राक् क्रियानिर्वृत्तेरसम्भवाद्यथा भाविसाधनसम्भन्धसमाश्रयणेनोपक्रम एव धातुत्वं धातुसंज्ञोच्यते , यथा च धातोः कर्मण इत्युच्यते, कर्म यो धातुरितीषिकर्मत्वस्य भावित्वादुपक्रम एवेषिकर्मत्वमुक्तं तथान्यदपि दृश्यतां भाविसम्बम्धातुपक्रम एव विशिष्टक्रियावचनत्वं दृश्यतां को दोषः । एवं च भिन्नपक्षाश्रयणेन तथाविधविशेषनिर्वर्तन शोभत इत्युच्यते `क्रियाविशेषाः सङ्घातैः प्रकम्यन्ते तथाविधाः' इति ।। 184 ।। <B2>

बीजकालेषु सम्बद्धा यथा लाक्षारसादयः ।
वर्णादिपरिणामेन फलानामुपकुर्वते ।। 185 ।।

<B2> उपक्रम एव चासौ क्रिया विशिष्टैवाभ्युपगन्तुं युक्तेति दृष्टान्तप्रदर्शन पूर्वकमाह--
बीजवापकाल एव यथा लाक्षारसादयो बीजसंबन्धादुत्तरकालं वर्णरसादिपरिणामेन फलोपकारं कुवन्ति ।। 185 ।। <B2>

बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः ।
अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ।। 186 ।।

<B2> तथादार्ष्टान्तिके योजयितुमाह--
धातूपसर्गयोः सम्बन्धबुद्ध्या समुल्लिखितो योऽन्तर्णोतः केवलं तस्मात् सम्बन्धात्तयोर्द्धातूपसर्गयोः सम्बन्धे पदकाले पदनिष्पत्तौ सत्यामसौ भेदः प्रकाशते, न तु स्वत इति वृत्तो पसर्गसम्बन्धाया एव साधनयोग उपपन्नः ।। 186 ।। <B2>

क्वचित् संभविनो मेदाः केवलैरनिदर्शिताः ।
उपसर्गेण सम्बन्धे व्यज्यन्ते प्रपरादिना ।। 187 ।।

<B2> एवमपोद्धारप्रस्तावे वाक्ये पदस्य पदभागयोः प्रकृतिप्रत्यययोः शक्याशक्यान्वयव्यतिरेकसमाश्रयणेन सनिमित्तमन्वाख्यानं कर्तुमनेकधार्थः क्वचिन्निमित्तं स्वरूपं वेत्याख्यातम् ततश्च पदमेकमनेकं वेति नामपदं लेशतो निर्णोतम् । आख्यातमपि `क्रियाविशेषाः सङ्घातैः प्रकम्यन्ते तथाविधाः' (वा o पा o 2-181) इत्यादिना भेदाभेदविचारपूर्वकमपि निदर्शितप्रायम्, इदानीम् `नामाख्यातोपसर्गनिपाताश्चेति चत्वारि पदजाताने 'इति निरुक्तकारस्तत्र नामाख्यातस्वरूपे प्रदर्शिते । उपसर्गाणां प्रदर्शनीयमिति तत्स्वरूपं प्रदर्शयितुमाह--
क्वचित्पचत्यादौ प्रकर्षादीनां सम्भवात् केवलैस्तेषामप्रतीतेरुपसर्गसम्बन्धात् तदवगम इति तेषूपसर्गाणां विशेषद्योतकत्वमुच्यते । अत एव चोक्तम् `तमेव विशिनष्ट्यन्यः' इति ।। 187 ।। <B2>

स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा ।
शक्त्याधानाय धातोर्वा सहकारी प्रयुज्यते ।। 188 ।।

<B2> तर्हि द्योतकत्वमेव किं तेषामाहोस्वित्पक्षान्तरमपीत्याह--
केवलं न द्योतका यावद्वाचका अपि दृश्यन्ते । यथा प्रतिष्ठत इत्यादौ धातोर्गतिनिवृत्तिवाचकत्वं प्रेण तु गतिवाचकत्वं व्यवस्थाप्यते । तथा चोक्तं `धात्वर्थं बाधते कश्चित्, इति । सम्भवाद् द्योतकोऽपि वा' इत्येतदादावेव कारिकायां व्याख्यातम्। अथ तृतीयमपि पक्षं दर्शयितुमुक्तम् शक्त्याधानायेत्यादि । सम्भूय धातूपसर्गावर्थमाहतुरिति शक्तिमात्रमुपसर्गः कुरुत इत्यर्थाभिधाने सहकारिण उपसर्गाः । अत्राप्युक्तम् `कश्चित्तमनुवर्तते' इति ।। 188 ।। <B2>

स्थादिभिः केवलैर्यच्च गमनादि तु गम्यते ।
तत्रानुमानाद् द्विविधात्तद्धर्मा प्रादिरुच्यते ।। 189 ।।

<B2> प्रतिष्ठत इत्यादौ प्रसिद्ध्या धातोर्गतिनिवृत्तिवाचकत्वे उपसर्गस्य गतिवाचकत्वं स्थापितम्, इदानीमनुमानेन द्योतकत्वमेव सर्वत्रास्य व्यवस्थापयितुमाह--
तिष्ठतिर्गतिनिरवृत्तिं प्रसिद्ध्याभिदधाति । अतः केवलेन तेन गमनं न प्रतिपाद्यत इत्यनेकार्था धातव इति कृत्वानुमानाद् गतिवाचकत्वमपि तस्या व्यवस्थाष्यते, उपसर्गस्तु तद्‌द्योतक एव । गतिनिवृत्तौ तु प्रसिद्धत्वात्तिष्ठतेः प्रशब्दस्य गतिवाचकरत्वमुच्यते, वस्तुस्थित्या त्वनुमानेन प्रादेर्द्योतकत्वमेव सामान्यतो दृष्टेन विशेषतो दृष्टेन चेत्याह--तत्रेत्यादि । धातुरनेकार्थ उपसर्गश्च द्योतक इत्यनुमानेन व्यवस्थाप्यते । द्विविधमनुमानं भवति-- विशेषतो दृष्टं, सामान्यतो दृष्टं चेति । तत्राविशेषेणोपसर्गाणां द्योतकत्वं तथा च प्रशब्दो धर्मो आदिकर्मद्योतक इति साध्यो धर्मः प्रशब्दत्वात् पूर्वोदितपच्यादि (पूर्व) दृष्टप्रशब्दवदिति । विशेषतो दृष्टेनानुमानेन तद्धर्मप्रशब्दस्य समानधर्मा सर्वोऽपि प्रादिरुपसर्गो द्योतकत्वधर्मयुक्त उच्यत इति । धातुश्च सामान्यतो दृष्टेनानुमानेनानेकार्थः । यथा तिष्ठतिर्धर्म्मो अनेकार्थ इति साध्यो धर्मो धातुत्वाद् उभयवादिसम्मतानेकार्थयजत्यादिधातुवदिति । एवं सामान्यते दृष्टानुमानात् तद्धर्मान्यो धातुरप्यनेकार्थ उच्यत इति योजना।।189।।<B2>

अप्रयोगेऽधिपर्योश्च यावद् दृष्टं क्रियान्तरम् ।
तस्याभिधायको धातुः सह ताभ्यामनर्थकः ।। 190 ।।

<B2> इदानीं संभूयार्थाभिधायकत्वमपि दर्शयितुमाह--
अध्यागच्छति पर्यागच्छतीत्यत्राधिपरी अनर्थकावागच्छतीत्यस्मादेवोपरिभावविश्ष्टस्य वा सर्वतोभावविशिष्टस्य वाऽप्यागमनस्य प्रकरणादिनावगतत्वाद् लौकिकशब्दव्यवहारे लाघवं प्रत्यनादरादिति स्पष्टार्थमेवाधिपर्योः प्रयोगः । समुदाय एव विशिष्टार्थाभिधायक इत्यधिपर्योः केवलयोर्धातोश्चाऽत्रानर्थकत्वामनर्थान्तरवाचकत्वमित्यर्थः । अतो धातूपसर्गौ सम्भूयैवार्थविशेषं ब्रूत इति धातोरर्थाभिधाने सहकारिण उपसर्गाः । उपसर्गाणां रूढितोऽर्थवत्त्व एव तावधिपरी अनर्थकाविति (अष्टा o 1-4-93) केवलानर्थकतया । नहि तयोरूपसर्गयोः केवलयोस्तत्रार्थोऽस्ति, अत एवोक्तम्--कश्चित्तमनुवर्तते'इति ।। 190 ।। <B2>

तथैव स्वार्थिकाः केचित् सङ्घातान्तरवृत्तयः ।
अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ।। 191 ।।

<B2> प्रसङ्गात् स्वार्थिकप्रत्ययानां स्वरूपमाह--
यावक इत्यादौ कनादयः सम्भूयैवार्थबोधका बोद्धव्याः । यावशूब्दात् केवलात् पृथगेव कन्प्रकृतिर्यावशब्दोऽध्यवसित इति संघातान्तरवृत्तयस्ते बोद्धव्याः । अत एवाह--अनर्थकेन संसृष्टा इति । यावशब्दः कन्प्रकृतिरनर्थक एव, समुदायस्तु परस्परशक्त्याहितविशेषस्तत्रार्थवान् नासंभूय स्वार्थमाहेत्याह `प्रकृत्यर्थानुवादिनः'इति ।
ननु प्रकृतिभागस्येदानीमेवानर्थकत्वमुक्तमतः कथं प्रकृत्यर्थानुवादिन इत्युच्यते ? सादृश्यमात्रादित्यभिप्रायः । कन्प्रकृतिः केवला यावशब्देन सदृशमभिमन्यत इति तदभिप्रायेण प्रकृत्यर्थानुवादिन इत्युक्तम्, वस्तुतस्तु `सङ्घातान्तरवृत्तयः' इत्येव बोद्धव्यम् ।। 191 ।। <B2>

निपाता द्योतकाः केचित् पृथगर्थाभिधायिनः ।
आगमा इव केऽपि स्युः संभूयार्थस्य वाचकाः ।। 192 ।।

<B2> अथ निपातानामनैयत्येन स्वरूपं प्रदर्शयितुमाह--
तेषामुपसर्गवद् द्योतकत्वं क्कचिद् यथा वृक्षश्च ल्पक्षश्चेत्यादौ । चादीनां केवलानां च केषाञ्चित् पृथगर्थाभिधायित्वं वाचकत्वमेव सिद्धमित्याह--केचिदित्यादि । केचिन्नपाता आगमवत्संभूय वाचकाः, यथा येषां पृथगर्थप्रकल्पन इति पाठः, तेषां मते निपातानां द्वैविध्यम्--केचिदर्थवन्तःष केचिदनर्थका इति । तत्र केचिन्निपाताः पृथगर्थप्रकल्पने सत्यर्थाभिधायिनस्ततो द्योतका इत्यर्थवतां स्वरूपकथनम्, ये त्वनर्थकास्तेषां स्वरूपमाह--आगमा इत्यादि ।। 192 ।। <B2>

उपरिष्टात् पुरस्ताद्वा द्योतकत्वं न भिद्यते ।
तेषु प्रयुज्यमानेषु भिन्नार्थेष्वपि सर्वथा ।। 193 ।।

<B2> तथा च लौकिके प्रयोगेऽनियम इत्याह--
पूर्वं पश्चाद्वा प्रयुक्तास्तदर्थद्योतनं कुर्वन्तीति तेषु विकल्पसमुच्चयाद्यर्थेषु द्योतकत्वमेव प्रयुज्यमानेषु स्थितम् ।। 193 ।। <B2>

चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः ।
प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते ।। 194 ।।

<B2> अथ वाचका एव कस्मान्नोच्यन्ते, किं द्योतकत्वेनेत्यर्थद्योतकत्वं दृढीकर्तुमाह--
एते हि चादयः केवला न प्रयुज्यन्ते ततो वाचका न भवन्तीति बोद्धव्यम् । चादयो धर्मिवाचकान भवन्तीति साध्यो धर्मः, केवलानामप्रयोगात् । यदि हि वाचकाः स्युस्तदा गवादिवत् केवलानामपि तेषां प्रयोगः स्यादित्यनुमानम् ।
नन्वत्र प्रत्यनुमानमस्ति...चादयो धर्मिद्योतका न भवन्तीति साध्यो धर्मः, केवलानामप्रयोगात् । प्रत्ययवत्तत्राह--पदत्वे सतीति ।
एतदुक्तं भवति...न निर्विशेषणोऽयं हेतुरपि तु पदत्वे सति केवलानामप्रयोगाद् द्योतका एत इति पदत्वे सतीत्यनेन प्रत्ययव्यावृत्तिः । एतदेव दर्शयितुमाह--प्रत्ययो वाचकत्वेऽपीत्यादि । प्रत्ययस्य कस्याचिद्वाचकत्वेऽपि पदत्वाभावात् केवलस्याप्रयोगः।। 194 ।। <B2>

समुच्चिताभिधानेऽपि व्यतिरेको न विद्यते ।
असत्त्वभूतो भावश्च क्रियाऽन्येनाभिधीयते ।। 195 ।।

<B2> अथ शब्दशक्तिस्वाभाव्याच्चादिपदस्यासत्त्वभूतो यः पृथगर्थस्तद्वाचकत्वाद्वाचकत्वं व्यवस्थाप्यते, तदनुपपन्नम्;शक्त्यनुग्रहाद्यथा तदर्थवाचकानां समुच्चयादीनां प्रयोगे षष्ठी श्रूयते, वृक्षस्य समुच्चयः, प्लक्षस्य समुच्चय इति, तद्वन्निपातप्रयोगे षष्ठी श्रूयेत, वृक्ष्स्य च प्लक्षस्य चेति । स्यादेवं यदि समुच्याभिधायकाः स्युः, न चैवम्, किं तर्हि समुच्चिताभिधायिन एत इत्युच्यते तदभिधाने च व्यतिरेको नास्तीत्याह--
यद्येवं समुच्चितस्य सत्त्वभूतस्याभिधानेऽसत्त्व इति प्रतिषेधान्निपातसंज्ञाया अभावे तत्पूर्विकाया अव्ययसंज्ञाया अभावाच्चादेरपि विभक्तेः श्रवणं प्राप्नोतीत्याह--असत्त्वेति ।
एतदुक्तं भवति--इह शब्दैरर्थाभिधानं स्वाभाविकमिति स्थितम् । अत्र निपाताः शब्दशक्तिस्वभावादेवासत्त्वभूतार्थाभिधायिनः प्रतीयन्त इति सनिदर्शनमाह--क्रियते । अत्र यथेत्यनुषङ्गः । यथा पाक एवोभयत्र नामपदस्याख्यातस्य च वाच्यः शब्दशक्तिस्वाभव्यात्तथा पचतीत्याख्यातेनासत्त्वभूतोऽसावभिधीयते, पाक इत्यत्र नामपदेन परिनिष्ठितस्वभावः सिद्ध इति, तद्वन्निपातैः समुच्चितादेरसत्त्वभूतस्याभिधानमिति न विभक्तेरुत्पत्तिः ।
उक्तं च--"नेदं वाचनिकं लिङ्गसंख्यादिस्वाभाविकमेव । तद्यथा--समानमधीयानानां केचिदर्थैर्युज्यन्ते अपरे न" (भाष्ये 2-1-1) इति । एवं वाचकत्वात् समुच्चिताभिधानेऽप्याक्यातपदवदसत्त्वभूतार्थाभिधायित्वाद्विभक्तेरभावः ।। 195 ।। <B2>

समुच्चिताभिधानेऽपि विश्ष्टार्थाभिधायिनाम् ।
गुणैः पदानां सम्बन्धः परतन्त्रास्तु चादयः ।। 196 ।।

<B2> अस्त्वेवमपि समुच्चिताभिधायित्वाद्यथा स्वतन्त्राणां तदभिधायकानां विशेषणेन योगस्तथा निपातानामपि स्थात्, अथ च गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्तीत्यसत्त्ववाचकत्वाद्विभक्त्यभावात् शोभनं च वृक्ष इति प्राप्नोति । तथा चान्यत्रोक्तम्--प्रतिप्रयोगं जात्यङ्गे सम्बन्धमुपगच्छति । विशेषणं, ततो धर्मान् जातिस्थान् प्रतिपद्यते । ततश्च पञ्चाला जनपदो बहुधनो रमणीय इति भवति । अथ लुबन्तस्य विशेषणं न जातेस्ततः पञ्चाला रमणीया जनपद इति भवति, एतदाशङ्‌क्य समर्थयितुमाह--
गुणैर्विशेषणैः पदानां विशिष्टार्थाभिधायिनां सम्बन्ध उपपद्यते । निपातानां तु शक्तिस्वाभाव्यादसत्त्ववाचित्वेऽपि नियतपरतन्त्रत्वाद्विशेषणयोगो नास्तीति न कश्चिद्दोषः । एतदुक्तं भवति--एतदपि शक्तिस्वाभाव्यमेव यत्तेषां नित्यपरतन्त्रत्वं नोमेति । अतः समुच्चिताभिधानेऽपि न केवलः प्रयोगो नापि विशेषणसम्बन्ध इति स्थितम् ।। 196 ।। <B2>

जनयित्वा क्रिया काचित् सम्बन्धं विनिवर्तते ।
श्रूयमाणे क्रियाशब्दे सम्बन्धो जायते क्वचित् ।। 197 ।।

<B2> एवं नामाख्यातोपसर्गनिपातलक्षणं पदचतुष्टयं व्याख्यातम् , अथ कर्मप्रवचनीयाः पञ्चमं पदमभ्युपगतमिति तद्विचारयितुमाह--
सम्बन्धवच्छेदहेतवः कर्मप्रवचनीया इष्यन्ते । यद्वक्ष्यति `सम्बन्धस्य भेदकाः' (2-204) इति । सम्बन्धस्च सर्वः क्रियाकारकपूर्वको भवति । तत्र क्कचित् सम्बन्ध जनयित्वा क्रिया विनिवर्तते, यथा राजपुरुष इति । अत्र हि राज्ञः पुरुषोऽयं यस्मात् स राजा पुरुषं बिभर्त्ति, अतो भरणलक्षणा क्रिया आश्रयाश्रयिभावलक्षणं सम्बन्धं जनयित्वा निवृत्ता । क्वचित् क्रियापदं श्रूयमाणसम्बन्धमुपजनयति, यथा मातुः स्मरतीति । अत्र हि मातुरिति कर्मपदमतो मातृसम्बन्धि स्मरणमिति निमित्तिनिमित्तभावलक्षणं सम्बन्धं स्मरति क्रिया श्रूयमाणैव जनयति । एतदेवान्यत्रोक्तम्--"सम्बन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः । श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते ।। " वाक्यपo साधन 156) इति ।। 197 ।। <B2>

तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये ।
विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ।। 198 ।।

<B2> सम्बन्धसामान्ये षष्ठीति किमर्थम् अधीगर्थदयेशां कर्मणी'त्यादि (पा o 2-3-52) प्रकरणारम्भ इति प्रसङ्गाद्विचारयितुमाह--
मातुः स्मरणमित्यादौ कर्मणि शेषत्वेन विवक्षिते सिद्धैव षष्ठीति पुनः प्रातिपद्येनाधीगर्थेत्यादिना (पाo 2-3-52) या षष्ठी विहिता सा नियमाय भवति । कर्मादौ शेषत्वेन विवक्षिते षष्ठ्येव भवति । यदन्यत् प्राप्नोति तन्निषिध्यते किं चान्यत् प्राप्नोति ? तत्र निदानोच्छेदनं विना न लुगादिनिवृत्तिः कर्तुं शक्येति समासनिवृत्तिरेव क्रियते । ततश्च षष्ठ्येव भवति । यदन्यतः पृष्ट्‌वाऽऽयाति समासलुगादि प्राप्नोति, तन्निवार्यत इत्यतः प्रतिपदं पुनः षष्ठी समासस्य निवृत्तये विहितेति बोद्धव्यम् । अतश्च `प्रतिपदविधाना च षष्ठी न समस्यते' इति भाष्यं नारम्भणीयमेव । यद्येवं `कर्मणीति किं मातुर्गुणैः स्मरणम्" इति कथं प्रत्युदाहृतम् । यथा गुणानां स्मर्तव्यत्वस्यासम्भवः, तथा शेषत्वस्यापि । यदि शेषत्वेनास्य (यदि शेषत्वस्यापि) विवक्षिताः स्युस्तदा तेषां षष्ठी स्यात्, तृतीया न भवेत् । ततश्च द्व्यङ्गवैकल्यमेतस्येत्येतदाशङ्क्याह--दर्शनार्थं त्वित्यादि । मातुर्गुणानां स्मरणमित्युक्ते संदिह्येत, गुणा कर्म करणं वेति । तत्रोक्तं गुणैः स्मरणमिति । गुणैरिति करणं यदा शेषत्वेन विवक्ष्यते तदा प्रतिपदविधाना षष्ठी मा भूदित्येवमर्थं कर्मणीत्युक्तमिति द्व्यङ्गवैकल्याभावः । पुनः षष्ठीविधानं समासादिनिवृत्तय एवेति स्थितम् । उक्तं च--"साधनैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः । प्रोक्ताप्रतिपदं षष्ठी समासस्य निवृत्तये" (साधनसमुद्देशे, 159) इति । साधनैर्व्यपदिष्टे शेषसम्बन्धे इत्यर्थः ।
एवं कर्मण्येव शेषत्वेन विवक्षिते षष्ठी, कारकान्तरे त्वेकैवेति वृत्तिकाराः । तेषां मते गुणैः स्मरणं न तु गुणानां स्मरणमिति काचिदपि षष्ठी ।
टीकाकारमते तु करणस्य शेषत्वविवक्षायां गुणानां स्मरणं गुणस्मरणमित्यपि भवतीति मतभेदः ।। 198 ।। <B2>

स चोपजातः सम्बन्धो विनिवृत्ते क्रियापदे ।
कर्मप्रवचनीयेन तत्र तत्र नियम्यते ।। 199 ।।

<B2> एनं क्रियया सम्बन्धो जन्यत इति स्थितम्, ततः किमित्याह--
स च क्रिययोपजनितः सम्बन्धः तस्मिंश्चोपजाते यता क्रियापदं क्कचिन्न श्रूयते, तदा क्रियाजनितोऽयं स्यादिति सन्दहे कर्मप्रवचनीयेन तत्र तस्यां क्रियायां नियम्यत इति सम्बन्धविशेषः क्रमप्रवचनीयैः प्रत्याय्यते । अत एव कर्मप्रोक्तवन्तः क्रियाकृतं विशेषसम्बन्धं द्योतयन्तीति कर्मप्रवचनीया उच्यन्ते ।। 199 ।। <B2>

येन क्रियापदाक्षेपः स कारकविभक्तिभिः ।
युज्यते विर्यथा तस्य लिखावनुपसर्गता ।। 200 ।।

<B2> अथाऽश्रूयमाणायाः क्रियाया आक्षेपकाः कर्मप्रवचनीयाः कस्मान्नाश्रीयन्त इत्याह--
इह तेन शब्देन क्रियापदस्याक्षेपः क्रियते, स कारकविभक्त्या युज्यत इति दृश्यते । यथा प्रादेशं विपरिलिखतीति । अत्र विशब्दो मानक्रियाया आक्षेपकः, प्रादेशं विमाय परिलिखतीत्यर्थावगतेः । ततो विमानक्रिययाऽत्र प्रादेशलक्षणं कर्माक्षिप्तमिति तस्य कारकविभक्त्यैव द्वितीयया योगः ।
यदा च क्रियान्तराक्षेपको विशब्दस्तदाऽस्य लिखत्यसंबन्धात् तं प्रत्यनुपसर्गत्वमेव । ततश्च `गतिर्गता' विति (पा o 8-1-70) निघाताभावः । तद्वत् कर्मप्रवचनीयैर्यदि क्रियापदमाक्षिप्येत, तदा तद्योगे कारकविभक्तिरेव स्यात् । ततश्च कर्मप्रवचनीययुक्ते द्वितीया' (पाo 2-3-8) इति नारम्भणीयमेव स्यात् । किन्तु सम्बन्धसामान्ये षष्ठी प्राप्नोति तद्‌बाधनाय द्वितीयाऽऽरभ्येत, तदारम्भः शोभते ।।200।। <B2>

तिष्ठतेरुपयोगश्च दृष्टोऽप्रत्यजयन्निति ।
सुन्बन्तीत्याभिमुख्येऽभिः केवलोऽपि प्रयुज्यते ।। 201 ।।

<B2> क्रियापदक्षेपकत्वमन्यत्रापि दृष्टमिति तदेव दृढीकुर्वन्नाह--
अप्रत्यजयन्नित्यत्र प्रतिशब्दः स्थितिक्रियाया आक्षेपकः परिदृष्टः । देवा असुरानप्रतितिष्ठतः प्रतिष्ठामलभमानानजयन्निति तिष्ठतेरुपयोग आक्षेपः परिदृष्टः । तथा धातुना सम्बन्धेऽपि सुन्वन्तीत्यत्राभिशब्दस्य केवलस्य चाभिमुख्ये वृत्तिः परिदृष्टेति प्रसङ्गादाह--सुन्वन्तीति । तदेवं कर्मप्रवचनीयानां सम्बन्धनियामकत्वमन्वर्थसंज्ञाश्रयेणैव स्थापितम् ।। 201 ।। <B2>

कर्मप्रवचनीयत्वं क्रियायोगे विधीयते ।
षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ।। 202 ।।

<B2> अथ स्वत्यादीनां तद्रपत्वासम्भवे कथं कर्मप्रवचनीयसंज्ञा स्यादित्याह--
अत्र स्वत्यादीनां कर्मप्रवचनीयत्व विधीयते संज्ञान्तरव्युदासायैवेत्यतश्चैकसंज्ञाधिकाराद् गत्युपसर्गसंज्ञाभावे तदाश्रयं षत्वादिकम् "उपसर्गाद्" (पा o 8-3-65) इत्यादिना न भवति ।। 202 ।। <B2>

हेतुहेतुमतोर्योगपरिच्छेदेऽनुना कृते ।
आरम्भाद्धाध्यते प्राप्ता तृतीया हेतुलक्षणा ।। 203 ।।

<B2> अन्यदपि प्रसङ्गादाह--
लक्षणेत्थंभूतेत्यादिना (पाo 1-4-90) सिद्धाऽनोः कर्मप्रवचनीयसंज्ञा । लक्षणं हि ज्ञापकं यथा तथा हेतुरप्युच्यते । ततश्च यथा ज्ञाप्यज्ञापकभावे वृक्षमनु विद्योतते विद्युदित्यत्रानोः कर्मप्रवचनीयसंज्ञा, तथा शाकल्यस्य संहितामनु प्रावर्षदित्यत्रापि । तत्र हेतुहेतुमद्धावलक्षणव्यतिरेकव्यवच्छेदेऽनुना कृते हेतुतृतीयैवपरत्वात् प्राप्नोति, तथा च तृतीयाया अवकाशो धनेन कुलमित्यादि । लक्षणेत्थंभूते त्यस्यावकाशोऽनुर्ज्ञाप्यज्ञापकभावलक्षणस्य सम्बन्धस्यावच्छेदकः, यथा वृक्षमनु विद्योतते विद्युदिति । इहोभयं प्राप्नोति शाकल्यस्य संहितामनु प्रावर्षदिति । अत्र हेतुहेतुमद्भावसम्भवात् तृतीया प्राप्नोति । परत्वात् `अनुर्लक्षणे'(पाo 1-4-84) इति पुनर्विधानान्न भवति ।। 203 ।।<B2>

क्रियाया द्योतको नायं सम्बन्धस्य न वाचकः ।
नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः ।। 204 ।।

<B2> एवं कर्मप्रवचनीयानां प्रासङ्गिकं विचारं कृत्वा वाचकत्वादिप्रकारत्रितयनिराकरणेन सम्बन्धविशेषकत्वमेव व्यवस्थापयन्नाह--
प्रपचतीत्यादावुपसर्गवद् नैवायं क्रियाद्योतकः । षष्ठ्यपवादभूतया च द्वितीययैवोक्तः सम्बन्ध इति न तस्य कर्मप्रवचनीयो वाचकः । नापि प्रादेशंविपरिलिखतीत्यादौ विशब्दवत् क्रियापदस्याक्षेपकः । किं तर्हि विशिष्टक्रियाजनितोऽयं सम्बन्ध इति सम्बन्धस्य भेदको विशेषकः कर्मप्रवचनीयः ।। 204 ।।

अनर्थकानां सङ्घातः सार्थकोऽनर्थकस्तथा ।
वर्णानां पदमर्थेन युक्तं नावयवाः पदे ।। 205 ।।

<B2> इत्येवमपोद्धारप्रसङ्गेन पञ्चधा पदविभागः प्रदर्शितः । एवं दर्शितं पदप्रविभागमग्रेऽनूद्य सप्रपञ्चं पदार्थभेदमुपपादयिष्यति । यथा
"द्विधा कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि च ।
अपोद्‌धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ।।
पदार्थानामपोद्धारे जातिर्वा द्रव्यमेव च । " इत्यादि । (वाo पo 3 । जातिo1-2)
एवमखण्डवाक्यावादिनाऽपोद्धारसमाश्रयेण प्रासङ्गिकादिकार्यसमर्थने विहिते तत्प्रसङ्गात्पदपदार्थपदभागार्थपदभागविचारः कृतः, निरुक्तकारमतानुसारेण च नामाख्यातोपसर्गनिपातलक्षणप्रदर्शनं कृतम्, कर्मप्रवचनीयाः पञ्चमपदजातमिति केचित्प्रतिजानत इति तदपि प्रदर्शितम्, एवं च दूषितेषु परपक्षेषु स्वपक्षे च दूषणनिराकारणपूर्वकं स्थापिते पुनरप्यखण्डपक्षमेव समर्थयितुकामो वार्त्तिकविरोधमाशङ्कयाह..।।205।।<B2>

पदानामर्थयुक्तानां सङ्घातो भिद्यते पुनः ।
अर्थान्तरावरोधेन सम्बन्धविगमेव च ।। 206 ।।

<B2> किञ्च,
अर्थन्तरस्य संसर्गलक्षणस्यावरोधेन परिग्रहणेन कश्चिदेव देवदत्त गामभ्याजेत्यादिकः पदसङ्गातोऽर्थवान् कश्चित्त दश दाडिमादिः परस्परसम्बन्धविगमेनानर्थक इति सम्बन्धाद् व्यपेतः ।। 206 ।। <B2>

सार्थकानर्थकौ मेदे सम्बन्धं नाधिगच्छतः ।
अधिगच्छत इत्येके कृटीरादिनिदर्शनात् ।। 207 ।।

<B2> तदेव दर्शयितुमाह--
भेदे क्रियमाणे सति यौ वर्णसमुदायौ सार्थकानर्थकौ, यथा कुटीशब्दोरशब्दश्च, तौ सम्बन्धमनर्थकत्वान्नाधिगच्छत इति केचित् । द्योत्येनार्थेनार्थवत्त्वादपरे सम्बन्धमधिगच्छत इत्याहुः ।। 207 ।। <B2>

अर्थवद्भ्यो विशिष्टार्थः सङ्घात उपजायते ।
नोपजायत इत्येके समासस्वार्थिकादिषु ।। 208 ।।

<B2> सङ्घातार्थवत्त्वादवयवार्थवत्त्वमपि दर्शयितुमाह--
राजपुरुष इत्यादावर्थवद्भ्यः सङ्घातोऽर्थवानुपजायते । स्वार्थिकादिषु त्ववयवार्थप्रकृतिकमर्थान्तरं नाविर्भूतमिति नास्त्यवयवार्थवद्भ्यो व्यतिरिक्तः सङ्घातार्थस्य सम्भवः ।। 208 ।। <B2>

केचित्तु युतासिद्धार्था भेदे निर्ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां केचित् कल्पितशक्तयः ।। 209 ।।

<B2> द्विविधरूपतयाऽवस्थितास्त इत्याह--
युतः सिद्धोऽर्थो येषां ते तथाविधाः यथा शमीवृक्षो दाडिमीवृक्ष इत्यादयः । कस्मादेवमित्याह--भेद इत्यादि । भेदे वाक्ये सति, रूपस्याऽविनष्टत्वात् पृथगेवनिर्ज्ञातशक्तयः केचित् संज्ञुपज्ञ्‌वादयोऽन्वयव्यतिरेकाभ्यां कल्पितशक्तय इति । अत्र हि `प्रगते जानुनी यस्य' सङ्गते जानुनी यस्य' `प्रसंभ्यां जानुनोर्ज्ञुः' (पाo5-4-129) इति लक्षणानुगमेनार्थः कल्प्यः, न तु पृथगेव, वाक्ये दृष्टस्य जानुशब्दस्य नष्टत्वात् । तस्मात् संघातार्थवत्त्वादिति भागासिद्धमनैकान्तिकं च बोद्धव्यम् ।। 209 ।। <B2>

शास्त्रार्थ एव वर्णानामर्थवच्वे प्रदर्शितः ।
धात्वादीनां विशुद्धानां लौकिकोऽर्थो न विद्यते ।। 210 ।।

कृत्तद्धितानामर्थश्च केवलानामलौकिकः ।
प्राग्विभक्तेस्तदन्तस्य तथैवार्थो न विद्यते ।। 211 ।।

अभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु लक्ष्यते ।
अर्थवत्ताप्रकरणादाश्रितः स तथाविधः ।। 212 ।।

<B2> यद्यप्युक्तम् "अर्थवन्तो वर्णा धातुप्रतिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात्" इति, तत्राह-- ।। 210 - 121 ।। <B2>

आत्मभेदो न चेत् कश्चिद्‌वर्णाभ्यः पदवाक्ययोः ।
अन्योन्यापेक्षया शक्त्या वर्णाः स्यादभिधायकः ।। 213 ।।

<B2> वर्णानामर्थवत्त्वाभ्युपगमे पदवाक्ययोरभिधायकता भज्येतेत्याह--
सुबोधम् ।। 213 ।। <B2>

वर्णोन केनचिन्नयूनः सङ्घातो योऽभिधायकः ।
न चेच्छब्दान्तरमसावन्यूनस्तेन गम्यते ।। 214 ।।

<B2> इदानीं मतभेदं प्रदर्शयितुमाह--
यदि केनचिद्वर्णेन न्यूनः सङ्घात इष्कर्तारमित्यादावभिधायकस्तदा द्वयी गतिः--शब्दान्तरत्वमेकशब्दत्वं वा । यदि न शब्दान्तरत्वमिष्कर्तारमित्यस्य तदा न्यूनवर्णोऽपि (वर्णेनापि) पूर्णवर्णो निष्कर्तारमिति शब्द एव गम्यते, तस्मात् स्वार्थप्रतीतिरिति बोद्धव्यम् ।। 214 ।। <B2>

स तस्मिन् वाचकें शब्दे निमित्तात् स्मृतिमादधत् ।
साक्षादिव व्यवहितं शब्देनार्थमुपोहते ।। 215 ।।

<B2> एतदेव प्रतिपादयितुमाह--
यदि केनचिद्वर्णेन न्यूनः स न्यूनवर्णः परिपूर्णशब्दवाचकरूपे निमित्ताच्छास्त्राभ्यासात् स्मृतिमुपजनयन् साक्षादिव व्यवहितमप्यर्थं शब्देन स्मृत्युपस्थापितेनोपोहते समर्पयतीति । अथ शब्दान्तरत्वं तदा यथा परिपूर्णवर्णो वाचकस्तथा तत्सम्बन्धाद् न्यूनवर्णोऽपीति न कश्चिद्विशेषः ।। 215 ।।<B2>

पदवाच्यो यथा नार्थः कश्चत् गौरखरादिषु ।
सत्यपि प्रत्ययेऽत्यन्तं समुदाये न गम्यते ।। 216 ।।

समन्वित इवार्थात्मा पदार्थैर्यः प्रतीयते ।
पदार्थदर्शनं तत्र तथैवानुपकारकम् ।। 217 ।।

<B2> तस्मादवयवानां तदर्थप्रतिपादनमनुपपन्नमेवेति प्रतिपादयितुमाह--
गौरखरः कृष्णसर्प इत्यादौ यथा नैव पदानां चान्यः कश्चिदर्थोऽस्ति, सत्यपि वा तच्छ्रवणकाले तदर्थप्रत्यये गौरखर इत्यस्मिन् समुदायेऽत्यन्तं सर्वथा नैवायमर्थो गम्यते, जात्यन्तरमेव हि पदार्थसंस्पर्शमात्रविरहितं समुदायात्तत्रावगत्म्, तथैव देवदत्त गामभ्याजेत्यादिभिः पदार्थैर्यः प्रतिभालक्षणोऽर्थः समन्वित इव, परमार्थतस्तु निर्विभागः पानकरसादिवत् प्रतीयते, तत्र पदार्थदर्शनमवयवाथप्रतिभासोऽनुपकारक एव मन्तव्यः ।। 216 - 217 ।। <B2>

समुदायावयवयोर्भिन्नार्थत्वे च वृत्तिषु ।
युगपद् भेदसंसर्गौ विरुद्धावनुषङ्गिणौ ।। 218 ।।

<B2> यदि चैतन्नाभ्युपगम्यते तदा समुदायावयवयोर्भिन्नार्थत्वे सति वृत्तौ समकालमे विरुद्धधर्मसंसर्गः प्राप्नोतीति पदवादिमतं दूषयितुमाह--
वृत्तिषु समासादिकासु । तुल्यकालं समुदायेन पांसूदकवदविभागापन्नस्यार्थस्य प्रतिपादनात् संसर्गः समासार्थः पदेभ्यश्च भिन्नस्यार्थस्य प्रतीतेर्भेदसंसर्गौ विरुद्धौ युगपत् प्राप्नुतः । न चैतद् युक्तं प्रतीत्यभावादिति ।। 218 ।। <B2>

कश्च साधनमात्रार्थानध्यादीन् परिकल्पयेत् ।
अप्रयुक्तपदश्चार्थो बहुव्रीहौ कथं भवेत् ।। 219 ।।

<B2> पदपदार्थानां च सत्यत्वेऽध्यादीनां वाक्ये साधनाभिधायित्वं प्राप्नोति । न चैतद् दृष्टं साधनाभिधायकत्वेन स्वतन्त्राणां तेषां प्रयोगादर्शनादित्याह--
अधिस्त्रीत्यादौ समुदायस्याधिकरणवृत्तित्वं परिदृष्टं न कदाचिदप्यवयवस्येति । यदा च पदानि सत्यार्थानि विद्यन्ते तदा बहुव्रीह्यर्थो नावकल्पेतेत्याह--अप्रयुक्तेत्यादि । चित्रगुरित्यादाववयवानां सत्यार्थत्वे चित्रशब्दस्य गुणः कश्चिदभिधेयो गोशब्दस्य गोजातयः काश्चिदित्यप्रयुक्तं वाचकं पदं यस्यासावप्रयुक्तपदो देवदत्तार्थः कस्याभिधेयः स्यात् ।। 219 ।। <B2>

प्रज्ञसंज्ञ्वाद्यवयवैर्न चास्त्यर्थावधारणाम् ।
तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम् ।। 220 ।।

<B2> यदि चावयवानामर्थवत्त्वं स्यात्तदा प्रज्ञुः संज्ञुरित्यत्रापि ज्ञुशब्दस्यार्थः पृथगुपलभ्येत, न चोपलभ्यत इति प्रतिपादयितुमाह--
उपसंहर्तुमाह--तस्मादिति । तस्मात् समासेषु विरुद्धार्थोपस्थापनादध्यादीनां साधनमात्रार्थवृत्तित्वासम्भवाद् बुहव्रीह्यर्थस्यासङ्गतेः प्रज्ञसंज्ञ्वित्यादाववयवार्थानुपलम्भादित्युपपत्तिचतुष्येन सत्यार्थानां पदानामनुपपत्तेः सङ्घात एवैकोऽखण्डः प्रविभागशून्यः स्फोटात्मा विशिष्टस्यैव प्रतिभात्मकस्यार्थस्य निबन्धनमभ्युपगन्तुं युक्त इति सिद्धम् । सङ्घातसाधर्म्याच्च स्फोट एवात्र सङ्घातशब्देनोक्तः । सङ्घातो ह्यवयवैराच्छुरितो भवति, स्फोटश्चापि ध्वनिभिराच्छ्रुरित इति सङ्घातसाधर्म्यम् ।। 220 ।। <B2>

गर्गा इत्येक एवायं बहुष्वर्थेषु वर्तते ।
द्वन्द्वसंज्ञोऽपि सङ्घातो बहूनामभिधायकः ।। 221 ।।

<B2> इदानीमखण्डवाद्यात्मीयपक्षे परकीयचोद्यसप्तकमाशङ्क्य क्रमेण समर्थयितुमुपक्रमते । तथा च यदि पदार्थो नैव विद्यते तदा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्यत्र द्वन्द्वेनैक एवाखण्डः समुदायो वाक्यार्थो विधीयते, ततश्च पदार्थभेदस्यानभ्युपगमादेकत्वे च सति बहुवचनं सति नोपपद्येतेत्याशङ्‌क्य समर्थयितुमाह--
यथा गर्गस्यापत्यानि बहूनि गर्गा इत्यत्रैकशेषे कृते गर्गशब्द एव एव निरस्तावयवविभागो बह्वर्थवृत्तित्वाद् बहुवचनान्तः, तथैव द्वन्द्वसंज्ञः संघातो निरस्तावयवभेदोऽपि शब्दशक्तिमाहात्म्याद् बहुत्वमभिधत्त इति सत्यपि बहुवचने नास्ति तावता वाक्यार्थव्यतिरेकेण पदार्थसद्भावः ।। 221 ।। <B2>

यथैकदेशे भुज्यादिः प्रत्येकमवतिष्ठते ।
क्रियैवं द्वन्द्ववाच्येऽर्थे प्रत्येकं प्रविभज्यते ।। 222 ।।

<B2> अथ धवखदिरपलाशाः सच्यिन्तामित्यत्र वाक्यार्थव्यतिरेकेण पदार्थासम्भवात् प्रत्येकं वाक्यापरिसमाप्त्ययोगात् समुदायस्य च युगपत्सेचनक्रियाऽसम्भवाद्वाक्यार्थस्यानुपपत्तिरित्याशङ्‌क्य समर्थनार्थमाह--
ब्रह्मणा भोज्यन्तामित्यत्र यथा विनापि वाक्यार्थव्यतिरेकेण पदार्थसद्भावं पदार्थानां भुजिक्रिया प्रत्येकमवतिष्ठते, तथा द्वन्द्ववाक्ये समुदायलक्षणेऽर्थे प्रत्येकं प्रविभज्यत इति न कश्चिद्दोषः ।
एतदुक्तं भवति--ब्राह्मणा भोज्यन्तामित्यत्र यथा सत्यामपि समुदायप्तिपत्तावपोद्धारबुद्ध्या प्रकल्प्यावयवान् प्रत्येकं भुजक्रिया समाप्यते, तथैव द्वन्द्वात् समुदाये प्रतिपन्ने बुद्धिपरिकल्पितप्रविभागसमाश्रयणेन प्रत्येकं वाक्यापरि समाप्तिर्बोद्धव्या ।। 222 ।। <B2>

यच्च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणा ।
साऽपि व्यावृत्तरूपेऽर्थे सर्वनामसरूपता ।। 223 ।।

<B2> पुनरप्याशह्‌क्य परिहर्तुमाह--
द्वन्द्वान्तवर्तिनः पदार्थस्य वाक्यार्थव्यतिरेकेणासम्भवात् सर्वनाम्ना परामर्शो नोपपद्यते । यथा `जनपदतदवध्योश्च' इति (पाo 4-2-124) । अत्र हि जनपदात्तच्छब्देन परामृष्टाच्च तस्मादेवावधिभूतात् प्रत्यय इष्यते । वाक्यार्थव्यतिरेकेणासति च पदार्थे कथमसतः सर्वनाम्नाऽपेक्षणमिति पराभिप्रायमनूद्य समाधत्ते--साऽपीत्यादिना । नात्र किञ्चित् सर्वनाम विद्यते । तत्कुत एव तत्र द्वन्द्वपदार्थपरामर्शः स्यात् ? केवलव्यावृत्तरूपे विशिष्ट एवात्र वाक्यार्थे प्रतिभामात्रेऽन्वयात् सर्वनामसारूप्यमात्रमाभाति, न तु वास्तवोऽत्र तत्पदार्थप्रत्ययः कश्चित् प्रतिपन्नः । यद्वक्ष्यति--
"यदन्तराले ज्ञानं तु पदार्थेषूपजायते ।
प्रतिपत्तेरूपायौऽसौ प्रकमानवधारणात् ।। " इति ।। 223 ।
(वाo पo 2-410) <B2>

यथा च खदिरच्छेदे भागेषु क्रमवांश्छिदिः ।
तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ।। 224 ।।

<B2> नन्वसति पदार्थे धवखदिरपलाशाश्छिद्यन्तामित्यत्राक्रमिकनिर्विभागो वाक्यार्थ इष्टस्ततश्च यथैव शब्दादवगतोऽर्थस्तथैवानुष्ठानमिति युगपदेव च्छिदिक्रिया प्राप्नोति, न चैवमनुष्ठातुं पार्यत इत्याह--
यत्रापि भवतः पदार्थवाक्यार्थयोर्भेदः खदिरश्छिद्यतामित्यादौ, तत्रापि युगपदेवानुष्ठातुं न याति । यावता खदिरस्य प्रथमं त्वग्भागं छिन्दन्ति, ततोऽप्यस्थिभागं तदनन्तरं सारभागमिति क्रमवर्तिन्येव छिदिक्रिया पर्यवस्यति । तथैव द्वन्द्वे यः पदार्थोऽपोद्धारबुद्धिपरिकल्पितस्तस्य क्रमेण दर्शनं व्यवस्थितिरनुष्ठानमिति यावत् ।। 224 ।। <B2>

संघैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः ।
क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः ।। 225 ।।

<B2> अथास्मिन् पर्वते धवखदिरपलाशाश्छिद्यन्तामिति धवखदिरपलाशच्छेदनं निरूपितं वाक्यार्थः, तत्रैकदेशमात्रेऽपि च्छिन्ने यदादिष्टं तत् कृतमिति ब्रुवन्ति, तदेतदनंशे वाक्यार्थे कथमुपपत्तिमदित्याशङ्‌क्याह--
यथा ब्राह्मणा भोज्यन्तामित्यत्र सङ्घातानुपातिन्यपि भुजिक्रिया तदेकदेशे प्रक्रान्ता प्रवर्तिता, अतो भुक्तं ब्राह्मणैरित्युच्यते; तथा द्वन्द्ववाच्यसमुदायान्तरगतावयवप्रवर्तितापि शब्दार्थपरित्यागकारणतां न प्रतिपद्यत इति विज्ञेयम् ।। 225 ।। <B2>

प्रतिपादयता वृत्तिमबुधान् वाक्यपूर्विकाम् ।
वृत्तौ पदार्थभेदेन प्राधान्यमुपदर्शितम् ।। 226 ।।

<B2> यदि च पदपदार्थसम्भवस्तदा पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुष इत्यादिकं समासेष्वर्थाभिधानमनुपपन्नमित्याशङ्‌क्य परिहर्तुमाह--
वाक्यपूर्विकां वृत्तिं समासलक्षणामबुधान् प्रतिपादयता तद्भेदेन समासेषु पदार्थप्राधान्यमाचायेणोपदशितम् । वाक्यपूर्विकामिति । पदा वाक्यमेव वृत्तौ भवति कार्यवशादन्वाख्यानपक्षे तदैवमुक्तमित्यर्थः ।
एतदुक्तं भवति--अबुधबोधनाय तथा शास्त्रे क्रियामात्रप्रदर्शनं कृतम्, न पुनस्तावता पदपदार्थसत्ताऽभ्युपगता ।। 226 ।। <B2>

अभेदादभिधेयस्य नञ्‌समासे विकल्पितम् ।
प्राधान्यं बहुधा भाष्ये दोषास्तु प्रक्रियागताः ।। 227 ।।

<B2> अब्राह्मण इत्यादौ नञ्‌समासेऽपि यत् पदार्थप्राधान्यं बहुधा भाष्ये विकल्पितम् तदप्यबुधबोधनाय शास्त्रप्रक्रियामात्रप्रदर्शनमेव बोद्भव्यमित्याह--
परमार्थस्त्वेकमेव । तत्राभिधेयरूपं सकलजनप्रसिद्धं स्थितमिति न तत्र कश्चित् पूर्वोत्तरपदार्थव्यवहार उपपद्यत इति बोद्धव्यम् । प्रतिपादयिष्यते च--
शास्त्रवृत्तिभेदेन लौकिकोऽर्थो न भिद्यते ।
नञ्‌समासे यतस्तत्र त्रयः पक्षा विचारिताः ।।"इति ।। 227।। <B2>
(वा o प o 3 वृत्ति 250 )

जहत्स्वार्थविकल्पे च सर्वार्थत्यागमिच्छता ।
बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ।। 228 ।।

<B2> अथ पदार्थासम्भवे वृत्तिषु जहत्स्वार्थविकल्पो नोपपद्यते किल पदार्थसम्भवे कुत्रैतदुच्यत इत्याशङ्‌क्य समर्थयितुमाह--
यत एवमत एव तत्प्रदर्शनायाचार्येण वृत्तिषु जहत्स्वार्थपक्षे सर्वार्थत्यागमिच्छता बहुव्रीहौ समासे सर्वस्य पदार्थस्य त्याग उपदर्शितः । तत्र हि पदार्थव्यतिरेकेणान्य एव समुदायार्थो विशिष्ट एव प्रतिभातीत्यतः सर्वथा न वास्तवः कश्चित् पदार्थव्यवहारोऽङ्गीकार्य इति ।
तदेवं द्वन्द्वबहुवचनं प्रत्येकं वाक्यपरिसमाप्तिः सर्वनामप्रत्यवमर्शः क्रमेणानुष्ठानमेकदेशानुष्ठाने समुदायार्थानुष्ठानाभिमानश्चेति पञ्च चोद्यान्यपोद्धारसमाश्रयेणाखण्डवादिना परिहृतानि । बहुव्रीहौ च जहत्स्वार्थपक्षे सर्वार्थत्यागोपदसेनादखण्डमेव वाक्यामभिप्रेतिमिति लक्ष्यते ।। 228 ।। <B2>

शास्त्रे क्कचित् प्रकृत्यर्थः प्रत्ययेनाभिधीयते ।
प्रकृतौ विनिवृत्तायां प्रत्ययार्थश्च धातुभिः ।। 229 ।।

<B2> इदानीं सर्वोऽयं पदपदार्थव्यवहारः काल्पनिकोऽसत्यभूत एव नानाविधशास्त्रप्रक्रियामात्रशरणोऽवगन्तव्य इत्युपपादयितुमाह--
तथा च पदस्य प्रकृतिभागाश्रितमभिधेयं प्रकृत्यसद्भावेऽपि प्रत्ययएवाभिदधाति, यथा इयानित्यादौ । तथा प्रत्ययार्थश्च विनिवृत्तेऽपि प्रकृत्यैवाभिधीयते, यथाऽहन्नति ।। 229 ।। <B2>

यमर्थमाहतुर्भिन्नौ प्रत्ययावेक एव तम् ।
क्कचिदाह पचन्तीति धातुस्ताभ्यां विना क्कचित् ।। 230 ।।

<B2> पुनरप्यव्यवस्थां प्रदर्शयितुमाह--
तत्र पचन्तीत्यादौ भिन्नौ प्रत्ययौ शप्तिङौ समर्थं कर्तृलक्षणमाहतुस्तमेवैकोऽप्याह, अत्ति, जुहोतीत्यादौ । क्कचिद्धातुरेव तमर्थं ताभ्यां विनैवाह, अहन् वृत्रमिन्द्र इत्यादाविति । किमेतत्पदार्थानां वास्तवत्वे प्रमाणधुरामवगाहत इति यत्किञ्चिदेतत् ।। 230 ।। <B2>

अन्वाख्यानस्मृतौ ये च प्रत्ययार्था निबन्धनम् ।
निर्दिष्टार्थ (ष्टास्ते) प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ।। 231।।

<B2> शास्त्रप्रक्रियाणामप्यवास्तवात्वमुपपादयितुमाह--
कस्याञ्चिच्छब्दानुशासनस्मृतौ ये प्रत्ययविधाने प्रत्ययार्था निबन्धनं निर्दिष्टास्त एव स्मृत्यन्तरे प्रकृत्यर्था निबन्धनमुदाहृता इति नास्त्येव नैयत्यं पदपदार्थानाम् ।। 231 ।। <B2>

प्रसिद्धेरुद्वमिकरीत्येव शास्त्रेऽभिधीयते ।
व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ।। 232 ।।

<B2> प्रसिद्धत्वाच्च शास्त्राभ्यासाधिवासितमानसाः शास्त्रव्यवहारेषु पदविभागमपि प्रयुञ्जत एव । यथा उद्वमतीत्येवं प्रयोक्तव्ये उद्वमीति लाघवार्थं प्रयुञ्जते । करोषि करोमीति प्रयोक्तव्ये करीत्यतदेकदेशमात्रं प्रयुञ्जत एवेत्यभिधातुमाह--
ननु वस्तुभूताः शास्त्रप्रक्रियाः किमिति नाश्रिता) इत्याह--शास्त्रार्थेति । शास्त्रार्थप्रक्रियाः केवलमबुधानां व्युत्पादनाय । अतो न शास्त्राणि तत्त्वं वक्तुं पारयन्ति ।। 232 ।। <B2>

शास्त्रेषु प्रक्रियाभेदैरविधैवोपवर्ण्यते ।
अनागमविकल्पा तु स्वयं विद्यापवर्तते ।। 233 ।।

<B2> अथाविद्यैवासत्या प्रक्रियाभेदेनोपवर्ण्यत इत्याह--
यद्येवं किमविद्योपदर्शकशास्त्रप्रक्रियासमाश्रयेण प्रेक्षापूर्वकारिणामित्याह--अनागमेति । अविद्योपमर्देन ह्युत्तरकालमागमविकल्परहिता शास्त्रप्रक्रिया प्रपञ्चशून्या विद्योपावर्तते प्रकटीभवति । एतदुक्तं भवत्यविद्यैव विद्योपाय इति ।। 233 ।। <B2>

अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा ।
तथा विद्याऽप्यनाक्येया शास्त्रेपायेव लक्ष्यते ।। 234 ।।

<B2> ननु कथमविद्या विद्यास्वरूपविलक्षणा विद्याया उपायः स्यादित्याह--
नहि कारणेषु कार्यं केनचिद् व्य्यपदेश्येन रूपेण सम्बद्धं वक्तुं पार्यते । यत्र यथा कार्यलक्षणं फलं निमित्तेषु कारणेषूपाख्याविरहितं कारणसमन्वयविरहितमप्यद्‌भुतेन रूपेणोपजायते । तथैवाविद्याविलये स्वयं विद्योपावर्तमाना शास्त्रादुपजातेति नाख्यातुं शक्यते, केवलमदूरविप्रकर्षेण शास्त्राभ्यासाद्यदसावनुशील्यते ततो विद्यायां शास्त्रो (शास्त्राण्यु) पाया इव लक्ष्यन्ते, वस्तुस्थित्या तु प्रविवेकादसौ प्रकाशत इति बोद्धव्यम् ।। 234 ।। <B2>

अ(य)थाभ्यासं हि वागर्थे प्रतिपत्तिं समीहते ।
स्वभाव इव चानादिर्मिथ्यासो व्यवस्थितः ।। 235 ।।

<B2> शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते' (2-233) इत्युक्तम्, ततश्च शास्त्राभ्यासानतिक्रमेणैव लोकस्य वाक्‌शब्दोऽ(शब्दादःर्थप्रतिपत्तिं समीहत इत्याह--
स चानादिरभ्यासो मिथ्याभूत एव स्वाभाविक इव प्रतिभातीत्याह--स्वाभाव इति ।। 235 ।। <B2>

उत्प्रेक्षते सावयवं परमाणुमपण्डितः ।
तथावयविनं युक्तमन्यैरवयवैः पुनः ।। 236 ।।

<B2> मिथ्यात्वमेव प्रतिपादयितुमाह--
तारतम्ययोगादपकर्षप्राप्तिं परिमाणस्यानुमाय परमाणुः स्थापितः, तस्याप्यन्यः सावयवत्वमुत्प्रेक्षत इति नास्त्येव पुरुषबुद्धीनां वास्तवत्वम् । अवयविनमप्यवयवान्तरयोगिनमुत्प्रेक्षते ।। 236 ।। <B2>

घटादिदर्शनाल्लोकः परिच्छिन्नोऽवसीयते ।
समारम्भाच्च भावानामादिमद् ब्रह्म शाश्वतम् ।। 237 ।।

<B2> तथा परिमितपरिमाणं घटादिकं दृष्ट्‌वा लोच्यत इति लोकोऽयं विश्वप्रपञ्चरूपः परिच्छिन्नतयाऽवस्थितोऽध्यवसीयत इत्याह-- ।। 237 ।। <B2>

उपायाः शिक्षमाणानां बालानामपलापनाः ।
उसत्ये वर्त्मन स्थित्वा ततः सत्यं समीहते ।। 238 ।।

<B2> समारम्बादुत्पादाच्च भावानामिदं शाश्वतमपि ब्रह्मादिमदिति लोके व्यपदिश्यते । तस्मादुपायाः शास्त्राणि जिज्ञासूनामबुधानामपलापनाः प्रतारणा एव बोद्धव्याः । यस्मात्तत्रासत्यरूपे शास्त्रप्रक्रियामात्रेऽर्थे स्थित्वा अविद्यामुत्सृज्य सत्यं विद्यास्वरूपं ब्रह्म समीहते प्राप्नोतीति यावत् ।। 238 ।। <B2>

अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् ।
पुनर्वाक्ये तमेवार्थमन्यथा प्रतिपद्यते ।। 239 ।।

<B2> इदानीं पुनरपि पदपदार्थनिराकरणं प्रतिपादयितुमाह--
यदि च सत्यभूताः पदार्थाः स्युः, तदा पदार्थप्रतिपत्त्यवसरे सर्वमन्यथा प्रतिपद्यते । वाक्यार्थावसरे तत्परित्यागेनान्यथैव प्रतिपत्तिर्दृश्यमाना नोपपद्यते । एतच्चाग्रे स्तुतिनिन्देत्यादिना व्यक्तीकरिष्यति ।। 239 ।। <B2>

उपात्ता बहवोऽप्यर्था येष्वन्ते प्रतिषेधनम् ।
क्रियते ते निवर्तन्ते तस्मात् तांस्तत्र नाश्रयेत् ।। 240 ।।

<B2> यथा च पदग्रहणपूर्वकमादौ पदार्थः प्रतिपन्नः, पश्चाद्वाक्यार्थप्रतिपत्त्यवसरे तदर्थपरित्यागेनान्य एवार्थ उपजायत इति प्रतिपादयितुमाह--
इहाद्य धवखदिरपलाशारछेदनीया नेत्यत्र पदार्थप्रतिभाससमयेऽन्य एव धवादिच्छेदनलक्षणोऽर्थ उपादीयते, पश्चान्निषेधेन तन्निवर्तनं क्रियते, न चैततद्युक्तम्; उपात्तस्य त्यागे शब्दार्थसंबन्धस्यानित्यत्वप्राप्तरिति तेषां तत्रानाश्रयणमेव युक्तमित्याह--तस्मात्तांस्तत्र नाश्रयेदिति ।। 240 ।। <B2>

वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् ।
नार्थेन बुद्धौ सम्बन्धो निवृत्तेरवतिष्ठते ।। 241 ।।

<B2> अतो वाक्यवाक्यार्थयोरेव सत्यत्वमत्र युक्तमभ्युपगन्तुमित्याह--
एतद्वाक्यमेवाखण्डं विशिष्टाभावलक्षणमिति वृक्षाभावावगतिरूपस्य वाक्यार्थस्य लक्षणं प्रत्यायकमिष्यते । यदि पुनः पदार्थोऽत्र व्यतिरिक्तोऽभ्युपगम्यते, तदा वृक्षलक्षणे पदार्थे व्यवस्थिते नञ्सम्बन्धस्तस्य नोपपद्यते, तस्य हि स्वकारणाल्लब्धात्मलाभस्य न जातनिवृत्तिः कर्तुं शक्यते । अथासत एव नञा सम्बन्धस्तदाऽसत्त्वादेव निवृत्तोऽसाविति नञो वैयर्थ्यम् । यदुच्यते--
"सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते ।
जगत्यनेन न्यायेन नञर्थः प्रलयं गतः ।।" इति ।
तस्मादर्थस्य स्वत एव निवृत्तेस्तेन सह निवृत्तिवाचकस्य सम्बन्धो न विद्यते ।। 241 ।। <B2>

विच्छेदप्रतिपत्तौ च यद्यस्तीत्यवधार्यते ।
अशब्दवाच्या सा बुद्धिर्निवर्तेत स्थिता कथम् ।। 242 ।।

<B2> अथोच्यते विच्छेदेन पदार्थविषयास्तिबुद्धिरवधृता सा नञा निवार्यत इत्याह--
एवं च बुद्धावपि नञ्‌सम्बन्धो नोपपद्यत इत्याह--अशब्दवाच्येति । नञा शब्दवाच्योऽर्थः प्रतिषिध्यते न च बुद्धिः शब्दवाच्या । शब्देन हि बाह्योऽर्थोऽभिधीयते, बुद्धिस्त्वर्थालम्बना (न) शब्दाबिधेयत्वमर्हतीत्यतः कथं नञा सा प्रतिषिध्यते ।। 242 ।। <B2>

अथ यज्ज्ञानमुत्पन्नं तन्मिथ्येति नञा कृतम् ।
नञो व्यापारभेदेऽस्मिन्नभावावगतिः कथम् ।। 243 ।।

<B2> अथ बुद्धिर्न निवर्तते; अपि तु तस्या नञा मिथ्यात्वमावेद्यत इत्याह--
एतदपि निराकर्तुमाह--नञ इति । नञ एवमात्मके व्यापराविशेषे बुद्धिनिषेधात्मकेऽङ्गीक्रियमाणे सति वृक्षस्याभावावगतिर्न स्यात् किल पर्युदासे सदृशप्रतिपत्तिविधायिनि नञ्वाच्य एतदुपपद्यते । प्रसज्यप्रतिषेधे तु नैतदुपपद्यते, वृक्षाभावो हि तत्र वाक्यार्थ इति ।। 243 ।। <B2>

निराधारप्रवृत्तौ च प्राक्‌प्रवृत्तिर्नञो भवेत् ।
अथाधारः स एवास्य नियमार्था श्रुतिर्भवेत् ।। 244 ।।

<B2> अथ निवर्त्यमान एवास्याधारोऽभिधेयः कल्प्यते, तत्राप्याह--
आधारमनपेक्ष्यैव नञ् प्रवर्तत इति यद्युच्येत तदा नञः प्रागेव प्रवृत्तिः प्रयोगः स्यात् । प्रतिषेद्धमिष्टे सर्वत्र नेत्येवाभिदध्युरिति । अथ विषयनियमार्थमाधारप्रयोगो न वृक्ष इति वृक्षस्य निषेधो न घटादेरिति प्रतिपादयितुमाह--अथाधार इति । अत्रापि दूषणमभिधातुमाह--नियमार्थेति । नञैव तदर्थनिषेधे जाते पुनरसौ तच्छ्रतिनियमाय वा स्यात् ।। 244 ।। <B2>

नियमद्योतनार्था वा अनुवादोऽथवा भवेत् ।
कश्चिदेवार्थवांस्तत्र शब्दः शेषास्त्वनर्थकाः ।। 245 ।।

<B2> निपाता द्योतकाः केचिदित्यभिप्रयेणाह--
अथवाऽनुक्रम्य विस्पष्टार्थं पुनर्वचनमनुवादः स्यादित्याह-- अनुवाद इति । सर्वथैवमानर्थक्यमेव पदार्थानां स्यादित्याह--कश्चिदिति । न ब्राह्मण इत्यादौ नञ एवार्थवत्त्वमित्यन्येषामानर्थक्यं स्यात्, न चैतदुपपन्नम् । तस्माद् वृक्षो नास्तीत्यस्मादखण्डादखण्ड एव विशिष्टाभावरूपो वाक्यार्थः, न पुनस्तत्त्वतः पृथगेव पदार्थः सत्यभूतः कश्चिदुपपन्नः ।। 245 ।। <B2>

विरुद्धं चाभिसम्बन्धमुदहार्यादिभिः कृतम् ।
वाक्ये समाप्ते वाक्यार्थमन्यथा प्रतिपद्यते ।। 246 ।।

<B2> अथ `अन्यथा प्रतिपद्यार्थम्' (239 कारिका) इत्येतद् व्याख्यातुमाह--
उदहार्यादिभिः पदैर्विरुद्धपदार्थप्रतिभासावसरेऽभिसम्बन्धमवगच्छति । यथा उदहारि--"भगिनि ! या त्वं शिरसानड्‌वाहं वहसि सा त्वं प्राचीनं कुम्भमभिधावन्तमद्राक्षीः" इत्यत्रोत्तरकालं वाक्यार्थप्रतिपत्त्यवसरेऽन्यथैवार्थप्रतिपत्तिरिति न पदार्थः कश्चिदुपपन्नः ।। 246 ।। <B2>

स्तुतिनिन्दाप्रधानेषु वाक्येष्वर्थो न तादृशः ।
पदानां प्रविभागेन यादृशः परिकल्प्यते ।। 247 ।।

<B2> एतदेवान्यथा प्रतिपादयितुमाह--
स्तुतिप्रधानं वाक्यं किञ्चिद्धवति यत्र पदार्थो निन्दा--
"इन्दोर्लक्ष्म स्मरविजयिनः कण्ठमूलं मुरारि-
र्दिग्नागानां मदमलमषीभाञ्जि गण्स्थ लानि ।
आद्याप्युर्वोवलयतिलक ! स्यामलिम्नाऽनुलिप्ता
न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ।। "
अत्र पदार्थप्रतिभासवेलायां निन्दावगम्यते--यस्माद्धे राजन्नलीकमेवोद्धतां कन्धरां वहसि, तथाहि न सर्वव्यापि त्वदीयं यशः ; यदि हि तथा स्यात् , तदा किमित्यद्यापि प्रसिद्धा एव शशलक्ष्मादयः पदार्थाः श्यामलतया भासन्ते ? यशसो ह्यवदाततया तदीयस्य व्यापितायां तद्व्याप्तास्ते श्वेता भवेयुरेवेति पदार्थोऽत्र निन्दा, स्तुतिस्तु वाक्यार्थः । तथा च राजन् सर्वमेव जगद्यखसा त्वदीयेन धवलितं केवलं स्वभावस्य दुस्त्यजत्वाद्यदि परं चत्त्वार्येव वस्तूनि त्रिजगति श्यामगुणयुक्तान्यन्यत्सर्वमेव त्वदीयेन यशसा व्याप्तमिति सर्वत्र त्रिलोक्यामपि प्रथितप्रतापस्त्वमिति वाक्यार्थः । निन्दाप्रधाने स्तुतिः पादर्थो यथा--
"हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तैयधे
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनादौर्मुख्यलब्धाऽयशो-
भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ।। "
अत्र बोधिसत्तवचरितस्यापि त्वदीयेनानेन तोयनिधे ! परार्थसम्पादनषाङ्‌(साद्)गुण्येन पराजय इति पदेभ्यः स्तुतिरवगम्यते, वाक्यार्थस्तु निरतिश्यगर्हापात्रत्वमुदधेरवेक्ष्यति इति । ततश्च पदपदार्थानां वास्तवत्वे कथमेतत्सङ्गच्छत इति ।।
247।। <B2>

अथासंसृष्ट एवार्थः पदेषु समवस्थितः ।
वाक्यार्थस्याभ्युपायोऽसावेकस्य प्रतिपादने ।। 248 ।।

<B2> अथात्र पदवादिमतमाशङ्कतुमाह--
पदेष्वर्थोऽसंसृष्ट एव वाक्यार्थस्यैकस्य संसर्गलक्षणस्य प्रतिपादनेऽभ्युपायः स्थितः । पदार्थपूर्वको हि वाक्यार्थावसायो व्यवस्थित इति ।। 248 ।। <B2>

पूर्वं पदेष्वसंसृष्टो यः क्रमादुपचीयते ।
छिन्नग्रथितकल्पत्वान्न विशिष्टतरं विदुः ।। 249 ।।

<B2> एतन्निराकर्तुमाह--
आदौ पदेष्वसंसृष्ट एव स्थितः क्रमाच्च संसृज्योपचीयते यो वाक्यार्थः स विशिष्टतरः सुदृढं विशिष्ट एव, कस्मात् ? छिन्नग्रथितकल्पत्वादिति पूर्वं छिन्नः पश्चाद् ग्रथितो यस्तत्तुल्योऽसावित्यसंसृष्टपदार्थपूर्वको वाक्यार्थावसायो न युज्यत इति तदेवं प्रकृतिप्रत्यययोः परस्परमेकापायेनाप्यर्थावगतेः, उभयतोऽर्थस्य सम्प्रत्यये सत्येकस्मादेव प्रत्ययात् क्कचिदर्थप्रतिपत्तेः, प्रकृतिप्रत्ययार्थयोश्च साङ्कर्येण शास्त्रेष्वभिधानात्, वाक्यार्थस्य च पदार्थप्रतिपत्तिविलक्षणत्वात्, नञर्थानुपपत्तेः, सर्वत्रोपात्तत्यागप्रसक्तेरित्युपपत्तिषट्‌केन वृत्तिषु विरुद्धार्थोपपादनादिना च पूर्वोक्तोपपत्तिचतुष्टयेन सत्यभूतानां पदार्थानामनुपपत्तेः, अखण्डपक्षे च प्रतिनिध्यादिचोद्यपञ्चकस्य तथा द्वन्द्वाश्रयेण चोद्यसप्तकस्य परिहरणान्निरवद्यमखण्डमेव स्फोटात्मकं वाक्यं प्रतिभैव च वाक्यार्थ इति स्थितम् ।। 249 ।। <B2>

एकमाहुरनेकार्थ शब्दमन्ये परीक्षकाः ।
निमित्तभेदादेकस्य सार्वार्थ्यं तस्य भिद्यते ।। 250 ।।

<B2> इदानीमपोद्धारसमाश्रयेणापि पदार्थस्याभ्युपगतत्वान्मुख्यगौणविचारमप्यासूत्रयितुमाह--
अत्रैकशब्ददर्शनमनेकशब्ददर्शनं चिति द्वौ पक्षौ । तत्रापि पदपदार्थयोः सत्यत्वं पदवादिमतेन, असत्यत्वं च वैयाकरणमतेनेति चत्वारः पक्षाः । प्रतिक्षिप्तमपि पक्षं व्यवहारार्थमङ्गीकरोत्येव टीकाकारः । यतः सर्वपार्षदमिदं हि वायकरणं शास्त्रम् तत्र चायं स्थित इत्यत्र पुनः पदपदार्थावङ्गीकरोति । तत्रैकशब्ददर्शने शब्दोपचारः प्रसिद्ध्यप्रसिद्धिनिमित्तकः । तत्रैव चार्थोपचारो द्विधा--स्वरूपार्थत्वेन बाह्यार्थत्वेन च । इति त्रयः पक्षाः । एवमन्यत्र । तदेवमेतैस्त्रिभिः पक्षैश्चत्वारोऽपि पक्षा अभिहिता द्वादश सम्पद्यन्त इति बोद्धव्यम्। तत्रैकशब्ददर्शनसमाश्रयणेन तावद् गौणमुख्यविचारम् `एकमाहुरि' त्यादिना करोति, सर्वेष्वप्यर्थेष्वेक एव गोशब्दो वाचकः । यद्येवं युगपदेव सर्वार्थप्रकाशनं कस्मान्न करोतीत्याह--निमित्तभेदादित्यादि । निमित्तभेदो वक्ष्यमाणस्तस्मात् सार्वार्थ्यं भिद्यत इति ।। 250 ।। <B2>

यौगपद्यमतिक्रम्य पर्याये व्यवतिष्ठते ।
अर्थप्रकरणाभ्यां वा योगाच्छब्दान्तरेण वा ।। 251 ।।

<B2> ततश्च किमित्य आह--
निमित्तवशाद् युगपत् सर्वार्थप्रकाशनं न करोतीत्यर्थः । निमित्तभेदमाह--अर्थप्रकरणाभ्यामिति ।। 251 ।। <B2

यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते ।
तथा स एव गोशब्दो बाहीकेऽपि व्यवस्थितः ।। 252 ।।

<B2> यौगपद्यमतिक्रम्य पर्याये व्यवतिष्ठत इत्यस्योदाहरणमाह-- <B2>

सर्वशक्तेस्तु तस्यैव शब्दस्यानेकधर्मणः ।
प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपवर्ण्यते ।। 253 ।।

<B2> यद्येवं गौणमुख्यविभागः कुत इत्याह--
सर्वशांक्तमत्त्वं चानेकधर्मण इत्यनेन व्याख्यातम् । प्रसिद्धिभेदात् प्रसिद्धिविशेषाद् गोजातीये सातिशया गोशब्दस्य प्रसिद्धिः । बाहीके त्वीषदिति । तस्मात् प्रसिद्ध्यप्रसिद्धिकृतो गौणमुख्यभावः ।। 253 ।। <B2>

एको मन्त्रस्तथाध्यात्ममधिदैवमधिक्रतु ।
असङ्करेण सर्वार्थो भिन्नशक्तिर्व्यवस्थितः ।। 254 ।।

<B2> तथैकदर्शन एव प्रक्रियां दर्शयति--
तथा चैक एव मन्त्र आत्मन्यपि जपावसरे देवेष्वपि क्रतो यजनसमयेऽपि विनियुज्यते, भिन्नशक्तित्वादसाङ्कर्येण प्रतिनियतार्थतया व्यवस्थितिं लभत इत्यर्थः ।। 254 ।। <B2>

गोत्वानुषङ्गो बाहीके निमित्तात् कैश्चिदिष्यते ।
अर्थमात्रं विपर्थस्तं शब्दः स्वार्थे व्यवस्थितः ।। 255 ।।

<B2> एवं शब्दोपचारः प्रसिद्ध्यप्रसिद्धिनिमित्तकः प्रदर्शितः । एतस्मिंश्च शब्दोपचारे शब्दार्थसम्बन्धस्यानित्यत्वं स्यादित्याशङ्‌क्यार्थोपचारमाश्रित्याह--
अर्थः शब्दस्य द्विविधः--स्वरूपं बाह्यश्च । तत्र निमित्ताज्जाड्यादेर्गोत्वं बाहीकेऽप्यनुषज्यते, शब्दऽम्तु गोत्वमेवाभिधत्त इति बाह्यार्थोपचारः । इयांस्तु विशेषः--गोरत्यित्र मुक्यमेव गोत्वम् गौर्बाहीक इत्यत्र तूपचरितं तदेव वाच्यमिति ।। 255 ।। <B2>

तथा स्वरूपं शब्दानां सर्वर्थेष्वनुषज्यते ।
अर्थमात्रं विपर्यस्तं स्वरूपे तु स्थितिः स्थिरा ।। 256 ।।

<B2> अथ स्वरूपोपचारमाह--
शब्दानां स्वरूपमेव सर्वत्र वाच्यम्, तत्तु गोजातीये कदाचिदनुषज्यते, कदाचिद्वाहीक इत्यनित्यत्वं नास्ति शब्दार्थसम्बन्धस्य । प्रसिद्ध्यप्रसिद्धिकृतस्तु गोणमुख्यविभागो बोद्धव्यः ।। 256 ।। <B2>

एकत्वं तु स्वरूपत्वाच्छब्दयोर्गौणमुख्ययोः ।
प्राहुरत्यन्तभेदेऽपि भेदमार्गानुदर्शिनः (नुसारिणः) ।। 257 ।।

<B2> अथानेकशब्ददर्शनमाश्रित्याह--
भेदमार्गानुसारिणः शब्दभेदवादिनः गौणमुख्यार्थाभिधायिनोर्गोशब्दयोर्भेदमेवाहुः। ते ह्यर्थभेदाच्छब्दभेदं मन्यन्ते; यतः शब्दार्थयोरिहाध्यासलक्षणः सम्बन्धो व्यवस्थितः । एकत्र चेदध्यस्तस्तस्मिंस्तेनैवाभेदमापन्नः कथमन्येन सहाध्यासमुपेयादित्यार्थः । तदेवं शब्दभेद एवोपपन्नः । एतच्च भेदाभेदस्वभावं दर्शनद्वयं शब्दानां भाष्यकारेण वार्तिकव्याख्यानावसरे दर्शितम् । तत्र ह्युक्तम्--`तत्रानुवृत्तिनिर्देशे सवर्णाग्रहणमनण्‌त्वात्' ।
अत्रोत्तरम्--`एकत्वादकारस्य सिद्धम्' इति । यद्येवम्, अनुबन्धसङ्करस्तु, एकाजनेकाज्‌ग्रहणेषु चानुपपत्तिरित्यादीनि चोद्यानि प्राप्नुवन्ति, तत्रैवैतानि परिहृतानि, विषयेण तु नानालिङ्गकरणात् सिद्धम्, एकाजनेकाज्‌ग्रहणेषु चावृत्तिसंख्यानादित्येवमेकशब्ददर्शनं स्थापितम् ।
अथानेकदर्शनमाश्रित्य तत्रैवोक्तम्--आन्यभाव्यं तु कालशब्दव्यवायाद् युगपच्च देशपृथक्त्वदर्शनादित्येवं भेदाभेदौ शब्देषु व्यवस्थापितौ । तद्व्याख्यानायैव च टीकाकारः स्वतन्त्रपक्षद्वयदर्शनं करोतीति बोद्धव्यम् ।। 257 ।। <B2>
सामिधेन्यन्तरं चैवमावृत्तावनुषज्यते ।
मन्त्राश्च विनियोगेन लभन्ते भेदमूहवत् ।। 258 ।।

<B2> अथैतदेव शब्दभेददर्शनं प्रसङ्गद्वैदिकष्वपि शब्देषु योजयितुमाह--
त्रयोदशैकादश वा समिन्धनार्था ऋचः सामिधेन्यः । तत्र त्रिः प्रथमामन्वाह, त्रिरुत्तमामन्वाह । एवं चावृत्त्या सप्तदश पञ्चदश वा सामिधेन्यो भवन्तीति स्थितम् । तत्रावृत्तं सामिधेन्यन्तरमेव विभिन्नस्वरूपमनुषक्तं बोद्धव्यम्, न तत्त्वे(नै) कैवासौ पुनरावृत्तेति शब्दभेदवादिनः ।
एवं च मन्त्राणामपि भेदमाहुरिति प्रदर्शयितुमाह--मन्त्राश्चेति । विनियोगेनाभ्युपयोगादिनोपलक्षिता अपि मन्त्रा भिन्ना एव बोद्धव्याः । यथा आह--`देवीरापः शुद्धाः' इत्यस्मादन्य एव स्तुत्यर्थबादोऽभ्यूह्यते देव आज्यं सुद्धमि त्यादि । एवमूहमन्त्राणामन्यत्वम् तथैव विनियुक्तानां मान्त्राणामन्यत्वमेव ।। 258 ।। <258>

तान्याम्नायान्तराण्येव पठ्यते कश्चिदेव तु ।
अनर्थकानां पाठो वा शेषस्त्वन्यः प्रतीयते ।। 259 ।।

<B2> अन्यत्वे च तेषां किं वेदत्वं स्यान्न वेत्याशङ्क्य वेदत्वमेव तेषां बोद्धव्यमित्याह--
मन्त्राणां सर्वंषां वेदत्वमेव, वेदे तु कश्चिदेव मन्त्रः पठ्यते । न चैतावता तेषामेव वेदत्वम्, अन्यथा वेदेऽनर्थका एव सर्वे पठिता इत्याह--अनर्थकानामिति । उपलक्षणभूता अनधिकारा एव वेदे मन्त्राः पठिताः, तैस्तु विनियोगावसरे प्रतीयमानानामन्येषामेव वेदत्वं बोद्धव्यम् ।। 259 ।। <B2>

शब्दस्वरूपमर्थस्तु पाठोऽन्यैरुपवर्ण्यते ।
अत्यन्तभेदः सर्वेषां तत्सम्बन्धात्तु तद्वताम् ।। 260 ।।

<B2> तदेवमर्थभेदाच्छब्दस्य भेदे मन्त्राणां भेद एव, पठितानां चोपलक्षणार्थतेति प्रदर्शिंतम् । अथ स्वरूपार्थमेव पाठः सर्वेषां वैदिकानां कैश्चिदुच्यत इत्याह--
ततश्च सर्वेषां स्वरूपवतां भेद एवेत्याह--अत्यन्त इति । ननु पाठ्यमानानामेव स्वरूपार्थत्वात् स्वरूपवत्ता युज्यते, इतरेषां तु यागादौ विनियुक्तानां कथं स्वरूपवत्त्वमेव स्यादित्याह--तत्सम्बन्धादिति । तत्रापि प्रवृत्तिनिमित्तस्य स्वरूपस्यैव विद्यमानत्वात्तद्वत्त्वमेव बोद्धव्यम् ।। 260 ।। <B2>

अन्या संस्कारसावित्री कर्मण्यन्या प्रयुज्यते ।
अन्या जपप्रबन्धेषु सा त्वेकैव प्रतीयते ।। 261 ।।

<B2> तस्मान्मन्त्रेषु संस्कारादिविनियोगभेदात् पाठोपलक्षितानां चाभिन्नानामेव प्रतीतिः स्वरूपार्थत्वाद्वा, भिन्नानामेषां भेद एव मन्तव्य इत्युपसंहर्तुमाह--
सारूप्यात् त्वेकत्वव्यवहारस्तत्र बोद्धव्यः । तदेवमनेकशब्ददर्शनेऽर्थभेदाच्छब्दभेदे गौणोऽर्थोऽन्यः, मुक्योऽर्थश्चान्य एव; किन्तु सारूप्यादभेदे मुक्यार्थस्य प्रसिद्धत्वात् तद्वाचक उपचर्यत एवेति । शब्दोपचार एव तत्र कल्पयितुं शक्यः, न त्वेकशब्ददर्शन इव शब्दसम्बन्धस्यानित्यत्वादुपचारोऽर्थस्याश्रीयते । अत एवाभिप्रायवता टीकाकृता तत्र शब्दोपचारार्थोपचारौ व्याख्यातौ ।। 261 ।। <B2>

अर्थस्वरूपे शब्दानां स्वरूपाद्वृत्तिरिष्यते ।
वाक्यरूपस्य वाक्यार्थे वृत्तिरन्यानपेक्षया ।। 262 ।।

<B2> तत्सम्बन्धात्तु तद्वताम्'(वाक्यo 2-260) इत्यत्र स्वरूपेण प्रवृत्तिनिमित्तेन सम्बन्धः प्रतिपादितः । तदेव च सर्वेषां शब्दानां प्रवृत्तिनिमित्तं बोद्धव्यमिति विस्पष्टयितुमाह--
अर्थस्वरूपेऽर्थवस्तुनीिति यावत् । तत्र सर्वेषां स्वरूपादेव निमित्तात् प्रवृत्तिर्बोद्धव्या । न केवलं पदानां सर्वत्र स्वरूपमेव प्रवृत्तिनिमित्तम्, यावद्वाक्यरूपस्यापि शब्दस्य वाक्यार्थे वर्तमानस्य वृत्तिरन्यानपेक्षया स्वरूपेणैव बोद्धव्येति प्रसङ्गेन प्रतिपादयितुमाह--वाक्यारूपस्येति ।। 262 ।। <B2>

अनेकार्थत्वमेकस्य यैः शब्दसायनुगम्यते ।
सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ।। 263 ।।

<B2> इदानीमेकशब्ददर्शने गौणमुख्यविभाग इत्युपसंहरन्नाह--
सिद्ध्यसिद्धिभ्यां प्रसिद्ध्यप्रसिद्धिभ्यां तत्र गौणमुक्यविभागो वोद्धव्यः । अनेनैकशब्ददर्शनेऽपि सादृस्यादभेदे पुनरपि प्रसिद्ध्यप्रसीद्धिभ्यामेव गौणमुक्यविभाग इत्युक्तमेव ।। 263 ।। <B2>

अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह ।
युक्तः प्रत्याययत्यर्थं तं गौणमपरे विदुः ।। 264 ।।

<B2> अथोभयत्रापि गौणमुख्यविभागे निमित्तान्तरं दर्शयितुमाह--
अर्थप्रकरणशब्दन्तरसंनिधानानि गौणमुख्यभावमुभयत्रापि प्रयोजयतीत्युच्यते ।।264 ।। <B2>

शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते ।
स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ।। 265 ।।

<B2> एतदेव संग्रहकारोक्तश्लोकप्रदर्शनेन संवादयितुमाह--
एतन्मुक्यार्थशब्दलक्षणम् ।। 265 ।। <B2>

यस्त्वन्यस्य प्रयोगेण यत्नादिव नियुज्यते ।
तमप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ।। 266 ।।

<B2> गौणार्थशब्दस्वरूपमप्याह--
यत्नादिवेति । अर्थप्रकरणादेरित्यर्थः ।। 266 ।। <B2>

स्वार्थे प्रवर्तमानस्य यस्यार्थं योऽवलम्बते ।
निमित्तं तत्र मुख्यं स्याद् निमित्ती गौण इष्यते ।। 267 ।।

<B2> अथ प्रकारान्तरेण गौणमुख्यविभागमाह--
यो बाहिके प्रवर्तमानः स्वार्थे सास्नादिमति वर्तमानस्य गोशब्दस्य सम्बन्धिनमर्थे निमित्तत्वेनावलम्बते, तत्र विषये मुख्योऽर्थो निमित्तं स्यात् गौणस्तु निमित्तीत्युच्यते ।
एतदुक्तं भवति--यत्रास्खलद्‌गतिः शब्दस्तत्र मुक्योऽर्थः, स्खलद्‌गतित्वे तु गौणार्थतेति बोद्धव्यम् । नन्वेतेनार्थोपचार उक्तः, स चैकशब्ददर्शनेस्थितः । तत्र यस्यार्थं योऽवलम्बत इति शब्दभेद उक्तः स्यात् । असदेतत्; अत्रापि शक्तिभेदाश्रयणे कल्पितस्य भेदस्योपपत्तेर्युज्यत एतदिति न कश्चिद्दोषः ।। 267 ।। <B2>

पुरारादिति भिन्नेऽर्थे यौ वर्तेते विरोधिनि ।
अर्थप्रकरणापेक्षं तयोरप्यवधारणम् ।। 268 ।।

<B2> अथार्थप्रकरणादेः शुद्वस्य गौणमुख्यविभागहेतुत्वेऽतिप्रसङ्गमाह--
पुराराच्छब्दौ भाविभूतदूरान्तिकलक्षणेषु यथायोगं परस्परविरुद्धेष्वर्थेषु वर्तेते, तत्रैतयोरर्थ (प्रकरणादिनार्थनिर्णयः । ततश्चात्रापि गौणमुख्य भावः स्यात्, न चैतदिष्टम् ; अनयोरुभयत्रादि (मुख्यार्थ) त्वमिष्यत इत्यतोऽर्थप्रकरणादीन् केवलान् गौणमुक्यभावो न प्रयोजयतीति बोद्धव्यम् ।। 268 ।। <B2>

वाक्यस्यार्थात् पदार्थानामपोद्धारे प्रकल्पिते ।
शब्दान्तरेण सम्बन्धः क (त) स्यैकस्योपपद्यते ।। 269 ।।

<B2> इदानीमखण्डपक्षमाश्रित्य गौणमुख्यतामाह--
पूर्वमेकशब्ददर्शनेऽनेकशब्ददर्शने वा पदपदार्थयोः सत्यत्वमभ्युपगम्योक्तम्, तत्र त्वसत्यौ पदपदार्थौ बोद्धव्यौ । अतश्चाखण्डमेव वाक्यं वाक्यार्थस्य प्रत्यायकमिति पदपदार्थासद्भावे कीदृशो गौणमुख्यभावः किल ? गौर्वाहीक इत्यत्र पदपदार्थाभ्युपगमे विरुद्धसामानाधिकरणयान्यथानुपपत्त्या गोपदस्योपचरितार्थत्वमुच्यते; यदा तु गौर्बाहीक इत्यनेनाखण्डेनैव गोगतधर्मावच्छिन्नो बाहीकलक्षणोऽर्थोऽखण्ड एव प्रतिपाद्यते, तदा पदपदार्थानामसत्यत्वात् क (त) स्यैकस्याविद्यमानस्यैव तथाभूतेनैवेतरेण सम्बन्ध इति तस्त्यो गौणविभागः ?
यद्येवमेतस्मिन् पक्षे कथं गौणमुख्मयविभागः स्यात् ?
उच्यते--अपोद्धारसमाश्रयणेन पदपदार्थविभागमुपकल्प्य प्रसिद्ध्यप्रसिद्धिनिमित्तको गौणमुख्यविभागोऽभ्युपगन्तव्य इत्यभिप्रायः ।। 269 ।। <B2>

यच्चाप्येकं पदं दृष्टं चरितास्तिक्रियं क्कचित् ।
तद्वाक्यान्तरमेवाहुर्न तदन्येन युज्यते ।। 270 ।।

<B2> ननु स्वतन्त्रं पदं पदान्तरमन्तरेण प्रयुज्यत एव, अतस्तत्र वास्तवः पदपदार्थप्रविभाग इत्याह--
एकं पदं चरितक्रियत्वाद्वाक्यमेवाखण्डमिति प्रतिपादयिष्यति । अतस्तदन्येन नैव युज्यत इति बोद्धव्यम् ।। 270 ।।

यच्च कोऽयमिति प्रश्ने गौरश्व इति चोच्यते ।
प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ।। 271 ।।

<B2> एतदेव स्फुटीकृत्य प्रतिपादयितुमाह--
कोऽयमिति प्रश्ने दृश्यते भवतीति वा कापि क्रिया गार्भोकृता, सैवोत्तरेऽपि गर्भोकृतेति तदपि चरितक्रियमेकं वाक्यमेवेति मन्तव्यम् ।। 271 ।। <B2>

नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका ।
आधिक्यमपि मन्यन्ते प्रसिद्धेर्न्यूनतां क्वचित् ।। 272 ।।

<B2> इदानीं न्यूनाधिकभाव एव गौणमुक्यविभागकारणं कैश्चिदभ्युपगतमित्याशङ्क्य निराकर्तुमाह--
कस्मादेत्याह--आधिक्यमपीति । आपेक्षिकत्वादस्याव्यवस्थितत्वमेवेति न तेन गौणमुख्यव्यवहारः कल्पयितुं शक्यः ।। 272 ।। <B2>

जातिशब्दोऽन्तरेणापि जातिं यत्र प्रयुज्यते ।
सम्बन्धिसदृशाद्धर्मात् तं गौणमपरे विदुः ।। 273 ।।

<B2> सादृस्यमिदानीं निमित्तत्वेनाह--
गोशब्दो गोत्वजातिं विनापि स्वव्यक्तिगतगुणसादृश्याद् बाहीके प्रयुज्यत इति सादृश्यं गौणमुख्यभावे निमित्तम् ।। 273 ।। <B2>

विपर्यासादिवार्थस्य यत्रार्थान्तरतामिव ।
मन्यन्ते स गवादिस्तु गौण इत्युच्यते क्कचित् ।। 274 ।।

<B2> अथ विपर्यासमेव निमित्तत्वेनाह--
अर्थस्य बाहीकलक्षणस्यार्थान्तरतां गोरूपतां विपर्यासादिव यत्र मन्यन्ते, तत्र तस्मिंस्तद्वाचको गोशब्दः प्रवृत्तो गौण इति क्कचिन्मतम् । विपार्यासश्चाध्यव सायेन भवति अध्यारोपेण च । रजतमिदमित्यत्र विपर्ययाध्यवसाय एव । इह त्वध्यारोप्यगोगतान् गुणान् बाहीकेऽध्यवस्यतीत्यधारोपिततद्भावोऽयं विपर्यासः । अत एव विपर्यासादिवेत्युक्तम्, तस्मादध्यवसिततद्भावनिमित्तप्रयुक्तो नास्ति गौणमुख्यव्यवहार इति ।। 274 ।। <B2>

नियताः साधनत्वेन रूपशक्तिसमन्विताः ।
यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ।। 275 ।।

<B2> अथ रूपशक्तिनिमित्तिको गौणमुख्यव्यवहार इति पक्षान्तरं दृष्टान्तप्रदर्शनपूर्वकं दर्शयितुमाह--
खड्‌गगमानयेत्युक्ते सन्नद्धानां संग्रामकथा वर्तत इति रूपशक्तिमाहात्म्यादभिधीयते । एवं सीरादिषु ।। 275 ।। <B2>

क्रियान्तरेण चैतेषां भवन्ति नहि शक्त्यः ।
रूपादेव तु तादर्थ्यं नियमेन प्रतीयते ।। 276 ।।

<B2> क्रियान्तरे लताच्छेदादौ नैतेषां शक्तयो भवन्तीति वक्तुं पार्यते । ततश्च रूपे नियत एव कर्मणि सामर्थ्यमेषां व्यवसीयत इत्याह-- <B2>

तथैव रूपशक्तिभ्यामुत्पच्या समवस्थितः ।
शब्दो नियततादर्थ्यः शक्त्याऽन्यत्र प्रयुज्यते ।। 277 ।।

<B2> प्रकृते योजयितुमाह--
उत्पत्त्या स्वभावेनैव । यथोच्यते--`औत्पत्तिकः शब्दस्यार्थेन सम्बन्धः ।" सहज एवेति गम्यते । अनेकशक्तिसद्धावाच्चान्यत्रापि प्रयुज्यते ।। 277 ।। <B2>

श्रुतिमात्रेण यत्रास्य ता(या) दर्थ्यमवसीयते ।
मुख्यं तमर्थं मन्यन्ते गौणं यत्रोपपादितम् ।। 278 ।।

<B2> ततश्च गौणमुख्यभावः कथमत्र ज्ञायेतेत्याह--
गौणं चत्रोपपादितमिति तदभिधानशक्तिसद्भावेऽप्यप्रसिद्धत्वाद्यत्नेन प्रकरणादिना गौणत्वाध्यवसाय इत्यर्थः । तदेवमर्थप्रकरणशब्दान्तरसन्निधानमात्रं प्रसिद्ध्यप्रसिद्धिसहितं चार्थप्रकरणादिकमत्रानादिसमुच्चयेन अङ्गाङ्गिभावेन चेति द्वौ पक्षौ । न्यूनाधिकभावः सादृश्यं विपर्यासो रूपशक्तिमति सप्त पक्षाः । अत्राथप्रकरणमात्रं पुरारादित्यादिभिरतिप्रसङ्गादनिमित्तमेव । न्यूनाधिकभावस्याव्यवस्थितेरनिमित्तत्वमेव । सादृश्यस्यापि काश्यपप्रतिकृतिः काश्यप इत्यादौ निमित्तयुक्तेऽपि गौणत्वासद्भावादनिमित्ततैव । पारिशेष्यात् प्रसिद्ध्यप्रसिद्धिसहिताः प्रकरणादयः प्रकरणादिसहिते वा प्रसिद्ध्यप्रसिद्धी विपर्यासोऽध्यारोपः लक्षणौ रूपशक्तिरिति चत्वारः प्रकारा गौणमुख्ययोर्निमित्तत्वैन परिगृहीताः । इत्येतैर्निमित्तैः शब्दोपचारोऽर्थोपचारो वा । स च द्विविधः--वाक्या (च्या) र्थोपचारः स्वरूपोपचारो वेत्येवं गौणमुख्यविभागो मन्तव्यः ।। 278 ।। <B2>

गोयुष्मन्महतां च्व्यर्थे स्वार्थादर्थान्तरे स्थितौ ।
अर्थान्तरस्य तद्भावस्तत्र मुख्योऽपि दृश्यते ।। 279 ।।

<B2> इदानीमेतदेव लक्ष्ये योजयितुमाह--
गावादीनां शब्दानां स्वार्थादर्थान्तरेऽगवादिलक्षणो आश्रितपूर्वावस्थोपचरितोत्तरावस्थात्मके स्थितौ प्रवृत्तौ सत्यामर्थान्तरस्य बाहीकादेस्तद्भावो गावादिरूपतापत्तिलक्षणो यदा तदा गौणोऽर्थस्तेषां दृश्यत इति बोद्धव्यम् । न केवलं गौणोऽर्थस्तथा यावन्मुख्योऽपि दृश्यत इति बोद्धव्यम् ।
तत्रागौर्गौः समपद्यत गोऽभवत्; अत्वं त्वं सम्पद्यते त्वद्भवतीत्यात्रागवि अयुष्मदि च गोरूपता युष्मद्रपता चोत्तरावस्थाऽविद्यमानैवोपर्यत इति गौणार्थता । अमहान् महान्, अशुक्लः शुक्लः सम्पद्यतेः महद्‌भूतश्चन्द्रमाः, शुक्लीभवति पट इत्यत्र तूत्तरावस्था वस्तुसत्येवेति मुख्य एवार्थे महच्छुक्लीशब्दौ स्थिताविति नास्ति गौणत्वम् । अतश्च गौऽभवदित्यत्र गौणार्थत्वादोदन्तस्य निपातत्वेऽप्योदिति प्रगृह्यसंज्ञाया नास्त्येव प्राप्तिः । तथा त्वद्भवतीत्यत्रोपचरितस्य युष्मदर्थस्य प्रतीतेर्गौणार्थत्वादेव मध्यमपुरुषस्याप्यभावः । यतो गौणमुक्ययोर्मुख्ये सम्प्रत्यय इति भाष्ये स्थापितम् ।
वार्त्तिककारस्तु गोऽभवदित्यत्र च्व्यर्थवृत्तित्वान्निपातस्य गोशब्दस्य च्व्यर्थलक्षणं मुख्यमेव सर्वमर्थमवगच्छन् गौणमुख्यभावासम्भवमेवाभिमन्यमानः प्रगृह्यसंज्ञानिवृत्तये `ओतश्च्विप्रतिषेधः'(1-1-15 वाo) इति यत्नमाराब्धवान् ।
भाष्यकारस्त्वभिप्रायानभिज्ञ एवान्तरङ्गत्वाद् गौणमुख्ययोर्मुख्ये सम्प्रत्यव इत्येवम्त्र (न) प्रगृह्यसंज्ञा । अतोऽन्तरङ्गस्य कार्यस्याप्राप्तिरिति स्थितम् ।
ननु गौणार्थत्वे शब्दानां कार्याप्रवृत्तौ गौर्बाहीकस्तिष्ठति, गां बाहीकमानयेत्यत्र बृद्‌ध्यात्वे (न) प्राप्नुतः । अत्र ह्युपचरितार्थो गोशब्द इति उच्यते--द्विविधं हि शब्दानां कार्यमस्ति प्रातिपदिककार्यं पदकार्यं च । तत्र पदकार्येषु गौणमुख्यन्यायः, न प्रातिपदिककार्येषु । पदस्य विरुद्धपदसामानाधिकरण्यान्यथानुपपत्त्या गौणार्थता, प्रातिपदिकस्य प्रयोगानर्हस्य पदान्तरेण सामानाधिकरण्यासम्भवाद् गौणार्थता नैव निश्चेतुं सक्यते, प्रातिपदिककार्यं च वृद्‌ध्यात्वे इति तत्प्रवर्तत एव । तदुक्तम्--"अर्थाश्रय एतदेवं भवति, शब्दाश्रये च वृद्‌ध्यात्वे" (मा o भा o 1-1-15) इति ।। 279 ।। <B2>

महच्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते ।
भेदेनापेक्षिता सा तु गौणत्वस्य प्रयोजिका ।। 280 ।।

<B2> तदेवं गोऽभवत् त्वद्भवतीति चात्र गौणार्थत्वे सिद्‌ध्यतीष्टं महद्‌भूतश्चन्द्रमा इत्यत्र तु चन्द्रमसः पौर्णमास्यां महत्त्वस्य सद्भावादनुपरितत्वमिति महच्छब्दस्य `आन्महत'इत्यादिना प्राप्नोत्येवात्वमित्याशङ्‌क्यात्रापि गौमार्थतां प्रतिपादयितुमाह--
महद्‌भूतश्चन्द्रमाः सुक्लीभवति पट इत्यत्रापि प्रकृतिर्महत्त्वं शुक्लभवनं च भेदेनाश्रितपूर्वावस्थोपचरितोत्तरावस्थतयैव प्रतिपद्यते, ततश्च यद्यपि वस्तुवृत्त्या एव एवार्थः, तथापि वक्त्रापेक्षिता आश्रिता सती गौणत्वं प्रयोजयति ।
एतदुक्तं भवति--यद्यप्यत्र महत्त्वं शुक्लभावश्च तथैव विद्यते, तथाप्यत्र शब्दवृत्त्योन्मज्जद्रूपा प्रकृत्यवस्थैवोच्यत इति तदाश्रयेणोपचरितत्वान्महत्त्वस्य न भवत्यत्र महच्छब्दस्यात्त्वम् । शुक्लीभवति पट इत्यस्य कार्यं न किञ्चिदस्ति, अर्थप्रदर्शनाय केवलमत्र प्रदर्श्यते ।। 280 ।। <B2>

अग्निसोमादयः शब्दा ये स्वरूपनिबन्धनाः ।
संज्ञिभिः संप्रयुज्यन्तेऽप्रसिद्धेस्तेषु गौणता ।। 281 ।।

<B2> अथाग्निसोमौ माणवकावित्यत्र संज्ञाशब्दत्वान्मुख्यार्थत्वे `अग्नेः स्तुत्सतोमसोमाः" (8-3-82) इति षत्वं कस्मान्न क्रियत इत्याह--
इहाग्निसोमादयः शब्दा देवतावाचकाः स्वरूपनिमित्तकाश्च संज्ञाभूतार्थवृत्तयश्चेति त्रिविधाः सम्भवन्ति । तत्र देवतायां स्वरूपनिमित्तेषु चैते मुक्यार्था एव । तत्र संज्ञायां गौणतेति । देवतायामग्निसोमादयः प्ररूढिमुपगता माणवके चाप्रसिद्धा इत्येवमप्रसिद्‌ध्या तेषां गौणार्थत्वमुच्यते, न त्वध्यारोपेणेति बोद्धव्यम् । अतश्च षत्वाप्रवृतिरेव ।। 281 ।। <B2>

अग्निदत्तस्तु योऽग्निः स्यात् तत्र स्वार्थोपसर्जनः ।
शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते ।। 282 ।।

<B2> यत्र त्वतस्मिंस्तदध्यारोपेणाग्निसोमादयः प्रवर्त्यन्ते, तत्र स्फुटैव गौणार्थता तेषामित्याह--
स्वार्थं देवतालक्षणमुपसर्जनीकृत्यार्थान्तरमेव तदव्यारोपेण यत्राभिदधति, तत्र गौणार्थत्वं स्फटमेवैते शब्दाः प्रतिपद्यन्त इति बोद्धव्यम् ।। 282 ।। <B2>

निमित्तभेदात् प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि ।
हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ।। 283 ।।

<B2> अथ हरिश्चन्द्रो माणवक इत्यत्र सुट्‌समर्थनार्थं प्रस्तोतुमाह--
हरिश्चन्द्रादिषु सुटो भावाभावौ नियतावेव, यस्माच्छब्दव्युत्पत्तिक्रियायां तत्र निमित्तभेदः समाश्रीयते । ऋषावनादिभूते प्रसिद्धो हरिश्चन्द्रः साधुः हरिश्चन्द्रो यस्येत्येतस्मिंस्तु व्युत्पत्तिकर्मण्यभाव एव स्फुट इत्यसाङ्कर्यमेव ।। 283 ।। <B2>

ऋष्यादौ प्राप्तसंस्कारो यः शब्दोऽन्येन युज्यते ।
तत्रान्तरङ्गः संस्कारो बाह्येऽर्थे न निवर्तते ।। 284 ।।

<B2> अथ यदा पुरातनहरिश्चन्द्रगतगुमसंदर्शनेन साक्षाद्धरिश्चन्द्रोऽयं माणवक इत्युच्यते, तदा किं गौणार्थत्वान्न भवितव्यमेव सुटेत्यसाङ्कर्यं दर्शयितुमाह--
हरिश्चन्द्रशब्दस्तावदृषावेव संस्कृत उत्तरकालं प्राप्तसंस्कारः सन्नसौ यदा हरिश्चन्द्रगुणसधर्मण्यन्यत्र प्रयुज्यते तदान्तरङ्गः संस्कारो वाक्यार्थवेलायामर्थान्तरसम्बन्धावसरे न निवर्तत इति वैयाकरणसमयः । यथा करिष्यति श्वः, वर्षण गमिष्यतीत्यत्र श्वः शब्दसन्नधानाद्भविष्यदनद्यतनलक्षणकालप्रादुर्भावे भविष्यत्सामान्यसमाश्रयणेन विहितस्य लृटो न विवृत्तिः कर्तुम्, एवमत्रापि हरिश्चन्द्रो माणवक इति गौणार्थत्वेऽपि सुट्‌सिद्धिरेवेति ।। 284 ।। <B2>

अत्यन्तविपरीतोऽपि यदा योऽर्थोऽवधार्यते ।
यथासंप्रत्ययं शब्दस्तत्र मुख्यः प्रवर्तंते ।। 285 ।।

<B2> इदानीं न्यायदर्शनच्छायया बौद्ध एव शब्दार्थो नास्ति कश्चिच्छब्देषु गौणमुक्यविभाग इत्याशङ्‌क्याह--
इह वक्तुरिच्छया विषयीकृतेऽर्थे कश्चिद्यावच्छब्दः प्रवर्तते, तावद्यदा यथा विपर्ययेण चार्थावधारणं क्रियते, तदा यथासंप्रत्ययं प्रत्ययानुसारेणैव शब्दः प्रवर्तमानः सर्वत्र मुक्यतयैव प्रवृत्त इति वाक्ये न शब्देषु गौणमुख्यविभागः कश्चित् ।। 285 ।। <B2>

यद्यपि प्रत्ययाधीनमर्थतत्वावधारणम् ।
न सर्वः प्रत्ययस्तस्मिन्नसिद्ध इव जायते ।। 286 ।।

दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः ।
तुल्यत्वे दर्शनादीनां न जलं मृगतृष्णिका ।। 287 ।।

यदसाधारणां कार्यं प्रसिद्धं रज्जुसर्पयोः ।
तेन भेदः परिच्छेद्यस्तयोस्तुल्येऽपि दर्शने ।। 288 ।।

<B2> इदानीमत्रापि गौणमुख्यविभागं समर्थयितुं सत्यासत्यविभागं तावदुपक्रमितुमाह-- <B2>

प्रसिद्धार्थविपर्यासनिमित्तं यच्च दृश्यते ।
यस्तस्माल्लक्ष्यते भेदस्तदसत्यं प्रचक्षते ।। 289 ।।

<B2> अथ दर्शंनस्य विषयासत्यत्वेनाप्यसत्यत्वमुपदर्शयितुमाह--
यच्च नैमित्तिकदर्शनं प्रसिद्धार्थविपर्यासनिमित्तमिति प्रसिद्धः सत्यरूपोऽर्थः तस्य विपरीतो यो मिथ्यात्वलक्षणस्तस्य निमित्तं कारणमिन्द्रियविषयगतो दोष इति । यश्च तस्माद्भेदो विशेषो लक्ष्यते द्विचन्द्रादिस्तं तथाभूतं दर्शनविषयं प्रचक्षते ।। 289 ।। <B2>

यच्च निम्नोन्नते चित्रे सरूपं पर्वंतादिभिः ।
न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते ।। 290 ।।

<B2> पुनरपि दर्शनभेदमाह--
पर्वतादिभिः सरूपं निम्नोन्नत चित्रभित्तौ दृश्यते, न च तावता तत्र प्रतिघातादिकार्यभेदो ज्ञानान्तरेण तत्र भेदावगतिरेवेत्यर्थः ।। 290 ।। <B2>

स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य सन्तः ।
न तथाऽलातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ।। 291 ।।

वप्रप्राकरातल्पैश्च स्पर्शनावरणे यथा ।
नगरेषु न ते तद्वद् गन्धर्वनगरेष्वपि ।। 292 ।।

मुगपश्वादिभिर्यावान् मुख्यैरर्थः प्रसाध्यते ।
तावान्न मृन्मयेऽप्यस्ति तस्मात्ते विषयः कनः ।। 293 ।।

महानाव्रयते देशः प्रसिद्धैः पर्वतादिभिः ।
अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ।। 294 ।।

मरणादिनिमित्तं च यथा मुख्या विषादयः ।
न ते स्वप्नादिषु स्वस्य तद्वदर्थस्य साधकाः ।। 295 ।।

<B2> एतदेव दृष्टान्तान्तरैः प्रतिपादयितुमाह--
अत्र हस्तिकान् विक्रीणीते, अश्वकान् विक्रीणीते इत्यादौ कार्यभेदादेव भेदमवसाय कन्प्रत्ययान्तान् प्रतिकृतिवाचकानीरितवानिति मृगपश्वादिभिरित्यस्य श्लोकस्यार्थः । अन्यत् स्पष्टम् ।। 291 - 295 ।। <B2>

देशकालेन्द्रियगतैर्भेदैर्यद् दृश्यतेऽन्यथा ।
यथा प्रसिद्धिर्लोकस्य तथा तदवसीयते ।। 296 ।।

<B2> इदानीमुपसंहर्तुमाह--
देशभेदेनासति विप्रकर्षरूपेण, कालभेदेन यथा ग्रीष्मे मरीचयो भौमेनोष्मणा स्पन्दमाना दूरस्थस्य जलज्ञानमुपजनयन्ति, इन्द्रियभेदेन यथा तैमिरिकस्य द्विचन्द्रज्ञानमुपजनयन्ति तैर्देशकालंन्द्रिगतैर्भेदैरन्यथा दृश्यमानं वस्तु लोकप्रसिद्धिवशाद् दार्ढ्यादार्ढ्यप्रत्ययभेदेनार्थक्रियाभेदेन च यथावदवैपरीत्येनाध्यवसीयते ।। 296 ।। <B2>

यच्चोपघातजं ज्ञानं यच्च ज्ञानमलौकिकम् ।
न ताभ्यां व्यवहारोऽस्ति शब्दा लोकनिबन्धनाः ।। 297 ।।

<B2> ततश्चेदमत्रार्थतत्त्वं बोद्धव्यमित्याह--
उपघातजं सत्यत्व विपरीतं ग्रैष्मतिमिरिकादिज्ञानम्, अलौकिकं च यदपि परमर्षोणां सम्बन्धि ज्ञानं ताभ्यामुभाभ्यामपिव्यवहारनिर्वहणमशक्यमित्यतोयथैवाऽविसम्बाधं लोकप्रसिद्‌ध्या सकलव्यवहारनिर्बहणनिपुणं ज्ञानं यथावदर्थतत्त्वावधारणाय समाश्रीयते । यथोक्तम् --
"असमाख्येयतत्त्वानामर्थानां लौकिकैर्यथा ।
व्यवहारे समाख्यानं तत्प्राज्ञो न विकल्पयेत् ।। " इति, (वा o प o 2-142) तथैवार्थस्वरूपप्रत्यायनाय शब्दा लोकनिबन्धना लोकव्यवहारनिमित्तभूताः प्रवर्तमानाः प्रसिद्‌ध्यप्रसिद्धिभ्यामेव स्खलद्‌गतित्वास्खलद्‌गतित्वाभ्यां गौणमुख्यविभागमापादयन्तीति बौद्धेऽपि शब्दार्थे व्यवस्थित एव गौणमुक्यविभाग इति सिद्धम् ।। 297 ।।<B2>

घटादिषु यथा दीपो येनार्थेन प्रयुज्यते ।
ततोऽन्यस्यापि साचिव्यात् स करोति प्रकाशनम् ।। 298 ।।

<B2> एवं गौणमुख्यविभागमुक्त्वा तत्प्रसङ्गेन च सत्यासत्यविभागं विधाय पुनरपि शब्दानां मुक्यनान्तरीयकविचारं वैतत्येन कर्तुमाह--
इह यत्प्रतिपादनाय शब्दाः प्रयुज्यन्ते, तत्तस्य प्रयोजकं मुख्यं तत्प्रतिपादनावसरे च सन्निधानाद्यदन्यत प्रत्याययति तत्तस्य नान्तरीयकमुच्यते । एतद्‌ दृष्टान्तद्वयेन प्रदर्शयति--घटादिष्वित्यादिना ।
तत्र यथा दीप इति ज्ञापकदृष्टान्तोपदर्शनं घटादिषु ज्ञातेषु विषयेषु यथा ज्ञापको दीपो येनार्थेन घटादिज्ञापनलक्षणेन ततः प्रयोजकादन्यत्प्रकाशं नान्तरीयकं यथा करोति ।। 298 ।। <B2>

संसर्गिषु तथाऽर्थेषु शब्दो येन प्रयुज्यते ।
तस्मात् प्रयोजकादन्यानपि प्रत्याययत्यसौ ।। 299 ।।

<B2> एवं दार्ष्टान्तिके योजयितुमाह--
यथा भाव इत्यादावर्थेषु बहुषु संसर्गिषु मव्याद्येनार्थेन सिद्धत्वादिनाऽसौ भावशब्दः प्रयुज्यते तस्मादन्यनपि लिङ्गसंख्यादीन् नान्तरीयकतया स्थितान् सन्निधानात् प्रत्याययत्येवेति बोद्धव्यम् ।। 299 ।। <B2>

निर्मन्थन यथाऽरण्योरग्न्यर्थमुपपादितम् ।
धूममप्यनभिप्रेतं जनयत्येकसाधनम् ।। 300 ।।

<B2> कारकहेतुदृष्टान्तोपदर्शनार्थमाह--
अरण्योः सम्बन्धि यन्निर्मथनं तदग्न्यर्थम् अग्निनिष्पत्तये, अग्निस्तस्य ग्रयोजक इत्यर्थः । यस्मान्नान्तरीयकतया धूममप्यनुपयोगिनं जनयत्येव । कीदृशम् ? एकसाधनमेकहेतुकमित्यर्थः । अरण्योरित्यनेनोत्तरणिरधरारणिश्च तत्रोच्यत इति दर्शितम् ।। 300 ।। <B2>

यथा शब्दोऽपि कस्मिश्चित् प्रत्याय्यार्थे विवक्षिते ।
अविवक्षितमप्यर्थं प्रकाशयति सन्निधेः ।। 301 ।।

<B2> पुनरपि दार्ष्टान्तिके योजयितुमाह--
कस्मिंश्चित् प्रत्याय्येऽर्थे सिद्धताख्ये धर्मेऽविवक्षितमप्यर्थं पुंस्त्वैकत्वलक्षणं प्रकाशयति प्रत्यायति सन्निधानादिति ।। 301 ।। <B2>

यथैवात्यन्तसंसृष्टस्त्यक्तुमर्थो न शक्यते ।
तथा शब्दोऽपि सम्बन्धी प्रविवेक्तुं न शक्यते ।। 302 ।।

<B2> नन्वस्तु वस्तुगतिरीदृश्येव, यथा दीपादिना नान्तरीयकप्रत्यायनेन प्रयोजकं प्रकाश्यते तत्सन्निधानाद् नान्तरीयकतयाऽन्यदपि घटकुड्यादीति तत्र युक्तम्, शब्दस्तु यत्प्रतिपादनाय वक्त्रा प्रतिपादयितुमष्टः, तथैव भूत्वा तत्प्रतिपादनं करोतु;किं तस्य नान्तरीयकप्रत्यायनेनत्याशङ्क्याह--
यथा मत्स्यमांसार्थिना मत्स्यमांससंसृष्टस्तोकत्वक्कण्टकादिरनुपयोग्यपि त्यक्तुं न शक्यते, तथा शब्दोऽप्यत्ययन्तसम्बन्धल्लिङ्गसंख्याप्रतिपादकः, तत्र न केवला प्रकृतिः प्रयोक्तव्या, न च केवलः प्रत्यय इति प्रविवेक्तुं परिहर्तुं न शक्यते ।। 302 ।। <B2>

व्यर्थानां सन्निधानेऽपि सति चैषां प्रकाशते (ने) ।
प्रयोजकोऽर्थः शब्दस्य रूपाभेदेऽपि शस्यते ।। 303 ।।

<B2> अतश्च तत्रार्थेषु बहुषु सन्निहितेषु कः शब्दस्यार्थो वाच्यः स्यादित्याह--
बहूनां संसर्गिणामर्थानां तत्र सन्निधानादेतेषां च सत्यपि शब्दाद् दीपादिवाविशेषेण प्रकाशने यम्तस्य प्रयोजकः; स एव वाच्योऽर्थः, अन्यो नान्तरीयकः न तस्य प्रयोजकत्वं तत्रापि रूपस्याभेदे समानरूपत्वे इति।। 303 ।। <B2>

क्कचिद् गुणप्रधानत्वमर्थानामविवक्षितम् ।
क्कचित् सान्निध्यमप्येषां प्रतिपत्तावकारणम् ।। 304 ।।

यच्चानुपात्तं शब्देन तत्कस्मिंश्चित् प्रतीयते ।
क्कचित् प्रधानमेवार्थो भवत्यन्यस्य लक्षणम् ।। 305 ।।

<B2> एतदेव वैतत्येन प्रकारभेददर्शनपूर्वकमाह--
अत्र च गुणप्रधानताविपर्ययः पदार्थैकदेशाविवक्षा सकलपदार्थाविवक्षा, उपात्तपदार्थापरित्यागैनैवान्यार्थोपलक्षणमित्येवमनेन श्लोकद्वयेन प्रकारचतुष्टयस्योद्देशः कृतः ।। 304 - 305 ।। <B2>

आख्यातं तद्धितार्थस्य यत्किञ्चिदुपदर्शकम् ।
गुणाप्रधानभावस्य तत्र दृष्टो विपर्ययः ।। 306 ।।

<B2> अथाद्यप्रकारप्रदर्शनार्थमाह--
तेनदीव्यतीत्याख्यातं तद्धितार्थस्य निमित्तत्वेनोक्तम् । अतश्च तत्र क्रियाप्रधानमाक्यातमिति तदर्थस्यैव तद्धितान्तादवगतिः स्यात् । यतश्च तत्र क्रियाप्रधानत्वेऽपि चाख्यातस्य तद्धितः स्वभावात् साधनप्रधान इति साधनार्थस्यैव प्राधान्येनावगतिरिति । तेन दीव्यत्यादौ निर्देशे गुणप्रधानभावो न विवक्षितः, अक्षकरणकदेवनादिक्रियाकर्तृमात्रमेव तत्र प्रयोजकमिति स एक मुख्योऽर्थः ।
वक्ष्यति च--
"गुणप्रधानताभेदः पुरुषादिविपर्ययः ।
निर्दिष्टस्यान्यथा शास्त्रे नित्यत्वान्न विरुध्यते ।।
यथानिर्देशमर्थाः स्युर्येषां शास्त्रं विधायकम् ।
किञ्चित्सामान्यमाश्रित्य स्थिते तु प्रतिपादनम् ।।
योऽश्वे यः पीठ इत्यत्र भूतयोरश्वपीठयोः ।
यथोपलक्षणार्थत्वं तथार्थेष्वनुशासनम् ।।"इति ।। 306 ।। <B2>

निर्देशे लिङ्गसंख्यानां सन्निधानमकारणम् ।
प्रमाणमेव ह्रस्वादावनुपात्तं प्रतीयते ।। 307 ।।

<B2> अथ क्कचित् सान्निध्यमित्येतस्य प्रतिपादनायाह--
सिद्धलक्षणो भावो घञादीनां निमित्तत्वेनाभीष्ट इति तत्प्रतिपादनाय भाव इत्यस्मिन् निर्देशे लिङ्गसंख्ययोर्नान्तरीयकतया प्रतिपत्तावपि सन्निधानमकारणम्, न तत्र तयोः प्रयोजकत्वमिति यावत् । ननु नान्तरीयकतया प्रतिपत्तौ कथं क्कचित् सान्निध्यमप्येषां प्रतिपत्तावकारणमित्युक्तम् । प्रयोजकार्थवत् तद्‌व्यवहारपर्यन्तायां प्रतिपत्तावकारणमित्यभिप्रायः ।
इदानीं यच्चानुपात्मतमित्येतस्य प्रतिपादनायाह--प्रमाणमेवेति । इह उदात्तानुदात्तस्वरसमाहारः स्वरित इत्युक्तम्, ह्रस्वदीर्घप्लुताश्च मात्रिकद्विमात्रिकत्रिमात्रलक्षणा उदात्तानुदात्तस्वरसमाहाररूपा भवन्ति । तत्र ह्रस्वस्वरितादीनां कियदुदात्तं कियदनुदात्तम् ? आदौ किमुदात्तमथानुदात्तं मध्येऽन्ते वेति सन्देहापाकरणायोक्तम्--"तस्यादित उदात्तमर्धह्रस्वम्"(1-1-32) इति । अत्र चार्द्धह्रस्वग्रहणमर्द्धमात्रालक्षणस्य प्रमाणस्योपलक्षणमिति तदेव तस्मात् प्रतीयते इत्यर्धह्रस्वग्रहणप्रतिपाद्यस्याप्रधानस्याविवक्षैवोक्ता ।। 307 ।। <B2>

ह्रस्वस्यार्द्धं च यद् दृष्टं तत्तस्याऽसन्निधावपि ।
ह्रस्वस्य लक्षणार्थत्वात् तद्वदेवाभिधीयते ।। 308 ।।

<B2> एतदेव प्रदर्शयितुमाह--
अतश्च ह्रस्वस्यार्धं च दृष्टमर्धमात्रात्मकं तत्तस्य ह्रस्वस्यासन्निधावपि दीर्घप्लुतयोरप्यादिभूतार्द्धमात्रोदात्तेत्युच्यते । कस्मादित्याह--ह्रस्वस्य लक्षणापर्थत्वादिति । अर्द्धह्रस्वमित्यत्र ह्रस्वग्रहणं मात्राया उपलक्षणार्थम् । अतो दीर्घप्लुतयोरप्यादिभूतार्द्धमात्रोदात्तेति बोद्धव्यम् । एतदेवान्यैरुक्तम्--अर्धह्रस्वमित्यनेनार्द्धमात्रा लक्ष्यते ह्रस्वग्रहणमतन्त्रमिति । तस्माद्‌ध्रस्वस्यात्र लक्षणार्थत्वाद् दीर्घप्लुतयोरप्यर्द्धमात्रोदात्ता भवतीत्यभिधीयते । किंवदित्याह--तद्वदेवेति । यथा तस्य ह्रस्वस्यार्द्धमात्रोच्यते, तथा तदसन्निधौ दीर्घप्लुतयोरपीत्यर्थः ।। 308 ।। <B2>

दीर्घप्लुताभ्यां तस्य स्याद् मात्रया वा विशेषणम् ।
जातेर्वा लक्षणा यस्मात् सर्वथा सप्तपर्णवत् ।। 309 ।।

<B2> अथवा प्रकारत्रयमत्र प्रतिपाद्यते, तत्राद्यप्रकारमाह--
ह्रस्वग्रहणेन "ऊ3कालोऽज्झ्रस्वदीर्घप्लुतः" इत्यत्रैकयोगनिर्दिष्टत्वाद् दीर्घप्लुतावपि लक्ष्येते, ततश्च दीर्घप्लुताभ्यां तस्यार्द्धस्यावच्छेदः स्यात् । विषमविभागेऽप्यर्द्धशब्दो दृष्टो ग्रमार्द्धं नागरार्घमिति । तथाऽत्रेति दीर्घप्लुतयोरप्यर्द्धमात्रोदात्ता भवति ।
द्वितीयं प्रकारमाह--
मात्रया अथवार्द्धस्यावच्छेदः, ह्रस्वसंज्ञकत्वस्याविवक्षितत्वात् । एतच्च निदर्शितं ह्रस्वस्यार्द्धमित्यनेन ।
अथवा निरस्ताव यवविभागोऽर्द्धह्रस्वशब्दोऽखण्ड एवार्द्धमात्राजातेः सप्तपर्णादिवदुपलक्षक इति । तृतीयमत्र प्रकारमाह--जातेर्वेति ।। 309 ।। <B2>

गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे ।
ज्ञायतां काल इत्येतत्सोपायमभिधीयते ।। 310 ।।

<B2> इदानीं क्कचित् प्रधानमेवार्थो भवत्यन्यस्य लक्षणमिति व्याख्यातुमाह--
पथिकैः क्कचिदित्थमभिधीयते त्वर्यतामद्यापरोऽध्वा गन्तव्यः सूर्यश्च दृश्यतामित्यत्र सूर्यदर्शवनप्राधान्येन शब्दः श्रूयमाणो ज्ञायतामल्पीयान भागोऽह्नः परिशिष्यत इत्यर्थस्य सोपायस्य सनिश्चस्योपलक्षकः सम्पद्यत इति प्रधानेनार्थेनान्यार्थोपलक्षणमिति लक्षितपरार्थो मुख्यः शक्त्यर्थोऽपि न त्यक्त इति ।।310।। <B2>

विध्यत्यधनुषेत्यत्र विशेषेण निदर्यते ।
सामान्यमाश्रयः शक्तेर्यः कश्चत्प्रतिपादकः ।। 311 ।।

<B2> एतदेव श्लोकत्रयेण शास्त्रलोकयोरुदाहरणेषु वितत्य प्रदर्शयितुमाह--
अधनुषेत्यनेन विशेषण करणसामान्यम्त्रं निदर्श्यते । तत्कीदृशमित्याह--शक्तेः करणशर्केराश्रयोऽधिकरणमात्रम् ततश्च तस्या यः कश्चित्प्रतिपदाक उपादीयते । एतदुत्तं भवति--करणनिषेधपरायां चोदनायां धनुर्लक्षणस्य विशेषस्यापरित्यागेनैव करणमात्रस्य मुख्यत्वमिति (लक्ष्यत्वमिति) शास्त्रीयमुदाहरणम् । उक्तं च--"विध्यत्य-करणेनेतीतरथा ह्यतिप्रसङ्गः" (भा o 4-4-83) इति ।। 311 ।। <B2>

काकेभ्यो रक्ष्यतां सर्पिरिति बालोऽपि चोदितः ।
उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ।। 312 ।।

<B2> विशेषाभिधायकेऽपि वाक्ये सामान्यमात्रमेव प्रयोजकं लोकेऽपि दृश्यत इत्याह सर्पिषः काकेभ्यो रक्षणमत्र विशिष्टमेव विहितमप्युपघातमात्रनिवारणफले पर्यवस्यतीति तदेव तत्र प्रयोजकं बोद्धव्यम् ।। 312 ।। <B2>

प्रक्षालनं शरावाणां स्थालीनां मार्जनं तथा ।
अनुक्तमपि रूपेण भुज्यङ्गत्वात् प्रतीयते ।। 313 ।।

<B2> क्कचित् साक्षादनुक्तमपि मुक्यार्थनान्तरीयकतया प्रतिपद्यत एवेति दर्शयितुमाह--
भोजनमस्योपपाद्यतामित्यत्र भोजनोपपादनं शब्दः प्रत्याययंस्तदङ्गानामासनदानपात्रप्रक्षालनादीनां नान्तरीयकतया प्रत्यायनं करोत्येवम् । प्रक्षालने इति वा पाठः । शरावाणां प्रक्षालने शब्दनोपात्ते स्थालीनिर्मार्जनाद्यनुक्तमपि सम्भवाद् भुज्यङ्गत्वात् प्रतीयत एवेति । तदेवम् "प्रयोजकमिदं तेषामत्रेदं नान्तरीयकम्"(2-81) इत्येतदेव वितत्य प्रसङ्गाद्वैचित्र्येणोपदर्शितम् ।
एवम् `प्रमाणमर्द्धह्रस्वादौ" इत्यादिना "प्रक्षालनं शरावाणाम्"इत्यन्तेन प्रन्थेन यच्चानुपात्तमित्यादिश्लोको व्याख्यातः । एतेन श्लोकेन प्रकारद्वयेन लक्षणाप्रदर्शिता । कदाचिन्मुख्यार्थत्यागेनैवान्यस्योपलक्षणमेतदेवाविवक्षितवाच्यमुच्यते । कदाचिन्मुख्यार्थाविरामोपायपूर्वकमन्यार्थोपलक्षणमेतदेव विवक्षितान्यपरवाच्यमुक्तं विज्ञेयम् । इत्येवं मुख्यनान्तरीयकविभाग उपदर्शितः ।। 313 ।। <B2>

वाक्यात् प्रकरणादर्थादौचित्याद् देशकालतः ।
शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् ।। 314 ।।

<B2> अथात्रेदं गौणमिदं मुख्यमिदं नान्तरीयकमित्येवं शब्दर्थनिर्णयप्रस्तावे तत्तन्निश्चयोपायानुपदर्शयितुकाम आह--
तत्र वाक्याच्छब्दार्थनिर्णयो यथा कटं करोति भीष्ममुदारं दर्शनीयमिति तुल्याययामपि श्रुतौ यदा कटस्यैव करोतिक्रियया सम्बन्धः, तदा द्रव्यस्य च निर्गुणस्यानुपपत्तेर्गुणानांचनिरधिकरणानामसम्भवादाकाङ्‌क्षादिना तत्सामानाधिकरण्यं वाक्यीयात् समन्वयादिति भीष्मगुमान्वितस्यैव कटस्य करणं वाक्यार्थः ।
वक्ष्यति च "आश्रयाश्रयिमोर्वाक्याद् निर्णयस्त्ववतिष्ठते" इति । तथा च शास्त्रे " कर्मणि द्वितीया" इत्यादीनि पृथगव प्रकरणानि विरचितानि । तत्र प्रातिपदिकादनभिहिते कर्मादौ यदेकत्वादि तत्र द्वितीयाद्या विभक्तयो भवन्तीत्येवमर्थस्य सङ्गतेराकाङ्‌क्षादिवशाद् भिन्नेष्वपि प्रकरणेषु तात्पर्यालोचनके श्रोतरिवाक्यीयः सम्बन्धोऽथनिश्चयाय पर्यवस्यतीति वाक्याच्छब्दार्थनिर्णयः । तथात्र प्रकरणमप्यशब्दं शब्दार्थनिर्णनिमित्तम्, यथा संग्रामप्रस्तावे सैन्धवानां चोदननश्वानयनपर्यवसायि भवति, भोजनप्रस्तावे तु तदेव लवणप्रतीतिमुपजनयतीति । शास्त्रे यथा धातुप्रकरणाद् धातुरित्युक्तम् । तथा चोभयावगतौ सत्याम् "कर्तृकरणयोस्तृतीया" इत्यत्र कारकाणां प्रकान्तत्वात् करणशब्देन क्रियाग्रहणं न विज्ञायते, शब्दवैरेत्यादौ सूत्रे च धात्वधिकारे कारणशब्दात् क्रिया प्रतीयत इति ।
अर्थस्तु शाब्दत्वाच्छब्दार्थनिर्णयं प्रकल्पयति, यथा अञ्जलिना जुहोति, अञ्जलिना सूर्यमुपतिष्ठते, अञ्जलिना पूर्णपात्रमाहरतीत्यत्र जुहोतित्याद्यथवशाद् विभिन्नार्थवाचकोऽञ्जलिशब्दः । शास्त्रेऽप पूरणगुणसुहितार्थेत्यत्र गुणेन सह षष्टी न समस्यत इत्यर्थसामर्थ्याददेङामसम्प्रत्ययः । तथा "न शसददवादिगुणानाम्" इत्यत्रनाश्रयिणो ग्रहणं भवत्यर्थादिति । औचित्यादपि शब्दार्थव्यवस्थानं दृश्यते, यथा सीरासिमुसलैः केवलैरनिर्दिष्टक्रियापरैरप्यौचित्याद् विलेखनयुद्धावहननलक्षणसमुचितक्रियापदाक्षेपे शब्दार्थनिर्णयः पर्यवस्यति ।
यथा वा प्रष्ठादयः शब्दा अग्रगामित्वादिनिमित्तसमाश्रयणेन प्रवर्त्तमानास्तस्य च निमित्तस्यौचित्यात् पुंस्येव सम्भवात् पुंशब्दास्त उच्यन्ते तद्योगात् स्त्रियां वर्तन्ते न साक्षादिति प्रष्ठसम्बन्ध एव प्रष्ठ्यादीनाम् "पुंयोगादाख्याम् " इत्यनेननिमित्तत्वेनोपदर्शितः ।
यथा च "यश्व निम्बं परशुना यश्वैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ।। " इत्यत्रानुरक्तक्रियापदानि साधनान्येवौचित्यवशात् स्वसमुचितक्रियापदवगत्या अवान्तरवाक्योपप्लावनप्रत्यायनपूर्वकाप्रस्तुतप्रशंसालक्षणस्य वाक्यार्थस्य प्रतीतिमुपजनयन्ति । तथा च यो निम्बं परशुना छिनत्ति यश्चैनं गन्धेनानुलिम्पति सर्वस्य तस्य दुस्त्यजा प्रकृतिरिति कृत्वा कटुरेव दौर्मनस्यदाननिपुण एवेति कस्यचित् खलत्वप्रतिपादनमत्र तात्पर्यार्थः ।
शास्त्रे यथा--`पुंयोगादाक्यायाम्" (पा o 4-1-48) इत्यत्रोक्तं पुंसिशब्दप्रवृत्तिनिमित्तस्य सम्भवात् पुंशब्दा एत इति ।
देशाच्छब्दार्थनिर्णयो यता मथुरायाः प्राचीनादुदीचीनाद्वा नगरादगच्छामीत्युक्ते नगरविशेषात् पाटलिपुत्रादागच्छामीति गम्यते । पाटलिपुत्रस्य मथुरासम्बन्धिनोश्च प्राचीनोदीचीनभागयोर्विद्यते प्रत्यासत्तिरिति कृत्वा देशवशादत्र निर्णयः । कालात् खलु व्यवस्था दृश्यते, यथा शिशिरे द्वारमित्युक्ते पिधेहीति, ग्रीष्मसमये त्वेवमभिधाने समुद्‌घाटयेति गम्यते ।
एतच्च शब्दार्थनिर्णयोपायानां दिङ्‌मात्रप्रदर्शनं बोद्धव्यम् । अन्येऽपि सन्निश्चयाय प्रकारा अनुसन्धातव्याः । श्लोकवशाच्चोदाहरणमात्रमेव दर्शितमिति मन्तव्यम् । सर्वथा न रूपमात्राच्छब्दार्थप्रविभागनिर्णयः कर्तुं शक्य इति प्रतिपादयितुमुक्तम्--न रूपादेव केवलादिति ।। 314 ।। <B2>

संसर्गो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ।। 315 ।।

सामर्थ्यंमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थंस्यानवच्छेदे विशेषस्मृतिहेतवः ।। 316 ।।

<B2> तथा चापरैः संसर्गादयः शब्दार्थावच्छेदहेतवः प्रदर्शिता इत्याह--
इह कैश्चिदर्थभेदाच्छब्दभेदोऽभ्युपगतः, तदपरैरेकशब्दतेति द्वौ पक्षौ । तत्र नानात्वपक्षे स्वभावभिन्नेषु तुल्यश्रुतिषु रूपाभेदानवच्छिन्नेषु निमित्तान्तरैः संसर्गादिभिरवच्छदः क्रियते । एकत्वपक्षे त्वर्थाभिधाने भिन्नासु शक्तिषु श्रुतिसारूपयमात्रादलब्धविभागासु तथैव संसर्गादिभिरर्थनिर्णयः क्रियत इत्युभयत्रापि प्रकरणादयः शब्दार्थनिर्णयनिपुणा इति तदुपन्यासः कथ्यते ।
तदत्र केचित् सामर्थ्येमेवैकं शब्दार्थनिर्णयनिमित्तमिति मन्यन्ते । योऽप्यर्थप्रकरणादिना तत्र भेदः समधिगम्यते, सोऽपि सामर्थ्यादेवात्र प्रतीयत इति कथयन्ति। सामर्थ्यमेव हि संसर्गादिभिर्व्यज्यत इति ।
तत्र संसर्गाद्यथा संसर्गाद्यथा सकिशोरा धेनुरानीयतामित्यत्र नियतेन संसर्गिणा किशोरलक्षणेन विशेषावसाय निमित्तेन वडवाया एव सम्प्रत्ययः , यथा च सवत्सा धेनुरित्यत्र वत्ससंसर्गाद् गोर्धेनोरेव सम्प्रत्यय इति संसर्गादर्थनिर्णयः ।
रूढ्या गौरेव धेनुरुच्यते इति तु येषां दर्शनं तेषामत्र संसर्गो विशेषसम्प्रत्यये नोपयुज्यत इति बोद्धव्यम् । शास्त्रे यथा `आवाद् ग्रः " (पा o 3-1-51) इत्यत्र यस्यावेनोपसर्गेण सम्बन्धः सम्भवति स एव गृह्यते गिरतिः, गृणोतेस्तु स्वभावादर्थविरोधादेव संबन्धो नोपपद्यत एव ।
तथा संसर्गवद्विप्रयोगोऽप्यवच्छेदहेतुः । यथा निर्ज्ञातसम्बन्धस्योच्यते अकिशोरा धेनुः अवत्सा अकरभावा आनीयतामिति किशोरादिविप्रयोगेन विशिष्टजातीयाया एव धेनोरवगतिरुपजायत इति । शास्त्रेऽपि "भुजोऽनवने" (पा o 1-3-66) इति यस्य भुजेरवनमनवनं चार्थस्तस्य ग्रहणं विज्ञायते, न तु कौटिल्यार्थस्य । निर्भुजति पाणिमिति ।
साहचर्याद्यथा रामलक्ष्मणावित्युक्ते लक्ष्मणसाहचर्याद् दाशरथेरेव प्रतीतिः । अत्र यद्यप्येको दृष्टव्यभिचारसाहचर्यात् तत्तुवल्यधर्मा ज्ञायत इति बोद्धव्यम्। शास्त्रे यथा "विपराभ्यां जेः" (पा o 1-3-19) इत्यत्र पराशब्दोऽदृष्टव्यभिचारेण विना साहचर्यादुपसर्ग एव गुह्यते । यद्यपि बहुविवनमित्यादौ विशब्दोऽनुपसर्गोऽस्ति, तथापि समुदायोऽर्थवान् । जहत्स्वार्थावृत्तिपक्षेऽवयवा अनर्थका एव । अजहत्स्वार्थावृत्तिपक्षे कथमुपसर्गभावमापन्नो विरप्राधान्याद् ग्रहीतुमशक्य एवेति नास्ति विरनुपसर्गः । वीजयते इत्यत्र तु वीशब्दो न विशब्द इति । भाष्येऽप्युक्तमस्य गोर्द्वितीयेनार्थ इति गौरेव प्रतीयते, नाश्वो न गर्दभ इति । यथा च "अन्तरान्तरेण युक्ते" (पा o 2-3-4) इत्यत्र द्वावपि टाप्तृतीयान्तयोः सम्भवाद् दृष्टापचारौ । अतः परस्परसाहचर्यान्निपातयोरेव ग्रहणमित्येवंसाहचयमर्थनिर्णयहेतुः शब्दानाम् ।
विरोधादप्यर्थोऽवधार्यते, यथा रामार्जुनावित्यत्रार्जुनसन्निधाने निसर्गवैरिणो जामदग्न्यस्यैव प्रतीतिः । अर्थप्रकरणदेशकालौचित्यैर्विशेषेऽवस्थापनं वाक्यदर्शितम् ।
लिङ्गाच्च वाक्यान्तरे दृष्टाद् भेदः प्रसिद्धः प्रतीयते, यथा अक्ताः शर्करा उपदधातीत्यत्रानेकस्याञ्जनद्रव्यस्य सभवे तेजोघृतस्य स्तुतिरुक्तः । एतस्माल्लिङ्गाद् घृतसाधनत्वमञ्चिक्रियायाः शर्कराकर्मिकाया निर्द्धार्यते । तथा पशुमालभेतेत्यत्र पशुत्वसंबन्धिषु प्राणिषु सत्सु छागस्य हविषो वपाय मेदस इति लिङ्गच्छागैकार्थसमवायि पशुत्वं प्रतीयते । शास्त्रेऽप्यूह्यम् ।
शब्दान्तरसन्निधानादपि विशेषावगतिः । यथा अर्ज्जुनः कार्तवीर्यो रामोजामदग्न्य इति ।
समार्थ्याद्विशेषप्रतिपत्तिर्यथा--अनुदरा कन्येति । सामर्थ्यादुदरविशेषप्रतिषेधप्रतीतिः । तथा--अभिरूपाय कन्या देयेति । अभिरुपव (त) रायेति सामर्थ्यात् प्रतीयते ।
शास्त्रेऽपि "प्रथमानिर्दिष्टं समास उपसर्जनम् "(पा o 1-2-43) इति समासार्थे शास्त्रे समासशब्दस्य प्रवृत्तिः । "एकविभक्ति चापूर्वनिपाते" (1-2-44) इत्यत्र यः समासशब्दोऽनुमीयते तस्य प्राथमकल्पिक एव ।
वृत्तिर्व्यक्तिर्लिङ्गम् । तस्मान्निर्णयो यथा तद्‌ग्रमस्यार्थं लभेतेत्यत्रसमप्रविभागेऽर्धशब्दो नपुंसकेन परामर्शात् (ग्रामस्यार्धं स्वयमेव प्रतीयते ) । शास्त्रेऽप्यूह्मम् ।
स्वराद्यथा स्थूलपृषतीमालभेतेत्यत्रान्तोदात्तस्य श्रवणात् स्थूला चासौ पृषतीत्येवंविधार्थप्रतीतिः । पूर्वपदप्रकृतिस्वरत्वदर्शने स्थूलानि पृषन्ति यस्यामित्यन्यपदार्थप्रतीतिः । तथा वैपाशः कूप इत्यत्राद्युदात्तस्याश्रवणाद्विपाश उत्तरस्य विशिष्टस्यैव प्रतीतिः । अन्तोदात्तश्रवणे तद्विपरीतस्येति ।
सत्त्वाद्यथा सुसिक्तमतिस्तुतमित्यादौ पूजातिक्रमणयोः कर्मप्रवचनीयसंज्ञायामुपसर्गत्वाभावे तयोरेव प्रतिपत्तिः । उपसर्गसंज्ञायां तु सत्यां सुषिक्तं सुष्टुतमित्यादौ षत्वप्रवृत्तेरर्थान्तरस्य प्रतिपत्तिः । णत्वनत्वाभ्यां यथा प्रणायक इत्यत्रोपसर्गाश्रयणत्वसद्भावे प्रणयनक्रियाकर्तुः प्रतीतिः, णत्वाभावे तु प्रगता नायका अस्माद् देशादसौ प्रनायको देश इत्यस्य पदार्थप्रतीतिरिति ।
तदेवमेते शब्दर्थस्य सन्देहनिराकरणद्वारेण नियतार्थावसायहेतुत्वाद्विशेषस्मृतिहेतवो निर्णयहेतवः संसर्गादय इति बोद्धव्यम् ।। 315-316 ।। <B2>

भेदपक्षेऽपि सारूप्याद्भिन्नार्थाः प्रतिपत्तिषु ।
नियता यान्त्यभिव्यक्तिं शब्दाः प्रकरणादिभिः ।। 317 ।।

<B2> न त्वेकत्वदर्शने भेदाभावाच्छब्दानामथस्य सन्देहे तन्निर्णयाय प्रकरणादय उच्यन्त इति शोभनम्, भेदपक्षे तु विभिन्नत्वादेव शब्दस्तदर्थप्रत्यायनं करिष्यतीत्याशङ्‌क्य तत्रापि रूपसादृश्योत्पादितसंशीतीनां व्यवहर्तॄणां प्रकरणादिभिरेव शब्दार्थनिर्णय इति प्रतिपादयितुमाह--
भेदपक्षेऽपि प्रतिपत्तिषु भिन्नार्था अपि शब्दाः सारूप्यादभिन्ना इवेति प्रकरणादिभिरेवोक्तस्वरूपैर्नियता अवच्छिन्ना अर्थाभिव्यक्तावुपयोगं यान्तीति न कुत्रचित् प्रकरणादिमन्तरेण शब्दार्थनिर्णय इति बोद्धव्यम् ।। 317 ।। <B2>

नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः ।
शब्दा वाच्याश्च तेष्वर्थो न रूपादधिगम्यते ।। 318 ।।

<B2> युक्तं चैतत् , कस्मादित्याह--
इह वाक्ये नामरूपा आख्यातशब्दा अपि सम्भवन्ति । यथा अश्व इति टु ओश्वि गतिवृद्ध्योरित्यस्माल्लुङि मध्यमपुरुषैकवचने सिपि `नित्यं ङितः" (3-4-99) "इतश्च" (3-4-100) इतीकारलोपे च्लिप्रत्यस्य `जॄस्तम्भुम्रुचु' (3-1-58-3) इत्यादिना चङादेशे श्वयतेरन्तस्यातो गुणरूपत्वे सकारस्य रुत्वविसर्जनीययोः कृतयोर्लुङ्‌लृङ्‌क्ष्वित्यादिनाऽटि कृते अश्व इत्याख्यातपदं श्वयति क्रियायाः कर्त्रवच्छिन्नाया अतीतकालायाः प्रतिपादकम्, अश्व इति च नामपदमश्वजातीयस्यार्थस्य सत्त्वभूतस्याभिधायकमिति सारूप्यात् सन्देहे प्रकरणादिभिरर्थव्यवस्था ।
यथाऽजापय इत्येतद् जि जये इत्यस्माद्धातोः कश्चिदजेयं जितवान् तमन्योऽनुप्रयुक्तवानित्यर्थविवक्षायां हेत्वर्थे णिचि "क्रीङ्‌जीनां णौ" इत्यात्वे `अर्तिह्रीव्ली' त्यादिना पुकि जापीत्येवंस्थिते लङि शपि गुणायदेशयोः कृतयोः सकारस्य सत्वविसर्जनीययोश्च `लुङ्‌लङि' त्यादिना अडागमे च कृतेऽजापय इत्याख्यातम् ।
अथवाऽजायाः पयोऽजापय इत्यपि नामपदं तत्सदृशमित्त्यर्थादिना तन्निश्चयः । आख्यातसरूपाश्च नामशब्दास्तेन यस्य तस्येत्यादयः । तथा तनु विस्तारे इत्यस्माल्लिटि मध्यमपुरुषबहुवचने द्विर्वचने कृते "अत एकहल्मध्ये" इत्यादिना एत्वाभ्यासलोपयोः कृतयोस्तेने त्याक्यात्म्, तच्छब्दस्यतृतीयान्तस्य सदृशमिति । तसु उपक्षये, यसु प्रयत्ने इत्याभ्यां विध्यादौ लोटि तस्य च सिपि "सेर्ह्यपिच्च" (3-4-57) इति ह्यादेशे दिवादित्वाच्छ्‌यनोऽनुबन्धलोपे "अतो हेः" (9-4-105) इति हेर्लुकि तस्य यस्येत्याख्यातपदं यत्तदोः ष ष्ठ्येकवचनान्तयोः सदृशमिति सारूप्यात् सन्देहे प्रकरणादिभिस्तन्निश्चीयते । कीदृशाः ? कार्यान्तरनिबन्धनाः । कार्यान्तरं विशिष्टप्रत्ययलक्षणं प्रकरणादिना तन्निबन्धनं निमित्तं येषां ते तथाभूताः । तेषु न रूपमात्रादर्थोऽवगम्यते । तस्मात् त्वमश्वोऽजापयः शत्रुभवनानीत्यादिवाक्यार्थपर्यालोचनयैवार्थनिर्णयः । आह च "नहि किञ्चित्पदं नाम रूपेण नियतं क्कचित् ।
पदानामर्थरूपं च वाक्यार्थादेव जायते ।। " इति ।। 318 ।। <B2>

या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना ।
कुशलः प्रतिपत्ता तामयथार्था प्रतीयते ।। 319 ।।

<B2> अथ शब्दार्थनिर्णयप्रस्तावे पदपदार्थानामसत्यत्वमखण्डस्यैव च वाक्यार्थस्य सत्यत्वमभ्युपगन्तव्यमिति प्रदर्शयितुमाह--
या प्रवृत्तये स्तुतिप्रकल्पना निवृत्तये च निन्दाप्रकल्पना प्रेक्षावान् अयथार्थामभिमन्यते । परमार्थतस्तु तथाविधस्य वाक्यस्य प्रवर्तस्व निवर्तस्वेति वा सत्यभूतं वाक्यार्थंतत्रावगच्छतीतिपदपदार्थप्रत्ययः सर्वत्रासत्य एवेति सैवैषां तात्पर्यशक्तिरिति कैश्चिद् व्यवस्थापितम् ।। 319 ।। <B2>

विधीयमानं यत्कर्म दृष्टादृष्टप्रयोजनम् ।
स्तूयते सा स्तुतिस्तस्य कतुरेव प्रयोजिका ।। 320 ।।

<B2> एतदेव प्रकटीकर्तुमाह--
दृष्टप्रयोजनं किञ्चित्कर्म स्तूयते, यथा यो राजानं भजते स सारं भुङ्‌क्ते। अदृष्टप्रयोजनमपि-योऽग्रिष्टोमेन यजते स स्वर्गं गच्छतीति विलक्षणः प्रवृत्तिनिवृत्तिप्रयोजनोऽन्य एवाविभागो वाक्यार्थस्तथाविधवाक्यनिबन्धन एवाभ्युपगन्तव्य इति स्थितम् ।। 320 ।। <B2>

व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते ।
असत्योऽपि तथा कश्चित् प्रत्यवायो विधीयते ।। 321 ।।

<B2> ननु कथं न तत्रस्पष्टमेव कृत्वा प्रवृत्तिनिवृत्ती विधीयेते, किमनुपयोगिनिन्दाद्यर्थप्रतिपादनासंभारेणेत्याशङ्‌क्याह--
यथा रुदन्तं व्याघ्रो भक्षयतीति, बालस्योच्यते न तत्र व्याघ्रभक्षणं वस्तुस्थित्या संभवि, केवलं मा कदाचित् त्वं रोदीरिति रोदननिषेध एव तस्य क्रियते, तथा तत्र प्रतिषिद्धाचरणान्नरकपातो भवतीत्येतावन्मात्रं प्रतिग्राह्यत इति तत्तदर्थसमाश्रयणेन सत्यरूपपदपदार्थाभ्युपगमो न युक्तः ।। 321 ।। <B2>

न संविधानं कृत्वापि प्रत्यवाये तथाविधे ।
शास्त्रेण प्रतिषिद्धेऽर्थे विद्वान् कश्चित् प्रवर्तते ।। 322 ।।

<B2> तथा प्रत्यवायोपदेशेन च यच्छास्त्रेण प्रतिषिद्धं न तत्राहोपुरुषिकया प्रत्यवायसंविधानमारचय्य प्रेक्षापूर्वकारिणः प्रवृत्तिरुचितेत्याह-- <B2>

सर्पेषु संविधायापि सिद्धैर्मन्त्रौषधादिभिः ।
नान्यथा प्रतिपत्तव्यं न दतो गमयेदिति ।। 323 ।।

<B2> दृष्टप्रयोजनप्रत्यवायप्रतिविधाननिदर्शनपूर्वकमेतदेव व्याख्यातुमाह--
`न दतो गमयेद् यद्दतो गमयेत् सर्पा एनं घातुका भवन्ति" इत्यनेन पुरोडाशस्य दन्तोपदंशनपूर्वकं भोजनं निषिद्ध्यते यत्र कश्चित् सर्पाणां प्रतिविधानं मन्त्रौषधादिभिः कृत्वा यदि तथा प्रवृत्तस्तदाऽनेन शास्त्रानुष्ठानं परित्यक्तमिति न शोभनमाचरितम् ।। 323 ।। <B2>
 
क्कचित् तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः ।
तत्रापि च प्रवृत्तिश्च निवृत्तिश्चोपदिश्यते ।। 324 ।।

<B2> अस्त्वेवं विधिनिषेधपरेषु स्तुत्यर्थादीनामसत्यत्वम्, यत्र तु स्तुतिनिन्दे एव प्रयोजिके तत्र तदर्थानां सत्यस्वमेवोचितमित्याशङ्‌क्याह--
यत्रापि क्वचित् स्तुतिनिन्दयोर्विषये तयोः सम्बन्धि वा तत्त्वाख्यानं क्रियते, तत्रापि सर्वथा स्तुतिनिन्दयोः केवलयोर्न किञ्चित् प्रयोजनमुत्पश्याम इति प्रवृत्तिनिवृत्ती एवोपदिश्येते इति बोद्धब्यम् ।। 324 ।। <B2>

रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम् ।
सापेक्षा ये तु वाक्यार्थाः पदार्थैरेव ते समाः ।। 325 ।।

<B2> एवं पदपदार्थानामस्त्यत्वे वाक्यवाक्यार्थयोरखण्डयोरेव सत्यत्वे प्रतिष्ठापिते पदार्थानां स्वरूपस्य वाक्यार्थ एव निबन्धनमिति दर्शयितुमाह--
एतस्मिन्म वाक्यार्थे रूपनिबद्धास्ते साफल्यं भजन्ते, अन्यथा विशरारव एवेति वाक्यार्थ एव तेषां परस्परसमन्वये निबन्धनम् । वक्ष्यति च--
पृथग्‌विशिष्टतत्त्वानां पृथगर्थानुपातिनाम् ।
इन्द्रियाणां यथा कार्यमृते देहान्न कल्पते ।।
तथा पदानां सर्वेंषां पृथगर्थनिवेशिनाम् ।
वाक्येभ्यः प्रविभक्तानामर्थवत्तर्ने विद्यते ।। (2-419--420) इति ।
यथोच्यते--नहि किञ्चिदित्यादि । ननु वाक्यार्थस्यापि कस्यचिदपरिपूर्णत्वे किं तस्याप्यपरवाक्यार्थनिबन्धनत्वमङ्गीकार्यमित्याशङ्‌क्याह--सापेक्षेति ।
एतदुक्तं भवति--अवान्तरवाक्यार्थाः साकाङ्‌क्षत्त्वात् पदार्थतुल्या एवेति न तत्र वाक्यार्थव्यपदेशः कार्यः ।। 325 ।। <B2>

वाक्यं तदपि मन्यन्ते यत्पदं चरितक्रियम् ।
आख्यातशब्दे नियतं साधनं यत्र गम्यते ।
तदप्येकं समासार्थं वाक्यमित्यभिधीयते ।। 326 ।।

<B2> अथ यत्रैकस्मात् पदान्निराकाङ्‌क्षोऽर्थः प्रतियते, तत्रापि किं तस्याऽसत्यार्थत्वं युक्तमभिधातुमित्याशङ्क्याह--
एतदुक्तं भवति--सन्ति वाक्येषु वाक्यैकदेशाः प्रसिद्ध्यादिना वाक्यार्थप्रत्यायका इति । तदप्येकपदं वाक्यमेव । यस्मात्तच्चरितक्रियमिति, चरिता गार्भोकृता आख्यातक्रिया यस्य तद्‌गर्भोकृनक्रियापदं नामपदं वाक्यं प्रयुञ्जते, चरितक्रियापदादस्मादर्थावगतिर्निराकाङ्‌क्षोपजायमाना दृश्यत इतिपदमात्रस्यैवात्र वाक्यत्वम् ।
एवंयथानामपदं केवलमपिगर्भोकृताख्यातं निराकाङक्षार्थप्रत्यायनाद्वाक्यमेवेति तत्प्रत्यायितादर्थात् प्रवृत्तिपर्यन्तव्यवहारसिद्धौ सत्यतैव तदर्थस्य, तथैवाख्यातं केवलमर्थौचित्यादिवशाद्विशिष्टाभिधायकं वाक्यमेवोच्यत इत्याह--आख्यात इति ।
यथा वर्षतीत्युक्ते देवो जलमिति कर्तृकर्माक्षेपात् परिपूर्णार्थत्वे वर्षति देवो जलमिति यथा वाक्यमेवं तदप्येकं पदं समाप्तार्थं परिपूर्णार्थं वाक्यमेवाभिधीयते । तदुक्तमादावेव आख्यातशब्द इति वाक्यमित्यर्थः ।। 326 ।। <B2>

शब्दव्यवहिता बुद्धिरप्रयुक्तपदाश्रया ।
अनुमानात् तदर्थस्य प्रत्यये हेतुरुच्यते ।। 327 ।।

<B2> अत्र मीमासकः प्राह--
केवलात् पदाद्या साधुवद्भावना बुद्धिः सा साधुवत्तदर्थस्य तस्याप्रयुक्तस्य पदान्तरस्य योऽर्थस्तस्य हेतुरुच्यते । कीदृशी ?शब्दव्यवहिता । यथा धूमेन स्वार्थानुमाने शब्दमन्तरेण वह्नेराक्षेपः, नैवमत्रापि । (किन्तु) श्रुतार्थापत्त्या परिकल्पितो योऽसौ तिष्ठत्यादिशब्दः, तेन व्यवहिता ।
अथ तस्याऽश्रवणात् कथं तदव्यवहितेत्याशङ्‌क्याह--अप्रयुक्तपदाश्रयेति । अप्रयुक्तमनुच्चारितं वाचकं श्रुतार्थापत्त्याक्षिप्तमाश्रयो द्वारमुपायस्तिष्ठत्याद्यर्थप्रत्यये यस्या सा तथेति । कस्मात्तदर्थस्य प्रत्यये हेतुरित्याह--अनुमानादिति । तिष्ठत्यादिकं शब्दं श्रुतार्थापत्त्योपस्थापितमनुमायाक्षिप्यासौ बुद्धिस्तदर्थप्रत्ययमुपजनयतीति यावत् । अतो न केवलमेव नामपदं सक्रियस्यार्थस्य वाचकम्, आख्यातं च ससाधनस्येति कथमुच्यते ? सन्ति वाक्येषु वाक्यैकदेशा वाक्यार्थप्रतिपादका इति ।। 327 ।। <B2>

यस्मिंस्तूच्चरिते शब्दे यदा योऽर्थः प्रतीयते ।
तमाहुरर्थं तस्यैव नान्यदर्थस्य लक्षणम् ।। 328 ।।

<B2> श्रुतार्थापत्त्या शब्दाभिसम्बन्धस्य किं प्रयोजनमेकपदादेव तस्माद् वृक्षस्तिष्ठतीत्यादिवन्निराकाङ्‌क्षार्थप्रत्यायनमुक्तं कथं वाक्यैकदेशस्यसकलवाक्यार्थप्रतिपादकत्वमन्तरेण शब्दान्तरपरिकल्पनं युज्यत इति परमतमाशङ्‌क्याह--
इह यस्मादुच्चरिताद् यदर्थप्रत्ययो दृश्यते तं तस्यार्थमाहुः, वृक्ष इत्यस्मादेव चार्थप्रकरणादिना वृक्षस्तिष्ठतीत्यर्थप्रतीतेः । एतदेवार्थवाचकत्वाद्वाक्यमित्युक्तमेव ।। 328 ।। <B2>

क्रियार्थोपपदेष्वेवं स्थानिनां गम्यते क्रिया ।
वृत्तौ निरादिभिश्चैव क्रान्ताद्यर्थोऽवगम्यते ।। 329 ।।

<B2> एवं कृत्वा क्रियार्थोपपदस्येत्यनेन नारम्भणीयैव चतुर्थो, तातर्थ्येन सिद्धत्वादित्याह--
क्रियार्थोपपदेषु विषये क्रियार्थोपपदानां चेति षष्ठीप्रयोगे सप्तमी । स्थानिनामप्रयुक्तानां धातूनां संबन्धिनी क्रियाहरणलक्षणा एधेभ्यो व्रजतीत्यत्रैधशब्द एव हरणमभिदधातीत्येधाहरणार्थं व्रजतीति प्रतीतिः । अतस्तादर्थ्यं स्फुटमेवेति सिद्धा चतुर्थो । एवं च कृत्वा वृत्तौ निरादयः क्रान्ताद्यर्थप्रतिपादका इत्याह--वृत्ताविति । निष्कौशाम्बिरित्यादौ निरादय एव सामर्थ्यात् क्रान्तार्थप्रतिपादका इति गतार्थत्वात् क्रान्तादीनां शब्दानां वृत्तावप्रयोग एव । उक्तं च--
"उपसर्गा ह्येवमात्मका यत्र क्रियावाची शब्दः श्रूयते तत्र क्रियां विशिंषन्ति, अन्यत्र क्रियाविशिष्टं साधनमाहुः " इति ।। 329 ।। <B2>

तानि शब्दान्तराण्येव पर्याया इव लौकिकाः ।
अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ।। 330 ।।

<B2> यद्येवं वृभस्तिष्ठति, निष्क्रान्तः कौशाम्ब्या इत्यादौ तिष्ठत्यादीनां किं प्रयोगेण केवलं वृक्ष इत्यादिकं सर्वत्र नामपदमाख्यातं वा प्रयुज्यतां केवलैरेव सर्वत्र वाक्यार्थप्रतिपादनमित्याह--
केवलो वृक्षशब्दो वाक्यार्थप्रतिपादकोऽन्य एव वृक्षस्तिष्ठतीति चान्यदेव वाक्यं सादृश्याद्‌ वृक्षस्तिष्ठतीत्यत्र वृक्षशब्दं वृक्ष इत्येकपदे वाक्येऽभिमन्यत इति । भवत्वेवं सर्वदा वृक्षशब्द एव केवलः किं न प्रयुज्यते ? तत एव हि सामर्थ्यादिना वृक्षस्तिष्ठतीत्यर्थप्रतीतेः किमनेन विततेन वृक्षस्तिष्ठतीत्यादिकेन प्रयुक्तेनेत्याह--पर्यायेति ।
एतदुक्तं भवति -- लौकिके शब्दव्यवहारे लाघवं प्रत्यनादरात् क्कचिद् वृक्षः क्कचिद् वृक्षस्तिष्ठतीति प्रयुद्यते । यथा तरुशब्देनैव लाघवाद् वृक्षार्थप्रतीतौ पादपशब्दं प्रयुञ्जत एव लौकिका इति न कञ्चिद् दोषः । अथ वृक्ष इति केवलं नामपदं क्कचिद्वृक्षो दृस्यतां क्कश्चिद् वृक्षोऽस्तीत्येवंविधस्य नियतस्यार्थस्य विशेषभेदेन कथं प्रतिपादकं स्यादित्याह--अर्थेति । एषामेकपदानां वाक्यानां प्रतिनियतोऽर्थोऽर्थप्रकरणाभ्यां व्यवस्थाप्यते ।। 330 ।। <B2>

प्रतिबोधाभ्युपायास्तु ये तं तं पुरुषं प्रति ।
नावश्यं तेऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना ।। 331 ।।

<B2> एवमखण्डवाक्ये वाक्यार्थे सत्यरूपे स्थिते किं पदपदार्थानां वाक्यानां पदविभागपदभागार्थकल्पनयेत्याह--
एतदुक्तं भवति--ये वाक्यार्थप्रतिबोधनोपायास्ते प्रतिनियतपुरुषसमाश्रयाः । ते चासत्यरूपा एव च पदपदार्था इत्याह--नावश्यमिति । ज्ञेयेन वाच्येन वस्तुना सत्यरूपेण लौकिकेन नैव तेऽवश्यं संबद्धा इत्यासत्यभूता इत्युच्यन्त इति ।। 331 ।। <B2>

असत्यां प्रतिपत्तौ च मिथ्या वा प्रतिपादने ।
स्वैरर्थैर्नित्यसम्बद्धास्ते ते शब्दा व्यवस्थिताः ।। 332 ।।

<B2> अथ यस्मिन्नुच्चरित इत्यादिकं यदि शब्दार्थलक्षणमाश्रीयते, तदा शब्दादुच्चरितात् प्रतिपत्तुरन्याक्षित्तचित्तत्वादकृतसङ्केतत्वाद्वाऽसत्यामर्थप्रतिपत्तौ कुतश्चिद्‌भ्रमाद्वाऽन्यथाप्रतिपत्तौ तदर्थानवगतेरनित्यत्वमेव शब्दार्थसम्बन्धस्य स्यात्, न चैतद्युक्तमिति श्रुतार्थापत्तिवादी प्रतिपादयितुमाह--
ते ते शब्दा नित्यत्वाच्छब्दसम्बन्धस्य नियतार्थप्रतिपादका एव व्यवस्थिताः ।। 332 ।। <B2>

यथाप्रकरणं द्वारमित्यस्यां कर्मणः श्रुतौ ।
बधान देहि वेत्येतदुपायादधिगम्यते ।। 333 ।।

<B2> कुतश्चिन्निमित्तादर्थानवगतौ शब्दार्थसम्बन्धहानिः प्राप्नोति, तस्मादेकपदेषु पदान्तराध्याहारेण वाक्यार्थावगतिरुपपन्नेति प्रतिपादयितुमाह--
प्रकरणानतिक्रमेण साधनं क्रियाया अविनाभावितया आक्षेपकं भवतीति द्वारंद्वारमित्यत्र कर्मश्रुतिर्बधान देहि वेत्येतमर्थं प्रकरणादेरुपायात्तद्वाचकद्वारेणाक्षिपतीत्येतदेव युक्तम् ।। 333 ।। <B2>

यत्र साधनवृत्तिर्यः शब्दः सत्त्वनिबन्धनः ।
न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ।। 334 ।।

<B2> एवं `यस्मिन्नुच्चरिते' इत्यादिके शब्दार्थलक्षणे शब्दार्थसम्बन्धस्यानित्यत्वमभिधाय दूषणान्तरमभिधातुमाह-- <B2>

स्वार्थमात्र प्रकाश्यासौ साकाङ्‌क्षो विनिवर्तते ।
अर्थस्तु तस्य सम्बन्धी प्रकाशयति सन्निधिम् ।। 335 ।।

<B2> यस्मात् साधनवृत्ताभिधायी सत्त्वप्रधानः शब्दो न स एव प्रधानभूतस्या(र्थस्य प्रतिपाद्यस्यासत्तवभूतस्या) भिधायक उपपद्यते, विरोधात् । तस्मादिदमत्र वक्तुं युक्तमित्याह--
असावाख्यातशब्दो नामशब्दो वा स्वार्थमेव केवलं प्रतिपाद्य सापेक्षः साकाङ्‌क्ष एव विनिवर्तते । तस्य विनिवृत्तस्य सम्बन्धी त्वर्थः । अर्थान्तरस्य तद्वाचकशब्दप्रकल्पनद्वारेण संन्निधिमुपकल्पयति, ततश्च वाक्यार्थप्रत्ययः परिपूर्ण उपजायत इत्येव युक्तमिति ।। 335 ।। <B2>

परार्थ्यस्याविशिष्टत्वान्न शब्दाच्छब्दसन्निधिः ।
नार्थाच्छब्दस्य सान्निध्यं न शब्दादर्थसन्निधिः ।। 336 ।।

<B2> इदानीमखण्डवादी श्रुतार्थापत्तिवादिनं निराकर्तुमाह--
इह पीनो देवदत्तो दिवा न भुङ्‌क्ते इत्यत्र भोजनं बिना पीनत्वं देवदत्तस्यानुपपद्यमानं रात्रिभोजनं तद्वाचकशब्दपरिकल्पनद्वारेण गमयतीत्युच्यते, तदत्र किं शब्देन शब्द आक्षिप्यते, उतार्थेन शब्दः, आहोस्विच्छब्देनार्थः, उतार्थेनार्थ इति चतुष्टयी गतिः । तत्र शब्देन शब्दस्याक्षेपो न युज्यते; स्वार्थप्रतिपादन एव शब्दाक्षेपात् । तत्राह--न शब्दाच्छब्दसन्निधिरिति । अथार्थेन शब्दाक्षेप इत्युच्यते तत्राह--नार्थाच्छब्दस्य सान्निध्यमिति ।
नापि शब्दाक्षेपो युज्यते, वाच्ये तु वाचकमाक्षिपतीति युक्तम् । अतोऽन्यशब्दार्थस्य शब्दान्तरस्य च वाच्यवाचकताविरहात् कथमर्थेन शब्दस्याक्षेपः । अथ शब्देनोच्चारितेन श्रुतार्थापत्तिपरिकल्पितशब्दवाच्योऽर्थ आक्षिप्यत इत्युच्यते, तदप्यनुपपन्नमित्याह--न शब्दादर्थसन्निधिरिति ।
न शब्दाच्छब्दान्तरवाच्यस्यार्थस्य सन्निधिरुपपद्यते, वाच्यवाचकभावाभावादेवेति कथं शब्देनार्थस्याक्षेपः ?
अथार्थेनार्थोगम्यत इत्युच्यते, अनुमानमेवैतत्स्पष्टं भवति, न शब्दार्थस्यासावर्थ (न शब्दस्यासावर्थ) इति शब्दैकत्वमेव परित्यक्तं स्यत् । अत एवात्र चतुर्थपक्षप्रदर्शनमौचित्यं न जहातीति तन्निरासो न कृत एव ।
तस्मादेकपदेषु श्रुतार्थापत्त्या शब्दान्तराक्षेपे वाक्यार्थावगतिरिति यत्किञ्चिदेतत् । एकपदमेव शब्दान्तराभिसम्बन्धमन्तरेण प्रकरणादिवशात् तत्तदर्थप्रत्यायननिपुणमित्येव मन्तव्यम् ।। 336 ।। <B2>

नष्टरूपमिवाख्यातमाक्षिप्तं कर्मवादिना ।
यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः ।। 337 ।।

<B2> पुनः श्रुतार्थापत्तिवाद्याह--
द्वारं द्वारं कर्म इत्यत्र (द्वारम् इत्यत्र) कर्मपदेनैवाख्यातमसत्कल्पमाक्षिप्तं यद्यत्रोच्यते, तदा युगपत्परस्परविरुद्ध्योः सिद्धासिद्धयोरर्थयोरेकस्मिन् शब्दे प्रधानत्वेन वाच्यत्वमापतितम्, न चैतत्परिदृष्टम्, पूर्वं यत्र साधनवृत्तिरित्यनेन यः सत्त्वप्रधानो नासावाख्यातार्थवाचक उपपन्न इत्युक्तम्. इदानीं पुनः प्रत्ययस्य च विरुद्धार्थवाचकत्वमुच्यत इति विशेषः ।। 337 ।। <B2>

तैस्तु नामसरूपत्वमाख्यातस्योपवर्ण्यते ।
अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ।। 338 ।।

<B2> सिद्धान्तवाद्याह--
द्वारं द्वारमित्येतदा (द्वारमित्येतदा) ख्यातमेव, नामपदसरूपं तु वर्ण्यते । अतश्चान्याख्यातवत् प्राधान्येन क्रियाया एतदपि नामपदसरूपं प्रतिपादकमेव । यद्येवं कथमस्माद् द्वितीया श्रूयत यत्याह--अन्वयेति । भाण्डं भाण्डं पिधेहि, द्वारं द्वारं पिधेहीत्यादावाख्यातस्य क्रियाभिधायत्वं परिदृष्टम्, नाम्नो द्रव्यवाचकत्वमित्यन्वयव्यतिरेकाभ्यामन्यत्राप्येकपदे द्वारमित्यादौ सादृश्यात् साधनाभिधायित्वमेवेति भवत्येव द्वितीया ।। 338 ।। <B2>

न चापि रूपात् सन्देहे वाचकत्वं निवर्तते ।
अर्धं पशोरिव यथा समर्थ्यात् तद्विकल्प्यते ।। 339 ।।

<B2> अथ द्वारं द्वारमित्यस्यानेकार्थवाचकत्वात् सन्देहे कथमस्य वाचकत्वं भवेदित्याह--
रूपसादृश्येऽपि सामर्थ्यादिनाऽर्थनिर्णयो व्यवस्थाप्यत इत्याह--अर्धमिति । अत्र पश्ववयवोऽर्द्धं देवदत्तावयवो वार्द्धं पशुस्वामिकमिति सन्देहः । तत्र किं सन्देहे वाक्यमवाचकमेव, अर्थप्रकरणादिनाऽर्थस्तत्र कल्प्यत एव ।। 339 ।।<B2>

सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् ।
संसर्गे च विभक्तोऽस्य तस्यार्थो न पृथग्यदि ।। 340 ।।

क्रियाप्रधानमाख्यातं नाम्नां सत्त्वप्रधानता ।
चत्वारि पदजातानि सर्वमेतद्विरुध्यते ।। 341 ।।

<B2> चोदयति--
स्पष्टोऽर्थः ।। 340 - 341 ।। <B2>

वाक्यस्य बुद्धौ नित्यत्वमर्थयोगं च लौकिकम्
दृष्ट्‌वा चतुष्ट्‌वं नास्तीति वार्तक्षौदुम्बरायणौ ।। 342 ।।

<B2> एतच्चोद्यं निराकर्तुमाह--
वाक्यस्याखण्डस्य बुद्धौ प्रतिपत्तृबुद्धौ नित्यत्वं दृष्ट्‌वा तथा तस्यैवार्थेन प्रतिभालक्षणेन योगं संबन्धं दृष्ट्वा पदे तत्पदपरिकल्पनं पदार्थपरिकल्पनं च तत्रास्त्येव नैवोपपद्यत इत्याचार्यावाहतुः । अतोऽस्माकमेषा बिभीषिका यत्पदानां चतुष्ट्‌वं नोपपद्यत इति ।। 342 ।। <B2>

व्याप्तिमांश्च लघुश्चैव व्यवहारः पदाश्रयः ।
लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ।। 343 ।।

<B2> यद्येवं किं शास्त्रेणेत्याह--
पदाश्रयो वाक्याव्यवहारः शास्त्रेणोपदिष्टः सन् व्याप्तिमान् सकलसाधुशब्दपरिज्ञानहेतुर्विभागेन परिकल्पित इति किमत्रानुपपन्नम् ।। 343 ।।<B2>

न लोके प्रतिपत्तॄणामर्थयोगात् प्रसिद्धयः ।
तस्मादलौकिको वाक्यादन्यः कश्चिन्न विद्यते ।। 344 ।।

<B2> अथ यदि पदपदार्थविभागः सर्वथैवासत्यभूतस्तत्कथं लौकिकानां तदाश्रयेण वृत्त्यादय इत्याशङ्‌क्याह--
लोके प्रतिपत्तॄणां सर्वाथा न सत्यार्थयोगादेव प्रसिद्धयो व्यवहारनिष्पत्तयः, असत्येनाप्युपयेन मरीचिकास्वपि जलप्रसिद्धिस्तेषां दृश्यते । अथवा रेखागवयवदसत्यनाप्यनेनोपायेन सत्यभूतवाक्यपरिज्ञानं भवत्येव, सर्वथा न लोकस्यार्थं विना प्रवृत्त्त्यादयो न सन्तीति वक्तव्यम्, कदाचित् सत्यागवयेन गवयार्थप्रतीतिरस्य जन्यते, कदाचिद् रेखागवयेनेति बोद्धव्यम् । यत एवं तस्माद्वाक्यात् सत्यभूतादखण्डाद्वाक्यार्थप्रत्ययो जन्यत इति न कश्चिदलौकिकः सत्यभूतः पदार्थः पदं वा विद्यते, उपपत्तिविरहादिति ।। 344 ।। <B2>

अन्यत्र श्रूयमाणैश्च लिङ्गैर्वाक्येषु सूचिताः ।
स्वार्था एव प्रतीयन्ते रूपाभेदादलक्षिताः ।। 345 ।।

<B2> ज्ञापकगम्यश्चार्थः सर्वत्र वाक्यादेवावगम्यत इत्याह--
अक्ताः शर्करा उपदधातीत्यत्र तैलेन घृतेन वेति संदेहेऽन्यत्र तेजो वै घृतमिति घृतस्य स्तुतिरुपक्रान्ता, तयैतत्सूच्यतेऽभ्यञ्जनं घृतेनैपोपदिष्टमिति । अतोऽत्राक्ता इत्यादौ वाक्ये घृताक्ता उपदधातीति वाक्यार्थो ज्ञायत इति विज्ञेयम् । यद्यक्ता इत्यस्यैव घृताक्ता उपदधातीयर्थोऽवगतः किं ज्ञापकानुसारेणेत्याह--रूपाभेदादलक्षिताः ।
अक्ताः शर्करा उपदधातीति वाक्ये रूपमविशिष्टं पश्यन्तो विशेषमवगन्तुमक्षमा इति लिङ्गानुसरणेनात्रार्थनिर्णयो व्यवस्थाप्यत इति वाक्येषु वाक्यैकदेशाः सन्तीत्येतदप्रमाणमेव ।। 345 ।। <B2>

उत्सर्गवाक्ये यत्त्यक्तमशब्दमिव शब्दवत् ।
तद् बाधकेषु वाक्येषु श्रुतमन्यत्र गम्यते ।। 346 ।।

<B2> अथ बाध्यबाधकभावं निर्णेतुमाह--
उत्सर्गवाक्ये सामान्यलक्षणे उपक्रम एव यत्यक्तमपवादाक्रान्तं किं तत्र शब्देन परित्यक्तम्, नेत्याह--अशब्दमिवेति । बोधकविरहेणेव कथं त्यक्तम् ? शब्दवद् बोधकवदेव त्यक्तम्, धातोः कर्मण्युपपदेऽण्‌प्रत्ययस्तावदेव बाधकानाक्रान्तधातुविषयमेवाण्‌प्रत्ययविधानमिति गम्यत एव, अन्यथा त्वविशेषण प्रवृत्तावुत्तरकालमाकारन्तेभ्यः कथं निवार्यते ? अतस्तात्पर्यपर्यालोचनवशाद् बाधकानाक्रान्तधातुविषये भवतीति वाक्यार्थो ज्ञायत एव, तदृर्शिन एतत्तत्काल एव नावधारितम्, उत्तरकालं तु बाधकेषु वाक्येषु तच्छ्रतं सदन्यत्र सामान्यलक्षणे वर्जितमिति गम्यते ।। 346 ।।<B2>

ब्राह्मणानां श्रुतिर्दन्धि प्रक्रान्ता माठरं विना ।
माठरस्तक्रसम्बन्धात् तत्राचष्टे यथार्थताम् ।। 347 ।।

<B2> लौकिकेन दृष्टान्तेनैतदेव व्याख्यातुमाह--
दधि ब्राह्मणेभ्यो दीयतामित्यत्र श्रुत्या माठरवर्जमेवात्र ब्राह्मणानां दधिदानमुपक्रान्तमिति बोद्धव्यम्, उत्तरकालं तक्रं माठरायेत्येतत्तत्र यथार्थबाधक (बोधकं स्व)- विषयपरिहारेणैवार्थवत्तां गमयतीत्येवं भिन्नवाक्यतासमाश्रयणेन तावदप्राप्त्यनुमानं बाध इति बोधव्यम् ।। 347 ।। <B2>

अनेकाख्यातयोगेऽपि वाक्यं न्याय्यापवादयोः ।
एकमेवेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् ।। 348 ।।

<B2> इदानीमेकवाक्यतामेवाश्रित्योत्सर्गापवादयोर्बाध्यबाधकभावं दर्शयितुमाह--
कैश्चित् प्राप्यापवादयोरुत्सर्गापवादयोराख्यातभेदेऽपि एकवाक्यतैवेष्यते भिन्नवाक्यतैव तत्कालं प्रतिभाति । वस्तुतस्त्वाकाङ्‌क्षायोग्यता संनिधिवाशादेकवाक्यतां गतं वाक्यं बोद्धव्यम् ।। 348 ।। <B2>

नियमः प्रतिषेधश्च विधिशेषस्तथा सति ।
द्वितीये यो लुगाख्यातस्तच्छेषमलुकं विदुः ।। 349 ।।

<B2> एवं सतीदं तत्र बोद्धव्यमित्याह--
इको गुणवृद्धी इत्यादिको नियमः सार्वधातुकार्धधातुकयोरित्यस्य गुणविधेः शेषः, तेन सहास्यैकवाक्यतायां सार्धथातुकार्धधातुकयोः परताऽङ्गस्येको गुणो भवतीत्येवं वाक्यार्थो ज्ञायते, अन्यथाऽङ्गस्येगनिकोः स्थाने गुणवृद्ध्योः प्रबृत्तयोरुत्तरकालं नियमेन किमत्र कृत्यम् । उक्तं च--यो हि भुक्तवन्तं ब्रूयान्मा भुङ्‌क्था इति किं तेन कृतं स्यादिति । तथा प्रतिषेधोऽपि विधिना सहैकवाक्यतां गत्वा साफल्यं भजतीत्याह--प्रतिषेधश्चेति । प्रतिषेधश्च विधिशेष एव तथा सति बोद्धव्य इत्यर्थः । अलुगुत्तरपद इत्यनेनोत्तरपदे परतो लुक्प्रतिषेध उच्यमानः सुपो धातुप्रातिपदिकयोरित्यस्य लुग्विधेरङ्गभावमुपगच्छन् वाक्यैकवाक्यतयाऽर्थप्रत्यायनं करोतीति बोद्धव्यम् । एतदेव दर्शयितुमाह--द्वितीय इति । द्वितीयेऽध्याये य आख्यातो लुग्‌विधिस्तस्य षाष्ठिकं लुक्कप्रतिषेधं शेषमङ्गं विदुर्व्याख्यातार इति ।। 349 ।। <B2>

निराकाङ्‌क्षाणि निर्वृत्तौ प्रधानानि परस्परम् ।
तेषामनुपकारित्वात् कथं स्यादेकवाक्यता ।। 350 ।।

<B2> अथ वाक्यभेदवाद्याह--
निर्वृत्तौ विशेषपरिपूर्णतायां वाक्यानि निराकाङ्‌क्षाण्येव । अतः परस्परं ग्रधानानितान्यभिधीयन्ते, नतेषामङ्गाङ्गिभाव इति । अतः पररपरमुपकार्योपकारकभावाभावात् कथं तेषां निष्प्रयोजनापेक्षा परिकल्प्यते, (अतो) नैकवाक्यतेति पूर्वः पक्षः ।।350 ।। <B2>

विशेषविधिनाऽथिंत्वाद् वाक्यशेषोऽनुमीयते ।
विशेषवन्नवर्त्येऽर्थे तस्मात्तुल्यं व्यपेक्षणम् ।। 351 ।।

<B2> अथैकवाक्यवाद्याह--
उत्सर्गवाक्यशेषः सर्वत्रानुमीयते, कस्मादित्यह--विशेषविधिनेत्यादि । अन्यथा वाक्यान्तरवदविशेषण तस्य प्रवृत्तिः स्यात् । न चैतद्यक्तम्, ततश्च निवर्त्ये प्रतिषेध्येऽर्थेऽपेक्षणमुपयुज्यत एव । तस्मात् तयोः परस्परापेक्षणं तुल्यमेवेति कृत्वाऽर्थपर्यालोचनावशेनाकाङ्‌क्षादिना परस्परसम्बन्धेनाङ्गाङ्गिभावापत्तवेकवाक्यतैव ज्यायसीत्युक्तम् ।। 351 ।। <B2>

संज्ञाशब्दैकदेशो यस्तस्य लोपो न विद्यते ।
विशिष्टरूपा सा संज्ञा कुता च न निवर्तते ।। 352 ।।

<B2> उद्धारेण वाक्येषु वाक्यैकदेशाः सन्तीति चतुर्भिः प्रकारैर्निरूपितम् । अर्थप्रकरणाभ्यां यथा वक्ष इत्यादौ । प्रसिद्वेर्यथा वर्षतीत्यादौ । लिङ्गाद्यथा अक्ताः शर्करा इत्यादौ । आकाङ्‌क्षादिना वाक्यान्तरस्य सन्निधानाद्यथा दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेत्यादौ । यथा च "कर्मण्यण्" "आतोनुपसर्गे कः" इत्यादौ । इदानीमपोद्वारसमाश्रयेण प्रसङ्गात् पदेषु पदैकदेशाः सन्तीति विचारयितुं प्रस्तौति-- इह देवदत्तादयः संज्ञाशब्दाः स्थिताः, तत्र कदाचिद्देवः कदाचिद्दत्त इति प्रयुञ्जाना दृश्यन्ते । तदेतत्कथमुपपद्यते ? यस्मात्तेषु संज्ञाशब्देष्वेकदेशास्तेषां लोपस्तावच्छास्त्रे न कुत्रचिदुपदिश्यते । उपदेशोऽपि तेन कर्तुं न पार्यत इत्याह-- विशिष्टरूपेत्यादि । यता लोके नियतवर्णानुपूर्वोकः पदसमुदायः संज्ञात्वेन विनियुज्यते, तदा तदन्तर्गता अवयवा विनियुक्ता एव, यथा वृक्षः प्रचलन् सहावयवैः प्रचलतीत्याचारानुरोधेन किमसौ न्यूनवर्णा वाचिका भवति, सा हि नियतानु पूर्वोका परिपूर्णैव कृता न निवर्तते ।। 352 ।। <B2>

संज्ञान्तराच्च दत्तादेर्नान्या संज्ञा प्रतीयते ।
संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ।। 353 ।।

<B2> अथोच्यते दत्तशब्दादसौ सकला प्रतीता स्वसंज्ञिनं प्रत्याययतीत्याशङ्‌क्याह- दत्तशब्दः स्वतन्त्रोऽन्य एव कस्यचित् संज्ञान्तरम् । तस्मात् कथमन्या देवदत्तेति संज्ञा प्रतीयते शब्दान्तरत्वादकृतसंङ्केतत्वाच्चेत्यभिप्रायः । नापि तद्वाच्यं संज्ञिनमवगमयितुमलं दत्तशब्द इत्याह-- संज्ञिनमिति । दत्तशब्दस्यान्य एवं संज्ञी प्रत्याय्यस्तत्कथं शब्दान्तराभिधेयमसौ प्रत्यायेत् । तदेवं नियतवर्णानुपूर्वोकायास्तस्या लोपस्तावदेकदेशस्य नोपपद्यते, नापि दत्तशब्दाद्देवशब्दाद्वा तदेकदेशभूतदेवदत्तशब्दप्रतीतिरुपपद्यते, तत्रापि तद्वाच्यप्रतिपत्तिरिति यत्किञ्चिदेतत् ।। 353 ।। <B2>

सर्वैरवयवैस्तुल्यं सम्बन्धं समुदायवत् ।
केचिच्छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः ।। 354 ।।

<B2> अत्र मतान्तरं दर्शयितुमाह--
सर्वैरवयवैस्तुल्यमेव समकालमेव संज्ञिनः सम्बन्धः कथं समुदायवत् । यथा समुदायस्तस्य वाचकत्वेन नियुक्तः तथा तत्काल एव तदवयवा अपीत्यतस्तदेकदेशस्तस्य प्रत्यायनं करोतीति को दोषः ।। 354 ।। <B2>

वर्णानामर्थंवत्त्वं तु संज्ञानां संज्ञिभिर्भवेत् ।
सम्बद्धोऽवयवः संज्ञाप्रविवेके न कल्प्यते ।। 355 ।।

<B2> अत्र दूषणद्वयं दर्शयितुमाह--
संज्ञानां ये वर्णास्तेषां संज्ञिनाऽर्थवत्त्वं प्राप्नोति । ततः स्वभिमतैकदेशवदेकोऽपि वर्णो वाचकऋ स्यात् । न चैतत्परिदृष्टम् । अपि च तदवयवः पृथग्वाचको नोपपद्यत इत्याह--सम्बद्ध इति । योऽसौ भवता वाचकोऽवयव एकदेशः परिकल्प्यते, स संबद्ध एव वाचकत्वेन विनियुक्तः, समुदायाच्च तस्य प्रविवेके पृथग्भावे वाचकत्वं न कल्प्य (प) ते, विलक्षणत्वात् ।। 355 ।। <B2>

सर्वस्वरूपैर्युगपत् सम्बन्धे सति संज्ञिनः ।
नैकदेशसरूपभ्यस्तत्प्रत्यायनसम्भवः ।। 356 ।।

<B2> एतदेवापरेण श्लोकेन प्रतिपादयितुमाह--
युगपत् सर्वावयवस्वरूपैः सम्बन्धे नैकदेशास्तद्वाचका उपपन्नाः, अथवा तदेकदेशास्ते न भवन्तीति प्रतिपादयितुमाह--नैकदेशासरूपभ्य इत्यादि । एकदेशसरूपभ्य इत्युक्तम्। एकदेशसदृशास्ते दत्तादयः, न पुनस्तदेकदेशा इति ।। 356 ।। <B2>

एकदेशात्तु सङ्घाते कंषाञ्चिज्जायते स्मृतिः ।
स्मृतेस्तु विषयाच्छब्दात् सङ्घातार्थः प्रतीयते ।। 357 ।।

<B2> मतान्तरमाह--
स्पष्टोऽर्थः ।। 357 ।। <B2>

एकदेशात् स्मृतिर्भिन्ने सङ्घाते जायते कथम् ।
कथं प्रतीयमानः स्याच्छब्दोऽर्थस्याभिधायकः ।। 358 ।।

<B2> एतन्निराकर्तुमाह--
सदृशवस्तुसन्दर्शनात् स्मृतिरुपजायत इति प्रसिद्धम् । तत्र संङ्‌घाते भिन्नस्वरूपे कथं तस्मात् स्मृतिः, कथं च तस्मात् प्रतीयमाना देवदत्तस्य संज्ञिनोऽभिधायक उपपद्यते ? प्रतीयमानस्य वाचकत्वेऽतिप्रसङ्गः स्यात् । श्रुतिपथमवतीर्णाः शब्दा वाचका इति प्रसिद्धम् ।। 358 ।। <B2>

एकदेशसरूपास्तु तैस्तैर्लिङ्गैः समन्विताः ।
अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः ।। 359 ।।

<B2> सिद्धान्तमाह--
यदा तु समुदायः संज्ञात्वेन विनियुज्यते, तदैव तदन्तर्गतावयवसरूपा अपि संज्ञात्वेन विनियुज्यन्त इति तेष्वनुनिष्पादिन्ययेन सिद्धाः संज्ञात्वेन बोद्धव्या इति ।। 359 ।। <B2>

साधारणत्वात् संदिग्धाः सामर्थ्यान्नियताश्रयाः ।
तेषां ये साधवस्तेषु शास्त्रे लोपादि शिष्यते ।। 360 ।।

<B2> तदन्तर्गतावयवसरूपा अनुनिष्पादिन्यायेन विनियुक्ता अपि साधारणत्वात् संज्ञिनमभिधआतुमसमर्थाः । तथआ हि--देवशब्दो देवानां वाचकः कस्यचित् संज्ञिनोऽपि, तथा दत्तशब्दः क्रियाशब्दोऽपि संज्ञाशब्दोऽपि, तत्र कथं नियतस्य संज्ञिनस्तेभ्यः प्रतिपत्ति स्यादित्याशङ्‌क्य नियतार्थतामेषां समर्थयितुमाह--
सामर्थ्यादिभिर्नियताश्रयाः संज्ञ्यभिधायका व्यवस्थाप्यन्ते, तेषामनुनिष्पादिनामेव शास्त्रे लोपादिविधिप्रणालिकया साधुत्वमुच्यत इत्याह--तेषामित्यादि । तेन देवदत्ते स्वतन्त्रः क्रियावाचकदत्तशब्दसाधारणो दत्तः संज्ञाशब्दः , देवोऽपि संज्ञाशब्दोऽनुनिष्पादित्वान्न् तदन्तर्गतोऽपीति बोद्धव्यम् । एतदेव शास्त्रे लोपादिद्वारेणान्वख्यायते, यथाक्तम्..."चतुर्थादनजादौ च लोपः पूर्वपदस्य च" इत्यादि ।। 360 ।। <B2>

तुल्यायामनुनिष्पत्तौ ज्ये द्रा घा इत्यसाधवः ।
नह्यन्वाख्यायकं शास्त्रे तेषु दत्तादिवत् स्मृतिः ।। 361 ।।

<B2> एतत्स्फुटीकरणायाह--
समुदाये यथा पदान्यनुनिष्पादिन्यायेन तत्र विनियुज्यन्ते, नैवमत्र समानायामप्यनुनिष्पत्तौ वर्णानां वर्णा विन्युज्यन्ते । अथश्च ज्येष्ठादिषु न ज्यादयो वर्णमात्रा वृद्धव्यवहारे साधवोऽभ्यनुज्ञायन्त इति, शास्त्रेऽप्यन्वाख्यायकेन तथा भूतानामनुगमः क्रियत इति बोद्धव्यम् । अतो नैते घादयो वर्णा मघादिवाच्येष्वर्थेषु वाचका इति ।। 361 ।। <B2>

कृतणत्वाश्च ये शब्दाः नित्यं खरणसादयः ।
एकद्रव्योपदेशित्वात्तान् साधून् संप्रचक्षते ।। 362 ।।

<B2> अथ पदेषु पदैकदेशाः सन्तीति विचारप्रस्तावे संज्ञाशब्दानां शब्दार्थसम्बन्धस्यानित्यत्वमाशङ्क्य समर्थयितुमाह--
इह संज्ञाशब्दानां संज्ञिसम्बन्धात् प्राग्लक्षणयोग उत तदुत्तरकालम ? यदा प्राक्‌ तदासौ न कस्यचित् संज्ञेति तन्निबन्धनं कार्यं कथं साय्त् ?
अत्रोच्यते--अत्र (यत्र) संज्ञासंज्ञिसम्बन्धात् संज्ञात्व तत्र लक्षणमिति । अथोत्तरकालं संज्ञात्वम् (अथोत्तरकालं लक्षणयोगः), तदा चाकृतणत्वोऽसौ शब्दः सम्प्रति णत्वं भजत इत्यनित्यत्वं शब्दानां स्यादित्याशङ्क्याह--कृतणत्वा इत्यादि ।
इह द्वौ राशी कृतणत्वानामेको राशिर्नित्यएव, अकृतणत्वानामपर इति । तत्र ये कृतणत्वास्ते साधवो नित्या एव, एकद्रव्योपदेशित्वात् स्वभावेनैव ते संज्ञाशब्दा इत्यथः । शास्त्रे पूर्वपदात् संज्ञायामगः' इत्यनेन कृतणत्वानामेव तेषां साधुत्वमन्वाख्यायत इति कृतणत्वता शास्त्रे प्रक्रियासमाश्रयणेनैषामुक्तेति न कश्चिद्विरोधः ।। 362 ।। <B2>

गोत्रण्येव तु तान्याहुः संज्ञाशक्तिसमन्वयात् ।
निमित्तापेक्षणं तेषु स्वार्थे नावश्यमिष्यते ।। 363 ।।

<B2> एतदेव प्रतिपादयितुमाह--
संज्ञाशब्दकुलानि व्यवस्थितानि, न तेषु स्वार्थे संज्ञिनि निमित्तान्वेषणमिष्यते नित्यत्वाच्छब्दार्थंसम्बन्धस्य । तद्वाचकास्ते स्ववाच्ये नियता इति स्वरूपव्यतिरेकेण निमित्तान्तरान्वेषणमव्यापकमेव ।। 363 ।। <B2>

व्यवहाराय नियमः संज्ञानां संज्ञिनि कचित् ।
नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ।। 364 ।।

<B2> ननु च नित्यत्वं संज्ञाशब्दानामनुपपन्नं सम्प्रति क्रियमाणत्वात्, यस्मात्पुरुषेच्छया यथा कथञ्चिन्नियुज्य संज्ञाः क्रियन्ते । उक्तं च--
"कृतकत्वादनित्यत्वं सम्बन्धस्योपजायते ।
संज्ञायाः सा हि पुरुषैर्यथाकामं नियुज्यते ।। "
यथा हि पांसुरेखाणां बालकैर्मधुरादयः संज्ञाः क्रियन्ते, संज्ञासु सर्वाष्वेषैव कल्पना इत्याशङ्‌क्य समर्थयितुमाह--
संज्ञाशब्दानां कचित्संज्ञिनि यदि परं व्यवहारार्थं पुरुषैर्नियममात्रं क्रियते । यथाऽस्मिन् गृहेऽद्यप्रभृति डित्थशब्दवाच्योऽयमिति बोद्धव्यम् शब्दार्थसम्बन्धस्तु डित्थादिष्वनादिर्योग्यतालक्षणो नित्य एव, यद्वक्ष्यति --
"इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा ।
अनादिरर्थैः शब्दानां सम्बन्धो योग्यता तथा ।। " इति ।
(वा o प o 3-3-29)
तदेवं यथा गवादिष्वनादियोग्यतासम्बन्धाद्वाचकत्वं गोशब्दादीनां तथैव डित्थादीनां बोद्धव्यम् ।। 364 ।। <B2>

वृद्ध्यादीनां च शास्त्रेस्मिञ्छक्त्यवच्छेदलक्षणः ।
अकृत्रिमोऽभिसम्बन्धो विशेषणाविशेष्यवत् ।। 365 ।।

<B2> शास्त्रेऽपि तथैव व्यवहारनियमः संज्ञाशब्दानामवसातव्य इत्याह--
शास्त्रे वृद्ध्यादीनां संज्ञाशब्दानां सर्वार्थप्रकाशनशक्तियोगः संज्ञिनामादैजादीनां च क्वशब्दवाच्यता योग्यता, अतः केवलं शास्त्रे संज्ञान्तरादवच्छिद्यादैजादिप्रत्या यन एव शक्तिर्वृद्ध्यादीनां नियम्यते, आदैजादीनां वृद्ध्यादिशब्दवाच्यत्वमेव व्यवस्थाप्य इति सहजशक्तिप्रतिनियम एव वाच्यवाचकयोरुच्यते, न पुनः कृत्रिमसम्बन्धाधानं विज्ञेयम्, यथा विशेषणाविशेष्ययोरनादिः शब्दवाच्यतात्मक ेव सम्बन्धः, न पुनस्तत्र पुरुषेण नीलादियोगः क्रियत इति ।। 365 ।। <B2>

संज्ञास्वरूपमाश्रित्य निमित्ते सति लौकिकी ।
काचित् प्रवर्तते काचिन्निमित्तासंनिधावपि ।। 366 ।।

<B2> अथ संज्ञाप्रवृत्तिनिमित्तं विचारयितुमाह--
सर्वसंज्ञाशब्दानां स्वरूपमेव प्रवृत्तिनिमित्तं बोद्धव्यम् । तस्मिन् सति कुत्रजिदर्थानुपात्तं निमित्तं विद्यते, कुत्रचित्तस्याभाव एव डित्थादाविति कैश्चित् तत्राप्युच्यत एव ।। 366 ।। <B2>

शास्त्रे तु महती संज्ञा स्वरूपोपनिबन्धना ।
अनुमानं निमित्तस्य संनिधाने प्रतीयते ।। 367 ।।

<B2> न केवलं तत्रैकाक्षराणां स्वरूपमेव प्रवृत्तिनिमित्तं विद्यते, यावन्महतीनामपि स्वरूपमेवोपनिबन्धवं प्रवृत्तिनिमित्तं बोद्धव्यमित्याह--
केवलं तत्र निमित्तस्यावयवार्थस्य संनिधाने सत्यनुमानं तत्सद्भावे प्रतीयते, अनुमानेनावयवार्थोऽपि तत्र निमित्तमिति प्रतीयत इत्यर्थः ।। 367 ।।<B2>

आवृत्तेरनुमानं वा सारूप्यात्तत्र गम्यते ।
शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ।। 368 ।।

<B2> कथं तदनुमानमित्याह--
स एक एव द्विरावर्तते तत एकेन स्वरूपनिरूपतसंज्ञिनः प्रतिपत्तिरपरेणावयवार्थनिबन्धानता व्यवस्थाप्यते । नन्वावृत्तिरनुमीयते किं यदि ह तत्र तवाभीष्टंस्याद् द्विधोच्चारणादित्याह-सारूप्यादिति । सारूप्यादेक एवोच्चारतिः शब्दः इति गम्यते । अथवा तन्त्रेण द्वावेव शब्दावुच्चारितावित्यनुमीयत इत्याह--शब्दभेदानुमानं वेति । तत एकेन स्वरूपाच्छादितसंज्ञिनः प्रतिपत्तिरपरेणावयवार्थनिबन्धनेति । तृतीयम पे पक्षं प्रदर्शयितुमाह--शक्तिभेदस्य वा गतिरिति । स एवैको द्विशक्तिरुच्चारितस्तत एकथा संज्ञिनः प्रतिपत्तिरपरेणा (रपरया) वयवार्थसङ्गतिरिति ।। 368 ।। <B2>

क्कचिद्विषयभेदेन कृत्रिमा व्यवतिष्ठते ।
संख्यायामेकविषयं व्यवस्थानं द्वायोरपि ।। 369 ।।

<B2> इदानीं लौकिकस्याकृत्रिमस्य क्कचिद्‌ग्रहणं, क्कचिद् कृत्रिमस्य पारिभाषिकस्य, क्कचिदुभयगतिरिह शास्त्रे सम्भवतीत्युभयोरपि कृत्रिमाकृत्रिमयोः क्कचिदकृत्रिम एव व्याप्तेः परिगृहीत इतरस्यापि विषयं व्याप्नोतीति चातुर्विध्यं संज्ञाशब्दानां प्रदर्शयितुमाह--
कृत्रिमा साश्त्रीया पारिभाषिक्युच्यते । सा विषयभेदेन व्यवतिष्ठते, न तु सर्वत्र तथैव व्यवसाथा । यथा "कतेरि कर्मव्यतिहारे" इत्यत्राकृत्रिमा गृह्यते, व्यतिहारस्यात्र कृत्रिमसंज्ञा (संज्ञायामा) श्रयणानुपपत्तेः । `कर्मण्यण्‌' इत्यत्र कृत्रिमा शब्दवैरेत्यादावकृत्रिमा धात्वधिकारात्कृत्रिमाया अत्रानुपपत्तेः । `कर्तृकरणयोस्तृतीया' इत्यत्र कृत्रिमेति क्कचिदेकत्रोभयरूपताया ग्रहणमिति दर्शयितुमाह--संख्यायामिति । संख्याविषये शास्त्रे कृत्रिमाकृत्रिमयोरपि समाश्रयणं शास्त्रीयाया `बहुगुणवतुडती' त्यादिकाया अपि कृत्रिमाया लौकिक्या अथ (प्य) कृत्रिमाया विशंत्यादिकाया अतिशदन्ताया इति प्रतिषेधादत्र ज्ञापकाद् ग्रहणम् ।। 369 ।। <B2>

विषयं कृत्रिमस्यापि लौकिकः क्कचिदुच्चारन् ।
व्याप्नोति दूरात्सम्बुद्धौ तथाहि ग्रहणं तयोः ।। 370 ।।

<B2> क्कचिदकृत्रिमः संज्ञाशब्दो गृहीतः कृत्रिमस्यापि प्रत्यायनं करोतीति प्रदर्शयितुमाह--
लौकिकोऽकृत्रिमः संज्ञाशब्दः समुच्चरन् कृत्रिमस्यापि शास्त्रीयस्य विषयं व्याप्नोति, यथा `एकश्रुति दूरात् सम्बुद्धौ' इत्यत्र सम्बोधनं सम्बुद्धिरिति लौकिकेन शास्त्रीयमप्येकवचनं सम्बुद्धिरिति गृह्यत एव, तत्रापि सम्बोधनस्य विद्यमानत्वादित्यर्यः ।। 370 ।। <B2>

सङ्घैकशेषद्वन्द्वेषु केचित्सामर्थ्यलक्षणम् ।
प्रत्याश्रयमवस्थानं क्रियाणां प्रतिजानते ।। 371 ।।

<B2> अथेदानीं वाक्यविचारप्रस्तावे क्कचित्प्रत्यकं वाक्यपरिसमाप्तिः क्कचित्समुदाय इति प्रदर्शयितुमाह--
वाक्यवद्वाक्यार्थस्यापि प्रत्येकसमुदायपरिसमाप्तिवाक्यपरिसमाप्तिं प्रसङ्गान्मतभेदेन निरुपयति । तत्र वाक्यार्थस्य प्रत्येकपरिसमाप्तिरिति तावद्दर्शयतिगगसङ्घैकशेषद्वन्द्वेष्वित्यादिना । कदाचित्संघेनैकशेषेण द्वन्द्वेन वार्थप्रतिपादनं क्रियते, यथा ब्राह्मणा भोज्यन्तां `ब्राह्मणो भोज्यता' देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्ताम् । अत्र ब्राह्मणकर्तृकाया भुजिक्रियाया वाक्यार्थभूताया प्रत्याश्रयमवस्थानं प्रतिजानतेऽभ्युपगच्छन्ति । कीदृशम ? सामर्थ्यलक्षणमिति, सामर्थ्यं समर्थभावात्मकमग्रे निरुप्यमाणलक्षणं स्वरूपं (निरूप्यमाणं लक्षणं निमित्तस्वरूपं) यस्य तत्तथाविधं सामर्थ्यलक्षणत्वादित्यर्थः ।। 371 ।। <B2>

भोजनं फलरूपाभ्यामेकैकस्मिन् समाप्यते ।
अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते ।। 372 ।।

<B2> अथ भुजिक्रिया कारकसमुदाय एव नाट्यक्रियावत् कि न समाप्यत इत्याह--
इहैकेन पादप्रक्षालनमपरेणासनोपवेशनमपरेणान्नदानमन्येनान्ननिगरणमिति नैवं भुजिक्रिया निर्वर्तयितुमायाति, यस्मादसौ भुजिक्रिया फलेन तृप्तिलक्षणेन रूपेणान्नदानादीनां (णान्नादनादिना) चैकाधिकरणेन निर्वर्त्यते, तथाऽनाश्रयणेन (ऽनाश्रयणे च) भुज्यर्थानिष्वत्तेः, भिन्नाधिकरणा सा स्वरूपं न प्रतिभजत इति प्रत्यक्षसंद्धमेव ।। 372 ।। <B2>

अन्नादानादिरूपां च सर्वे तृप्तिफलां भुजिम् ।
प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियामिव ।। 373 ।।

<B2> एतदेव स्फुटयितुमाह--
नियतस्वरूपा हि वस्तुगतयो दृश्यन्ते, नास्यक्रियाऽनेकसाधनसाध्या सती फलवत्युपजायते, भुजिक्रिया त्वेकैककारकनिर्वर्त्येति वस्तुगतिः ।। 373 ।। <B2>

पाद्यवत् सा विभागेन सामर्थ्यादवतिष्ठते ।
भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ।। 374 ।।

<B2> एतदेव दृष्टान्तान्तरेण व्याचष्टे--
श्राद्धकर्मणि ब्राह्मणेषु कर्त्रा यथा पाद्यमनेकाधिकरणं तदभ्यर्चनायोपकल्प्यते, तथैवेयं भुजिक्रिया सामर्थ्याद्वस्तुस्वाभाव्याद्विभागेनैवावतिष्ठत इति । नतु तन्त्रेण साधारण्येनासौ प्रदीपवदेकाधिकरणैव भुज्यर्थं तृप्तिलक्षणं करोति ।। 374।।<B2>

दृश्यादिस्तु क्रियैकापि तथाभृतेषु कर्मसु ।
आवृत्तिमन्तरेणापि समुदायाश्रया भवेत् ।। 375 ।।

<B2> अथ भुजिक्रियावदन्यासामपि क्रियान्तर (र) समाश्रयणेन समुदायपरिसमाप्तिमुपदर्शयितुमाह--
देवदत्तयज्ञदत्तविष्णुमित्रा दृश्यन्तामित्यत्र दृशिक्रिया तथामूतेषु योग्यदेशस्थितेषु विषयेषु प्रत्येकपरिसमाप्तिं विना भुक्तिवन्नोपपद्यत इति नोत्यते, युगपदेवात्र दर्शनक्रियाधिगमफला समुदायमाप्नोतीत्यसौ समुदायाश्रया भवेत् ।। 375 ।। <B2>

भिन्नव्यापाररूपाणां व्यवहारादिदर्शने ।
कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् । 376 ।।

<B2> अथ पच्यादिक्रिया किं समुदायपरिसमाप्ता, किं वा प्रत्येकं समाप्तेत्याशङ्‌क्याह--
देवदत्तः काष्ठैः स्थाल्यामोदनं पचति, विक्लिद्यतस्तण्डुलान् विक्लेदयतीत्यत्र भिन्नव्यापाररूपाणां कारकाणां दर्शनं भिन्नं प्रार्थनादिको व्यापारो भिन्नः, स सम्भूय सङ्घादर्थस्य पाकक्रियालक्षणस्य साधको दृश्यते व्यहारादिदर्शन इति । व्यवहारः कश्चिन्नियतविषय एवोपयोगोऽत्राभिप्रतः । आदिग्रहणेन तदन्येषां परिग्रहः । तेषां दर्शनं समारम्भः प्रारम्भ इति यावत् । तस्मिन् सतीत्यर्थः ।
एतदुक्तं भवति--कर्तृस्था वा क्रिया भवति कर्मस्था वेत्यत्र पचिक्रिया कर्मणि समवेता न समुदाय इति केचित् । अन्ये त्वाहुः--यद्यपि कर्मणि समवेता, तथाप्यधिश्रयणोपसर्जनविक्लित्तिरपि पचेरर्थ इत्यवान्तरक्रियान्याभावे प्रधानक्रियासमाश्रयणेन व्यावृत्तव्यापारस्याविशेषात् संभूय सर्वैर्निर्वर्त्यत इति समुदाय एव परिसमाप्यत इति ।। 376 ।। <B2>

लक्ष्यस्य लोकसिद्धत्वाच्छास्त्रे लिङ्गस्य दर्शनात् ।
अर्थित्वादैक्षुभेदेन वृद्धिसंज्ञा समाप्यते ।। 377 ।।

<B2> अथ शास्त्रे प्रत्येकं वाक्यपरिसमाप्तिमुपदर्शयितुमाह--
`वृद्धिरादैच्' इत्यत्र वृद्धिशब्दः प्रत्येकमादैक्ष्वर्थिषउ संज्ञात्वेन नियुज्यते, यस्माल्लोके, तथैक लक्ष्यं सिध्यति--आम्रगुप्तायनिः, ऐतिकायनिः, औपगव इति । तथा शास्त्रे प्रत्येकमादैचां वृद्धिसंज्ञा लिङ्गाद् दृश्यते, यथा `प्रस्थेऽवृद्धमकर्क्यादीनाम्' मालादीनां च' `वृद्धिर्यस्याचामादिस्तद्‌वृद्धम्' इत्यत्र प्रस्थे उत्तरपदे पूर्वपदमवृद्धमाद्युदात्तं भवति, तदनन्तरंमालादीनामादिरुदातो भवतीत्युक्तम्, यदि चैकैकस्य वृद्धिसंज्ञा तदा मालादीनां `वृद्धिर्यस्याचामादिस्तद्‌वृद्धम्' इति मालादयो वृद्धा भवन्ति ।। 377 ।। <B2>

शतादाने प्रधानत्वाद् दण्डने शतकर्मके ।
अर्थिनां गुणभेदेऽपि संख्येयोऽर्थो न भिद्यते ।। 378 ।।

<B2> इदानीं क्वचित् समुदाये वाक्यपरिसमाप्तिरिति प्रदर्शयितुमाह--
गर्गाः शतं दण्ड्यन्तामित्यत्र ज्ञतकर्मकं दण्डनं समुदाये परिसमाप्यते । अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति यस्माद्वाक्यार्थज्ञा राजानो विवेचयन्ति, यथात्र द्वे कर्मणी प्रधानमप्रधानं चेति । तत्र शतकर्मके दण्डने शतादानमेव प्रधानम् ।
यदि च प्रत्येकंशतकर्मदानं समाप्येत, तदा गर्गाः शतानि दण्ड्याः स्युः । ततश्च प्रधानकर्मणः स्वरूपभ्रंशो भवेत् । न च प्रधानार्थपरित्यागो युक्तः , अतः संख्यान्तराश्रयणे विरोधो वाक्यस्य स्यात्, वीप्सायां बाधप्राप्तेः । अत्र गुणभेदेऽपि दण्ड्यभेदेऽप्यप्रधानत्वात्तेषां नात्र प्रत्येकमपि त्वर्थिनां राज्ञां शतर्मकं दण्डनं समुदाय एवावतिष्ठत इति बोद्धव्यम् ।
एतदुक्तं भवति--प्रत्येकं वाक्यपरिसमाप्तिः समुदाये वाक्यपरिसमाप्तिरित्येतन्न राजाज्ञावशाद् व्यवस्थाप्यते, अपि त्वर्थतथाभावादिति न्यायसिद्धमेवैतद् वेदितव्यम् ।। 378 ।। <B2>

संघस्यैव विधेयत्वात् कार्यवत्प्रतिपादने ।
तत्र तन्त्रेण सम्बन्धः समासाभ्यस्तसंज्ञयोः ।। 379 ।।

<B2> शास्त्रे प्रदर्शयितुमिदानीमाह--
समासंज्ञाऽभ्यस्तसंज्ञा च समुदाय एव परिसमाप्यते--`सह सुपा' `उभे अभ्यस्तम्' इति च । अत्र समाससंज्ञाया अभ्यस्तसंज्ञायाश्च तन्त्रेण साधारण्येन समुदायस्यैव सम्बन्धः । कस्मादित्याह--सङ्घस्यैव विधेयत्वादिति । यस्मादत्र सङ्घ एव विधीयते । पूर्वपदोत्तररूपे हि समाससंज्ञा विधीयते । तथाऽभ्यस्तमित्यत्र युगपद् द्वयोरभ्यस्तसंज्ञा विधीयते किञ्चित्कार्थं विधातुमिति ।
ननु समाससंज्ञायां कथं राजपुरुष इत्यादौ समुदायो विधीयते, यावता नित्यत्वाच्छब्दार्थसम्बन्धानां तविधेयतानुपपत्तिरित्याशङ्‌क्या--कार्यवत्प्रतिपादन इति । यदा कार्यवन्वाख्यानमिति पक्षः प्रतिपाद्यते, तदैतदुक्तमित्यर्थः ।। 379 ।। <B2>

लक्षणार्था स्तुतिर्येषां कञ्चिदेव क्रियां प्रति ।
तैर्व्यस्तैश्च समस्तैश्च स धर्म उपलक्ष्यते ।। 380 ।।

<B2> इदानीं क्कचिदेकत्रैवोभयथापि वाक्यपरिसमाप्तिर्दृश्यत इति प्रतिपादयितुमाह-
<B2>

वृषलैर्न प्रवृष्टव्यमित्येतस्मिन् गृहे यथा ।
प्रत्यकं संहतानां च प्रवेशः प्रतिषिध्यते ।। 381 ।।

<B2> उदाहरणमाह--
अत्र वृषलजातीयस्य प्रवेशनिषेधः क्रियते । तत्र चैकस्यापि वृषलत्पस्म सद्भावात् सामर्थ्यात् पृथक्‌ समुदाये च प्रवेशनिषेधार्थः सम्पद्यत इति ।। 380 - 381 ।। <B2>

सम्भूय त्वर्थलिप्सादिप्रतिषेधोपपादने ।
पृथगप्रतिषिद्धत्वात् प्रवृत्तिर्न विरुध्यते ।। 382 ।।

<B2> प्रकारान्तरेणोपदर्शयितुमाह--
भवद्भिः समग्रैरेवाद्यप्रभृति राजोपसेवा न कार्या, समुद्‌गमनं वा न विधेयम्, कृषिकर्म वा नानुष्ठेयमित्यत्र समुदाये प्रत्येकं वा निषेधे वाक्यस्य न प्रवृत्त्यनुपपत्तिः ।। 382 ।। <B2>

व्यवायलक्षणार्थत्वादट्‌कुप्वाङादिस्तथा ।
प्रत्येकं वा समस्तैर्वाणत्वं न प्रतिषिध्यते ।। 383 ।।

<B2> अत्रापि शास्त्रीयमुदाहरणं दार्शयितुमाह--
व्यवायो व्यवधानं तदुपलक्षणार्थत्वादट्‌कुप्वाङादिभिरिति प्रत्येकं समुदायेऽपि तेषां स्थितेर्व्यवायस्य सिद्धत्वात्तथैव णत्वं प्रर्वतत इति न कश्चिद् दोषः ।। 383 ।। <B2>

अनुग्रहार्थ भोक्तॄणां भुजिरारभ्यते यदा ।
देशकालाद्यभेदेन नानुगृह्णाति तानसौ ।। 384 ।।

<B2> इदानीं भुजिक्रियाया एकत्वानेकत्वविचारः । तत्रापि किमेकस्मिन् देशे काले पात्रेऽनुष्ठिता स्वरूपमासादयति, उत देशादिभेदनानुष्ठितेति विचारयितुमाह--
देशकालाद्यभेदेनेति नात्र भुजेरनुग्रहार्थाया विशेषः कश्चित्, उभयथापि तदनुग्रहस्य निर्वृत्तेरिति ।। 384 ।। <B2>

पात्रादिभेदान्नानात्वं यस्यैकस्योपदिश्यते ।
विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ।। 385 ।।

<B2> अथास्या एकत्वानेकत्वे विचारयितुमाह--
यस्य मते एकैव भुजिः , तृप्तिलक्षणसमानफलत्वात् , तस्य देशकालभेदात्‌नानात्वं स्वतस्त्वेकत्वमेव । कस्यचिन्मते तु भोक्तृभेदात् फलभेदे भुजिक्रियाभेद एव । तस्य विपर्यये पात्राद्यभेदादेकत्वं तस्या बोद्धव्यं स्वभावतस्तु भिन्नत्वमेवेति मतभेदः ।। 385 ।। <B2>

संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः ।
स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ।। 386 ।।

<B2> किञ्च--
देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्यत्र सामर्थ्याद्भेदेग वाक्यार्थप्रतिपत्ताविच्छावशात् संभूय स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ।। 386 ।। <B2>

वीप्साया विषयाभावाद् विरोधायन्यसंख्यया ।
द्विधा समाप्त्ययोगाच्च शतं सङ्घेऽवतिष्ठते ।। 387 ।।

<B2> अथ शतादानप्रधानत्वादित्येतत्प्रतिपाद्यस्यार्थस्योपपत्तिं प्रतिपादयितुमाह--
यद्येकैकं शतं शतं दण्ड्येत, तदा वीप्साविषयोऽपहृतः स्यात्, तथा शतकर्मकमत्र दण्डनं प्राधान्येन विधीयते । यदि तु प्रत्येकं शतदण्डनं प्राधान्येन विधीयते, प्रत्येकं शतदण्डने संख्यान्तरोपजननाच्छतसंख्या विरुद्ते ।
न चाप्यत्र द्विधा वाक्यं समाप्यते । यत एकेन प्रधानकर्मणः सम्बन्धोऽपरेण गुणकर्मणामिति वाक्यार्थज्ञैः पर्यालोच्य सङ्घ एव शतादानमवतिष्ठत इत्युच्यते ।। 387 ।। <B2>

भुजिद्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते ।
तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते ।। 388 ।।

<B2> अथ भुजिक्रियायाः प्रत्येकं परिसमाप्तावपि यत्र देवदत्तयज्ञदत्तविष्णुमित्रैः सह भोक्तव्यमित्युच्यते, तत्र द्विधापि प्रत्येकं समुदाये च वाक्यार्थश्च परिसमाप्यत इत्याह--
लक्षणार्थत्वादिति यस्मादत्र सह भोजनं सहैव वा तत्प्रतिषेध इत्येव तावल्लक्ष्यते । तत्र बहुभिः सह बोक्तव्यम् द्वाभ्यां त्रिभिर्वा न वेत्येतदत्राभिधीयते । एवं च सहैव भोक्तव्यं न वेति समुदाय एव विधिर्वा प्रतिषेधो वा विधीयते, केवलं सह भोजनविधिस्तत्प्रतिषेधो वाऽभीष्ट इति प्रत्येकं समुदाये च वाक्यार्थोऽत्र समाप्यत इति बोद्धव्यम् ।। 388 ।। <B2>

वाक्यान्तरणां प्रत्येकं समाप्तिः कैश्चिदिष्यते ।
रूपान्तरेण युक्तानां वाक्यानां तेन संग्रहः ।। 389 ।।

<B2> एवं वाक्यार्थाश्रयणेन प्रत्येकं वाक्यपरिसमाप्तिः समुदाये च वाक्यापरिसमाप्तिरिति प्रदर्शितम् । इदानीं वाक्यसमाश्रयणेन प्रतिपादयितुमाह--
इहैकं यद्वाक्यं श्रुतं तेन वाक्यान्तराणां वाक्यरूपाणां संग्रहो लक्षणंप्रत्यायनमिष्यते । तानि वाचकानि । तस्मान्महावाक्यं प्रत्येकं समाप्यते । ततश्च तथैवर्थावगतिरिति ।। 389 ।। <B2>

न वाक्यस्याभिधेयानि भेदवाक्यानि कानिचित् ।
तस्मिंस्तूच्चरिते भेदांस्तथान्यान् प्रतिपद्यते ।। 390 ।।

<B2> अथ वाक्यान्तरणां कमेकमेव तन्महावाक्यमभिधायकमुच्यत इत्याशङ्‌क्याह--
तस्मादुच्चरितादर्थप्रतिपत्तावर्थपर्यालोचनावशेनावान्तरवाक्यप्रतिपत्तिः सम्पद्यत इत्युच्यते, न पुनस्तेन तान्यभिधीयन्त इति ।। 390 ।। <B2>

येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते ।
तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ।। 391 ।।

<B2> अत्राखण्डवाक्यवादी प्रौढवादितया पदवादिमतं निराकर्तुमाह--
प्रत्येकमखण्डस्यैव वाक्यार्थस्य परिसमाप्तेः पदार्थानाममुपयोगात् पदार्थकल्पना वृथैव ।। 391 ।। <B2>

अथ तैरेव जनितः सौऽर्थो भिन्नेषउ वर्तते ।
पूर्वस्यार्थस्य तेन स्याद्विरोधः सह वा स्थितिः ।। 392 ।।

<B2> वाक्यवादी विकल्पयितुमाह--
अथोच्यते पदार्थैरेव वाक्यार्थो जनितो भिन्नेषु वर्तते । पूर्वस्य तेन सह विरोधः सहानवस्थानलक्षणो वा स्यात्, अथवा सहावस्थितिरिति द्वयी गतिः।।392।। <B2>

सहस्थतौ विरोधित्वं स्याद् विश्ष्टाविशिष्टयोः ।
व्यभिचारी तु सम्बन्धस्त्यागेऽर्थस्य प्रसज्यते ।। 393 ।।

<B2> तत्र सहस्थितौ चोद्यमाह--
भेदसंसर्गौ विरुद्धावत्रानुषज्येयातामित्यर्थः । अथ पदार्थवाक्यार्थयोरत्र सहानवस्थानं यत्पूर्वः पदार्थो वाक्यार्थो वाक्यार्थे तत्र समाप्ते विनिवर्तते, तदायं दोष इत्याह--व्यभिचारीति । वाक्यार्थफलानां पदानामुपात्तर्थपरित्यगे शब्दार्थसम्बन्धो व्यभिचार्यनित्यः प्राप्नोति । अतः प्रत्येकं वाक्यपरिसमाप्तिपक्षे सत्यभूतपदपदार्थासम्भव एव ।। 393 ।। <B2>

एकः साधारणो वाच्यः प्रतिशब्दमवस्थितः ।
सङ्घे सङ्घिषु चार्थात्मा संनिधाननिदर्शकः ।। 394 ।।

<B2> अथ समुदायवाक्यपरसमाप्तिपक्षे किं समुदायार्थेन सङ्घ एवार्थवान् नावयवाः, आहोस्वित्तदवयवा अपीति विचारयितुमाह--
सोऽर्थात्मा वाच्यः सत्यभूतो वाक्यार्थलक्षण एकोऽखण्डः प्रतिशब्दमवस्थितो बोद्धव्यः । यतोऽसौ साधारणः सर्वेषां वाच्यभूतः स्थितः । अथ तेष्वेव स्थितोऽसौ नेत्याह--सङ्घिषु चेति । साधारणत्वात् समुदायेऽप्युच्यते तदवयवेष्वपीति ।
यदि प्रतिशब्दमवस्थितः , तत एकपदोपलम्भकाले किमित्यसौ नावगम्यत इत्याह--संनिधाननिदर्शक इति । इतरपदसंनिधानं निदर्शकं यस्यासौ तथाभूतः ।
यथोक्तं पुरस्तात्--"प्रत्येकं तु समाप्तोऽर्थः सहभूतेषु वर्तते" (115) इति । अतः सकलपदोपलम्भकाले प्रतीयत इति न कश्चिद्दोषः ।। 394 ।। <B2>

यथा साधारणे स्वत्वं त्यागस्य च फलं धने ।
प्रीतिश्चाविकला तद्वत् सम्बन्धोऽर्थे न तद्वता ।। 395 ।।

<B2> एतद्‌ दृष्टान्तद्वारेण व्यक्तीकर्तुमाह--
धने बहूनां साधारणे स्वत्वं स्वस्वामिभाव आत्मीयत्वं वा सर्वेषां त्यागस्य च दानलक्षणस्य फलम् । तदपि सर्वेषामस्माकं बहु धनमस्तीति । चेतसश्च प्रीतिनिर्वृत्तिलक्षणा साप्यविकला साधारणत्वादेव सर्वेषां भवति । तद्वत्तेनार्थेन समंकृत्वा तद्वातां सङ्घसघिनां सम्बन्धो बोद्धव्यः ।। 395 ।। <B2>

वर्णानामर्थवत्तायां तैनैवार्थेन तद्वति ।
समुदायेन चैकत्वं भेदेन व्यवतिष्ठते ।। 396 ।।

<B2> इदानीमेतत्प्रसङ्गेन सङ्घातस्यैकार्थ्यात् सुबभावो वर्णादित्येतद् व्याख्यातुमाह--
यदा वर्णा अप्यर्थवन्तः समुदायेऽप्यर्थवत्ता, तदा तत्रार्थवत्त्वस्य साधारण्येनैवैकत्वात् समुदायादेवैकत्वप्रतिपादनायैकवचनमुत्पद्यते, न प्रत्येकं वर्णेभ्य इति ।। 396 ।। <B2>

एकेनैव प्रदीपेन सर्वे साधारणं धनम् ।
पश्यन्ति तद्वदेकेन सुपा संख्याऽभिधीयते ।। 397 ।।

<B2> एतदेव दृष्टान्तप्रदर्शनपूर्वकं दर्शयितुमाह--
सन्तमसे साधारणधनस्वरूपपरिज्ञानं यथैकेनैव प्रदीपेन सम्पद्यते, तद्वदत्रापि साधारणार्थवत्ताऽभिव्यक्तये एकेनैव सभुदायादुत्पन्नेन सुपा एकत्वलक्षणां संख्या समुदाया पगताऽभिधीयत इति न तपृथक्‌ पृथक्‌ सुबुत्पत्तिः ।। 397 ।। <B2>

  नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते ।
अभ्यासात् प्रक्रमोऽन्यस्तु विरुद्ध इव दृश्यते ।। 398 ।।

<B2> अत एवं साधारणैवासावर्थवत्ता एकेनैव सुपाऽभिहिता, तस्मादसौ वर्णपदयोरपि वाक्ये च भवन्तीति न विशिष्यते न पृथगभिधातुमुपयुज्यत इति बोद्धव्यमित्यभिधातुमाह--
ननु पूर्वे वाक्यस्यैवार्थवत्त्वं महता प्रबन्धेन व्यवस्थापितम्, पदान्यनर्थकान्येवाभिहितानि । वर्णानामर्थवत्वे कैव कथा ? इदानीं वर्णे पदे वाक्ये च समंकृत्वैवार्थवत्तोद्‌घोष्यत इति किमेतदुच्यत इत्याशङ्‌क्याह--अभ्यासादिति । इह भिन्नान्यागमदर्शनानि लौकिकैश्चार्वागदशिंभिस्तत्राभिनिविष्टैः परस्परं शास्त्राणां पृथक्‌ पृथक् प्रक्रमाः परिपाटयो दृश्यन्ते विरुद्धा इव, परमार्थतस्तत्त्वं सत्यरूपमेकमविरुद्धमेव सर्वत्र स्थितमिति । अतश्च सर्वपार्षदत्वादेतदनुषङ्गात् कथञचिदाश्रितम्, नैतावताऽभ्युपेतस्याखण्डपक्षस्य त्याग आयात इति बोद्धव्यम् ।। 398 ।। <B2>

विनियोगादृते शब्दो न स्वार्थस्य प्रकाशकः ।
अर्थाभिधानसम्बन्धमुक्तिद्वारं प्रचक्षते ।। 399 ।।

<B2> इदानीं शब्दस्यार्थभिधाने स्वव्यापारं विचारयितुकाम आह--
इहैक एव शब्दो वह्वर्थः । स यदा वक्त्रः प्रतिनियत एवार्थे विनियुज्यते, तदा तमर्थं प्राशियतीति दृष्टम् । अतः शब्दस्यार्थप्रतिपादनयोग्यता उक्तिद्वारैवेत्याहुः ।। 399 ।। <B2>

यथा प्रणिहितं चक्षुर्दर्शनायोपकल्पते ।
तथाऽभिसंहितः शब्दो भवत्यर्थस्य वाचकः ।। 400 ।।

<B2> अथ किं स्वाभाविकः शब्दार्थसम्बन्धोऽथेदृशी दशामुपेतो यदमो शब्दा वक्तृ-विनियोगमुखप्रेक्षणसम्बन्धाः । इन्तैवंवादिना भवता विभूषितैव-वैयाकरणधुरेत्याशङ्‌क्यैतत्समर्थनार्थमाह--
यथा सहजयैव योग्यतया चक्षुरिन्द्रियमर्थविषये दर्शनमुपकल्पयद् द्रष्टसम्बन्धि प्रणिधानमपेभते, अन्यथा सवेदा दशनोपजननप्रसङ्गात् ; तथैव शब्दः स्वाभाविकेनैव सम्बन्धेनार्थप्रत्यायकोऽप्यभिधातृसम्बन्ध्यभिसन्धानमपेक्षत एव ।
एतदुक्तं भवति--वाक्यानि स्वव्यापारे प्रतिनियतस्वार्थभाञ्जि भवन्त्यभिधेयार्थं प्रकाशयन्त्यभिधाख्यं स्वव्यापारं पुरस्कृत्यार्थप्रकाशनं कुर्वन्तीति बोद्धव्यम्, स चाभिधाख्यो व्यापारः प्रयोक्तृ-सम्बन्ध्यभिसन्धाननिमित्तक इत्यभिसन्धानत्वेनोपचर्यते । यदाह--तथाभिसंहितः शब्दोऽर्थस्य वाचको भवतीत्यभिसन्धानमेव ह्यत्र शब्दस्योक्तिलक्षणव्यापारतयाऽतिदिशति । यदा त्वभेदपक्षस्तदा वक्तुरन्तरुल्लसिता प्रतिभैवाभिसन्धइरूपा शब्दमयी भवती । स्पष्ट एवाभिसन्धानोक्तेरभेदनिर्देशः । अतः प्रचारश्चक्षुषोऽपि व्यापारः प्रणिधानात्मक एव "उक्तिः करणविन्यासो न विना शब्दभावनाम्" इत्यनुसन्धानकारणकः शब्दस्य स्वव्यापारोऽभिधाऽनुसन्धानमेव वा शब्दमयी भूतमभिधेति विज्ञयेम् ।। 400 ।। <B2>

क्रियाव्यवेतः सम्बन्धो दृष्टः करणकर्मणोः ।
अभिधा नियमस्तस्मादभिधानाभिधेययोः ।। 401 ।।

<B2> ननु चाभिधानमभिधेयं सम्बन्धश्च तयोरित्येतावदेव सुप्रसिद्धम् , यत्त्वत्र विनियोग उक्तिरभिसन्धानमभिधेत्येवंरूपस्य चतुष्कस्योपयोगः प्रतिपाद्यते तदप्रसिद्धमेवेत्याशङ्‌क्याह--
इह कारकाण्ययः शलाकाकल्पानि परस्परमसम्बद्धान्येव तेषां च यथा क्रियाव्यवधानेन क्रियासमाश्रयणेन सम्बन्धो दृश्यते, तथैवाभिधानाभिधेययोर्वाच्यवाचकभावलक्षणः सम्बन्धोऽभिधाख्येन शब्दव्यापारेण नियम्यत इति नापूर्वमत्राभिहितमिति ।। 401 ।। <B2>

बहुष्वेकाभिधानेषु सर्वेष्वेकार्थकारिषु ।
यत्प्रयोक्ताभिसन्धत्ते शब्दस्तत्रावतिष्ठते ।। 402 ।।

<B2> एतदेव स्फुटीकर्तुमाह--
तथा च बहुष्वर्थेषु गवादिषु वस्तुष्वेकाभिधानेष्वेकशब्दप्रतिपाद्येषु शब्देषु च तत्रार्थषु सजातीयत्वादेकार्थकारिषु सन्निहितेषु सत्सु प्रयोक्ता यत्तत्रार्थरूपमभिसन्धत्तेऽभिसन्धानेन विनियोगेनाभिधाविषयीकरोति, तत्रैवार्थे वाचकत्वेन शब्दोऽवतिष्ठते नान्यत्रेति स्फुटमेव परिदृष्टम् ।। 402 ।। <B2>

आम्नायशब्दानभ्यासे केचिदाहुरनर्थकान् ।
स्वरूपमात्रवृत्तींश्च परेषां प्रतिपादने ।। 403 ।।

अभिधानक्रियाभेदादर्थस्य प्रतिपादकात् ।
नियोगभेदान्मन्यन्ते तानेवाकत्वदर्शिनः ।। 404 ।।

<B2> प्रकरणान्तरेणाप्येतदेव स्फटयितुमाह--
तथा चाम्नायशब्दा वैदिका अभ्यासवेलायां न कञ्चिदप्यर्थमभिदधति, तदाऽनर्थकानेव तानाहुः । यदा त एव स्वरूपग्रहणाय शिष्याणां प्रतिपाद्यन्ते, तदा स्वरूपप्रधानास्त इति तत्र तदर्था एवोच्यन्ते । यदा पुनः कुत्रचिद्याज्ञे कर्मणि नियोगभेदेनाभिसन्धानभेदेन त एव विनियुज्यन्ते, तदा स्वव्यापारेणाभिधाख्येन तत्तर्थप्रतिपादकास्तदर्थनिष्ठाः सम्पद्यन्त इति स्फुटमेवाभिधेयव्यतिरिक्तोन्मज्जन्त्य भिधा प्रतिभात्येवेति न तदपह्नव उपपन्नः ।। 403 - 404 ।। <B2>

तेषामत्यन्तनानात्वं नानात्वव्यवहारिणः ।
अक्षादीनामिव प्राहुरेकजातिसमन्वयात् ।। 405 ।।

<B2> एवमेकशब्ददर्शनेऽभिसन्धाननिमित्ताभिधालक्षणव्यापारसमाश्रयणेन शब्दस्य तत्तदर्थाभिधानं समुपपदितमिदानीं शब्दे भेदं समाश्रित्यैषां प्रकरणादिभिरेव तत्तदर्थप्रकाशनमुपपदयितुमाह--
तेषां शब्दानां भेदवादिनो नानात्वमाहुः । केवलमेकजातिसमन्वयस्तेषां सादृश्यरूपोऽस्ति । उदाहरणमाह--अक्षादीनामिवेति । यथाऽक्षादयः शब्दा भिन्ना एव स्थिताः । सादृश्यात्त्वभेदेनैव प्रतीयन्त इति ।। 405 ।। <B2>

प्रयोगादभिसन्धानमत्पदेषु न विद्यते ।
विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः ।। 406 ।।

<B2> अतश्च किमित्याह--
प्रयोग उच्चारणम् । तस्मादन्यत्तेष्वभिसन्धानमुक्तिरभिधा नैव विद्यते । कथं तर्हि नियतमेवार्थमभिदधातीत्याह विषय इति । तत्र तत्र विषये नियतशक्तित्वाद्विभिन्नशक्तित्वादेव स शब्दस्तत्र तत्र व्यवस्थित इति ।। 406 ।। <B2>

नानात्वस्यैव संज्ञानमर्थप्रकरणादिभिः ।
न जात्वर्थान्तरे वृत्तिरन्यार्थानां कथञ्चन ।। 407 ।।

<B2> तथा भिन्नत्वं सादृश्येऽपि सत्यर्थप्रकरणादिभिर्निगृहीतार्थाभिधानादवगम्यत इत्याह--
युक्तं चैतदन्यथैकत्रार्थान्तरवृत्तित्वं शब्दस्योपलब्धम्, पुनस्तस्यैवान्यार्थत्वं कथमुपपद्यतेत्यभिधातुमाह--नजात्वित्यादि ।। 407 ।। <B2>

पदरूपं तु यद्वाक्यमस्तित्वोपनिबन्धनम् ।
कामं विमर्शस्तत्रायं न वाक्यावयवे पदे ।। 408 ।।

<B2> इदानीं पूर्वोक्तग्रहणाय पुनरखण्डवाक्योपक्रमेण वाक्यवाक्यार्थनिर्णयं संक्षेपेण कर्तुमाह--
योऽयमत्र विमर्शो विचारः, कामं स पदे तदेकपदरूपमेव वाक्यं वाचकं तत्रोपपन्नः । कीदृशं तत्पदरूपं वाक्यमित्याह--अस्तित्वोपनिबन्धनमिति । अस्तित्वमस्तिक्रिया वाक्यत्वे वाचकत्वे उपनिबन्धनं यस्य । यद्वक्ष्यति--"अस्तित्वेनानुषक्तो वा"(423) इत्यादि । अथवा प्रकरणादिनास्तित्वोपनिबन्धनमित्येतच्चोपलक्षणं कदाचिन्नवृत्तयात्मतया चेति बोद्धव्यम् । तत्रैष विचारो यदुताभिधाव्यापारद्वारकं वाचकत्वं प्रतिनियतशक्तिकृतं चेति, न तु वाक्यावयवभूतेऽपोद्धारे परिकल्पिते पद इति, तस्यार्थवत्ताविरहादित्यभिप्रायः ।। 408 ।। <B2>

यथैवानर्थकेर्वर्णैविंशिष्टार्थोऽभिधीयते ।
पदैरनर्थकैरेवं विशिष्टार्थोऽभिधीयते ।। 409 ।।

<B2> तस्मात् स्फोटरूपमखण्डमेव वाक्यं निराकाङ्‌क्षं वाचकमभ्युपगन्तव्यमिति दृष्टान्तद्वारेणाभिधातुमाह--
यथा त्वन्मते वर्णैरनर्थकैरभिव्यक्तो विशिष्टार्थः पदरूपः स्फोटात्मा वाचकोऽभिधीयते, एवं पदैरनर्थकैरभिव्यक्त एव विशिष्टार्थः स्फोटात्मा वाचकोऽभिधीयत इति ।। 409 ।। <B2>

यदन्तराले ज्ञानं तु पदार्थेषूपजायते ।
प्रतिपत्तेरूपायोऽसौ प्रक्रमानवधारणात् ।। 410 ।।

<B2> ननु पदार्थसम्प्रत्ययस्तत्रोपजायत एव, पदानां त्वनर्थत्वे कथं तत्सद्भाव इत्याह--
यदेतत्पदपदार्थज्ञानं विभ्रमरूपमन्तराले वाक्यवाक्यार्थप्रतिपत्तेरेवीपायभूतं बोद्धव्यम् । तस्मान्निरंशत्वेऽपि वाक्यवाक्यार्थयोः प्रक्रम एव प्रथमसमय एव रूपं तयोर्नावधार्यत इति ।। 410 ।। <B2>

पूर्वैरर्थैरनुगतो यथार्थात्मा परः परः ।
संसर्ग एव प्रकान्तस्तथाऽन्येष्वर्थवस्तुषु ।। 411 ।।

<B2> एवं वाचकाश्रयणे प्रकारत्रितयमुक्त्वेदानीं वाच्यसमाश्रयणेन तथैव प्रतिपादयितुमाह--
अनेन श्लोकेनान्विताभिधानसमाश्रयणेन संसृष्टं वाक्यार्थप्रदर्शनं क्रियते । तथा त्वभिहितान्वयवादिनः पूर्वपूर्वार्थानुगतः संसर्गो वाक्यार्थः, अन्विताभिधानवादिनस्तूत्तरोत्तरपदार्थावगतः प्रथमतरमेव संसृष्ट एव । यदि परमत्र सन्निधानं निदर्शकं यस्येतीतिकर्तव्यतामात्रस्वरूपावगतावपेक्षन्त इति बोद्धव्यम् ।। 411 ।। <B2>

अङ्गीकृते तु केषाञ्चित् साध्येनार्थेन साधने ।
आधारनियमार्थैव साधनानां पुनः श्रुतिः ।। 412 ।।

<B2> यदा केषाञ्चिन्मते तत्र साध्येनार्थेन साध्यार्थनिष्ठेन संसर्गेणेति यावत् । साधने उपकारलक्षणेऽङ्गीकृत आश्लिष्टेऽविनाभावितया स्वयमवधृते सति या तत्र वाक्ये साधनानां पुनः श्रुतिः, सा नियमार्थैव बोद्धव्या कारकाणाम्, यदि तत्र परमाधारनियमः क्रियत इति बोद्धव्यम् । इन्धनधारा करणशक्तिः स्थाल्याधारैवाधिकरणशक्तिरेवमन्यत्र ।। 412 ।। <B2>

आधारनियमाभावात् तदाक्षेपो न विद्यते ।
सामर्थ्यात्सम्भवस्तस्य श्रुतिस्त्वन्यनिवृत्तये ।। 413 ।।

<B2> तत्र निस्साधना क्रिया न भवतीति साधनमात्रमनियताधारमाक्षिप्तं न त्वाधारसहितमित्याह--
साधनानामाधारनियमो नास्ति । करणादिशक्तयो हि नियताधारा दृश्यन्त इत्याधाराक्षेपः । तत्र साधनं नास्ति । सामर्थ्याद्यदि परं तस्य साधनस्य तत्र सम्भव एवाभ्यूह्यते, ततः क्रियाधारा एताः साधनशक्तयः स्युरिति दण्डेन गामित्यादिका श्रुतिरन्याधारनिवृत्तये तासां पर्यवस्यतीति बोद्धव्यम् ।। 413 ।। <B2>

क्रिया क्रियान्तराद्भिन्ना नियताधारसाधना ।
प्रक्रान्ता प्रतिपत्तॄणां भेदाः सम्बोधहेतवः ।। 414 ।।

<B2> अथ क्रियां वाक्यार्थमाश्रित्याह--
क्रियैव विशिष्टा सर्वत्र प्रथमतरमेव वाक्यार्थत्वेन प्रक्रान्ता क्रियान्तराद्भिन्नेत्यनेन विशेषकथनम् । एतदेव स्फुटीकर्तुमाह--नियताधारसाधनेति । तत्र वाक्ये भेदानां विशेषाणां प्रयोगोऽसौ सम्बोधनोपायमात्रमिति बोद्धव्यम् ।। 414 ।। <B2>

अविभागं तु शब्दभ्यः क्रमवद्भ्योऽपदक्रमम् ।
प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ।। 415 ।।

<B2> अथ स्वपक्षानुसारेण वाक्यार्थप्रदर्शनं कर्तुमाह--
अक्रम एव निर्विभागः पानकरसादिवत् प्रतिभात्मको वाक्यार्थः स्फोटात्मकं च वाक्यमित्येकयोगक्षेमत्वादेवमुक्तम् वाक्यं वाक्यार्थ एव चेति ।। 415 ।। <B2>

स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते ।
नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ।। 416 ।।

<B2> इदानीमसत्योपाधिः सत्यरूपः शब्दार्थ इति विचारपूर्वकं निदर्शयितुमाह--
यस्य वस्तुनः प्रत्यक्षादिप्रमाणपरिच्छिन्नस्वरूपं विद्यते नीलं पीतमिति, तस्य तावता नात्मा निरूप्यते न व्यवहारगोचरतां नीयते । एतदुक्तं भवति--पदार्थः पृथग्‌रूपः सन्नपि पङ्गुप्रायोऽसाविति व्यवहारपदवीं नेतुं वार्यते, ससर्गस्य त्वन्वयात्मनः प्रधानस्य तदितरोपपत्तेः पदार्थो यावदुपायो द्वारमिति तन्निरूपणमेव साफल्यं भजत इति तस्यैव सत्यत्वं युक्तम् ।। 416 ।। <B2>

अशब्दमपरेऽर्थस्य रूपनिर्धारणं विदुः ।
शर्थावभासरूपा हि शब्देभ्यो जायते स्मृतिः ।। 417 ।।

<B2> अथ पदार्थासत्यत्वप्रतिपादनपूर्वकं तदाच्छुरितस्यैव संसर्गस्य वाक्यार्थत्वं परिघटयितुमुपक्रमते---
अर्थस्य रूपनिर्धारणस्य स्वरूपपरिच्छेदोऽशब्द एव, न तत्र शब्द उपायभावमुपयाति । तद्धि निर्विकल्पकैकसमधिगम्यमित्यर्थः । तर्हि शब्दस्य तत्र क्वोपयोग इत्याह--अर्थावभासेत्यादि । अर्थप्रतिभाससदृशायां स्मृतावेव शब्दानामुपयोगः, शब्दस्यार्थेन सह सुदूरमेव विप्रकर्षः । ततश्च कथं शब्दोऽर्थमभिदधीतेत्यसत्य एव शब्दार्थः पर्यवस्यति ।। 417 ।। <B2>

अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहाद्यर्थः प्रतीयते ।। 418 ।।

<B2> अतश्चैतदेव बोद्धव्यमित्याह--
यदि शब्देन यथावद् बाह्योऽर्थः प्रत्याय्येत तदा शब्दसन्निधापितोऽसौ तामर्थक्रियां कथं न कुर्यात् यतश्चाग्निसम्बन्धाद्दग्धो दाहमन्यथाऽनुभवति दाहशब्देन च दाहमन्यथाऽवगच्छतीति शब्दर्थयोर्नास्ति कश्चिद्वास्तवः समन्वय इति बोद्धव्यम् ।। 418 ।। <B2>

पृथङ्‌निविष्टतत्त्वानां पृथगर्थानुपातिनाम् ।
इन्द्रियाणां यथा कार्यमृते देहान्न कल्पते ।। 419 ।।

<B2> तदेवं पदार्थो विपरीतख्यातिरुपोऽसत्ख्यातिस्वरूपो वा बोद्धव्य इति पदार्थस्यासत्यत्वमभिधाय तदाच्छुरितस्य वाक्वार्थस्य सत्यत्वं प्रतिपादयितुमाह--
पृथङ्‌निविष्टं तत्त्वं स्वरूपं पार्थिवत्वादिना भेदेन, अथवा प्रतिनयतस्थानसमाश्रयणेन निविष्टमभिव्यक्तं तत्त्वं स्वरूपं येषां तानि तथा तेषामिति तथा पृथक्‌ पृथगर्थं शब्दादिलक्षणमनुपतन्ति विषयीकुर्वन्ति तच्छीलास्ते तथा तेषाम्, यथा सत्यपि तपृथक्‌स्वभावे देहाद्विना कार्यं प्रातिस्विकं नोपकल्पते, तथैव पदानां केवलानां वाक्यव्यतिरेकेण स्थितानामर्थवत्ताविरहः परिदृश्यत इति ।। 419 ।। <B2>

तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् ।
वाक्येभ्यः प्रविभक्तानामर्थवत्ता न विद्यते ।। 420 ।।

<B2> प्रकृतं योजयितुमाह-- <B2>

संसर्गरूपं संसृष्टेष्वर्थवस्तुषु गृह्यते ।
नात्रोपाख्यायते तत्वमपदार्थस्य दर्शनात् ।। 421 ।।

<B2> वाक्यार्थस्वरूपं प्रतिपादयितुमाह--
न पुनरत्र पृथक्‌पदार्थप्रतिभासावसरे तस्य तत्त्वमुपाख्यायते प्रकटीभवति, यस्मात् पदार्थरूपाद्विलक्षणमेव वाक्यार्थस्वरूपं दृश्यत इति ।। 421 ।। <B2>

दर्शनस्यापि यत्सत्यं न तथा दर्शनां स्थित्‌म् ।
वस्तुसंसर्गरूपेण तदरूपं निरूप्यते ।। 422 ।।

<B2> ननु च शशो नास्ति विषाणमस्तीतिवदप्रतीतिकं कथं सर्वमभिधीयते, पदपदार्थप्रतिभासः संवेद्यमानोऽपि नाभ्युपगम्यते, पदार्थोपहितो वाक्यार्थस्तु सत्यत्वेन निरूप्यत इत्याशङ्कय सर्वोपरि निरूपितमेव व्यवहारगोचरतामुपयाति, न स्वरूपेणेति प्रतिपादयितुमाह--
इह सर्वोपरि बोध एव पारमार्थिकस्तद्‌व्यतिरेकेणान्यस्य विचार्यमाणस्यानुपपत्तेः । स च यथा सत्यत्वेन स्वच्छत्वादिरूपतया स्थितो न तथा तद्वोधस्वरूपदर्शनं पदार्थप्रतिभासावसरे स्थितम् । तदवसरे विवस्तु संसर्गरूपेण नीलपीताद्युपसृष्टतया नीलबोधः पीतबोध इति तद्‌रूपविरहितमपि निरूप्यते । एवमेतत्संसर्गादिकं वस्तुसंसर्गरूपेण पदार्थोपहितं तथारूपं तद्रूपविरहितमपि निरूप्यत इति किमत्रापराद्धम् । तस्मात् सर्वथा केवलः पदार्थः पदं वाऽव्यवहार्यमेव, अथश्चैतदसत्यमित्युच्यते ।। 422 ।। <B2>

अस्तित्वेनानुषक्तो वा निवृत्तयात्मनि वा स्थितः ।
अर्थोऽभिधीयते यस्मादतो वाक्यं प्रयुज्यते ।। 423 ।।

<B2> वाक्यवाक्यार्थौ तु व्यवहार्यत्वात् सत्यभूतावित्यर्थप्रतिपत्तये वाक्यमेव प्रयुज्यत इत्याह-- <B2>

क्रियानुषङ्गेण विना न पदार्थः प्रतीयते ।
सत्यो वा विपरीतो वा व्यवहारे न सोऽस्त्यतः ।। 424 ।।

<B2> एतदेव स्फुटयितुमाह--
अतो व्यवहारे केवलः पदार्थो नास्त्येवेति बोद्धव्यम् ।। 424 ।। <B2>

सदित्येव तु यद्वाक्यं तदभूदस्ति नेति वा ।
क्रियाभिधानसम्बन्धमन्तरेण न मन्यते ।। 425 ।।

<B2> यत्राप्येकमेव पदं सदित्येतन्निराकाङ्‌क्षायाः सत्तायाः प्रतिपादकम् , तत्रापि तदभूतस्ति नाभून्नास्ति वेति क्रियापदसम्बन्धमन्तरेण परिसमाप्तार्थं न भवतीति सर्वथा केवलस्य पदमात्रस्य नास्त्यर्थवत्तेति प्रतिपदायितुमाह--
तत्र च वाक्ये साध्यसाधने परस्परमविनाभाविनी अन्योन्यापेक्षके स्पर्धयैव व्यवस्थिते । तथा हि--साधनं यथा निष्क्रियं न भवतीत्याकाङ्‌क्षावशात् क्रियापेक्षकमुच्यते । तथा क्रियापि निः साधना न भवतीत्याख्यातपदप्रतिपाद्ये क्रियालक्षणे सत्त्वाभिधानेन विनाऽऽकाङ्‌क्षा न निवर्तत इति ।। 425 ।। <B2>

आख्यातपदवाच्येऽर्थे साधनोपनिबन्धने ।
विना सत्तवाभिधानेन नाकाङ्‌क्षा विनिवर्तते ।। 426 ।।

<B2> तत्र सा क्रिया साधनमाकाङ्‌क्षत्येवेति प्रतिपादयितुमाह-- <B2>

प्राधान्यात्तु क्रिया पूर्वमर्थस्य प्रविभज्यते ।
साध्यप्रयुक्तान्यङ्गनि फलं तस्याः प्रयोजकम् ।। 427 ।।

<B2> साधनमुपनिबन्धनं यस्याख्यानपदवाच्यस्यार्थस्य तस्मिंस्तथाभूते तस्मात् सत्त्वाभिधानेन विनाकाङ्‌क्षा न निवर्तते । साधनं हि सत्त्वाभिधायि । ततस्तदवतिष्ठते । किं कृस्तत्र गुणप्रधानभावस्तयोर्यदुच्यते साध्यस्यैव पूर्वं प्रविभाग इत्याशङ्‌क्याह--
अर्थस्य वाक्यार्थलक्षणस्याख्यातप्रतिपाद्यस्य क्रियाप्रधानत्वात् क्रियैव प्रधान्यात् पूर्वं प्रविभज्यते न साधनानि, यस्मात् साध्यार्थं साध्य निष्पत्तये प्रयुक्तानि साधनानि, अतोऽङ्गात् प्रधानभूतानि तानीति न तेषां तत्र प्रविभागः । एवं क्रियाप्रयुक्तानि बोद्धव्यानि । प्रसङ्गात् क्रियाया अपि प्रयोजकमाह--फलं तस्याः प्रयोजकमिति । फलप्रयुक्ता क्रियाऽपीति फलापेक्षया क्रियाया अङ्गत्वं बोद्धव्यम् ।। 427 ।। <B2>

प्रयोक्तैवाभिसन्धत्ते साध्यसाधनरूपताम् ।
अर्थस्य वाऽभिसम्बन्धकल्पनां प्रसमीहते ।। 428 ।।

<B2> इदानीं सर्वोऽयं साध्यसाधनव्यवहारः काल्पनिकः, तयोश्च साध्यसाधनयोः परस्परसम्बन्ध आपेक्षिक एव न वास्तव इति प्रतिपादयन् पुनरपि पदार्थासत्यत्वं व्यवस्थापयिमुमाह--
इदं साध्यमिदं साधनं तयोश्चाभिसम्बन्धः सर्वमेतत्काल्पनिकम् । ततस्तत्त्वं च शून्यमेव प्रयोक्तृसमीहामात्रजीवितमिति यावत् ।। 428 ।। <B2>

पचिक्रिया करोमीति कर्मत्वेनाभिधीयते ।
पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ।। 429 ।।

<B2> यदि हि वास्तवमेतत् स्यात्तदा वस्तुस्वभावस्य ब्रह्मणाऽन्यथाप्यकर्तुंमशक्यत्वाद् व्यवस्थितमेवैतद्भवेत्, न च तथा परिदृश्यत इति प्रतिपादयितुमाह--
देवदत्तः पचतीत्यत्र या पाकक्रिया प्राधान्येनोपलब्धा, सैव पचिक्रिया देवदत्तः करोतीत्यत्र कर्मत्वेनैव पक्तिः पाकक्रिया व्यवस्थापिता, पचिक्रियाकरणं तु ? प्राधान्ये मज्जद्रूपं प्रतिपादितमिति नैषा वस्तुगतिः, साधनसमुद्देशे च सर्वमेतद्वैवक्षिकमिति विस्तरेण प्रदर्शयिष्यति । तथा सम्बन्धस्यापि काल्पनिकत्वमेव वक्ष्यतीति नेह प्रतन्यज्यते ।। 429 ।। <B2>

योऽसौ येनोपकारेण प्रयोक्तॄणां विवक्षितः ।
अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः ।। 430 ।।

<B2> अथवाऽनेकशक्तिरर्थः स्थितोऽपि यद्‌यदुपकारवशाद् यथा प्रयोक्तृभिर्विवक्ष्यते तथैवात्मानमुपदर्शयतीत्याह <B2>

आराद् वृत्तिषु सम्बन्धः कदाचिदभिधीयते ।
आश्लिष्टो योऽनुपश्लिष्टः स कदाचित् प्रतीयते ।। 431 ।।

<B2> तथा चेदमपि वस्तून्यनेकशक्तिखचितत्वात् सहन्त इति प्रदर्शयितुमाह--
आराद्‌वृत्तिष्वतिदूरमपि विप्रकृष्टेषु पदार्थेषु कदाचित् परस्परसम्बन्धः संश्लेषोऽभिधीयते, कदाचित्तु य आश्लिष्टः सम्बद्धोऽपि सोऽनुपश्लिष्टोऽसम्बद्धो दूरत इति विवक्षावशात् प्रतीयते ।। 431 ।। <B2>

संसृष्टानां विवेकित्वं संसर्गश्च विवेकिनाम् ।
नानात्मकानामेकत्वं नानात्वं च विपर्यये ।। 432 ।।

<B2> रूपान्तरमप्याह--
एकत्वेऽपि च कल्पनावशान्नानात्वं वस्तूनां दृश्यते राहोः शिर इति यथा, नानात्मकानां च धवखदिरपलाशादीनामेकत्वमेकर्स्या बुद्धौ सङ्कलनरूपं दृश्यते, वनमिति यथा; विवेकिनां परस्परविलक्षणानां पदार्थानामयः शलाकाकल्पानां संसर्गो वाक्यार्थरूपो दृश्यते, यथा देवदत्तः काष्ठैरित्यादौ; संसृष्टानां च विभक्तत्वम्, यथा माथुराः पाटलिपुत्रकेभ्य आढ्यतरा इत्यादौ । एषां बुद्‌ध्या सङ्कलितानां सतां पश्चाद्विभागेनावस्थापनं क्रियते ।। 432 ।। <B2>

सर्वात्मकत्वादर्थस्य नैरात्म्याद्वा व्यवस्थितम् ।
अत्यन्तयतशक्तित्वाच्छब्द एव निबन्धनम् ।। 433 ।।

<B2> तदेतत्कथमुपपद्यत इत्याह--
सर्वशक्तिरर्थस्तेनतेन रूपेण निरूपतस्तत्तद्‌व्यपदेशपात्रं भवतीति नियतशक्तिभिः शब्दैस्तथा तथा व्यपदिश्यत इति स्थितम् । अथवा निरात्मक एवासत्यभूतोऽसाविति यथा यथा विवक्षया निरूप्यते तथा तथा अवस्थानमुपदर्शयतीति शब्दैस्तथैव व्यपदिश्यत इति बोद्धव्यम् ।। 433 ।। <B2>

वस्तूपलक्षणं शब्दो नापकारस्य वाचकः ।
न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ।। 434 ।।

<B2> इदानोमर्थस्वरूपं शब्दा नैव स्पृशन्ति, केवलं तत्र दूरविप्रकर्षेणार्थस्योपलक्षणभावेन स्थिता व्यवहारोपयोगितामुपयान्तीत्यभिधातुमाह-- <B2>

सम्बन्धिधर्मा संयोगः स्वशब्देनाभिधीयते ।
सम्बन्धः समवायश्च सम्बन्धित्वेन गम्यते ।। 435 ।।

<B2> शब्दार्थयोर्न बाच्यवाचकभाव उपपद्यते, तथा सति शब्दानामर्थस्वरूपं प्रकाश्यतामुपेयात्, न च तथा दृश्यत इत्याह--
संयोगशब्दात् संयोगोद्रव्ययोरिति यथावत्परिनिष्ठितस्वरूपः, तत्र सम्बन्धइस्वभावः प्रतीयते, न च तस्य तद्रपम् । एवं समवायशब्दात् समवायः प्रतीयत इत्याह--सम्बन्धः समवायः" इत्यादि । सम्बन्धित्वेन सम्बन्धस्वरूपविरहेण समवाय इत्यस्मात् प्रतीयते । अथवा यदा संयोगशब्देनासौ सम्बन्धः स्वतन्त्रोऽभिधीयते तदा तत्र समवायः सम्बन्धत्वेन गम्यत इति यदा सम्बन्धत्वेन गम्यत इति पाठस्तदैवं योजनीयंम् ।। 435 ।। <B2>

लक्षणाद् व्यवतिष्ठन्ते पदार्था न तु वस्तुतः ।
उपकारात् स एवार्थः कथञ्चिदनुगम्यते ।। 436 ।।

<B2> पदार्थानां स्वतो रूपं न किञ्चिद् व्यवतिष्ठते यथा यथा निरुप्यन्ते तथा तथात्मानमासादयन्तीत्याह--
स एवार्थः केनचित् कथञ्चिदुपयोगादन्यथा व्यपदिश्यत इत्येवमनेकप्रपञ्चैरसत्यभृत एव पदार्थ इति संगृह्य व्यवस्थापितम् ।। 436 ।। <B2>

वाक्यार्थे योऽभिसम्बन्धो न तस्यात्मा क्कचित् स्थितः ।
व्यवहारे पदार्थानां तमात्मानं प्रचक्षते ।। 437 ।।

<B2> इदानीं वाक्यार्थस्तु सत्यभूत इति प्रतिपादयितुमाह--
परस्पराभिसम्बन्धस्वरूपः पानकरसादिवदनिर्विभागोऽनंश एव यो वाक्यार्थस्तस्य क्कचित् पृथग्रूपतयात्मास्थितोऽवधारयितुं न शक्यत इति यावत् । पदार्थानां पुनरयः शलाकाकल्पानां व्यवहारावसरे तमात्मानं जीवितमिव प्रचक्षते, तद्वशत्तत्प्रतिपादितपदार्थोद्देशेन सर्वस्य कस्यचित् प्रवृत्तिनिवृत्तिसाफल्यात् । स चैकस्मिन् पदार्थे समुदाय एव वा परिसमाप्तो बोद्धव्यः ।। 437 ।। <B2>

पदार्थे समुदाये वा समाप्तो नैव वा क्कचित् ।
पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ।। 438 ।।

<B2> अथवा नैवासौ क्कचित् परिसमाप्त इदं तदिति पृथग्रूपतयानुपलक्षणात् केवलं पदार्थसम्बन्धिना स्वरूपेणाखण्डस्य वाक्यार्थस्य स्वरूपं प्रतिपद्यते इति प्रतिपादयितुमाह--
एतदुक्तं भवति-न पृथगेव श्रृङ्गग्राहिकतया (तस्य) स्वरूपं विवेक्तुं शक्यते, परोपाधिद्वारकमेव सर्वदा तस्य निरूपणमवसातव्यमित्युच्यते ।। 438 ।। <B2>

अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् ।
साकाङ्‌क्षावयवं भेदे तेनान्यदुपवर्ण्यते ।। 439 ।।

<B2> एतदेव स्फुटीकरणमा (णाया) ह--
तस्यान्वाख्यानाय यो भेदः पदार्थभेदोऽपोद्‌ध्रियते, स तस्यैव प्रतिपत्तिनिबन्धनं बोद्धव्यः । अतः पदार्थानां भेदे क्रियमाणे सति तेनापोद्‌धृतेन पदार्थभेदेनान्यदेव पदार्थव्यतिरिक्तं वाक्यार्थस्वरूपमुपवर्ण्यते प्रकटीक्रियते । कीदृशम् ? `साकाङ्‌क्षावयवम्' इति । भेदे सति साकाङ्‌क्षा अवयवाः पदार्थस्वरूपाः प्रतिपत्त्युपाया यस्य तत्तथाभूतमिति ।। 439 ।। <B2>

अनेकशक्तेरेकस्य प्रविभागोऽनुगम्यते ।
एकार्थत्वं हि वाक्यस्य मात्रयाऽपि प्रतीयते ।। 440 ।।

<B2> तथाभूतस्य च वाक्यार्थस्य नानाशक्तिखचितस्य निर्विभागस्योपाधिकृतः पदार्थद्वारकः प्रविभागो नानारूपत्वमनुगम्यते । प्रतीयते परमार्थतस्त्वेक एवासावित्याह--
वाक्यस्य स्फोटात्मनो वाचकरूपस्यैकार्थत्वमेक एव निर्विभगास्वरूपो वाच्यार्थो यस्य तत्तथा, तस्य भावस्तत्त्वं प्रतीयते, कथम् `मात्रयाऽपि'इति । यदा तस्य मात्रया नियतसंख्याकेनाल्पीयसा शब्देन योगोऽभिसन्बम्धो दृश्यते । यथोक्तम्--इग्यण इति योगे स्थान्यादेशभावलक्षणो वाक्यार्थः स संप्रसारणमिति व्यपदिश्यते । अतः सम्प्रसारणमित्येवमेकसंख्येन लघीयस्त्वान्मात्रया व्यपदिश्यते तस्य योगो यदा न परिदृष्टस्तदैतदवगम्यते यदुतानंश एक एवाखण्डस्वरूपोऽसौ वाक्यार्थोऽन्यथा सम्प्रसारणमित्यनेनैकसंख्याकेन कथं युज्येत वक्तुम् ।। 440 ।। <B2>

संप्रत्ययार्थाद्‌ बाह्योऽर्थः सन्नसन्वा विभज्यते ।
बाह्यीकृत्य विभागस्तु शक्त्यपोद्धारलक्षणः ।। 441 ।।

<B2> तदिदं वाक्यार्थः सत्यरूपः पदार्थस्त्वसत्य एवेति निर्णोतम् । स च वाक्यार्थो बौद्ध एवाबहीरूप इति प्रतिपादयितुमाह--
सम्प्रत्ययो बुद्धिर्विज्ञानमित्यनर्थान्तरम् । सम्प्रत्ययोऽर्थोऽभिधेयरूपो यस्यासौ तथा तथाभूतात्तस्माद्वौद्धाद्धाक्यार्थाद्वाह्यार्थः सन् बहीरूपतया विद्यमान एवाथवाऽसन्बहिरसत्यभूत एव विभज्यते विभागेनानुगम्यते व्यवस्थाप्यते । कथं कृत्वेत्याह"बाह्यीकृत्य'इति । अबाह्य एवासौ बाह्यरूपतया प्रथते, विवेकानवधारणाद्‌दृश्यविकल्पैकीकारेण वाक्यार्थं प्रतिपद्य पश्चादसौ विभागेनानुगम्यत इति यावत् । विभागस्तत्र कीदृश इत्याह--`शक्त्यपोद्धारलक्षणः' इति । शक्तीनां पदार्थंसम्बन्धिनीनामपोद्धारः पृथक्करणं लक्षणंयस्यासौ तथा । पदार्थशक्तयस्तस्मादपोदिध्रयन्त इत्यर्थः । अत्र तु बौद्धे वाक्यार्थे समाश्रिते शक्तीनां तत्राविद्यमानत्वात् तस्मादपोद्धारस्तासं कीदृशः स्यात् । ताः पदार्थव्यक्तयो न (तत्र) व्यवस्थिताः । यदि हि तत्र ताः स्ुः, तदा ह्यतीतेऽवगतेऽर्थे स्यादेवार्थक्रियावाप्तिः । तस्माद् बौद्धादर्थादन्यत्र बाह्य एवार्थेताः शक्तयो व्यवस्थिताः, ततश्च बौद्धादर्थादन्यत्र बाह्येऽर्थे विद्यमानमपि तासां रूपं निराकारेण विज्ञानेनोपलभ्यते । तस्माद्विज्ञानाकारस्य बाह्यस्य चार्थस्य शक्तित एकाकारेण विना व्यवहारो नोपपद्यत एवेति बाह्यीकृत्येत्युक्तम् । तथा चैकयोगक्षेमत्वाद् बौद्धार्थबाह्यार्थयोर्युक्तो बौद्धेऽप्यर्थे शक्त्यपोद्धारलक्षणो विभागः । तत्र यदि विज्ञानाकारस्य विकल्पवासनामाहात्म्याद् बाह्येनैकीकृतस्य सत्यतो बहिरर्थोऽस्ति, येनोपजन्यते ; तदा बाह्य एव शब्दार्थः, न चेदसन्नेव बहिर्बौद्ध एव शब्दार्थ इति निर्णयः ।। 441 ।। <B2>

बहुष्वपि तिङ्न्तेषु साकाङ्‌क्षेष्वेकवाक्यता ।
तिङन्तेभ्यो निघातस्य पर्युदासस्तथार्थवान् ।। 442 ।।

<B2> अथ वाक्यविचारप्रस्तावे वाक्यानामेकवाक्यात्वं वा वाक्यनानात्वमेववाक्यत्वं वा इति मतभेदेन प्रतिपादयितुमाह--
इह वार्त्तिककारेणाख्यातं साव्ययकारकविशेषणं वाक्यमित्यत्रैकवचनस्य विवक्षितत्वादेकतिङिति वाक्यलक्षणान्तरप्रतिपादनादनेकाख्यातसद्भावे वाक्यभेद एवेष्यते सूत्रकारेण त्वतिङ्‌ इति प्रतिषेधोपादानसामर्थ्यात् सत्स्वपि बुहषु तिङन्तेष्वर्थस्य साकाङ्‌क्षत्वात् तत्रैकवाक्यतैवेष्यत इति प्रदर्शितं बहुष्वपीत्यनेन ।। 442 ।। <B2>

एकतिङ्‌ यस्य वाक्यं तु शास्त्रे नियतलक्षणम् ।
तस्यातिङ्‌ग्रहणेनार्थो वाक्यभेदान्न विद्यते ।। 443 ।।

<B2> वार्त्तिककारमतेन वाक्यभेदस्तत्रेत्युपदर्शयितुमाह--
नियतलक्षणमिति विवक्षितैकत्वमित्यर्थः ।। 443 ।। <B2>

तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः ।
मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ।। 444 ।।

<B2> केषाञ्चित् पुनरनेकाख्यातसद्भावेऽपि वाक्यार्थस्य भेदाभेदौ व्यवस्थितावेवेत्याह--
इह मृगः पश्यत यातीत्यत्र तिङन्तान्तरसद्भावाद्वाक्यभेद एव, तथा च मृगशब्दस्य यातीत्यस्य च सम्बन्धादेकं वाक्यम् । अनन्तरं विभक्तिविपरिणामेव कर्मपदेन प्रत्यवमर्शादेतं मृगं पश्यतेति द्वितीयं वाक्यम् ।
अन्यस्त्वाह--युक्तयुक्तत्वाद् बहुष्वप तिङन्तेष्वभेद एव । तथा ह्यत्र मृगशब्देन यातिपदस्य योगः, तद्युक्तेन यातिपदेनाख्यातान्तरस्य योगः । तेनात्रपदेनाख्यातान्तरस्य योगः । तेनात्र मृगकर्त्तृकं सरणं पश्यतेति दृशिक्रियापेक्षयाप्येकतिङित्यत्रैकतिङ्‌त्वं प्रधानतिङन्तापेक्षया प्रतिपाद्यमानं सूत्रकारमतानुगुण्यं भजत एवेत्यनयोर्नास्ति मतभेदः । तदपरेषां मतभेद एव बोद्धव्यः ।। 444 ।। <B2>

इतिकर्तव्यताऽर्थस्य सामर्थ्याद्यस्य काङ्‌क्ष्यते ।
अशब्दलक्षणाकाङ्‌क्षं समाप्तार्थं तदुच्यते ।। 445 ।।

<B2> अथ वाक्यपरिसमाप्तिज्ञानपूर्विका नानावाक्यतैकवाक्यता वाज्ञातुं शक्या, नान्यथेत्यशङ्क्य शब्दलक्षणा वाक्यपरिसमाप्तिर्बोद्धव्या, नार्थलक्षणेत्यत्र साकाङ्‌क्षत्वानाकाङ्‌क्षत्वविचारमाह--
अविद्यमाना शब्दलक्षणा शब्दाश्रितां आकाङ्‌क्षा यस्मिंस्तद्वाक्यं समाप्तार्थमुच्यते । तदवगतस्यार्थस्य तु यत्र सामर्थ्यादर्थतथाभावलक्षणात् तदीयायामि तिकर्तव्यतायामाकाङ्‌क्षा जायते, तावता न तत्र तद्वाक्यमपरिसमाप्तमित्युच्यत इति बोद्धव्यम्, यथा व्रीहयो बहवोऽवहन्यन्तामित्यत्र शब्दापेक्षा तावन्नास्त्येव, व्रीहीणां त्ववहननमुलूखलमुसलकर्मकर्त्रादिसन्निधानमन्तरेण न सम्पद्यत इति तदपेक्षणाद्वाक्यं नात्र परिसमाप्तमिति न युक्तं वक्तुम्, शब्दलक्षणापेक्षाऽयोगादिति ।।445।। <B2>

तत्त्वान्वाख्यानमात्रे तु यावानर्थोऽनुषज्यते ।
विनाऽपि तत्प्रयोगेण श्रुतेर्वाक्यं समाप्यते ।। 446 ।।

<B2> व्रीहीणामवहननमात्रमत्रान्वाख्यायते, तस्मिंश्च सति उलूखलादिसन्निधानं यदत्रानुषज्यते तस्य प्रयोगेण शब्देन प्रतिपादनेन विनाऽपि तत्र तद्वाक्यं श्रुत्या शब्दव्यापारेण समाप्तमेवेति बोद्धव्यम् ।। 446 ।। <B2>

चङ्‌क्रम्यमाणोऽधीष्वात्र जपंश्चङ्‌क्रमणं कुरु ।
तादर्थ्यस्याविशेषेऽपि शब्दाद्भेदः प्रतीयते ।। 447 ।।

<B2> इदानीमर्थप्रत्यायनाभेदेऽपि शब्दवृत्तेन गुणप्रधानरूपतयाऽभिधानं शब्देषु सम्भवतीति प्रसङ्गाच्छब्दधर्मप्रतिपादनं कर्तुमाह--
चङ्‌क्रम्यमाणोऽत्र जपं कुरु अथवा जपंश्चङ्‌क्रमणं कुर्वित्यत्र उभयथा जपविधिः प्रतीयते, केवलं चङ्‌क्रम्यमाणो जपेत्यत्र जपः प्राधान्येनाभिधीयते, चङ्‌क्रमणं गुणवृत्त्या; जपश्चङ्‌क्रमणं कुर्वित्यत्र तु जपस्य गुणभावः, प्राधान्यं तु चङ्‌क्रमणस्य । अथवोभयथाऽपि जपयुक्तत्वाच्चङ्‌क्रमणस्यार्थभेदो न कश्चित् । शब्दप्रतिपादनवैलक्षण्यमात्रमेवावसीयत इति ।। 447 ।। <B2>

फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः ।
असंख्याताः क्रमोद्देशैरेकाख्यातनिदर्शनाः ।। 448 ।।

<B2> एवमर्थाभेदेऽपि शब्दप्रतिपादनवैचित्र्यमुपदर्शितमिदानीं शब्दभेदात् सामर्थ्यादर्थप्रतिपत्तिवैचित्र्यं भवतीत्यत्राशाब्दमपि व्यापारं प्रदर्शयितुमाह--
"यावज्जीवमग्निहोत्रं जुहोति", तथा "यजते देवदत्तः" इत्यादावेकाख्यातनिदर्शनाः ेकमाख्यातपदं निदर्शनं वाचकं येषां ते तथाभूताः क्रियाभेदा प्रतीयन्ते । भेदश्च स्वरूपेण फलेन च भवतीत्याह-"फलवन्तः" इति, फलभेदवन्त इत्यर्थः । स्वर्गकामः कदाचिद् यजते, कदचिद्धस्तिकामः कदाचिप्तुत्रकामो धनकामो वेति । फलभेदस्वरूपमाह-"क्रियान्तरनिबन्धनाः" इति । इतिकर्तव्यतायां क्रियान्तराणि निबन्धनं येषां ते तथाभूताः । किं च बहुना, क्रमेण प्रातिस्विकेनेतिकर्तव्यतयोद्देशेन फलस्वरूपेण च ते संख्यातुमशक्या एव, क्रियाभेदास्तेनाख्यातेनैकरूपेणाभिन्नेनैव निदर्श्यन्त इति बोद्धव्यम् ।। 448।। <B2>

निवृत्तभेदा सर्वैव क्रियाऽऽख्यातेऽभिधीयते ।
श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना ।। 449 ।।

<B2> एतदेव स्फुटीकृत्य प्रतिपादयितुमाह--
आख्यातपदे क्रिया सर्वैव निवृत्तभेदा सामान्येनाभिधीयते, यस्माच्छ्रतिमात्राच्छब्दमात्रात् सामान्येन श्रुताद्भेदानां प्रविभागरूपताऽवसातुमशक्या ।।449।।<B2>

अश्वमेधेन यक्ष्यन्ते राजानः सत्रमास्ते ।
ब्राह्मणा इति नाख्यातरूपाद्भेदः प्रतीयते ।। 450 ।।

<B2> उदाहरणमाह--
अत्र फलसाधनभेदाद् यजिक्रियायाः सत्यपि भेदे नैवाख्यातशब्दात् तत्प्रतीतिरस्ति, अर्थसामर्थ्यात्तु भेदस्तस्या अवगम्यते इति नाना शब्दधर्माः ।। 450 ।। <B2>

सकृच्छ्रुता सप्तदशस्वनावृत्तापि या क्रिया ।
प्राजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते ।। 451 ।।

<B2> वैदिकमप्युदाहरणमाह--
सप्तदश प्राजापत्यानेकवर्णानजांस्तूपरानालभतेत्यत्रानावृत्ताप्यालम्भनक्रिया सकृच्छ्रता शब्देनानावृत्तेनैकेनावगतोत्तरकालं त्वालभ्यभेदाद्भेदेनावतिष्ठत इति बोद्धव्यम् ।। 451 ।। <B2>

देवदत्तादिषु भुजिः प्रत्येकमवतिष्ठते ।
प्रतिस्वतन्त्रं वाक्यं वा भेदो न प्रविभज्यते ।। 452 ।।

<B2> यस्माच्चाख्यातान्तर्गतो धातुर्निवृत्तभेदाया एव क्रियायाः प्रतिपादकः तस्माद् भेदासम्भवाद् यथासंख्येन सम्बन्धानुपपत्तेर्भुजिक्रिया देवदत्तादिषु प्रत्येकमवतिष्ठत इत्याह--
देवदत्तादिकर्तृका भुजिर्वाक्यार्थरूपाऽत्र प्रत्येकमवतिष्ठत इत्यर्थसमाप्तिदर्शनं शब्दस्य समाप्तिमप्युपदर्शयितुमुक्तम् `प्रतिस्वतन्त्रम्" इत्यादि । वाक्यमेवात्र प्रत्येकं देवदत्तादिषु भेदेनावतिष्ठत इति बोद्धव्यम् ।। 452 ।। <B2>

उच्चारणे तु वाक्यानामन्यद्रूपं निगृह्यते ।
प्रतिपत्तौ तु भिन्नानामन्यद्रूपं प्रतीयते ।। 453 ।।
<B2> ननु देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्यभेदरूपमेव वाक्यं प्रयुक्तम्, अतः कथमस्माद् भेदेनावसायः स्यादित्याह--
शब्दानामन्यथोच्चारणसमये स्वरूपवृत्तिः प्रतिपत्त्यवसरेत्वन्यथैव स्वरूपावसाय इति सत्यप्याख्यातस्याभेदेऽर्थपर्यालोचनेनात्र प्रत्येकं समाप्तिर्वाक्यवाक्यार्थयोः पर्यवस्यतीत्युच्यते ।। 453 ।। <B2>

एकं ग्रहणकं वाक्यं सामान्येनाभिधीयते ।
कर्तरीति यथा तच्च पश्वादिषु विभज्यते ।। 454 ।।

<B2> शास्त्रविषयमप्येतदेव प्रदर्शयितुमाह--
शास्त्रेऽपि च कर्तरि कृदित्येकं प्रत्ययार्थप्रतिपादकं सामान्येन ग्रहणकवाक्यमुपादीयते, तच्च प्रत्येकं प्रत्ययार्थोपाधिषु पश्वादिषु विभिन्नेषु विषयेषु विभागेन सम्बन्धमुपनीयाभिमतलक्ष्यनिष्पत्तये व्यापार्यत इति प्रत्येकमेव तत्परिसमाप्यते ।। 454 ।। <B2>

यद्याकाङ्‌क्षा निवर्तेत तद्भूतस्य सकृच्छ्रुतौ ।
नैवान्येनाभिसम्बन्धं तदुपेयात् कथञ्चन ।। 455 ।।

<B2> यदि पुनः संयुक्तविधिनोपादीयेत तदाऽभिमतसिद्धयेन स्यादित्याह--
यदि सकृदेव प्रत्ययविधायकेनैव स "वोपादायार्थपरिसमाप्तेराकाङ्‌क्षा निवार्येत, तदा तद्योगेन तत्रैव परिक्षीणशक्तित्वाद् ग्रहणकवाक्यताविरहादन्येन प्रत्ययविधायकेन सम्बन्धे (न्धं) नैवोपेयादित्यभिमतलक्ष्यानिष्पत्तिरेव ।। 455 ।। <B2>

एकरूपमनेकार्थं तस्मादुपनिबन्धनम् ।
योनिर्विभागवाक्यानां तेभ्योऽनन्यदिव स्थितम् ।। 456 ।।

<B2> तस्मादेतदुपनिबन्धनभूतं सामान्येनासंयुक्तं विधिनैवोपात्तं सकृद्‌ग्रहण (क)वाक्यं सद्विभागवाक्यानामवान्तरवाक्यानां योनिः कारणं बोद्धव्यमित्याह--
अनेकेऽर्थाः प्रत्याय्या यस्य तत्तथआ अवान्तरवाक्यान्युपनिबद्न्तेऽस्मिन्नित्युपनिबन्धनम् । अथ तेभ्योऽनन्यदिवाभिन्नमिव स्थितम् । अथ च प्रत्येकं भेदेन सम्बन्धमुपगत्य यथावल्लक्ष्यसिद्धये विभवतीति ।। 456 ।। <B2>

क्कचित् क्रिया व्यक्तिभागैरुपकारे प्रवर्त्तते ।
सामान्यभाग एवास्याः क्कचिदर्थस्य साधकः ।। 457 ।।

<B2> अथाख्याते घातुवाच्याऽसत्त्वभूता पूर्वापरीभूतावयवा साध्यमानावस्था क्षणप्रचयात्मिका या क्रिया तस्याः कीदृशो जातिव्यक्तिव्यवहार समाश्रीयत इत्याह--
"क्कचित्" इति बाधविकल्पसमुच्चयातिशयप्रशंसादौ विषये क्रिया व्यक्तिभागैः समीहितार्थसिद्धौ प्रवर्त्तते, जातिसमाश्रयेण विकल्पसमुच्चयाद्यनुपपत्तेः । न हि देवदत्तः पचति, यज्ञदत्तः पचतीत्यादौ जातेः समुच्चयादिरुपपद्यते । क्कचित्तु यजते पचत इत्यादौ देशकालसाधनादे (रनुपन्यासेनै) कव्यक्तिव्यवहारोऽवास्तवः स्यादिति संवृत्त्या लोकव्यवहारसिद्धये तत्र क्कचित्क्रियापरामर्शात् सामान्यभाग एव वाक्यार्थमुपरोति ।। 457 ।। <B2>

कालभिन्नाश्च भेदा ये ये चाप्युष्ट्रासिकादिषु ।
प्रक्रमे जातिभागस्य शब्दात्मा तैर्न भिद्यते ।। 458 ।।

<B2> इहापि जातिभागमेव क्रियासम्बन्धिनं शब्दाः प्रत्यायन्तीत्याह--
ये क्रियाभेदाः क्रियाविशेषाः कालभिन्नाः पचत्यपाक्षीत्पक्ष्यतीत्येवमादयो ये चाप्युष्ट्रासिकादिषु विषये साधनभिन्ना उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते इत्यादौ तेषु क्रियासम्बन्धतो जातिभागस्य प्रक्रमे सामान्येनैवापर्यालोचितदेशकालसाधनतया प्रक्रमे च शब्दात्मा शब्दस्वरूपं न भिद्यते साधनसम्बन्धकृतस्तत्र भेदो न प्रथत इति यावत् ।। 458 ।। <B2>

एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः ।
भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच्छ्रुतौ ।। 459 ।।

<B2> तदेवं "देवदत्तादिषु भुजिः प्रत्येकमवतिष्ठते" इत्यादिना शब्दलक्षणभेदमाश्रित्यैका क्रियाऽनेकैः साधनैः प्रत्येकमर्थसमाप्त्या वाक्यसम्बन्धमुपयातीति प्रदर्शितम् । इदानीं यत्र विजातीया विभिन्नपदवाच्या क्रिया, एकशब्दवाच्यानि च साधनानि तत्र कथं भिन्नाभिः क्रियाभस्तेषां साधनानां सम्बन्धः स्यादित्याशङ्क्य तत्रापि प्रतिपत्तिकालसमाश्रयणेन भिन्नान्येव साधनान्यवगतानीति तथैवैताः क्रियास्तैर्भिन्नैरेव साधनैः प्रत्येकमर्थसमाप्त्या वाक्यसम्बन्धमुपयान्तीति प्रतिपदयितुमाह--
सामानसंख्येषु भेदेषु साधनविशेषेषु तेषु "जात्यादिभिः" इति । जात्या आदिग्रहणादितिकर्त्तव्यतादिभिश्च याः क्रिया भिन्ना असम्बद्धा उपात्तास्ताः साधनाभिधायिनः शब्दस्य सकृदभेदेन श्रुतावपि प्रतिपत्तिभेदसमाश्रयणेन भेदेनैव विनियुज्यन्ते सम्बन्धमुपगच्छन्तीति बोद्धव्यम् ।। 459 ।। <B2>

अक्षादिषु यथा भिन्ना भञ्जिभक्षिदिविक्रियाः ।
प्रयोगकालाभेदेऽपि प्रतिभेदं पृथक् स्थिताः ।। 460 ।।

<B2> उदाहरणमाह--
अक्षा भज्यन्तां भुज्यन्तां दीव्यन्तामिति या भिन्नजातिका भिन्नशब्दवाच्याश्च क्रिया यास्ता वाक्यभेदोपादानरहिता अपि प्रत्येकं समाप्त्या भेदेनैव स्थिता इति । यस्मादन्यसाधनानि तत्र निबद्धानि भेदेनैवोपात्तानीति प्रतिपत्तिवेलायां भेबेनैव क्रिया यथास्वं सम्बन्धमुपयान्तीति ।। 460 ।। <B2>

अक्षाणां तन्त्रिणां तन्त्रमुपायस्तुल्यरूपता ।
एषां क्रमो विभक्तानां तन्निबद्धा सकृच्छ्रुतिः ।। 461 ।।

<B2> तन्त्रन्यायप्रतिपादनपूर्वकमभिधातुमाह--
तुल्यरूपतेत्यनेन तन्त्रं व्याचष्टे । युक्तं चैतत् । यस्माच्छब्दाः क्रमेण विभागेनैव कदाचित् प्रयुज्यन्ते कदाचित्तन्त्रन्यायसमाश्रयणेन युगपदेवेति शब्दानां प्रयोगवेलायां क्रमयौगपद्ये उपायस्तदत्र तन्त्रेण युगपदेव भिन्नाः प्रयुक्ता अक्षा इति क्रियाभेदेवैषां सम्बन्धं गच्छन्ति ।। 461 ।। <B2>

द्वावभ्युपायौ शब्दानां प्रयोगे समवस्थितौ ।
क्रमो वा यौगपद्यं वा यौ लोको नातिर्त्तते ।। 462 ।।

<B2> अथ क्रमयौगपद्यस्वरूपमत्रोद्दिश्य व्याख्यातुमाह--<B2>
क्रमे विभिद्यते रूपं यौगपद्ये न भिद्यते ।
क्रिया तु यौगपद्येऽपि क्रमरूपानुपातिनी ।। 463 ।।

<B2> तत्र.--
रूपविभागेनैव क्रमः साधारण्येन यौगपद्यं तत्र भिन्नाक्रिया यौगपद्येति (पि) शब्दानां प्रयोगे क्रमरूपमेवानुपततीत्यर्थतथाभावात्क्रमरूपानुपातिन्येव बोद्धव्येति प्रतिपादयितुमाह--क्रियेति । तथा च शकटाक्षस्यैव भञ्जनं न विभीतकदेवनाक्षयोः, तथा विभीतकाक्षस्यैव भक्षणं नेतरयोः, देवनाक्षस्यैव देवनं न पूर्वयोरित्यर्थतथाभावाद्यौगपद्येऽपि क्रमानुपातिन्येवासाविति । ततश्च ते क्रमयौगपद्ये बेदसंसर्गशक्तिरूपे शब्दव्यापाररूपे अपि शब्देभ्यो भिन्ने इव व्यतिरिक्ते इव स्थते लक्ष्येते ।।463।।<B2

भेदसंसर्गशक्ती द्वे शब्दाद्भिन्ने इव स्थिते ।
यौगपद्येऽप्यनेकेन प्रयोगे भिद्यते श्रुतिः ।। 464 ।।

<B2> परमार्थतस्तु शब्दशक्ती एव क्रमयौगपद्ये इत्यभिधातुमाह--
किन्तर्हि, शब्दस्यैवैते द्वे शक्ती, यद्भेदशक्त्या क्रमेणावभाति, संसर्गशक्त्या तु युगपदिति । नन्वेवं भेदप्रयोगेऽनेकेन क्रियापदेन सम्बन्धाद्भिद्यत एव साधारण्याद् यौगपद्यक्रमस्वरूपयोर्भेदात् कथं युगपत्प्रयोगे क्रमरूपानुपातित्वमेव क्रियायाः श्रुतेरुक्तमित्याह--यौगपद्य इति । यौगपद्येऽपि साधनस्य प्रयोगे भेदेन क्रियापदसम्बन्धाद्भिद्यत एव साधारणी श्रुतिरिति, तन्त्रे हि सा भिन्नैवोपात्तेत्यर्थः ।। 464 ।। <B2>

अभिन्नो भेदरूपेण य एकोऽर्थो विवक्षितः ।
तत्रावयवधर्मेण समुदायोऽनुगृह्यते ।। 465 ।।

<B2> अथवा अक्षा इत्यत्रोद्‌भूतावयवभेदः समुदाय एव प्रतिनिर्दिश्यते, तत्रावयवधर्मेण समुदायो व्यपदिश्यते इत्येवं भेदमुपपाद्ययथायोगं प्रत्येकमर्थसमाप्त्या वा क्रियाणां भिन्नानां विनियोगः क्रियत इत्याह--
अभिन्नः समुदायस्वरूपो भेदरूपेणोद्‌भूतावयवभेदतया योऽत्रार्थो विवक्षितस्तत्रावयवधर्मेण भेदेन क्रमेणेति यावत्समुदायोऽनुगृह्यते उपोद्‌बलीक्रियत इति भेदप्रतिपत्तौ भेदेनैव क्रियाणां सम्बन्धः । अतश्चास्य समुदायस्य भेदप्रतिपादने प्रत्येकं वाक्यार्थः परिसमाप्यते ।। 465 ।। <B2>

भेदनिर्वचने त्वस्य प्रत्येकं वा समाप्यते ।
श्रुतिर्वचनभिन्ना वा वाक्यभेदेऽवतिष्ठते ।। 466 ।।

<B2> अथवा वचनभिन्न एकशब्द एवाक्षो भुज्यताम्, अक्षो दीव्यतामित्येवमवान्तरवाक्योपप्लाविनी साधनश्रुतिर्भेदेनैवावतिष्ठत इत्याह--<B2>

तत्रैकवचनान्तो वा सोऽक्षशब्दः प्रयुज्यते ।
प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ।। 467 ।।

<B2> शब्दपरिसमाप्तेर्भेदप्रकारमाह--
एकसमाद्वाक्याद्वाक्यभेदेन सम्बन्धिनीव्यवह्रयमाणे सत्यक्षो भक्ष्यतामित्याद्येकवचनस्यैवाक्षशब्दस्य प्रयोगः कदाचित् । अथवा यथाश्रुति प्रत्येकं बहुवचनान्तेनैववाक्याभेद इत्याह प्रत्येकमिति । अक्षा मज्यन्तामित्यादिकः प्रविभागः श्रुत्यनतिक्रमेणैक वाक्यानां करणीयः ।। 467 ।। <B2>

द्विष्ठानि यानि वाक्यानि तेष्वप्येकत्वदर्शिनाम् ।
अनेकशक्तेरेकस्य स्वशक्तिः प्रविभज्यते ।। 468 ।।

<B2> इदानीमभेदवादिनामपि मते द्विष्ठानां वाक्यानां शक्तिभेदेनैव विभागमभिघातुमाह--
द्वयोरर्थयोस्तिष्ठन्तीति द्विष्ठानि शास्त्रीयाणि लौकिकानि च यानि वाक्यानि तेष्वपि शब्दैकत्वदर्शिनां मते एकस्यैव तस्य प्रतिपादकस्य शब्दस्यानेकश्क्तेरसौ स्वशक्तिरेव प्रविभज्यते । यथा "इग्यणः सम्प्रसारणम्" "द्विर्वचनेऽचि" तद्धरति वहत्यावहति भाराद्वशादिभ्यः `तदस्य ब्रह्मचर्यम्" इत्यादीनि शास्त्रीयाणि । तथा श्वेतो धावति, अलम्बुसानां पातेत्यादीनि लौकिकानि वाक्यानि । तेष्वप्यर्थद्वयप्रतिपादनाय शक्तिर्विभज्यत इति शक्तितन्त्रप्रतिपादनम् ।। 468 ।। <B2>

अत्यन्तभिन्नयोर्वा स्यात् प्रयोगस्तन्त्रलक्षणः ।
उपायस्तत्र संसर्गः प्रतिपत्तृषु भिद्यते ।। 469 ।।

<B2> भेददर्शिनां पुनर्मते भिन्नावेव शब्दौ तन्त्रेणोपात्ताविति शब्दतन्त्रं प्रतिपादयितुमाह--
तत्रैवं तन्त्रेण द्व्यर्थे तस्मिन् प्रयोगे प्रतिपत्त्ययोगे प्रतिपत्त्यनुसारेणोभयात्मासौ संसर्गो वाक्याभिधेयलक्षणो भिद्यते । यथा यण्स्थानिकस्येग्‌लक्षणस्य वर्णस्य का संज्ञा स्यादित्येकेन पृष्टम्, तदपरेण यणि कोऽर्थः ? स्थान्यादेशभावलक्षणः सम्बन्धः, स किं संज्ञ इति, लाघवादाचार्यस्तन्त्रन्यायसमाश्रयणात् सम्प्रसारणमित्येकेनैव शब्देनोत्तरमाह । तथैकेन पृष्टं किञ्जातीयो धावतीत्यपरेण किंवर्णो धावत्यनयोर्लाघवात् प्रतिवक्ति श्वेतो धावतीति । तत्रासौ वाक्यार्थः प्रतिपत्तृषु भिद्यते, येन पृष्टं किञ्जातीयस्तस्य श्वा इतो धावतीत्येवंरूपतया व्यवतिष्ठते । येन च किंवर्ण इत्युक्तं तस्य श्वेतगुणयुक्तो धावतीत्यर्थरूपोऽसौ जायत इति तन्त्रनिबन्धना द्विधात्रार्थव्यक्तिरुपजायत इति । एवमन्यत्र व्याख्येयम् ।। 469 ।। <B2>

भेदेनावगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः ।
तन्त्रेण प्रतिपत्तारं प्रयोक्त्रा प्रतिपादिताः ।। 470 ।।

<B2> एतदेव व्याख्यातुमाह--
पूर्वं यौ शब्दौ भेदेन रूपवैलक्षण्येनाधिगतौ श्वा इतः श्वेत इति तावेव तुल्यश्रुती भिन्नावेव तन्त्रेण प्रतिपत्तारः, यस्मात्तन्त्रन्यायसमाश्रयणेनात्र प्रयोक्त्रा प्रतिपादिताः प्रतिबोधिताः ।। 470 ।। <B2>
एकस्यापि विवक्षायामनुनिष्पद्यते परः ।
विनाऽभिसंधिना शब्दः शक्तिरूपः प्रकाशते ।। 471 ।।
<B2> इदानीमत्र वक्तुरेकस्यैव शब्दस्य प्रतिपादने विवक्षोपजायते, तस्यां सत्यामपरोऽनुनिष्पद्यत इति शब्दभेदमते प्रकारान्तरेण तन्त्रमुपपादयितुमाह--
वक्त्रिच्छाविरहादपि साधारणत्वादपरस्य निष्पत्तिस्ततोऽर्थद्वयप्रतिपत्तिः । अभेदवादिनामपि मते तन्त्रस्य प्रकारान्तरमाह--विनेति । प्रयोक्त्रभिसन्धानमन्तरेण तत्रासौ शब्दः साधारणत्वाच्छक्तिद्वययुक्तः प्रकाशते ।
एतदुक्तं भवति--शुल्कजातीयप्रत्यायनशक्तिः प्राणिविशेषप्रत्यायनशक्तिर्वा श्वेतशब्दस्तत्रोदीरितः, स तत्रैकमर्थं प्रत्याययंस्तन्त्रेण सामर्थ्यादर्थान्तरप्रकाशनं करोत्येव ।। 471 ।। <B2>
अनेकशक्तिरेकस्य युगपच्छ्रीयते क्कचित् ।
अग्निः प्रकाशदाहाभ्यामेकत्रापि नियुज्यते ।। 472 ।।

<B2> अथवा तुल्यकक्षतया शक्तिद्वययोगाद्युगपदेव अर्थद्वयप्रकाशनं करोतीति शक्तितन्त्रतामाश्रित्यह--
एकस्यैव शब्दस्य क्कचित् श्वेतो धावतीत्यादौ विषये युगपदेवार्थद्वयप्रत्यायनसमर्थं शक्तिद्वयमाश्रीयते, यथा क्कचिदवसरे दाहप्रकाशाभ्यां युक्तोऽग्निरेकत्रापि प्रकाशे दाहे वा नियुज्यते उपयोगवशाद्धर्मद्वयायाप्युपादीयत इत्यर्थः । तथैवानेकशक्तियोगाद्युगपदर्थद्वयप्रकाशनाय शब्दः समाश्रीयत इति ।। 472 ।। <B2>
आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृदपि श्रुते ।
लिङ्गाद्वा तन्त्रधर्माद्वा विभागेनावतिष्ठते ।। 473 ।।

<B2> इदानीं शास्त्रविषयमप्येतदुपदर्शयितुमाह--
इग्यणः सम्प्रसारणमित्येतस्मिन् वाक्ये सकृदपि श्रुते कीदृशे शब्दभेदवादिनां मते आवृत्तिभिन्नार्थे, एकत्ववादिनां मते शक्तिभ्यां भिन्नार्थे । तत्र हि शक्तिभेदादर्थभेदः, अनन्तरं तद्वाक्यं प्रतिपत्तिशब्दभेदमते लिङ्गाद् ज्ञापकाद्विभागेनावतिष्ठते वर्णवाक्यार्थप्रत्यायकतयाऽवतिष्ठत इत्यर्थः । यस्मात्यम्प्रसारणस्येति भूतविभक्तिनिर्देशं पश्यति, ततोऽवस्यति वर्णः संज्ञीति वसोः सम्प्रासरणमित्यादौ भाविविभक्तिनिर्देशाद्वाक्यार्थस्यापि संज्ञित्वमवस्यतीत्यावृत्तिमेव शब्दभेदवाद्यनुमिनोति । अभेदवादी तु शक्तिभेदं तन्त्रधर्माच्छक्तितन्त्रलक्षणादनुमिनोतीत्यत्र सम्प्रसारणशब्दः शक्तिद्वयवशाद्युगपद्वर्णवाक्यलक्षणस्यार्थद्वयस्यापि प्रतिपादनं करोत्येव ।। 473 ।। <B2>
सम्प्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः ।
प्रविभागस्तत्र सूत्रे एकस्मिन्नेव कल्पते ।। 474 ।।

<B2> लिङ्गाभ्यामुपदर्शिताभ्यां भाविभूतविभक्तिनिर्देशलक्षणाभ्यां तत्र एकस्मिन्नेव सूत्रे वर्णवाक्यार्थयोः संज्ञिनोः प्रयोगो लभ्यत इति ।। 474 ।। <B2>
तथा द्विर्वचनेऽचीति तन्त्रोपायादिलक्षणः ।
एकशेषेण निर्देशो भाष्य एवोपवर्णितः ।। 475 ।।

<B2> उक्तं च विभक्तिविशेषनिर्देशस्तु ज्ञापक उभयसंज्ञात्वस्य' इति । तन्त्रं चेदमेकशेषसमानफलं भाष्ये प्रदेशेषूपन्यस्तमिति भाष्यकाराभ्युपगमेनार्थतन्त्रसिद्धिमुपपादयितुमाह--
इह द्विर्वचनेऽचीत्यत्र द्विर्वचननिमित्तेऽचि योऽजादेशः स द्विर्वचन एव कर्तव्ये स्थानिवदिति सूत्रार्थो व्याख्यायते, तत्रोक्तं यत्पुनर्द्वितीयं द्विर्वचनग्रहणं कर्त्तव्यं न कर्त्तव्यमित्याह--"एकशेषनिर्देशात् सिद्धम्" इति । यद्येकशेषस्तदा द्विर्वचनं प्राप्नोतीत्यत एकशेषसमानफलसाधारणलक्षणं तन्त्रमेवात्रैकशेषशब्देनोक्तम् । तेन तन्त्रोपायाद्धेतोर्लक्षण एवैकशेषनिर्देशः प्रदर्शितः । तस्मादेकशेषमन्तरेणापि तन्त्रन्यायसमाश्रयणाद् द्विर्वचनेऽचीत्यत्रार्थसङ्गतेरेकशेषसमानफल शास्त्रप्रवृत्त्युपायभूतं तन्त्रमभ्युपगतं भाष्य इति सिद्धम् ।। 475 ।। <B2>
प्रायेण संक्षेपरुचीनल्पविद्यापरिग्रहान् ।
संप्राप्य वैयाकरणान् संग्रहेऽस्तमुपागते ।। 476 ।।

<B2> अथ महाभाष्यस्यावतारान्वाख्यानपूर्वकं टीकाकारो महत्तामुपवर्णयन् स्वरचितस्य ग्रन्थस्य गुरुपूर्वक्रममभिधातुमाह--
इह पुरा पाणिनीयेऽस्मिन् व्याकरणे व्याड्युपरचितं ग्रन्थलक्षपरिमाणं संग्रहाभिधानं निबन्धनमासीत् । तच्च कालवशात् सुकुमारबुद्धीन् वैयाकरणान् प्राप्यास्तमुपागतम् । तस्मात् क्लेशभीरुत्वात् संक्षेपरुचयस्ते जानाः । अत एवाल्पो विद्यासु परिग्रहः स्वीकारो येषां ते तथा । ततस्तैः संग्रहाध्ययन उपेक्षिते सत्यस्तं यातः संग्रहः ।।476।। <B2>
कृतेऽथ पचञ्जलिना गुरुणा तीर्थदर्शिना ।
सर्वेषां न्यायबीजानां महाभाष्ये निबन्धने ।। 477 ।।
<B2> साधुत्वज्ञानौपयिकतया धर्मसाधनत्वेनोपजातोपयोगाय व्याकरणस्मृतेरविच्छेदाय करुणाप्रयुक्तेनाथ भगवता पतञ्जलिना वार्त्तिकव्याख्यानपुरःसरं माभाष्यनिबन्धनमुपरचितमित्यभिधातुमाह--
गुरुणेति भाष्यकर्त्तुः पूजापदे । तीर्थान्यागमविशेषाः । तान् पश्यति विजानातीति तीर्थदर्शो । अनेन गुरुत्वनिबन्धनः प्रभावातिशयो भगवत उक्तः । तच्च भाष्यं न केवलं व्याकरणस्य निबन्धनं यावत्सर्वेषां न्यायबीजानां बोद्धव्यमित्यत एव सर्वन्यायबीजहेतुत्वादेव महच्छब्देन विशेष्य महाभाष्यमित्युच्यते लोके ।। 477 ।। <B2>
अलब्धगाधे गाम्भीर्यादुत्तान् इव सौष्ठवात् ।
तस्मिन्नकृतबुद्धीनां नैवावास्थित निश्चयः ।। 478 ।।

<B2> अथ महत्त्वमेव विशेषणद्वारेणास्योपपादयितुमाह--
गाधो निष्ठापरिच्छेद इयत्तेति यावत् । असावलब्धो यस्य । कस्मादित्याह--गाम्भीर्यात् इति । गाम्भीर्यं गहनता प्रमेयबाहुल्येन दुर्वगाहत्वम् । अतिगम्भीरं हि भाष्यमुपरचितं भगवता पचञ्जलिनेति न तस्याभिधेयं व्यवच्छेत्तुं केनचिछक्यत इति । किमेवमेकान्तं गहनमिदं भाष्यम् ? नेत्याह--उत्तान इव इत्यादि । उत्तानं स्षष्टं सौष्ठवं परिपाटी यस्मादेतद्भाष्यं परिपाटिलक्षणादत्र सौष्ठवादुत्तानं स्पष्टप्रायं यत एव प्रतिभाति । अतोनेदमसेव्यं सज्जनमानसमिव निसर्गसुकुमारमतिगम्भीरं चैतदत एव महाभाष्यमित्युच्यत इत्यर्थः । एतेन संग्रहानुसारेण भगवता पतञ्जिलिना संग्रहसंक्षेपभूतमेव प्रायशो भाष्यमुपनिबद्धमित्युक्तं वेदितव्यम् । तदेवं ब्रह्मकाण्डे "कायवाग्‌बुद्धिविषया ये मलाः"इत्यादिश्लोकेन भाष्यकार प्रशंसोक्ता । इव चैवं भाष्यप्रशंसेति शास्त्रस्य शास्त्रकर्त्तुश्च टीकाकृता महत्तोपवर्णिता । अत एवेदं माहभाष्यमकृतबुद्धयो नैव बोद्‌धुमलमित्याह--तस्मिन्निति । कृता व्युत्पत्त्या प्रकर्षं प्राप्ता महती बुद्धिर्येषां ते, तथा तद्रूपवैकल्येनाकृतबुद्धयः स्वलपप्रज्ञा उच्यन्ते । तेषां निश्चयो निर्णयपर्यन्तो बोधो नैवात्रावास्थित न प्रतिष्ठामलभत । न तेनास्मद्‌गुरोस्तत्रभवतो वसुरातादन्यः कश्चिदिमं भाष्यार्णवमवगाहितुमहमित्युक्तं भवति ।। 478 ।। <B2>
बैजिसौभवर्य्यक्षैः शुष्कतर्कानुसारिभिः ।
आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ।। 479 ।।

<B2> तथा च संग्रहप्रतिपक्षभूतैराचार्यैस्तर्कविद्यामात्रवेदिभिर्बुद्ध्यपाटवादिदमाप्लावितमामासीकृतमित्याह--
शुष्कतर्कः केवल एवान्यशास्त्रपरिमलरहितो भण्यते । तमेवानुसरन्ति प्रमेयनिर्णयायेति तदनुसारिणः । महाभाष्यं हि बहुविधविद्यावादबलमार्षं व्यवस्थितम्, ततश्चान्वाक्षिकीमात्रकुशलः कथं तन्निश्चिनुयादिति तर्कमात्रानुसारिभिस्तैस्तद्विप्लावितम् । तर्कश्च पुरुषाणां स्वबुद्धिमात्रनिर्मितविग्रहोऽव्यवस्थित एव । यदुक्तम् --
"यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते" ।। इति 479 ।। <B2>

यः पतञ्जलिशिष्येभ्यो भ्रष्टो व्यकरणागमः ।
काले स दाक्षिणात्येषु ग्रन्थमात्रे व्यवस्थितः ।। 480 ।।

<B2> इत्थं च परस्परवैमत्यादागमसंज्ञात्यगाच्च यथावस्थितो व्याकरणागमः पतञ्जलिशिष्येभ्यः कालपरिवासाद् भ्रष्टः सन् ग्रन्थमात्रे पाठमात्र एव व्यवस्थितो दाक्षिणात्येष्वित्याह--
तदेवमुत्सन्नकल्पः संजातो व्याकरणागमः ।।480।। <B2>
पर्वतादागमं लब्ध्वा भाष्यबीजानुसारिभिः ।
स नीतो बहुशाख्त्वं चन्द्राचार्यादिभिः पुनः ।। 481 ।।

<B2> अथ कालान्तरेण चन्द्राचार्यादिभिरागमं लब्ध्वा तेन चोपायभूतेन सकलानि भाष्यावस्थितानि न्यायबीजानि तान्यनुसृत्य व्याकरणागमः पुनरपि स्फीततां नीत इत्यभिधातुमाह--
पर्वतात् त्रिकूटैकदेशवर्त्तित्रिलिङ्गैकदेशादिति । तत्र ह्युपलतले रावणविरचितो मूलभूतव्याकरणागमस्तिष्ठति, केनचिच्च ब्रह्मरक्षसाऽऽनीय चन्द्राचार्यवसुरातगुरुप्रभृतीनां दत्त इति । ते खलु यथावद् व्याकरणस्य स्वरूपं तत उपलभ्य सततं च शिष्याणा व्याख्याय बहुशाखित्वं नीतो विस्तरं प्रापित इत्यनुश्रूयते ।। 481 ।। <B2>
न्यायप्रस्थानमार्गांस्तानभ्यस्य स्वं च दर्शनम् ।
प्रणीतो गुरुणाऽस्माकमयमागमसंग्रहः ।। 482 ।।

<B2> अथ कदाचिद् योगतो विचार्य तत्र भगवता वसुरातगुरुणा ममायमागमः संज्ञाय वात्सल्यात् प्रणीत इति स्वरचितस्यास्य गुरुपूर्वक्रमममिधातुमाह--
न्यायस्य प्रतिष्ठा प्रस्थानं तस्य मार्गान् न्यायप्रस्थानमार्गान् न्यायप्रतिष्ठितैर्बहुभिर्मार्गैरिति यावत् । न्यायप्रस्थानमार्गास्तंस्तान् स्वं च दर्शनं व्याकरणसिद्धान्तलक्षणमभ्यस्यायं प्रणीतः । अनेन गुरुणा संज्ञायन तथा ममायमागमसंग्रहः प्रणीतः, येन सन्दहो भवेतपि तु सावधानेनेत्युक्तं भवति । अस्माकमिति बहुवचनादन्येषामपि सहाध्यायिनां ग्रहणम् । अथवा मया तु तदनुच्छेदायामुपनिबन्धः कृत इत्यात्मनो बहुमानः प्रकटितः ।। 482 ।। <B2>
वर्त्मनामत्र केषाञ्चिद् वस्तुमात्रमुदाहृतम् ।
काण्डे तृतीये न्यक्षेण भविष्यति विचारणा ।। 483 ।।

<B2> नन्वेतावानेव किमयं काण्डद्वयप्रोक्तो व्याकरणागम इत्याशङ्क्याह--
अत्रास्मिन् वाक्यकाण्डे काण्डद्वये वा केषाञ्चिदेव न्यायवर्त्मनां वस्तुमात्रं बीजमात्रं प्रदर्शितमिव । शिष्टे तु तृतीयेऽस्य ग्रन्थस्य पदकाण्डद्वयनिष्यन्दभूते न्यक्षेणादरविशेषण स्वसिद्धान्तपरसिद्धान्तवर्तिनां विचारणा युक्तायुक्तविचार पूर्वकनिर्णोतिर्भविष्यति । ततो नायमेतावान् व्याकरणागमसंग्रह इति ।।483।।<B2>
प्रज्ञाविवेकं लभते भिन्नैरागमदर्शनैः ।
कियद्वा शक्यमुन्नेतुं स्वतर्कमनुधावता ।। 484 ।।

<B2> ननु तत्तन्न्यायप्रत्थानमार्गाभ्यासेन किं कृत्यं स्वदर्शनमेव निश्चितं किं न विचार्यत इत्याह--
नानाविधैरागमदर्शनैरागम सिद्धान्तैः खलु प्रज्ञा विवेकं लभते वैशारद्यमाप्रोति । ततश्च निः संदिग्धं स्वसिद्धान्तमेव संपरिष्कर्तुर्भिन्नागमदर्शनैः शक्तिर्जायते । अन्यथाऽदृष्टपरकीयागमस्वरूपेण प्रतिपत्त्रा स्वोत्प्रेक्षामेव तेषु तेषु चावस्थानेष्वनुसरता वि यच्छक्यामुन्नेतुं प्रतिविधातुम् । कदाचित्परमर्षयो योगजधर्मोत्पन्नसामर्थ्याद् यथावत्पदार्थान् पश्यन्तः सिद्धान्तमलमिति शोभते । ये त्वारुरुक्षवः प्राथमकल्पिका मलिनचित्तवृत्तयः शास्त्रादेवातीतानागतव्यवहितपदार्थस्वरूपं निश्चिन्वन्ति, तेषं नानागमोपसेवयैवानुप्रसीदति भगवती प्रतिभेति युक्तम् ।। 484 ।। <B2>
तत्तदुत्प्रेक्षमाणानां पुराणैरागमैर्विना ।
अनुपासितवृद्धानां विद्या नातिप्रसीदति ।। 485 ।।

<B2> एतदेव निरुपयितुमाह--
प्रतिष्ठामुपगतैः पूर्वैरागमैर्बहुविधैर्विना स्वयमेव तत्तदित्ययथायथमेवोत्प्रेक्षमाणानां विकल्पयतां प्रतिपतॄणां शास्त्रोपज्ञमेधाविरहिणां पण्डितम्मन्यानामभिमानाग्रहाघातानां तेषां भगवती विद्या विशुद्धप्रज्ञा प्रतिभालक्षणा न प्रसीदति अत्यर्थम्, किं तर्हि वृद्धोपसेवाशालिनामागमजुषां विगलिताभिमानानामेवैषा भगवती प्रज्ञा प्रसादमुपयातीति सिद्धः ।। 485 ।। <B2>

तदयमत्र मेयसमुच्चयः--

वाक्यानामष्टधैवादौ विभागः परिकीर्तितः ।
शास्त्रीयमैमांसकयोः कीर्तनं वाक्ययोस्ततः ।। 1 ।।
बालाबलविचारोऽपि शास्त्रीयो व्याप्तिनिर्णयात् ।
ततश्चात्र समासेन वाक्यलक्षणनिर्णयः ।। 2 ।।
सन्देहश्चागमेनापि वाक्यभेदस्य दर्शितः ।
स्फोट एव तु सिद्धान्ते वाक्यं वाक्येषु साधितम् ।। 3 ।।
पदवादस्त्वनुमतो नेति व्याकरणे स्थितम् ।
ततोऽन्विताभिधानस्याभिहितान्वयकस्य च ।। 4 ।।
शब्दभागार्थभागाभ्यां दूषणव्रातकीर्तनम् ।
प्रसङ्गेनापरेऽप्यत्र वाक्यार्थाः षट् प्रदर्शिताः ।। 5 ।।
अखण्डवाक्यपक्षे च चोद्यपञ्चककीर्तनम् ।
उपपत्तिः प्रतिनिधेर्नास्तीति प्रथमं यथा ।। 6 ।।
पिकादिपसन्देहो नोपपद्यत इत्यपि ।
श्रुतिवाक्यविरोधे तु श्रुतिरेव बलीयसी ।। 7 ।।
प्रतिष्ठितस्य न्यायस्याप्येवं त्यागः प्रसज्यते ।
अवान्तराणां वाक्यानामुपपत्तिर्विरुध्यते ।। 8 ।।
प्रासङ्गिकादिषु तथा लक्षणेष्वप्यसम्भवः ।
प्रान्पोत्येवमखण्डेऽस्मिन्वाक्ये दोषा उदाहृताः ।। 9 ।।
अपोद्धारं समाश्रित्य दोषास्त्वेते निराकृतः ।
संहितायां विभागेऽथ पदयोर्विलयं गते ।। 10 ।।
उपादानावधिं कर्त्तुं तयोरर्थः प्रकल्प्यताम् ।
इति दूषणमत्राधात्पदे वाक्ये च वाक्यवित् ।। 11 ।।
तत्र न्यायवशादत्र स्वपक्षे दोषसंवृतिः ।
वाक्यार्थस्यात्र भेदोऽपि विकल्प्य परिकल्पितः ।। 12 ।।
प्रतिभेदं च सिद्धान्ते वाक्यार्थ उपपादितः ।
प्रविभागाश्रयादत्र पदार्थस्यापि सम्भवः ।। 13 ।।
स च द्वादशधा भिन्न इत्यत्रोपपादितम् ।
प्रतिभालक्षणं सम्यग्विधातुं संहितं कुतम् ।। 14 ।।
पदभागार्थभागाश्च वितत्य प्रतिपादिताः ।
अन्वयव्यतिरेकाभ्यां विवक्तितोपपादिता ।। 15 ।।
सनिमित्ता च साऽप्यत्र नामाख्यातसमाश्रया ।
उपसर्गनिपाताश्च कर्मप्रवचनीयकाः ।। 16 ।।
पदभेदाः प्रसङ्गेन लक्षणेनोपलक्षिताः ।
सार्थकानर्थकत्वाभ्यां विचारे वर्णनिष्ठिते ।। 17 ।।
कृतेऽप्यखण्डपक्षोऽत्र प्रतिष्ठामुपनामितः ।
पदवादेऽथ दोषाणां चतुर्णां परिकीर्तनम् ।। 18 ।।
समासेषु विरुद्धार्थप्राप्तिरादावुदाहृता ।
अध्यादीनां तथा वाक्ये साधनस्याभिधायिता ।। 19 ।।
अर्थासङ्गतिरप्यत्र बहुव्रीहेरुदाहृता ।
प्रज्ञुसंज्ञ्वादिषु तथा नास्त्यर्थोऽवयवेष्वपि ।। 20 ।।
इति चोद्यचतुष्केण पदवादः पराकृतः ।
स्थापितेऽखण्डपक्षेऽपि चोद्यसप्तकमाहितम् ।। 21 ।।
द्वन्द्वे समासेनैव स्याद् बह्वर्थस्याभिधायिका ।
विभक्तिरिति दोषोऽत्र प्रथमं परिकीर्त्तितम् ।। 22 ।।
वाक्यस्यार्थसमाप्तिस्तु प्रत्येकं नोपपद्यते ।
परामर्शश्च नैव स्यात् सर्वनामभिरेव च ।। 23 ।।
अनुष्ठानं क्रमेणाथ वाक्यार्थस्य न जातुचित् ।
स्यादक्रमे त्वनुष्ठानं शक्यते न कथञ्चन ।। 24 ।।
एकदेशस्य करणे समुदायेऽर्थकारिता ।
अभिमन्यत इत्येतदखण्डे नोपपद्यते ।। 25 ।।
एतानि पञ्च चोद्यान्यपोद्धारस्य समाश्रयात् ।
समर्थितानि वै सम्यगखण्डं वाक्यमिच्छता ।। 26 ।।
अथाखण्डं यदा वाक्यं समासेष्वर्थवर्णना ।
पृथक्‌ पृथक्‌ तदा तस्याः सा च शास्त्रे प्रकीर्तिता ।। 27 ।।
नञ्‌समासे पदार्थस्य विकल्पैर्बहुभिः पुनः ।
प्राधान्यं परिकल्प्याथ भाष्ये पक्षाः परीक्षिताः ।। 28 ।।
यद्यखण्डमिदं वाक्यं नैषा स्यात् कल्पना क्कचित् ।
दोषावेतावपि शब्दप्रक्रियामात्रमेव च ।। 29 ।।
शास्त्रप्रवृत्ताविति च निराकरणमेतयोः ।
ततश्चाखण्डपक्षस्य स बाध उपदर्शितः ।। 30 ।।
जहत्स्वार्थविकल्पेन बहुव्रीह्यादिगामिना ।
प्रत्युत प्रज्ञुदोषश्च पदवादे प्रकीर्त्तितः ।। 31 ।।
प्रकृत्यर्थः प्रत्ययार्थ इति भिन्नो परस्परम् ।
यावत् स्थितौ तयोरेकापायेनावगतिः कथम् ।। 32 ।।
इहाऽहं नास्तीति च सा दृष्टा स्याद्वास्तवे कथम् ।
पदार्थं प्रति दोषोऽथं पदवादे समुद्‌धृतः ।। 33 ।।
प्रत्ययद्वयगम्येऽर्थे एकस्मादेव तन्मते ।
अत्तीत्यादौ कथं च स्यात् सत्यता पदपद्धतेः ।। 34 ।।
सत्यत्वेऽथ पदानां स्यात् प्रकृतिप्रत्ययार्थयोः ।
कथं लक्षणशास्त्रेषु साङ्कर्येण व्यवस्थितिः ।। 35 ।।
पदार्थमन्यथैवादौ प्रतिपद्यान्यथा पुनः ।
वाक्यार्थप्रतिपत्तिश्च दृष्टा नैतत्समञ्जसम् ।। 36 ।।
सत्यभूतेष्वथ पदेष्विति वाक्यविदो जगुः ।
नञर्थानुपपत्तेश्च नास्ति वादः पदाश्रयः ।। 37 ।।
उपात्तत्यगसंप्राप्ते सर्वत्रेति च दूषणम् ।
सह प्रागुक्तदौषैश्चाप्येकादश समीरिताः ।। 38 ।।
पदवादेऽत्र दोषास्तु पृथक् पक्षद्वयं पुनः ।
शब्दभागार्थभागाभ्यां विस्तरेण विचक्षणैः ।। 39 ।।
निराकृतमतो युक्तो वाक्यवादपरिग्रहः ।
दोषः संज्ञिन्यतिक्रान्तः सूत्रकाराभिसंमतः ।। 40 ।।
अपोद्धाराश्रयादत्र गौणमुख्यविचारणा ।
ततः कृता सुनियतं टीकाकारेण सादरम् ।। 41 ।।
सत्यासत्यविभागोऽपि ज्ञानानामुपपादितः ।
मुख्यानान्तरीयकयोरर्थयोरनिवर्तनम् ।। 42 ।।
ततस्त्वर्थचतुष्कस्य चिन्तनं विहितं क्रमात् ।
शब्दार्थनिर्णयोपायाः सादरं परिकीर्त्तिताः ।। 43 ।।
तात्पर्यं परिपाट्याश्चार्थतात्पर्यमपीति च ।
वाक्यनिष्ठं समासेन विचारितमतः पृथक् ।। 44 ।।
उत्सर्गस्याऽपवादस्य विवेकः परिकीर्तितः ।
संज्ञाशब्देष्वथ कृता निर्णयः परिवत्सरान् ।। 45 ।।
प्रत्येकं समुदाये च समाप्त्या वाक्यनिश्चितिः ।
न्यायः सञ्चिन्तितश्चात्र लक्षितोऽप्यभिधीयते ।। 46 ।।
अथ पूर्वोक्तसंक्षेपद्वारेणाप्युपपादितः ।
वाक्यवाक्यार्थनिष्ठश्च पदनिष्ठश्च निर्णयः ।। 47 ।।
वाक्यैकवाक्यतायाश्च विचारोऽपि निरूपितः ।
साकाङक्षत्वं निराकाङ्‌क्षा वाक्यानां परिकीर्तिता ।। 48 ।।
यद्वा चिन्तासमासेऽप्यन्यस्माद्वस्तुनिरूपिता ।
अथात्र तन्त्रन्यायस्य सिद्धिर्भाष्यानुगा स्मृता ।। 49 ।।
अवतारोऽपि भाष्यस्य संग्रहेऽस्तमुपागते ।
निबन्धहेतौ शास्त्रस्य टीकाकारेण कीर्तितः ।। 50 ।।
संग्रहार्थाद्यनुगुणरूपत्वं चोपपादितम् ।
विप्लावनमथैतस्य संग्रहप्रतिपक्षतः ।। 51 ।।
कृतमाचार्यदैवज्ञैरावेशविवशैस्ततः ।
भ्रष्टस्याम्नायसारस्य वैयाकरणगामिनः ।। 52 ।।
मूलभूतमवाप्याथ पर्वतादागमं स्वयम् ।
आचार्यवसुरातेन न्यायमार्गान्विचिन्त्य सः ।। 53 ।।
प्रणीतो विधिवच्चायं मम व्याकरणागमः ।
मयापि गुरुनिर्दिष्टाद्भाष्यान्न्यायाविलुप्तये ।। 54 ।।
काण्डत्रयक्रमेणायं निबन्धः परिकीर्तितः ।
ग्रन्थकारेण ग्रन्थेऽस्मिन् स्वस्मिन्गुर्वागमः स्फुटम् ।। 55 ।।
इत्येवं वाक्यकाण्डस्य प्रमेयविषया स्फुटम् ।
सङ्गतिः कीर्तिता लघ्वी समासेन निराकुला ।। 56 ।।
विद्वज्जनानां यः खलु सर्वत्र गीयते जगति ।
तत उपसृत्य विरचिता राजानकशूर वर्मनाम्ना वै ।। 57 ।।
शशाङ्कशिष्याच्छ्रु त्वैतद्वाक्यकाण्डं समासतः ।
पुण्यराजेन तस्योक्ता सङ्गतिः कारिकाश्रिता ।। 58 ।।
गुरवे भर्त्तृहरये शब्दब्रह्मविदे नमः ।
सर्वसिद्धान्तसन्दीहसारामृतमयाय ।। 59 ।।

इति श्रीपुण्यराजकृता वाक्यपदीयद्वितीयकाण्डटीका समाप्ता ।।