वक्रोक्तिजीवितं प्रथमोन्मेषः

विकिस्रोतः तः
Jump to navigation Jump to search
श्रीमद्राजानककुन्तकविरचितं वक्रोक्तिजीवितम्
प्रथमोन्मेषः

जगत्त्रितयवैचित्र्यचित्रकर्मविधायिनं ।
शिवं शक्तिपरिस्पन्दमात्रोपकरणं नुमः । । वजी_१.१ । ।
यथातत्त्वं विवेच्यन्ते भावास्त्रैलोक्यवर्तिनः ।
यदि तन्नाद्भुतं नाम दैवरक्ता हि किंशुकाः । । वजी_१.२ । ।
स्वमनीषिकयैवाथ तत्त्वं तेषां यथारुचि ।
स्थाप्यते प्रौढिमात्रं तत्परमार्थो न तादृशः । । वजी_१.३ । ।
इत्यसत्तर्कसन्दर्भे स्वतन्त्रेऽप्यकृतादरः ।
साहित्यार्थसुधासिन्धोः सारमुन्मीलयाम्यहं । । वजी_१.४ । ।
येन द्वितयमप्येतत्तत्त्वनिर्मितिलक्षणं ।
तद्विदामद्भुतामोदचमत्कारं विधास्यति । । वजी_१.५ । ।

ग्रन्थारम्भे ।
अभिमतदेवतानमस्कारकरणं समाचारः, तस्मात्तदेव तावदुपक्रमते---

वन्दे कवीन्द्रवक्त्रेन्दुलास्यमन्दिरनर्तकीं ।
देवीं सूक्तिपरिस्पन्दसुन्दराभिनयोज्ज्वलां । । वजी_१.१ । ।

इति ।
देवीं वन्दे देवतां स्त्ॐइ ।
कामित्याह---कवीन्द्रवक्त्रेन्दुलास्यमन्दिरनर्तकीं ।
कवीन्द्राः कविप्रवरास्तेषां वक्त्रेन्दुर्मुखचन्द्रः स एव लास्यमन्दिरं नाट्यवेश्म तत्र नर्तकी लासिकां ।
किंविशिष्टाम्---सूक्तिपरिस्पन्दसुन्दराभिनयोज्ज्वलां ।
सूक्तिपरिस्पन्दाः सुभाषितविलसितानि तान्येव सुन्दरा अभिनयाः सुकुमाराः सात्त्विकादयस्तैरुज्ज्वलं भ्राजमानां ।
या किल सत्कविवक्त्रे लास्यसद्मनीव२ नर्तकी स्वविलासा३ भिनयविशिष्टा नृत्यन्ती विराजते तां वन्दे न्ॐईति वाक्यार्थः ।
तदिदमत्र तात्पर्यम्---यत्किल प्रस्तुतं वस्तु किमपि काव्यालङ्कारकरणं तदधिदैवतभूतामेवंविधराणीयकहृदयहारिणीं वाग्रूपां सरस्वतीं स्त्ॐईति ।
एवं नमस्कृत्येदानीं वक्तव्यवस्तुविषयभूतान्यभिधानाभिधेयप्रयोजनान्यासूत्रयति ।

वाचो विषयनैयत्यमुत्पादयितुमुच्यते ।
आदिवाक्येऽभिधानादि निर्मितेर्मानसूत्रवथ् । । वजी_१.६ । ।
इत्यन्तरश्लोकः ।(?)

लोकोत्तरचमत्कारकारिवैचित्र्यसिद्धये ।
काव्यस्यायमलङ्कारः कोऽप्यपूर्वो विधीयते । । वजी_१.२ । ।

अलङ्कारो विधीयते अलङ्कारणं क्रियते ।
कस्य---काव्यस्य ।
कवेः कर्म काव्यं तस्य ।
ननु च सन्ति चिरन्तनास्तदलङ्कारास्तत्किमर्थमित्याह---अपूर्वः, तद्व्यतिरिक्तार्थाभिधायी ।
तदपूर्वत्वं तदुत्कृष्टस्य तन्निकृष्टस्य च द्वयोरपि संभवतीत्याह---कोऽपि, अलौकिकः सातिशयः ।
सोऽपि किमर्थमित्याह---लोकोत्तरमत्कारकारिवैचित्र्यसिद्धये असामान्याह्लादविधायिविचित्रभावसम्पत्तये ।
यद्यपि सन्ति शतशः काव्यालङ्कारास्तथापि न कुतश्चिदप्येवंविधवैचित्र्यसिद्धैः ।
अलङ्कार-शब्दः शरीरस्य शोभातिशयकारित्वान्मुख्यतया कटकादिषु वर्तते, तत्कारित्वसामान्यादुपचारादुपमादिषु, तद्वदेव च तत्सदृशेषु गुणेषु,४ तथैव च तदभिधायिनि ग्रन्थे ।
शब्दार्थयोरेकयोगक्षेमत्वादैक्येन व्यवहारः,यथा गौरिति शब्दः गौरित्यर्थ इति ।
तदयमर्थः---ग्रन्थस्या५ लङ्कार इत्यभिधानम्, उपमादिप्रमेयजातमभिधेयम्, उक्तरूपवैचित्र्यसिद्धिः प्रयोजनमिति ।
एवमलङ्कारस्यास्य प्रयोजनमस्तीति स्थापितेऽपि तदलङ्कार्यस्य काव्यस्य प्रयोजनं विना सदपि तदपार्थकमित्याह---

धर्मादिसाधनोपायः सुकुमारक्रमोदितः ।
काव्यबन्धोऽभिजातानां हृदयाह्लादकारकः । । वजी_१.३ । ।

हृदयाह्लादकारकश्चित्तानन्दजनकः काव्यबन्धः सर्गबन्धादिर्भवतीति संबन्धः ।
कस्येत्याकाङ्क्षायामाह---अभिजातानां ।
अभिजाताः खलु राजपुत्रादयो धर्माद्युपेयार्थिनो विजिगीषवः क्लेशभीरवश्च, सुकुमाराशयत्वात्तेषां ।
तथा सत्यपि तदाह्लादकत्वे काव्यबन्धस्य क्रीडनकादिप्रख्यता प्राप्नोतीत्यभिधत्ते६---धर्मादिसाघनोपायः ।
धर्मादेरुपेयस्य७ चतुर्वर्गस्य साधने संपादने तदुपदेखरूपत्वादुपायस्तत्प्राप्तिनिमित्तं ।
तथाविध८ पुरुषार्थोपदेशपरैरपरैरपि शास्त्रैः किमपराद्धमित्यभिधीयते---सुकुमारक्रमोदितः ।
सुकुमारः सुन्दरः हृदयहारी९ क्रमः परिपाटीविन्यासस्तेनोदितः कथितः सन् ।
अभिजातानामाह्लादकत्वे सति प्रवर्तकत्वात्काव्यबन्धो धर्मादिप्राप्त्युपायातां प्रतिपद्यते ।
शास्त्रेषु पुनः कठोरक्रमाभिहीतत्वाद्धर्माद्युपदेशो दुरवगाहः ।
तथाविधे विषये विद्यमानोऽप्यकिञ्चित्कर एव ।
राजपुत्राः खलु समासादितस्वविभवाः समस्तजगतीव्यवस्थाकारितां प्रतिपद्यमानाः श्लाघ्योपदेश१०शून्यतया स्वतन्त्राः सन्तः समुचितसकलव्यवहारोच्छेदं प्रवर्तयितुं प्रभवन्तीत्येतदर्थमेव११ तद्व्युत्पत्तये व्यतीतसच्चरितराजचरितं तन्निदर्शनाय निबघ्नन्ति कवयः ।
तदेवं शास्त्रातिरिक्तमस्त्येव१२ प्रगुणं प्रयोजनं काव्यबन्धस्य ।
मुख्यं पुरुषार्थसिद्धिलक्षणं प्रयोजनमास्तां तावतन्यदपि लोकयात्राप्रवर्तननिमित्तं भृत्यसुहृत्स्वाम्यादिसमावर्जनमनेन विना सम्यङ्न संभवतीत्याह---

व्यवहारपरिस्पन्दसौन्दर्यं व्यवहारिभिः ।
सत्काव्याधिगमादेव नूतनौचित्यमाप्यते । । वजी_१.४ । ।

व्यवहारो लोकवृत्तं तस्य परिस्पन्दो व्यापारः क्रियाक्रमलक्षणस्तस्य सौन्दर्यं रामणीयकं तद्व्यवहारिभिर्व्यवहर्तृभिः सत्काव्याधिगमादेव कमनीयकाव्यपरिज्ञानादेव नान्यस्मादाप्यते लभ्यत इत्यर्थः ।
कीदृशं तत्सौन्दर्यम्---नूतनौचित्यं ।
नूतनमभिनवमलौकिकमौचित्यमुचितभावो यस्य ।
तदिदमुक्तं भवति---महतां हि राजादीनां व्यवहारे वर्ण्यमाने तदङ्गभूताः सर्वे मुख्यमात्यप्रभृतयः समुचितप्रातिस्विककर्तव्यव्यवहारनिपुणतया निबध्यमानाः सकलव्यवहारिवृत्तोपदेशतामापद्यन्ते ।
ततः सर्वः क्वचित्कमनीयकाव्ये कृतश्रमः समासादितव्यवहारपरिस्पन्दसौन्दर्यातिशयः श्लाघनीयफलभाग्भवतीति ।
योऽसौ चतुर्वर्गलक्षणः पुरुषार्थस्तदुपार्जनविषयव्युत्पत्तिकारणतया काव्यस्य पारंपर्येण प्रयोजनमित्याम्नातः, सोऽपि समयान्तरभावितया तदुपभोगस्य तत्फलभूताह्लादकारित्वेन तत्कालमेव पर्यवस्यति ।
ततस्तदतिरिक्तं किमपि सहृदयहृदयसंवादसुभगं तदात्वरमणीयं प्रयोजनान्तरमभिधातुमाह---

चतुर्वर्गफलास्वादमप्यतिक्रम्य तद्विदां ।
काव्यामृतरसेनान्तश्चमत्कारो वितन्यते । । वजी_१.५ । ।

चमत्कारो वितन्यते चमत्कृतिर्विस्तार्यते, ह्लादः पुनः पुनः क्रियत इत्यर्थः ।
केन---काव्यामृतरसेन ।
काव्यमेवामृतं तस्य रसस्तदास्वादस्तदनुभवस्तेन ।
क्वेत्यभिदधाति---अन्तश्चेतसि ।
कस्य---तद्विदां ।
तं विदन्ति जानन्तीति तद्विदस्तज्ज्ञास्तेषां ।
कथम्---चतुर्वर्गफलास्वादमप्यतिक्रम्य ।
चतुर्वर्गस्य धर्मादेः फलं तदुपभोगस्तस्यास्वादस्तदनुभवस्तमपि प्रसिद्धातिशयमतिक्रम्य विजित्य पस्पशप्रायं संपाद्य ।
तदयमत्राभिप्रायः१३---योऽसौ चतुर्वर्गफलास्वादः प्रकृष्टपुरुषार्थतया सर्वशास्त्रप्रयोजनत्वेन प्रसिद्धः सोऽप्यस्यकाव्यामृतचर्वणचमत्कारकलामात्रस्या१४ पि न कामपि साम्यकलनां कर्तुमर्हतीति ।
दुःश्रव-दुर्भण-दुरधिगमत्वादिदोषदुष्ट१५ त्वादध्ययनावसरे दुःसहदुःख१६ दायी शास्त्रसन्दर्भस्तत्कालकल्पितकमनीयचमत्कृतेः काव्यस्य न कथञ्चिदपि स्पर्धामधिरोहतीत्येतदप्यर्थतोऽभिहितं भवति ।

कटुकौषधवच्छास्त्रमविद्याव्याधिनाशनं ।
आह्लाद्यमृतवत्काव्यमविवेकगदापहं । । वजी_१.७ । । १७ । ।
आयत्यां च तदात्वे च रसनिस्यन्दसुन्दरं ।
येन संपद्यते काव्यं तदितानी विचार्यते । । वजी_१.८ । ।

इत्यन्तरश्लोकौ ।

अलङ्कृतिरलङ्कार्यमपोद्धृत्य विवेच्यते ।
तदुपायतया तत्त्वं सालङ्कारस्य काव्यता । । वजी_१.६ । ।

अलङ्कृतिरलङ्करणं अलङ्क्रियते ययेति विगृह्य ।
सा विवेच्यते विचार्यते ।
यच्चालङ्कार्यमलङ्करणीयं वाचकरूपं वाच्यरूपं च तदपि विवेच्यते ।
तयोः सामान्यविशेषलक्षणद्वारेण स्वरूपनिरूपणं क्रियते ।
कथम्---अपोद्धृत्य ।
निष्कृष्य पृथक्पृथगवस्थाप्य, यत्र समुदायरूपे तयोरन्तर्भावस्तस्माद्विभज्य ।
केन हेतुना---तदुपायतया ।
तदिति काव्यं परामृश्यते ।
तस्योपायस्तदुपायस्तस्य भावस्तदुपायता तया हेतुभूतया ।
यस्मादेवंविधो१८ विवेकः काव्यव्युत्पत्त्युपायतां प्रतिपद्यते ।
दृश्यते च समुदायन्तः पातिनामस्त्यभूतानामपि व्युत्पत्तिनिमित्तमपोद्धृत्य विवेचनं ।
यथा---पदान्तर्भूतयोः प्रकृतिप्रत्यययोर्वाक्यान्तर्भूतानां पदानां चेति ।
यद्येवमसत्यभूतोऽप्यपोद्धारस्तदुपायता क्रियते तत्किं पुनः सत्यमित्याह---तत्त्वं सालङ्कारस्य काव्यता ।
तदयमत्र१९ परमार्थः---सालङ्कारस्यालङ्करणसहितस्य सकलस्य निरस्तावयवस्य सतः समुदायस्य काव्यता कविकर्मत्वं ।
तेनालङ्कृतस्य काव्यत्वमिति स्थितम्,२० न पुनः काव्यस्यालङ्कारयोग इति ।
सालङ्कारस्य काव्यतेति संमुग्धतया किञ्चित्काव्यस्वरूपं सूत्रितम्२१ निपुणं पुनर्न निश्चितं ।
किंलक्षणं वस्तु काव्यव्यपदेशभाग्भवतीत्याह---

शब्दार्थौ सहितौ वक्रकविव्यापारशालिनि ।
बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि । । वजी_१.७ । ।

२२ शब्दार्थौ काव्यं वाचको वाच्यं चेति द्वौ संमिलितौ काव्यं ।
द्वावेकमिति विचित्रैवोक्तिः ।
तेन यत्केषाञ्चिन्मतं कविकौशलकल्पितकमनीयतातिशयः शब्द एव केवलं काव्यमिति केषाञ्चिद्वाच्यमेव रचनावैचित्र्यचमत्कारकारि काव्यमिति, पक्षद्वयमपि निरस्तं भवति ।
यस्माद्२३द्वयोरपि प्रत्येकं२४ प्रतितिलमिव तैलं तद्विदाह्लादकारित्वं वर्तते, न पुनरेकस्मिन् ।
यथा---

भण तरुणि रमण्मन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ।
यदि सल्लीलोल्लापिनि गच्छसि तत्किं त्वदीयं मे । । वजी_१.९ । ।
अणणुरणन्मणिमेखलमविरतशिञ्जाणमञ्जुमञ्जीरं ।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते । । वजी_१.१० । ।२५ । ।

प्रतिभादारिद्रयदैन्यादतिस्वल्पसुभाषितेन कविना वर्णसावर्ण्यरम्यतामात्रमत्रोदितम्, न पुनर्वाच्यवैचित्र्यकणिका काचिदप्यस्ति२६ ।
यत्किल नूतनतारुण्यतरङ्गितलावण्यलटभकान्तेः२७ कान्तायाः कामयमानेन केनचिदेवमु२८च्यते---यदि तरुणि त्वं२९ रमणमन्दिरं व्रजसि तत्किं त्वदीयं परिसरणं रणरणकमकारणं मम करोतीत्यतिग्राम्येयमुक्तिः ।
किञ्च, न अकारणम्, यतस्तस्यास्तदनादरेण गमने३० तदनुरक्तान्तः करणस्य विरहविधुरताशङ्काकातरता कारणं रणरणकस्य ।
यदि वा परिसरणस्य मया किमराद्धमित्याकरणतासमर्पकम्, एतदप्यतिग्राम्यतरं ।
संबोधनानि च बहूनि मुनिप्रणीतस्तोत्रामन्त्रणकल्पानि न काञ्चिदपि तद्विदाह्लाद३१ कारितां पुष्णन्तीति यत्किञ्चिदेतथ् ।
वस्तुमात्रं च शब्दशोभा३२ तिशयशून्यं न काव्यव्यपदेशमर्हति ।
यथा---

प्रकाशस्वाभाव्यं विदधति न भावास्तमसि यत्तथा नैते ते स्युर्यदि किल तथा यत्र न कथं ।
गुणाध्यासाभायासव्यसनदृढदीक्षागुरुगुणो रविव्यापारोऽयं किमथ सदृशं तस्य महसः । । वजी_१.११ । ।

अत्र हि शुष्कतर्कवाक्यवासनाधिवासितचेतसा प्रतिभाप्रतिभातमात्रमेव वस्तु व्यसनितया कविना केवलमुपनिबद्धं ।
न पुवर्वाचकवक्रताविच्छित्तिलवोऽपि लक्ष्यते ।
यस्मात्तर्कवाक्यशय्यैव शरीरमस्य श्लोकस्य ।
तथा च---तमोव्यतिरिक्ताः पदार्था धर्मिणः, प्रकाशस्वभावा न भवन्तीति साध्यम्, तमस्यतथाभूतत्वादिति हेतुः ।
दृष्टान्तस्तर्हि कथं न दर्शितः, तर्कन्यायस्यैव चेतसि प्रतिभासमानत्वाथ् ।
तथोच्यते---

तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः ।
ख्याप्येते३३ विदुषां वाच्यो हेतुरेव हि केवलः । । वजी_१.१२ । । ३४ । ।

इति ।
विदधतीति विपूर्वो दधातिः करोत्यर्थे वर्तते ।
स च करोत्यर्थोऽत्र न सुस्पष्टसमन्वयः, प्रकाशस्वाभाव्यं न कुर्वन्तीति ।
प्रकाशस्वाभाव्य-शब्दोऽपि चिन्त्य एव ।
प्रकाशः स्वभावो यस्यासौ प्रकाशस्वभावः, तस्य भाव इति भावप्रत्यये विहिते पूर्वपदस्य वृद्धिः प्राप्नोति ।
अथ स्वभावस्य भावः स्वाभाव्यमित्यत्रापि भावप्रत्ययान्ताद्भावप्रत्ययो न प्रचुरप्रयोगार्हः ।
तथा च प्रकाशश्चासौ स्वाभाव्यं चेति विशेषणसमासोऽपि न समीचीनः ।
तृतीये च पादेऽत्यन्तासमर्पकसमासभूयस्त्ववैशसं न तद्विदाह्लादकारितामावहति ।
रविव्यापार इतिरवि-शब्दस्य प्राधान्येनाभिमतस्य समासे गुणीभावो न विकल्पितः, पाठान्तरस्य"रवेःऽ इति संभवाथ् ।
ननु वस्तुमात्रस्याप्यलङ्कारशुन्यतया कथं तद्विदाह्लादकारित्वमिति चेत्तन्न;यस्मादलङ्कारेणाप्रस्तुतप्रशंसालक्षणेनान्यापदेशतयास्फुरितमेव कविचेतसि प्रथमं च प्रतिभाप्रतिभासमानमघटितपाषाणशकलकल्पमणिप्रख्यमेव वस्तु विदग्धकविविरचितवक्रवाक्योपारूढं शणोल्लीढमणिमनोहरतया तद्विदाह्लादकारिकाव्यत्वमधिरोहति ।
तथा चैकस्मिन्नेव वस्तुन्यवहितानवहितकविद्वितयविरचितं वाक्यद्वयमिदं महदन्तरमावेदयति---

मानिनीजनविलोचनपाता- नुष्णबाष्पकलुषाननुगृह्णन्३५ ।
मन्दमन्दमुदितः प्रिययौ खं भीतभीत इव शीतमयूखः । । वजी_१.१३ । ।
क्रमादेकद्वित्रिप्रभृतिपरिपाटीः प्रकटयन्कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।
पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन्निभृत इव चन्द्रोऽभ्युदयते । । वजी_१.१४ । ।

एतयोरन्तरं सहृदयसंवेद्य३६ मिति तैरेव विचारणीयं ।
तस्मात्स्थितमेतत्---न शब्दस्यैव रमणीयताविशिष्टस्य केवलस्य काव्यत्वम्, नाप्यर्थस्येति ।
तदिदमुक्तम्---

रूपकादिरलङ्कारस्तस्यान्तैर्३७ बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनितामुखम्३८ । । वजी_१.१५ । ।
रूपकादिमलङ्कारं बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिं । । वजी_१.१६ । ।
तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः३९ । । वजी_१.१७ । ।

तेन शब्दार्थौ द्वौ संमिलितौ काव्यमिति स्थितं ।
एवमवस्थापिते द्वयोः काव्यत्वे कदाचिदेकस्य मनाङ्मात्रन्यूनतायां सत्यां काव्यव्यवहारः प्रवर्तेतेत्याह---सहिताविति ।
सहितौ सहितभावेन साहित्येनावस्थितौ ।
ननु च वाच्यवाचकसंबन्धस्य विद्यमानत्वादेतयोर्न कथञ्चिदपिसाहित्यविरहः, सत्यमेतथ् ।
किन्तु विशिष्टमेवेह साहित्यमभिप्रेतं ।
कीदृशं ?---वक्रताविचित्रगुणालङ्कारसंपदां परस्परस्पर्धाधिरोहः ।
तेन

समसर्वगुणौ सन्तौ सुहृदाविव सङ्गतौ ।
परस्परस्य शोभायै शब्दार्थौ भवतो यथा । । वजी_१.१८ । ।
ततोऽरुणपरिस्पन्दमन्दीकृतवपु) शशी ।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुतां । । वजी_१.१९ । ।

अत्रारुणपरिस्पन्दमन्दीकृतवपुषः शशिनः कामपरिक्षामवृत्तेः कामिनीकपोलफलकस्य च पाण्डुत्वसाम्यसमर्थनादर्थालङ्कारपरिपोषः शोभातिशयमावहति ।
वक्ष्यमाणवर्णविन्यासवक्रतालक्षणः शब्दालङ्कारोऽप्यतितरां रमणीयः ।
वर्णविन्यासविच्छित्तिविहिता लावण्यलक्षणगुण४०संपदस्त्येव ।
यथा च

लीलाए कुवलां कुवलां व सीसे समुव्वहन्तेण ।
सेसेण सेसपुरिसाणं पुरिसऽरो समुव्यसिओ । । वजी_१.२० । ।४१ । ।
लीलया कुवलयं कुवलयमिव शीर्षे समुद्वहता ।
शेषेण शेषपुरुषाणां पुरुषकारः समुद्धसितः । ।

अत्राप्यप्रस्तुतप्रशंसोपमालक्षणवाच्यालङ्कारवैचित्र्यविहिता हेलामात्रविरचितयमकानुप्रासहारिणी समर्पकत्वसुभगा कापि काव्यच्छाया सहृदयहृदयमाह्लादयति ।
द्विवचनेनात्र वाच्यवाचकजातिद्वित्वमभिधीयते ।
व्यक्तिद्वित्वाभिधाने पुनरेकपदव्यवस्थितयोरपि काव्यत्वं स्यादित्याह---बन्धे व्यवस्थितौ ।
बन्धो वाक्यविन्यासः तत्र व्यवस्थितौ विशेषेण लावण्यादिगुणालङ्कारशोभिनां संनिवेशेन कृतावस्थानौ ।
सहितावित्यत्रापि यथायुक्ति सजातीया४२ पक्षया शब्दस्य शब्दान्तरेण वाच्यस्य वाच्यान्तरेण च साहित्यं परस्परस्पर्धित्वलक्षणमेव विवक्षितं ।
अन्यथा तद्विदाह्लादकारित्वहानिः प्रसज्यते ।
यथा

असारं संसारं परिमुषितरत्नं त्रैभुवनं निरालोकं लोकं मरणशरणं बान्धवजनं ।
अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः४३ । । वजी_१.२१ । ।

अत्र किल कुत्रचित्प्रबन्धे कश्चित्कापालिकः कामपि कामिनी४४ व्यापादयितुमध्यवसितो सन्नेव४५ मभिधीयते---यदपगतसारः संसारः, हृतरत्नसर्वस्वं त्रैलोक्यम्, आलोकनीयकमनीयवस्तुवर्जितो जीवलोकः, सकललोकलोचननिर्माणं निष्फलप्रयम्, त्रिभुवनविजयित्वदर्पविहीनः४६ कन्दर्पः, जगज्जीर्णारण्यकल्पमनया भवतीति किं त्वमेवंविधमकरणीयं कर्तुं व्यवसित इति ।
एतस्मिन्श्लोके महावाक्यकल्पे वाक्यान्तरण्यवान्तरवाक्यसदृशानि तस्याः सकललोकलोभनीयलावण्यसंपत्प्रतिपादनपराणि परस्परस्पर्धोन्यतिरमणीयान्युपनिबद्धानि कमपि काव्यच्छायातिशयं पुष्णन्ति ।
मरणशरणं बान्धवजनमिति पुनरेतेषां न कलामात्रमपि स्पर्धितुमर्हतीति न तद्विदाह्लादकारि ।
बहुषु च रमणीयेष्वेकवाक्योपयोगिषु युगपत्प्रतिभासपदवीमवतरत्सु वाक्यार्थपरिपूरणार्थं तत्प्रतिमं प्राप्तुमपरं प्रयत्नेन प्रतिभा प्रसाद्यते ।
तथा चास्मिन्नेव प्रस्तुतवस्तुसब्रह्मचारिवस्त्वन्तरमपि सुप्रापमेव---"विधिमपि विपन्नाद्भुतविधिम्" इति ।
प्रथमप्रतिभातपदार्थप्रतिनिधिपदार्थान्तरासंभवे सुकुमारतरापूर्वसमर्पणेन कामपि काव्यच्छायामुन्मीलयन्ति कवयः ।
यथा

रुद्राद्रेस्तुलनं स्वकण्ठविपिनच्छेदो४७ हरेर्वासनं कारावेश्मनि पुष्पकापहरणं । । वजी_१.२२ । ।

इत्युपनिबद्ध्य पूर्वोपनिबद्धपदार्थानुरूपवस्त्वन्तरासंभवादपूर्वमेव "यस्येदृशाः कलयः" इति विन्यस्तम्,४८ येनानेयेऽपि कामपि कमनीयतामनीयन्त ।
यथा च

तद्वक्त्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैव निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः ।
तां संप्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य मे बद्धोत्कण्ठमिदं मनः किं । । वजी_१.२३ । ।

इति संप्रत्यपि तामेवंविधां वीक्षितुं प्रवृत्तस्य मम मनः किमिति बद्धोत्कण्ठमिति परसमाप्तेऽपि तथाविधो वस्तु४९ विन्यासो विहितः---"अथवा प्रेमासमाप्तोत्सवम्" इति,येन पूर्वेषां जीवितमिवार्पितं ।
यद्यपि द्वयोरप्येतयोस्तत्प्राधान्येनैव वाक्यार्थोपनिबन्धः,५० तथापि कविप्रतिभाप्रौढिरेव प्राधान्येनावितष्ठते ।
शब्दस्यापि शब्दान्तरेण साहित्यविरहोदाहरणं यथा

चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः५१ । । वजी_१.२४ । ।

दयितसङ्गमस्तामभूषयदिति वक्तव्ये कीदृशो मदः, दयतसड्गमो भूषा यस्येति दयितसङ्गमशब्दस्य प्राधान्येनाभिमतस्य समासवृत्तावन्तर्भूतत्वाद्गुणीभावो न तद्विदाह्लादकारी ।
दीपकालङ्कारस्य च काव्यशोभाकारित्वेनोपनिबद्धस्य निर्वहणावसरे त्रुटितप्रायत्वात्प्रक्रमभङ्गविहितं सहसहृदयवैरस्यमनिवार्यं ।
"दयितसङ्गतिरेनम्ऽ इति पाठान्तरं सुलभमेव ।
द्वयोरप्येतयोरुदाहरणयोः प्राधान्येन प्रत्येकमेकतरस्य साहित्यविरहो व्याख्यातः ।
परमार्थतः पुनरुभयोरप्येकतरस्य साहित्यविरहोऽन्यतरस्यापि पर्यवस्यति ।
तथा चार्थः समर्थवाचकासद्भावे स्वात्मना स्फुरन्नपि मृतकल्प एवावतिष्ठते ।
शब्दोऽपि वाक्योपयोगिवाच्यासंभवेवाच्यान्तरवाचकः सन्वाक्यस्य व्याधिभूतः प्रतिभातीत्यलमतिप्रसङ्गेन ।
प्रकृतं तु ।
कीदृशै बन्धे---वक्रकविव्यापारशालिनि ।
वक्रो योऽसौ शास्त्रादिप्रसिद्धशब्दार्थोपनिबन्धव्यतिरेकी षट्प्रकारवक्रताविशिष्टः कविव्यापारस्तत्क्रियाक्रमस्तेन शालते श्लाघते यस्तस्मिन् ।
एवमपि कष्टकल्पनोपहतेऽपि प्रसिद्धव्यतिरेकित्वमस्तीत्याह---तद्वदाह्लादिकारिणि ।
तदिति काव्यपरामर्शः तद्विदन्तीति तद्विदस्तज्ज्ञास्तेषामाह्लादमानन्दं करोति यस्यस्मिन्तद्विदाह्लादकारिणि बन्धे व्यवस्थितौ ।
वक्रता५२ प्रकारांस्तद्विदाह्लादकारित्वं च प्रत्येकं यथावसरमेवोदाहरिष्यति५३ ।
एवं काव्यस्य सामान्यलक्षणे विहिते विशेषलक्षणमुपक्रमते ।
तत्र शब्दार्थयोस्तावत्स्वरूपं निरूपयति---

वाच्योर्ऽथो वाचकः शब्दः प्रसिद्धमिति यद्यपि ।
तथापि काव्यमार्गेऽस्मिन्परमार्थोऽयमेतयोः । । वजी_१.८ । ।

इति एवंविधं वस्तु प्रसिद्धं प्रतीतम्---यो वाचकः प्रत्यायकः५४ स शब्दः, यो वाच्यश्चाभिधेयः सोर्ऽथ इति ।
ननु च द्योतकव्यञ्जकावपि शब्दौ संभवतः, तदसंग्रहान्नाव्याप्तिः, यस्मादर्थप्रतीतिकारित्वसामान्यादुपचारात्तावपि वाचकावेव ।
एवं द्योत्यव्यङ्ग्ययोरप्यर्थयोः५५ प्रत्येयत्वसामान्यादुपचाराद्वाच्यत्वमेव ।
तस्माद्वाचकत्वं वाच्यत्वं च शब्दार्थयोर्लोके सुप्रसिद्धं यद्यपि लक्षणम्, तथाप्यस्मिनलौकिके काव्यमार्गे कविकर्मवर्त्मनि अयमेतयोर्वक्ष्यमाणः५६ परमार्थः किमप्यपूर्वं तत्त्वमित्यर्थः ।
कीदृशमित्याह---

शब्दो विवक्षतार्थैकवाचकोऽन्येषु सत्स्वपि ।
अर्थः सहृदयाह्लादकारिस्वस्पन्दसुन्दरः । । वजी_१.९ । ।

स शब्दः काव्ये यस्तत्समुचितसमस्तसामग्रीकः ।
कीदृक्----विवक्षितार्थैकवाचकः ।
विवक्षितो योऽसौ वक्तुमिष्टोर्ऽथस्तदेकवाचकः तस्यैकः केवल एव वाचकः ।
कथम्---अन्येषु सत्स्वपि ।
अपरेषु तद्वाचकेषु बहुष्वपि विद्यमानेषु ।
तथा च---सामान्यात्मना वक्तुमभिप्रेतो योर् ।
आथस्तस्य विशेषाभिधायी शब्दः सम्यग्वाचकतां न प्रतिपद्यते ।
यथा

कल्लोलवेल्लितदृषरुषप्रहारै रत्नान्ममूनि मकराकर मावमंस्थाः ।
किं कौस्तुभेन भवतो विहितो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि५७ । । वजी_१.२५ । ।

अत्र रत्नसामान्योत्कर्षाभिधानमुपक्रान्तं ।
कौस्तुभेनेति रत्नविशेषाभिधायी शब्दस्तद्विशेषोत्कर्षाभिधानमुपसंहरतीति प्रक्रमोपसंहारवैषम्यं न शोभातिशयमावहति ।
न चैतद्वक्तुं शक्यते---यः कश्चिद्विशेषे गुणग्रामगरिमा विद्यते स सर्वसामान्येऽपि संभवत्येवेति ।
यस्मात्

वाजिवारणलोहानां काष्ठपाषाणवाससां ।
नारीपुरुषतोयानामन्तरं महदन्तरम्५८ । । वजी_१.२६ । ।

तस्मादेवंविधे विषये सामान्याभिधाय्येव शब्दः सहृदयहृदयहारितां प्रतिपद्यते ।
तथा चास्मिन्प्रकृते पाठान्तरं सुलभमेव---"एकेन किं न विहितो भवतः स नाम" इति ।
यत्र च५९ विशेषात्मना वस्तु प्रतिपादयितुमभिमतं तत्र विशेषाभिधायकमेवाभिधानं निबध्नन्ति कवयः ।
यथा

द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावत- सत्वमस्य लोकस्य च नेत्रक्ॐउदी६० । । वजी_१.२७ । ।

अत्र परमेश्वरवाचकशब्दसहस्त्रसंभवेऽपि कपालिन इति बीभत्सरसालम्बनविभाववाचकः शब्दो जुगुप्सास्पदत्वेन प्रयुज्यमानः कामपि वाचकवक्रतां विदधाति ।
"संप्रतिऽ "द्वयंऽ चेत्यतीव रमणीयम्---यत्किल पूर्वमेका सैव दुर्व्यसनदूषितत्वेन शोचनीया जाता,६१ संप्रति पुनस्त्वया तस्यास्तथाविधदुरध्यवसायसाहायकमिवारब्धमित्युपहस्यते ।
"प्रार्थनाऽ-शब्दोऽप्यतितरां रमणीयः, यस्मात्काकतालीययोगेन तत्समागमः कदाचिन्न वाच्यतावहः ।
प्रार्थना पुनरत्रात्यन्तं कौलीनकलङ्ककारिणी ।
"सा चऽ "त्वं चऽ इति द्वयोरप्यनुभूयमानपरस्परस्पर्धिलावण्यातिशयप्रतिपादनपरत्वेनोपात्तं ।
"कलावतःऽ कान्तिमतीऽ इति च मतुप्६२ प्रत्ययेन द्वयोरपि प्रशंसा प्रतीयत इत्येषां प्रत्येकं कश्चिदप्यर्थः शब्दान्तराभिधेयतां नोत्सहते ।
कविविवक्षितविशेषाभिधानक्षमत्वमेव वाचरकत्वलक्षणं ।
यस्मात्प्रतिभायां तत्कालोल्लिखितेन केनचित्परिस्पन्देन परिस्फुरन्तः पदार्थाः प्रकृतप्रस्तावसमुचितेन केनचिदुत्कर्षेण वा समाच्छादितस्वभावाः सन्तो विवक्षाविधेयत्वेनाभिधेयतापदवीमवतरन्तस्तथाविधविशेषप्रतिपादनसमर्थेनाभिधानेनाभिधीयमानाश्चेतश्चमत्कारि६३ तामापद्यन्ते ।
यथा

संरम्भः करिकीटमेघशकलोद्देशेन सिंहस्य यः सर्वस्यैव स जातिमात्रविहितो हेवाकलेशः किल ।
इत्याशाद्विरदक्षयाम्भुदघटाबन्धेऽप्यसंरब्धवान्योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्विकाकेसरी । । वजी_१.२८ । ।

अत्र करिणां "कीटऽ- व्यवपदेशेन तिरस्कारः, तोयदानां च "शकलऽ- शब्दाभिधानेनानादरः, "सर्वस्यऽ इति यस्य कस्यचित्तुच्छतरप्रायस्तेत्यवहेला, जातेश्च "मात्रऽ- शब्दविशिष्टत्वेनावलेपः, हेवाकस्य "लेशऽ- शब्दाभिधानेनाल्पताप्रतिपत्तिरित्येते विवक्षितार्थैकवाचकत्वं द्योतयन्ति ।
"घटाबन्धऽ - शब्दश्च प्रस्तुतमहत्त्वप्रतिपादनपरत्वेनोपात्तस्तन्निबन्धनतां प्रतिपद्यते ।
विंशेषाभिधानाकाङ्क्षिणः पुनः पदार्थस्वरूपस्य तत्प्रतिपादनपरविशेषाणशून्यतया शोभापरिहाणिरुत्प६४द्यते ।
तथा

यत्रा६५नुल्लिखिताख्यमेव निखिलं निर्माणमेतद्विधेरुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा ।
जाता६६ प्राणभृतां मनोरथगतीरुल्लङ्घ्ययत्संपदस्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितं । । वजी_१.२९ । ।

अत्र "आभासऽ- शब्दः स्वयमेव मात्रादिविशिष्टत्वमभिलषंल्लक्ष्यते ।
पाठान्तरम्---"छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिताऽ इति ।
एतच्च वाचकवक्रताप्रकारस्वरूपनिरूपणावसरे प्रतिपदं प्रकटीभविष्यतीत्यलमतिप्रसङ्गेन ।
अर्थश्च वाच्यलक्षणः कीदृशः---काव्ये यः सहृदयाह्लादकारिस्वस्पन्दसुन्दरः ।
सहृदयाः काव्यार्थविदस्तेषामाह्लादमानन्दं करोति यस्तेन स्वस्पन्देनात्मीयेन स्वभावेन सुन्दरः सुकुमारः ।
तदेतदुक्तं भवति---यद्यपि पदार्थस्य नानाविधधर्मखचितत्वं संभवति तथापि तथाविधेन धर्मेण संबन्धः समाख्यायते य), सहृदयहृदयाह्लादमाधातुं क्षमते ।
तस्य च तदाह्लादसामर्थ्यं संभाव्यते येन काचिदेव स्वभावमहत्ता रसपरिपोषाङ्गत्वं वा व्यक्तिमासादयति ।
यथा

दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः सिन्धुष्वङ्गावगाहः खुरकुहरगलत्तुच्छतोयेषु नाप्तः ।
लब्धाः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छोवराहः । । वजी_१.३० । ।

अत्र च तथाविधः पदार्थपरिस्पन्दमहिमा निबद्धो यः६७ स्वभावसंभविनस्तत्परिस्पन्दान्तरस्य संरोधसंपादनेन स्वभावमहत्तां समुल्लासयन्सहृदयहृदयाह्लाद६८ कारितामापन्नः६९ ।
यथा च

तामभ्यगच्छद्रुदितानुसारी मुनिः कुशेध्माहरणाय यातः ।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः७० । । वजी_१.३१ । ।

अत्र कोऽसौ मुनिर्वाल्मीकिरिति पर्यायपदमात्रे वक्तव्ये परमकारुणिकस्य निषादनिर्भिन्नशकुनिसंदर्शनमात्रलसमुत्थितः शोकः श्लोकत्वमभजत यस्येति तस्य तदवस्थजनकराजपुत्रीदशादर्शन७१ विवशवृत्तेरन्तः करणपरिस्पन्दः करुणरसपरिपोषाङ्गतया सहृदयहृदयाह्लादकारी कवेरभिप्रेतः ।

यथा च

भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्संदेशाद्धृदयनिहितादागतं त्वत्समीपं ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि । । वजी_१. ३२ । ।

अत्र प्रथममान्त्रणपदार्थस्तदाश्वासकारिपरिस्पन्दनिबन्धनः भर्तुर्मित्रं मां विद्धीत्युपादेयतामा७२ त्मनः प्रथयति ।
तच्च न सामान्यम्, प्रियमिति विश्रम्भपात्रताम्७३ ।
इति तामाश्वास्योन्मुखीकृत्य च तत्संदेशात्त्वत्समीपमागमनमिति प्रकृतं प्रस्तौति ।
हृदयनिहितादिति सुहृत्त्वविहितं७४ सावधानत्वं द्योत्यते ।
ननु चान्यः कश्चिदेवंविधव्यवहारविदग्धबुद्धिः कथं न नियुक्त इत्याह---ममैवात्र कौशलं किमपि७५ विजृम्भते ।
अम्बुवाहमित्यात्मनस्तत्कारिताभिधानं द्योतयति ।
यः प्रोषितानां वृन्दानि त्वरयति, संजातत्वराणि करोति ।
कीदृशानाम्---श्राम्यतां त्वरायामसमर्थानामपि ।
वृन्दानीति बाहुल्यात्तत्कारिताभ्यासं कथयति ।
केन---मन्द्रस्निग्धैर्ध्वनिभिः, माधुर्यरमणीयैः शब्दैर्विदग्धदूतप्ररोचनावचनप्रयैरित्यर्थः ।
क्व---पथि मार्गे ।
यदृच्छया यथाकथञ्चिदहमेतदाचरामीति किं पुनः प्रयत्नेन सुहृत्प्रेमनिमित्तिं संरम्भबुद्धिं७६ न कर्ॐईति ।
कीदृशानि वृन्दानि---अबलावेणिमोक्षोत्सुकानि ।
अबला-शब्देनात्रतत्प्रेयसीविरहवैधुर्यासहत्वं भण्यते, तद्वेणिमोक्षोत्सुकानीति तेषां तदनुरक्तचित्तवृत्तत्वं ।
तदयमत्र वाक्यार्थः---विधिविहितविरहवैधुर्यस्य परस्परानुरक्तचित्तवृत्तेर्यस्य कस्यचित्कामिजनस्य समागमसौख्यसंपादनसौहार्दे सदैव गृहीतव्रतोऽस्मीति ।
अत्र यः पदार्थपरिस्पन्दः कविनोपनिबद्धः प्रबन्धस्य मेघदूतत्वे परमार्थतः स एव जीवितमिति सुतरां सहृदयाह्लादकारी७७ ।
न पुनरेवं विधो यथा

सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी गत्वा७८ जवात्त्रिचतुराणि पदानि सीता७९ ।
गन्तव्यमद्य कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्८० । । वजी_१.३३ । ।

अत्रासकृत्प्रतिक्षणं कियदद्य गन्तव्यमित्यभिधानलक्षणः परिस्पन्दो न स्वभावमहत्तामुन्मीलयति, न च रसपरिपोषाङ्गतां प्रतिपद्यते ।
यस्मात्सीतायाः सहजेन केनाप्यौचित्येन गन्तुमध्यवसितायाः सौकुमार्यादेवंविधं वस्तु हृदये परिस्फुरदपि वचनमारोहतीति सहृदयैः संभावयितुंन पार्यते ।
न च प्रतिक्षणमभिधीयमानमपि राघवाश्रुप्रथमावतारस्य सम्यक्सङ्गतिं भजते, सकृदाकर्णनादेव तस्योपपत्तेः ।
एतच्चात्यन्तरमणीयमपि मनाङ्मात्रचलितावधानत्वेन कवेः कदर्थितं ।
तस्माद्"अवशम्ऽ इत्यत्र पाठः कर्तव्यः ।
तदेवंविधं विशिष्टमेव शब्दार्थयोर्लक्षणमुपादेयं ।
तेन नेयार्थापार्थादयो दूरोत्सारितत्वात्पृथङ्न वक्तव्याः ।
एवं शब्दार्थयोः प्रसिद्धस्वरूपातिरिक्तमन्यदेव रूपान्तरमभिधाय न तावन्मात्रमेव काव्योपयोगि, किन्तु वैचित्र्यान्तरविशिष्टमित्याह---

अभावेतावलङ्कार्यौ तयोः पुनरलङ्कृतिः ।
वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते । । वजी_१.१० । ।

उभौ द्वावप्येतौ शब्दार्थावलङ्कार्यावलङ्करणीयौ केनापि शोभातिशयकारिणालङ्करणेन योजनीयौ ।
किं तत्तयोरलङ्करणमित्यभिधीयते---तयोः पुनरलङ्कृतिः ।
तयोर्द्वित्वसंख्याविशिष्टयोरप्यलङ्कृतिः पुनरेकैव, यया द्वावप्यलङ्क्रियते ।
कासौ---वक्रोक्तिरेव ।
वक्रोक्तिः प्रसिद्धाभिधानव्यतिरेकिणी विचित्रैवाभिधा ।
कीदृशी---वैदग्ध्यभङ्गीभणितिः ।
वैदग्ध्यं विदग्धभावः कविकर्मकौशलं तस्य भङ्गी विच्छित्तिः, तया भणितिः विचित्रैवाभिधा वक्रोक्तिरित्युच्यते ।
तदिदमत्र तात्पर्यम्---यत्शब्दार्थौ पृथगवस्थितौ न८१ केनापि व्यतिरिक्तेनालङ्करणेन योज्येते, किन्तु वक्रतावैचित्र्ययोगितयाभिधानमात्र८२ मवानयोरलङ्कारः, तस्यैव शोभातिशयकारित्वाथ् ।
एतच्च वक्रताव्याख्यानावसर एवोदाहरिष्यते ।
ननु च किमिदं प्रसिद्धार्थविरुद्धं प्रतिज्ञायते यद्वक्रोक्तिरेवालङ्कारो नान्यः कश्चिदिति, यतश्चिरन्तनैरपरं स्वभावोक्तिलक्षणमलङ्करणमाम्नातं तच्चातीवरमणीयमित्यसहमानस्तदेव निराकर्तुमाह---

अलङ्कारकृतां येषां स्वभावोक्तिरलङ्कृतिः ।
अलङ्कार्यतया तेषां किमन्यदवतिष्ठते । । वजी_१.११ । ।

येषामलङ्कारकृतामलङ्कारकाराणां स्वभावोक्तिरलङ्कृतिः, या स्वभावस्य पदार्थधर्मलक्षणस्य परिस्पन्दस्य उक्तिरभिधा सैवालङ्कृतिरलङ्करणमिति प्रतिभाति, ते सुकुमारमानसत्वाद्विवेकक्लेशद्वेषिणः ।
यस्मात्स्वभावोक्तिरिति कोर्ऽथः ? स्वभाव एवोच्यमानः स एव यद्यलङ्कारस्तत्किमन्यत्तद्व्यतिरिक्तं काव्यशरीरकल्पं वस्तु विद्यते यत्तोषामलङ्कार्यतया विभूष्यत्वेनावतिष्ठते पृथगवस्थितिमासादयति, न किञ्चिदित्यर्थः ।
ननु च पूर्वमवस्थापितम्---यद्वाक्यस्यैवाविभागस्य सालङ्कारस्य काव्यत्वमिति (१ ।
६) तत्किमर्थमेतदभिधीयते ? सत्यम्, किन्तु तत्रासत्यभूतोऽप्यपोद्धारबुद्धिविहितो विभागः कर्तुं शक्यते वर्णपदन्यायेन वाक्यपदन्यायेन चेत्युक्तमेव ।
एतदेव प्रकारान्तरेण विकल्पयितुमाह---

स्वभावव्यतिरेकेण वक्तुमेव न युज्यते ।
वस्तु तद्रहितं यस्मान्निरुपाख्यं प्रसज्यते । । वजी_१.१२ । ।

स्वभावव्यतिरेकेण स्वपरिस्पन्दं विना निःस्वभावं वक्तुमभिधातुमेव न युज्यते न शक्यते ।
वस्तु वाच्यलक्षणं ।
कुतः---तद्रहितं तेन स्वभावेन रहितं वर्जितं यस्मान्निरुपाख्यं प्रसज्यते ।
उपाख्याया निष्क्रान्तं निरुपाख्यं ।
उपाख्या शब्दः, तस्यागोचरभूतमभिधानायोग्यमेव संपद्यते ।
यस्मात्स्वभावशब्दस्येदृशी व्युत्पत्तिः---भवतोऽस्मादभिधानप्रत्ययाविति भावः, स्वस्यात्मनो भावः स्वभावः ।
तेन स एव यस्य कस्यचित्पदार्थस्य प्रख्योपाख्यावतारनिबन्धनम्, तेन वर्जितमसत्कल्पं वस्तु शशविषाणप्रायं शब्दज्ञानागोचरतां प्रतिपद्यते ।
स्वभावयुक्तमेव सर्वथाभिधेयपदवीमवतरतीति शाकटिकवाक्यानामपि सालङ्कारता प्राप्नोति, स्वभावोक्तियुक्तत्वेन ।
एतदेव युक्त्यन्तरेण विकल्पयति---

शरीरं चेदलङ्कारः किमलङ्कुरुतेऽपरं ।
आत्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति । । वजी_१.१३ । ।

यस्य कस्यचिद्वर्ण्यमानस्य वस्तुनो वर्णनीयत्वेन स्वभाव एव वर्ण्यशरीरं ।
स एव चेदलङ्कारो यदि विभूषणं तत्किमपरं तद्व्यतिरिक्तं विद्यते यदलङ्कुरुते विभूषयति ।
स्वात्मानमेवालङ्करोतीति चेत्तदयुक्तं अनुपपत्तेः ।
यस्मादात्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति, शरीरमेव शरीरस्य न कुत्रचिदप्यसमधिरोहतीत्यर्थः, स्वत्मनि क्रियाविरोधाथ् ।
अन्यच्चाभ्युपगम्यापि ब्रूमः---

भूषणत्वे स्वभावस्य विहिते भूषणान्तरे ।
भेदावबोधः प्रकटस्तयोरप्रकटोऽथवा । । वजी_१.१४ । ।
स्पष्टे सर्वत्र संसृष्टिरस्पष्टे संकरस्ततः ।
अलङ्कारान्तराणां च विषयो नावशिष्यते । । वजी_१.१५ । ।

भूषणत्वे स्वभावस्य अलङ्कारत्वे परिस्पन्दस्य८३ यदा भूषणान्तरमलङ्कारान्तरं विधीयते तदा विहिते कृते, तस्मिन्सति, द्वयी गतिः संभवति ।
कासौ---तयोः स्वभावोक्त्यलङ्कारान्तरयोः भेदावबोधो भिन्नत्वप्रतिभासः प्रकटः सुस्पष्टः कदाचिदप्रकटश्चापरिस्फुटो वेति ।
तदा स्पष्टे प्रकटे तस्मिन्सर्वत्र सर्वस्मिन्कविवाक्ये संसृष्टिरेवैकालङ्कृतिः प्राप्नोति ।
अस्पष्टे तस्मिन्नप्रकटे सर्वत्रैवैकः संकरोऽलङ्कारः प्राप्नोति ।
ततः को दोषः स्यादित्याह---अलङ्कारान्तराणां च विषयो नावशिष्यते ।
अन्येषामलङ्काराणामुपमादीनां विषयो गोचरो न कश्चिदप्यवशिष्यते, निर्विषयत्वमेवायातीत्यर्थः ।
ततस्तेषां लक्षणकरणवैयर्थ्यप्रसङ्गः ।
यदि च८४ तावेव संसृष्टिसंकरौ तेषां विषयत्वेन कल्प्येते तदपि न किञ्चित्, तैरेवालङ्कारकारै८५ स्तस्यार्थस्यानङ्गीकृतत्वाथ् ।
इत्यनेनाकाशचर्वणप्रतिमेनालमलीकनिबन्धनेन ।
प्रकृतमनुसरामः ।
सर्वथा यस्य कस्यचित्पदार्थजातस्य कविव्यापारिविषयत्वेन वर्णनापदवीमवतरतः स्वभाव एव सहृदयाह्लादकारी काव्यशरीरत्वेन वर्णनीयतां प्रतिपद्यते ।
स एव च यथायोगं शोभातिशयकारिणा येन केनचिदलङ्कारेण योजयितव्यः ।
तदिदमुक्तम्---"अर्थः सहृदयाह्लादकारिस्वस्पन्दसुन्दरःऽ (१ ।९) इति ।
"उभावेतावलङ्कार्यौऽ (१ ।१०) इति च ।
एवं शब्दार्थयोः परमार्थमभिधाय "शब्दार्थौऽ इति (१ ।७) काव्यलक्षणवाक्ये पदमेकं व्याख्यातं ।
इदानी "सहितौऽ इति (१ ।७) व्याख्यातुं साहित्यमेतयोः पर्यालोच्यते---

शब्दार्थौ सहितावेव प्रतीतौ स्फुरतः सदा ।
सहिताविति तावेव सिमपूर्वं विधीयते । । वजी_१.१६ । ।

शब्दार्थावभिधानाभिधेयौ सहिताववियुक्तावेव सदा सर्वकालं प्रतीतौ स्फुरतः ज्ञाने प्रतिभासेते ।
ततस्तावेव सहिताववियुक्ताविति पुनः किमपूर्वं विधीयते न किञ्चिदपूर्वं निष्पाद्यते, सिद्धं साध्यत इत्यर्थः ।
तदेवं शब्दार्थयोः स्वभावसिद्धं साहित्यं कः सचेताः पुनस्तदभिधानेन निष्प्रयोजनमात्मानमायासयति ? सत्यमेतत्, किन्तु न वाच्यवाचकलक्षणशाश्वतसंबन्धनिबन्धनं वस्तुतः साहितामित्युच्यते ।
यस्मादेतस्मिन्साहितयशब्देनाभिधीयमाने कष्टकल्पनोपरचितानि गाङ्कुटादिवाक्यान्यसंबद्धानि शाकटिकादिवाक्यानि च सर्वाणि साहित्यशब्देनाभिधीयेरन् ।
तेन पदवाक्यप्रमाणव्यतिरिक्तं किमपि तत्त्वान्तरं साहित्यमिति विभागोऽपि न स्याथ् ।
ननु च पदादिव्यतिरिक्तं यत्किमपि साहित्यं नाम तदपि सुप्रसिद्धमेव, पुनस्तदभिधानेऽपि कथं न पौनरुक्त्यप्रसङ्गः ? अत एवैतदुच्यते---यदिदं साहित्यं नाम तदेतावति निःसीमनि समयाध्वनि साहित्यशब्दमात्रेणैव प्रसिद्धं ।
न पुनरेतस्य कविकर्मकौशलकाष्ठाधिरूढरमणी यस्याद्यापि कश्चिदपि विपश्चिदयमस्य परमार्थ इति मनाङ्मात्रमपि विचारपदवीमवतीर्णः ।
तदद्य सरस्वतीहृदयारविन्दमकरन्दबिन्दुसन्दोहसुन्दराणां सत्कविवचसामन्तरामोदमनोहरत्वेन परिस्फुरदेतत्सहृदयषट्चरणगोचरतां नीयते ।

साहित्यमनयोः शोभाशालितां प्रति काप्यसौ ।
अन्यूनानतिरिक्तत्वमनोहारिण्यवस्थितिः । । वजी_१.१७ । ।

सहीतयोर्भावः साहित्यं ।
अनयोः शब्दार्थयोर्या काप्यलौकिकी चेतनचमत्कारकारितायाः कारणं अवस्थितिर्विचित्रैव विन्यासभङ्गी ।
कीदृशी---अन्यूनानतिरिक्तत्वमनोहारिणी, परस्परस्पर्धित्वरमणीया ।
यस्यां द्वयोरेकतरस्यापि न्यूनत्वं निकर्षो न विद्यते नाप्यतिरिक्तत्वमुत्कर्षो वास्तीत्यर्थः ।
ननु च तथाविधं साम्यं द्वयोरुपहतयोरपि संभवतीत्याह---शोभाशालितां प्रति ।
शोभा सौन्दर्यमुच्यते ।
तया शालते श्लाघते यः स शोभाशाली, तस्य भावः शोभाशालिता, तां प्रति सौन्दर्यश्लाघितां प्रतीत्यर्यः ।
सैव च सहृदयाह्लादकारिता ।
तस्यां स्पर्धित्वेन यासाववस्थितिः परस्परसाम्यसुभगमवस्थानं सा साहित्यमुच्यते ।
अत्र च वाचकस्य वाचकान्तरेण वाच्यस्य वाच्यान्तरेण साहित्यमभिप्रेतम्, वाक्ये काव्यलक्षणस्य परिसमाप्तत्वादिति प्रतिपादितमेव ( १ ।
७) ।
ननु च वाचकस्य वाच्यान्तरेण वाच्यस्य वाचकान्तरेण कथं न साहित्यमिति चेत्तन्न, क्रमव्युत्क्रमे प्रयोजनाभावादसमन्वयाच्च ।
तस्मादेतयोः शब्दार्थयोर्यथास्वं यस्यां स्वसम्पत्सामग्रीसमुदयः सहृदयाह्लादकारी परस्परस्पर्धया परिस्फुरति, सा काचिदेव वाक्यविन्याससम्पत्साहित्यव्यपदेशभाग्भवति ।

मार्गानुगुण्यसुभगो माधुर्यादिगुणोदयः ।
अलङ्करणविन्यासो वक्रतातिशयान्वितः । । वजी_१.३४ । ।
वृत्त्यौचित्यमनोहारि रसानां परिपोषणं ।
स्पर्धया विद्यते यत्र यथास्वमुभयोरपि । । वजी_१.३५ । ।
सा काप्यवस्थितिस्तद्विदाह्लादैकनिबन्धनं ।
पदादिवाक्यपरिस्पन्दसारः साहित्यमुच्यते । । वजी_१.३६ । ।

एतेषां च पदवाक्यप्रमाणसाहित्यानां चतुर्णामपि प्रतिवाक्यमुपयोगः ।
तथा चैतत्पदमेवंस्वरूपं गकारौकारविसर्जनीयात्मकमेतस्य चार्थस्य प्रतिपदिकार्थपञ्चकलक्षणस्याख्यातपदार्थषट्कलक्षणस्य वा वाचकमिति पदसंस्कारलक्षणस्य व्यापारः ।
पदानां च परस्परान्वयलक्षणसंबन्धनिबन्धनमेतद्वाक्यार्थतात्पर्यं इति वाक्यविचारलक्षणस्योपयोगः ।
प्रमाणेन प्रत्यक्षादिनैतदुपपन्नमिति युक्तियुक्तत्वं नाम प्रमाणलक्षणस्य प्रयोजनं ।
इदमेव परिस्पन्दमाहात्म्यात्सहृदयहारितां प्रतिपन्नमिति साहित्यस्योपयुज्यमानता ।
एतेषां यद्यपि प्रत्येकं स्वविषये प्राधान्यमन्येषां गुणीभावस्तथापि सकलवाक्य परिस्पन्दजीवितायमानस्यास्य साहित्यलक्षणस्यैव कविव्यापारस्य वस्तुतः सर्वा तिशायित्वं ।
यस्मादेतदमुख्यतयापि यत्र वाक्यसन्दर्भान्तरे स्वपरिमलमात्रेणैव संस्कारमारभवे तस्यैतदधिवासनाशून्य तामात्रेणैव रामणीयकविरहः पर्यवस्यति ।
तस्मादुपादेयतायाः परिहाणिरुत्पद्यते ।
तथा च स्वप्रवृत्तिवैयर्थ्यप्रसङ्गः ।
शास्त्रातिरिक्तप्रयोजनत्वं शास्त्राभिधेयचतुर्वर्गाधिकफलत्वं चास्य पूर्वमेव प्रतिपादितं (१ ।३,५) ।

अपर्यालेचितेऽप्यर्थे बन्धसौन्दर्यसम्पदा ।
गीतवद्धृदयाह्लादं तद्विदां विदधाति यथ् । । वजी_१.३७ । ।
वाच्यावबोधनिष्पत्तौ पदवाक्यार्थजीवितं ।
यत्किमप्यर्पयत्यन्तः पानकास्वादवत्सतां । । वजी_१.३८ । ।
शरीरं जीवितेनेव स्फुरितेनेव जीवितं ।
विना निर्जोवतां येन याति काव्यं विपश्चितां । । वजी_१.३९ । ।
यस्मात्किमपि सौभाग्यं तद्विदामेव सोचरं ।
सरस्वतीसमभ्येति तदितानी विचार्यते । । वजी_१.४० । ।

इत्यन्तरश्लोकाः ।
एवं सहिताविति व्याख्याय कविव्यापारवक्रत्वं व्याचष्टे

कविव्यापारवक्रत्वप्रकाराः संभवन्ति षठ् ।
प्रत्येकं बहवो भेदास्तेषां विच्छित्तिशोभिनः । । वजी_१.१८ । ।

कवीनां व्यापारः कविव्यापारः काव्यक्रियालक्षणस्तस्य वक्रत्वं वक्रभावः प्रसिद्धप्रस्थानव्यतिरेकि वैचित्र्यं तस्य प्रकाराः प्रभेदाः षट्संभवन्ति ।
मुख्यतया तावन्त एव सन्तीत्यर्थः ।
तेषां प्रत्येकं प्रकाराः बहवो भेदविशेषाः ।
कीदृशाः---विच्छित्तिशोभिनः वैचित्र्यभङ्गीभ्राजिष्णवः ।
संभवन्तीति संबन्धः ।
तदेव दर्शयति--

वर्णविन्यासक्रत्वं पदपूर्वार्धवक्रता ।
वक्रतायाः परोऽप्यस्ति प्रकारः प्रत्ययाश्रयः । । वजी_१.१९ । ।

वर्णानां विन्यासो वर्णविन्यसाः लक्षराणां विशिष्टन्यसनं तस्य वक्रत्वं वक्रभावः प्रसिद्धप्रस्थानव्यतिरेकिणा वैचित्र्येणोपनिबन्धः संनिवेशविशेषविहितस्तद्विदाह्लादकारी शब्दशोभातिशयः ।
यथा प्रथममरुणच्छायस्तावत्ततः कनकप्रभ- स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
प्रसरति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छविर्मृगलाञ्छनः । । वजी_१.४१ । ।
अत्र वर्णविन्यासवक्रतामात्रविहितः शब्दशोभातिशयः सुतरां समुन्मीलितः ।
एतदेव वर्णविन्यासवक्रत्वं चिरन्तनेष्वनुप्रास इति प्रसिद्धं ।
अस्य च प्रभेदस्वरूपनिरूपणं स्वलक्षणा वसरे करिष्यते (२ ।१) ।
पदपूर्वार्धवक्रता---पदस्य सुबन्तस्य तिङन्तस्य वा यत्पूर्वार्धं प्रातिपदिकलक्षणं धातुलक्षणं वा तस्य वक्रता वक्रभावो विन्यासवैचित्र्यं ।
तत्र च बहवः प्रकाराः संभवन्ति ।
यत्र रूढिशब्दस्यैव प्रस्तावसमुचितत्वेन वाच्यप्रसिद्धधर्मान्तराध्यारोपगर्भत्वेन निबन्धः स पदपूर्वार्धवक्रतायाः प्रथमः प्रकारः ।
यथा रामोऽस्मि सर्वं सहे । । वजी_१.४२ । ।
द्वितीयः---यत्र संज्ञाशब्दस्य वाच्यप्रसिद्धस्य धर्मस्य लोकोत्तरातिशयाध्यारोपं गर्भोकृत्योपनिबन्धः ।
यथा रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा- मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तं ।
वन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति- श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः । । वजी_१.४३ । ।
अत्र राम-शब्दो लोकोत्तरशौर्यादिधर्मातिशयाध्यारोपपरत्वेनोपात्तो वक्रतां प्रथयति ।
पर्यायवक्रत्वं नाम प्रकारान्तरं पदपूर्वार्धवक्रतायाः---यत्रानेकशब्दाभिधेयत्वे वस्तुनः किमपि पर्यायपदं प्रस्तुतानुगुणत्वेन प्रयुज्यते ।
तथा---

वामं कज्जलवद्विलोचनमुरो रोहद्विसारिस्तनं मध्यं क्षाममकाण्ड एव विपुलाभोगा नितम्बस्थली ।
सद्यः प्रोद्गतविस्मयैरिति गणैरालोक्यमानं मुहुः पायाद्वः प्रथमं वपुः स्मररिपोर्मिश्रीभवत्कान्तया । । वजी_१.४४ । ।

अत्र "स्मररिपोःऽ इति पर्यायः कामपि वक्रतामुन्मीलयति ।
यस्मात्कामशत्रोः कान्तया सह मिश्रीभावः शरीरस्य न कथञ्चिदपि संभाव्यत इति गणानां सद्यः प्रोद्गतविस्मयत्वमुपपन्नं ।
सोऽपि पुनः पुनः परिशीलनेनाश्चर्यकारीति "प्रथमऽ--शब्दस्य जीवितं ।
एतच्च पर्यायवक्रत्वं वाच्यांसभविधर्मान्तरगर्भोकरेणापि परिदृश्यते ।
यथा

अङ्गराज सेनापते राजवल्लभ रक्षैनं भीमाद्दुःशासनं इति । । वजी_१.४५ । ।

अत्र त्रयाणामपि पर्यायाणामसंभाव्यमानतत्परित्राणपात्रत्वलक्षणमकिञ्चित्करत्वं गर्भोकृत्योपहस्यते---रक्षैनमिति ।
पदपूर्वार्धवक्रताया उपचारवक्रत्वं नाम प्रकारान्तरं विद्यते---यत्रामूर्तस्य वस्तुनो मूर्तद्रव्याभिधायिना शब्देनाभिधानमुपचाराथ् ।
यथा---निष्कारणं निकारकणिकापि मनस्विनां मानसमायासयति ।
यथा---हस्तावचेयं यशः इति ।
"कणिकाऽ---शब्दो मूर्तवस्तुस्तोकार्थाभिधायी स्तोकत्वसामान्योपचारादमूर्तस्यापि निकारस्य स्तोकाभिधानपरत्वेन प्रयुक्तस्तद्विदाह्लादकारित्वाद्वक्रतां पुष्णाति ।
"हस्तावचेयम्ऽ इति मूर्तपुष्पादिवस्तुसभविसंहतत्वसामान्योपचारादमूर्तस्यापि यशसो हस्तावचेयमित्यभिधानं वक्रत्वमावहति ।
द्रवरूपस्य वस्तुनो वाचकशब्दस्तरङ्गितत्वादिधर्मनिबन्धनः किमपि सादृश्यमात्रमवलम्ब्य संहतस्यापि वाचकत्वेन प्रयुज्यमानः कविप्रवाहे प्रसिद्धः ।
यथा

श्वासोत्कम्पतरङ्गिणि स्तनतटे इति । । वजी_१. ४६ । ।

क्वचिदमूर्तस्यापि द्रवरूपार्थाभिधायी वाचकत्वेन प्रयुज्यते ।
यथा

एकां कामपि कालविप्रुषममी शौर्योष्मकण्डूव्यय- व्यग्राः स्युश्चिरविस्मृतामरचमूडिम्बाहवा बाहवः । । वजी_१.४७ । ।

एतयोस्तरङ्गिणीति विप्रुषमिति च कामपि वक्रतामावहतः ।
विशेषणवक्रत्वं नाम पदपूर्वार्धवक्रतायाः प्रकारो संभवति---यत्र विशेषणमाहात्म्यादेव तद्विदाह्लादकारित्वलक्षणं वक्रत्वमभिव्यज्यते ।
यथा---

दाहोऽम्भः प्रसृतिंपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेङ्खितदीप्रदीपलतिकाः पाण्डिम्नि मग्नं वपुः ।
किञ्चान्यत्कथयामि रात्रिमखिलां त्वद्वर्त्म वातायने हस्तच्छत्त्रविरुद्वचन्द्रमहसस्तस्याः स्थितिर्वर्तते । । वजी_१.४८ । ।

अत्र दाहो बाष्पः श्वासा वपुरिति न किञ्चिद्वैचित्र्यमुन्मीलितं ।
प्रत्येकं च विशेषणमाहात्म्यात्काचिदेव वक्रताप्रतीतिः ।
यथा च

व्रीडायोगान्नतवदनया संनिधाने गुरूणां बद्धोत्कम्पस्तनकलशया मन्युमनतर्नियम्य ।
तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः । । वजी_१. ४९ । ।

अत्र चकितहरिणीहारीति क्रियाविशेषणं नेत्रत्रिभागासङ्गस्य गुरुसंनिधानविहिताप्रगल्भत्वरमणीयस्य कामपि काम नीयतामावहति चकितहरिणीहारिविलोकन साम्येन ।
अयमपरः पदपूर्वार्धवक्रतायाः प्रकारो यदिदं संवृतिवक्रत्वं नाम---यत्र पदार्थस्वरूपं प्रस्तावानुगुण्येन केनापि निकर्षेणोत्कर्षेण वा युक्तं व्यक्ततया साक्षादभिधातुमशक्यं संवृतिसामर्थ्योपयोगिना शब्देनाभिधीयते ।
यथा

सोऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः । । वजी_१.५० । ।

अत्र वत्सराजे वासवदत्ताविपत्तिविधुरहृदयस्तत्प्राप्निप्रलोभनवशेन पद्मावतीं परिणेतुमीहमानस्तदेवाकरणीयमित्यवगच्छन्तस्य वस्तुनो महापताकस्येवाकीर्तनीयतां ख्यापयति किमपीत्यनेन संवरणसमर्थेन सर्वनामपदेन ।
यथा च

निद्रानिमीलतदृशो मदमन्थराया नाप्यर्थवन्ति न च यानि निर्थकानि ।
अद्यापि मे वरतनोर्मधुराणि तस्या- स्तान्यक्षराणि हृदये किमपि ध्वनन्ति । । वजी_१.५१ । ।

अत्र किमपीति तदाकर्णनविहितायाश्चित्तचमत्कृतेरनुभवैकगोचरत्वलक्षणमव्यपदेश्यत्वं प्रतिपाद्यते ।
तानीति तथाविधानुभवविशिष्टतया स्मर्यमाणानि ।
नाप्यर्थवन्तीति स्वसंवेद्यत्वेन व्यपदेशाविषयत्वं प्रकाश्यते ।
तेषां च न च यानि निरर्थकानीत्यलौकिकचमत्कारकारित्वादपार्थकत्वं निवार्यते ।
त्रिष्वप्येतेषु विशेषणवक्रत्वं प्रतीयते ।
इदमपरं पदपूर्वार्धवक्रतायाः प्रकारान्तरं संभवति वृत्तिवैचित्र्यवक्रत्वं नाम---यत्र समासादिवृत्तीनां कासांचिद्विचित्राणामेव कविभिः परिग्रहः क्रियते ।
यथा

मध्येऽङ्कुरं पल्लवाः । । वजी_१.५२ । ।

यथा च

पाण्डिम्नि मग्नं वपुः । । वजी_१.५३ । ।

यथा वा सुधाविसरनिष्यन्दसमुल्लासविधायिनि ।
हिमधामनि खण्डेऽपि न जनो नोन्मनायते । । वजी_१.५४ । ।

अपरं लिङ्गवैचित्र्यवक्रत्वं नाम पदपूर्वार्धवक्रतायाः प्रकारान्तरं दृश्यते---यत्र भिन्नलिङ्गानामपि शब्दानां वैचित्र्याय सामानाधिकरण्योपनिबन्धः ।
यथा

इत्थं जडे जगति को नु बृहत्प्रमाणकर्णः करी ननु भवेद्ध्वनितस्य पात्रं । । वजी_१.५५ । ।

यथा च

मैथिली तस्य दाराः । । वजी_१.५६ । ।
इति

अन्यदपि लिङ्गवैचित्र्यवक्रत्वम्---यत्रानेकलिङ्गसंभवेऽपि सौकुमार्यात्कविभिः स्त्रीलिङ्गमेव प्रयुज्यते, "नामैव स्त्रीति पेशलम्ऽ (२ ।
२२) इति कृत्वा ।
यथा

एतां पश्य पुरस्तटीं इति । । वजी_१.५७ । ।

पदपूर्वार्धस्य धातौः क्रियावैचित्र्यवक्रत्वं नाम वक्रता प्रकारान्तरं विद्यते---यत्र क्रियावैचित्र्यप्रतिपादनपरत्वेन वैदग्ध्यभङ्गीभणितिरमणीयान्प्रयोगान्निबध्नन्ति कवयः ।
तत्र क्रियावैचित्र्यं बहुविधं विच्छत्तिविततव्यवहारं दृश्यते ।
यथा

रैकेलिहिअणिअंसणकरकिसलारुद्धणाणजुअलस्य ।
रुद्दस्स तैअणाणं पव्वैपरिचुम्बिअं जाइ । । वजी_१.५८ । ।

रतिकेलिहृतनिवसनकरिकिसलयरुद्धनयनयुगलस्य ।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति । ।
इति छाया । ।

अत्र समानेऽपि हि स्थगनप्रयोजने साध्ये सामान्ये च लोचनत्वे, देव्याः परिचुम्बनेन यस्य निरोधः संपाद्यते तद्भगवतस्तृतीयनयनं जयति सर्वोत्कर्षेण वर्तत इति वाक्यार्थः ।
अत्र जयतीति क्रियापदस्य किमपि सहृदयहृदयसंवेद्यं वैचित्र्यं परिस्फुरदेव लक्ष्यते ।
यथा च

स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः ।
त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः । । वजी_१.५९ । ।

अत्र नखानां सकललोकप्रसिद्धच्छेदनव्यापारव्यतिरेकि किमप्यपूर्वमेव प्रपन्नार्तिच्छेदनलक्षणं क्रियावैचित्र्यमुपनिबद्धं ।
यथा च

स दहतु दुरितं शाम्भवो वः शराग्निः । । वजी_१.६० । ।

अत्र च पूर्ववदेव क्रियावैचित्र्यप्रतीतिः ।
यथा च

कण्णुप्पलदलमिलिअलोअणेहिं हेलालोलणमाणिअणाणेहिं ।
लीलै लीलावरिहि णिरुद्धॉ सिढिलिअचॉ जाइ मारद्धओ । । वजी_१.६१ । ।

कर्णोत्पलदलमिलितलोचनैर्हेलालोलनमानितनयनाभिः ।
लीलया लीलावतीभिर्निरुद्धः शिथिलीकृतचापो जयति मकरध्वजः । ।

अत्र लोचनैर्लोलया लीलावतीभिर्निरुद्धः स्वव्यापारपराङ्मुखीकृतः सन्शिथिलीकृतचापः कन्दर्पो जयति सर्वोत्कर्षेण वर्तत इति किमुच्यते, यतस्तास्तथाविधविजयावाप्तौ सत्यां जयन्तीति वक्तव्यं ।
तदयमत्राभिप्रायः---यदेलल्लो चनविलासानामेवंविधं जैत्रताप्रौढिभावं पर्यालोच्य चेतनत्वेन स स्वचापाधिरोप णायासमुपसंहृतवान् ।
यतस्तेनैव त्रिभुवनविजयावाप्तिः परिसमाप्यते ।
ममेति मन्यमानस्य तस्य सहायत्वोत्कर्षातिशयो जयतीति क्रियापदेन कर्तृतायाः कारणत्वेन कवेश्चेतसि परिस्फुरितः ।
तेन किमपि क्रियावैचित्र्यमत्र तद्विदाह्लादकारि प्रतीयते ।
यथा च

तान्यक्षराणि हृदये किमपि ध्वनन्ति । । वजी_१.६२ । ।

अत्र जल्पन्ति वदन्तीत्यादि न प्रयुक्तम्, यस्मात्तानि कयापि विच्छित्त्या किमप्यनाख्येयं समर्पयन्तीति कवेरभिप्रेतं ।
वक्रतायाः परोऽप्यस्ति प्रकारः प्रत्ययाश्रयः इति ।
वक्रभावस्यान्योऽपि प्रभेदो विद्यते ।
कीदृशः---प्रत्ययाश्रयः ।
प्रत्ययः सुप्तिङ्च यस्याश्रयः स्थानं स तथोक्तः ।
तस्यापि बहवः प्रकाराः संभवन्ति---संख्यावैचित्र्यविहितः, कारकवैचित्र्यविहितः, पुरुषवैचिर्त्यविहितश्च ।
तत्र संख्यावैचित्र्यविहितः---यस्मिन्वचनवैचित्र्यं काव्यशोभोपनिबन्धनाय निबध्नन्ति ।
यथा वा

मैथिली तस्य दाराः । । वजी_१.६३ । ।
इति

यथा वा फुल्लेन्दीवरकाननानि नयने पाणी सरोजाकराः । । वजी_१.६४ । ।

अत्र द्विवचनबहुवचनयोः सामानाधिकरण्यमतीव चमत्कारकारि ।
कारकवैचित्र्यविहितः---यत्राचेतनस्यापि पदार्थस्य चेतनत्वाध्यारोपेण चेतनस्यैव क्रियासमावेशलक्षणं रसादिपरिपोषणार्थं कर्तृत्वादिकारकत्वं निबध्यते ।
यथा

स्तनद्वन्द्वं मन्दं स्नपयति बलाद्वाष्पनिवहो हठादन्तः कण्ठं लुठति सरसः पञ्चमरवः ।
शरज्ज्योत्स्नापाण्डुः पतति च कपोलः करतले न जानीमस्तस्या क इव हि विकारव्यतिकरः । । वजी_१.६५ । ।

त्र५ । ।
अत्र बाष्पनिवहादीनामचेतवानामपि चेतनत्वाध्यारोपेण कविना कर्तृत्वमुपनिबद्धम्---यत्तस्या विवशायाः सत्यास्तेषामेवंविधो व्यवहारः, सा पुनः स्वयं न किञ्चिदप्याचरितुं समर्थेत्यभिप्रायः ।
अन्यच्च कपोलादीनां तदवयवानामेतदवस्थत्वं प्रत्यक्षतयास्मदादिगोचरतामापद्यते, तस्याः पुनर्योऽसावन्तर्विकारव्यतिकरस्तं तदनुभवैकविषयत्वाद्वयं न जनीमः ।
यथा च

चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः बाणव्यस्तः सदनमुदधिर्भूरियं हन्तकारः ।
अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः । । वजी_१.६६ । ।

अत्र चन्द्रहासो लज्जत इति पूर्ववत्कारकवैचित्र्यप्रतीतिः ।
पुरुषवैचित्र्यविहितं वक्रत्वं विद्यते---यत्र प्रत्यक्तापरभावविपर्यासं प्रयुञ्जते कवयः, काव्यवैचित्र्यार्थं युष्मद्यस्मदि वा प्रयोक्तव्ये प्रातिपदिकमात्रं निबध्नन्ति ।
यथा

अस्मद्भागयविपर्ययाद्यदि परं देवो न जानाति तं । । वजी_१.६७ । ।

अत्र त्वं न जानासीति वक्तव्ये वैचित्र्याय देवो न जानातीत्युक्तं ।
एवं युष्मदादिवपर्यासः क्रियापदं विना प्रातिपदिकमात्रेऽपि दृश्यते ।
यथा

अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि । । वजी_१.६८ । ।

अत्राहं प्रष्टुकाम इति वक्तव्ये ताटस्थ्यप्रतीत्यर्थमयं जन इत्युक्तं ।
यथा वा ।

सोऽय दम्भधृव्रतः इति । । वजी_१.६९ । ।

अत्र सोऽहमिति वक्तव्ये पूर्ववद्"अयम्ऽ इति वैचित्र्यप्रतीतिः ।
एते च मुख्यतया वक्रताप्रकाराः कतिचिन्नदर्शनार्थं प्रदर्शिताः ।
शिष्टाश्च सहस्त्रशः संभवन्तीति महाकविप्रवाहे सहृदयैः स्वयमेवोत्प्रेक्षणीयाः ।
एवं वाक्यावयवानां पदानां प्रत्येकं वर्णाद्यवयवद्वारेण यथासंभव वक्रभावं व्याख्यायेदानीं पदसमूहभूतस्य वाक्यस्य वक्रता व्याख्यायते---

वाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्त्रधा ।
यत्रालङ्कारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति । । वजी_१.२० । ।

वाक्यस्य वक्रभावोऽन्यः ।
वाक्यस्य पदसमूहभूतस्य ।
आख्यातं साव्ययकारकविशेषणं वाक्यमिति यस्य प्रतीतिस्तस्य श्लोकादेर्वक्रभावो भङ्गीभणितिवैचित्र्यं अन्यः पूर्वोक्तवक्रताव्यतिरेकी समुदायवैचित्र्यनिबन्धनः कोऽपि संभवति ।
यथा

उपस्थितां पूर्वमपास्य लक्ष्मीं वनं मया सार्धमसि प्रपन्नः ।
त्वमाश्रयं प्राप्य तया नु कोपा- त्सोढास्मि न त्वद्भवने वसन्ती । । वजी_१.७० । ।

एतत्सीतया तथाविधकरुणाक्रान्तान्तः करणया वल्लभं प्रति संदिश्यते ---यदुपस्थितां सेवासमापन्नां लक्ष्मीमपास्य श्रियं परित्यज्य पूर्वं यस्त्वं मया सार्धं प्रपन्नो विपिनं प्राप्तस्तस्य तव स्वप्नेऽप्येतन्न सभाव्यते ।
तया पुनस्तस्मादेव कोपात्स्त्रीस्वभावसमुचितसपत्नीविद्वेषात्त्वद्गृहे वसन्ती न सोढास्मि ।
तदिदमुक्तं भवति--- यत्तस्मिन्विधुरदशाविसंष्ठुलेऽपि समये तथाविधप्रसादास्पदता ।
मध्यारोप्य यदिदानीं साम्राज्ये निष्कारणपरित्यागतिरस्कारपात्रता ।
नीतास्मीत्येतदुचितमनुचितं वा विदितव्यवहारपरंपरेण भवतस्वयमेव विचार्यतामिति ।
स च वक्रभावस्तथाविधो यः सहस्त्रधा भिद्यते बहुप्रकारं भेदमासादयति ।
सहस्त्र-शब्दोऽत्र संख्याभूयस्त्वमात्रवाची, न नियतार्थवृत्तिः, यथा---सहस्त्रमवध्यमिति ।
यस्मात्कविप्रतिभानामानन्त्यान्नियतत्वं न संभवति ।
योऽसौ वाक्यस्य वक्रभावो बहुप्रकारः, न जानीमः कीदृश इत्याह---यत्रालङ्कारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति ।
यत्र यस्मिन्नसावलङ्कारवर्गः कविप्रवाहप्रसिद्धप्रतीतिरुपमादिरलङ्करणकलापः सर्वः सकलोऽप्यन्तर्भविष्यति अन्तर्भावं गमिष्यति पृथकत्वेन नावस्थाप्यते ।
तत्प्रकारभेदत्वेनैव व्यपदेशमासादयिष्यतीत्यर्थः ।
स चालङ्कारवर्गः स्वलक्षणावसरे प्रतिपदमुदाहरिष्यते । ।
एवं वाक्यवक्रतां व्याख्याय वाक्यसमूहरूपस्य प्रकरणस्य तत्समुदायात्मकस्य च प्रबन्धस्य वक्रता व्याख्यायते---

वक्रभावः प्रकरणे प्रबन्धेऽप्यस्ति यादृशः ।
उच्यते सहजाहार्यसौकुमार्यमनोहर) । । वजी_१.२१ । ।

वक्रभावो विन्यासवैचित्र्यं प्रबन्धैकदेशभूते प्रकरणे यादृशोऽस्ति यादृग्विद्यते प्रबन्धे वा नाटकादौ सोऽप्युच्यते कथ्यते ।
कीदृशः---सहजाहार्यसौकुमार्यमनोहरः ।
सहजंस्वाभाविकमाहार्यं व्युत्पत्त्युपार्जितं यत्सौकुमार्यं रामणीयकं तेन मनोहरो हृदयहारी यः स तथोक्तः ।
तत्र प्रकरणे वक्रभावो यथा---रामायणे मारीचमायामयमाणिक्यमृगानुसारिणो रामस्य करुणाक्रन्दाकर्णनकातरन्तः- करणया जनकराजपुत्र्या व्तत्प्राणपरित्राणाय स्वजीवितपरिरक्षानिरपेक्षया लक्ष्मणो निर्भर्त्स्य प्रेषितः ।
तदेतदत्यन्तमनौचित्ययुक्तम्, यस्मादनुचरसंनिधाने प्रधानस्य तथाविधव्यापारकरणमसंभावनीयं ।
तस्य च सर्वातिशायिचरित युक्तत्वेन वर्ण्यमानस्य तेन कनीयसा प्राणकरित्राणसंभावनेत्येदत्यन्तमसमीचीनमिति पर्यालोच्य उदात्तराघवे कविना वैदग्ध्यवशेन मारीचमृगमारणाय प्रयातस्य परित्राणार्थं लक्ष्मणस्य सीतया कातरत्वेनरामः प्रेरितः इत्युपनिबद्धं ।
अत्र च तद्विदाह्लादकारित्वमेव वक्रत्वं ।
यथा वा किरातार्जुनीये किरातपुरुषोक्तिषु वाच्यत्वेन स्वमार्गणमार्गणमात्रमेवोपक्रान्तं ।
वस्तुतः पुनरर्जुनेन सह तात्पर्यार्थपर्यालोचनया विग्रहो वाक्यार्थतामुपनीतः ।
तथा च तत्रैवोच्यते---

प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितं ।
तथाभियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यमिवावभासते । । वजी_१.७१ । ।

प्रबन्धे वक्रभावो यथा---कुत्रचिन्महाकविविरचिते रामकथोपनिबन्धे नाटकादौ पञ्चविधवक्रतासामग्रीसमुदयसुन्दरं सहृदयहृदयहारि महापुरुषवर्णनमुपक्रमे प्रतिभासते ।
परमार्थतस्तु विधिनिषेधात्मकधर्मोपदेशः पर्यवस्यति, रामवद्वर्तिव्यं न रावणवदिति ।
यथा च तापसवत्सराजे कुसुमसुकुमारचेतसः सरसविनोदैकरसिकस्य नायकस्य चरितवर्णनमुपक्रान्तं ।
वस्तुतस्तु व्यसनार्णवे निमज्जन्निजो राजा तथाविधनयव्यवहारनिपुणैरमात्यैस्तैस्तैरुपायैरुत्तारणीय इत्युपदिष्टं ।
एतच्च स्वलक्षणव्याख्यानावसरे व्यक्तिमाया स्यति ।
एवं कविव्यापारवक्रताषट्कमुद्देशमात्रेण व्याख्यातं ।
विस्तुरेण तु स्वलक्षणावसरे व्याख्यास्यते ।
क्रमप्राप्तत्वेन बन्धोऽधुना व्याख्यास्यते---

वाच्यवाचकसौभाग्यलावण्यपरिपोषकः ।
व्यापारशाली वाक्यस्य विन्यासो बन्ध उच्यते । । वजी_१.२२ । ।

विन्यासो विशिष्टं न्यसनं यः सन्निवेशः स एव व्यापारशाली बन्ध उच्यते ।
व्यापारोऽत्र प्रस्तुतत्वात्काव्य क्रियालक्षणः ।
तेन शालते श्लाघते यः स तथोक्तः ।
कस्य---वाक्यस्य श्लोकादेः ।
कीदृशः---वाच्यवाचकसौभाग्यलावण्यपरिपोषकः ।
वाच्यवाचकयोर्द्वयोरपि वाच्यस्याभिधेयस्य वाचकस्य च शब्दस्य वक्ष्यमाणं सौभाग्यलावण्यलक्षणं यद्गुणद्वयं तस्य परिपोषकः पुष्टतातिशयकारी ।
सौभाग्यं प्रतिभासंरम्भफलभूतं चेतनचमत्कारित्वलक्षणम्, लावण्यं संनिवेशसौन्दर्यम्, तयोः परिपोषकः ।
यथा

दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया प्रोत्तुङ्गस्तनमंसचुम्बिचिबुकं कृत्वा तया मां प्रति ।
प्रान्तप्रोतनवेन्द्रनीलमणिमन्मुक्तावलीविभ्रमाः सासूयं प्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः । । वजी_१.७२ । ।

अत्र समग्रकविकौशलसंपाद्यस्य चेतनचमत्कारित्वलक्षणस्य सौभाग्यस्य कियन्मात्रवर्णविन्यासविच्छित्तिविहितस्य पदसंधानसम्पदुपार्जितस्य च लावण्यस्य परः परिपोषो विद्यते ।
एवं च स्वरूपमभिधाय तद्विदाह्लादकारित्वमभिधत्ते---

वाच्यवाचकवक्रोक्तित्रितयातिशयोत्तरं ।
तद्विदाह्लादकारित्वं किमप्यामोदसुन्दरं । । वजी_१.२३ । ।

तद्विदाह्लादकारित्वं काव्यविदानन्दविधायित्वं ।
कीदृशम्--- वाच्यवाचकवक्रोक्तित्रितयातिशयोत्तरं ।
वाच्यमभिधेयं वाचकः शब्दो वक्रोक्तिरलङ्करणम्, एतस्य त्रितयस्य योऽतिशयः कोऽप्युत्कर्षस्तस्मादुत्तरमतिरिक्तं ।
स्वरूपेणातिशयेन च स्वरूपेणान्यत्किमपि तत्त्वान्तरमेतदतिशयेनैतस्मात्त्रितयादपि लोकोत्तरमित्यर्थः ।
अन्यच्च कीदृशम्---किमप्यामोदसुन्दरं ।
किमप्यव्यपदेश्यं सहृदयहृदयसंवेद्यं आमोदः सुकुमारवस्तुधर्मो रञ्जकत्वं नाम, तेन सुन्दरं रञ्जकत्वरमणीयं ।
यथा

हंसानां निनदेषु यैः कवलितैरासज्यते कूजता- मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः ।
ते संप्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः । । वजी_१.७३ । ।

अत्र त्रितयेऽपि वाच्यवाचकवक्रोक्तिलक्षणे प्राधान्येन न कश्चिदपि कवेः संरम्भो विभाव्यते ।
किन्तु प्रतिभावैचित्र्यवशेन किमपि तद्विदाह्लादकारित्वमुन्मीलितं ।
यद्यपि सर्वेषामुदाहरणानामविकलकाव्यलक्षणपरिसमाप्तिः संभवति तथापि यत्प्राधान्येनाभिधीयते स एवांशः प्रत्येकमुद्रिक्ततया तेषां परिस्फुरतीति सहृदयैः स्वयमेवोत्प्रेक्षणीयं ।
एवं काव्यसामान्यलक्षणमभिधाय तद्विशेषलक्षणविषयप्रदर्शनार्थं मार्गभेदनिबन्धनं त्रैविध्यमभिधत्ते---

सन्ति तत्र त्रयो मार्गाः कविप्रस्थानहेतवः ।
सुकुमारो विचित्रश्च मध्यमश्चोभयात्मकः । । वजी_१.२४ । ।

तत्र तस्मिन्काव्ये मार्गाः पन्थनस्त्रयः सन्ति संभवन्ति ।
न द्वौ न चत्वारः स्वरादिसंख्यावत्तावतामेव वस्तुतस्तज्ज्ञैरुपलम्भाथ् ।
ते च कीदृशाः---कविप्रस्थानहेतवः ।
कवीनां प्रस्थानं वर्तनं तस्य हेतवः, काव्यकरणस्य कारणभूताः ।
किमभिधानाः--- सुकुमारो विचित्रश्च मध्यमश्चेति ।
कीदृशो मध्यमः---उभयात्मकः ।
उभयमनन्तरोक्तं मार्गद्वयमात्मा यस्येति विगृह्य छायाद्वयोपजीवीत्युक्तं भवति ।
तेषां च स्वलक्षणावसरे स्वरूपमाख्यास्यते ।
अत्र बहुविधा विप्रतिपत्तयः संभवन्ति ।
यस्माच्चिरन्तनैर्विदर्भादिदेशविशेषसमाश्रयणेन वैदर्भोप्रभृतयो रीतयस्तिस्त्रः समाम्नाताः ।
तासां चोत्तमाधममध्यमत्वेन त्रैविध्यं ।
अन्यैश्च वैदर्भगौडीयलक्षणं मार्गद्वितयमाख्यातं ।
एतच्चोभयमप्ययुक्तियुक्तं ।
यस्माद्देशभेदनिबन्धनत्वे रीतिभेदानां देशानामानन्त्यादसंख्यात्वं प्रसज्यते ।
न च विशिष्टरीतियुक्तत्वेन काव्यकरणं मातुलेयभगिनीविवाहवद्देशधर्मतया व्यवस्थापयितुं शक्यं ।
देशधर्मो हि वृद्धव्यवहारपरंपरामात्रशरणः शक्यानुष्ठानतां नातिवर्तते ।
तथाविधकाव्यकरणं पुनः शक्त्यादिकरणकलापसाकल्यमपेक्ष्यमाणं न शक्यते यथाकथञ्चिदनुष्ठातुं ।
न च दाक्षिणात्यगीतविषयसुस्वरत्वादि ध्वनिरामणीयकवत्तस्य स्वाभाविकं किञ्चिद्वक्तुं पार्यते ।
तस्मिन्सति तथाविधकाव्यकरणं सर्वस्य स्याथ् ।
किञ्च शक्तौ विद्यमानायामपि व्युत्पत्त्यादिराहार्यकारणसम्पत्प्रतिनियतदेशविषयतया न व्यतिष्ठते, नियमनिबन्धनाभावात्तत्रादर्शनादन्यत्र च दर्शनाथ् ।
न च रीतीनामुत्तममध्यमाधमत्वभेदेन त्रैविध्यं व्यवस्थापयितुं न्याय्यं ।
यस्मात्सहृदयहृदया ह्लादकारिकाव्यलक्षणप्रस्तावे वैदर्भोसदृशसौन्दर्यासंभवान्मध्यमाधमयोरुपदेशवैयर्थ्यमायाति ।
परिहार्यत्वेनाप्युपदेशो न युक्ततामालम्बते, तैरेवानभ्युपगतत्वाथ् ।
न चागतिकगतिन्यायेन यथाशक्ति दरिद्रदानवत्काव्यं करणीयता मर्हति ।
तदेवं निर्वचनसमाख्यामात्रकरणकारणत्वे देशविशेषाश्रयणस्य वयं न विवदामहे ।
मार्गद्वितयवादिनामप्येतान्येव दूषणान् ।
तिदलमनेन निःसारवस्तुपरिमलनव्यसनेन ।
कविस्वभावभेदनिबन्धनत्वेन काव्यप्रस्थानभेदः समञ्जसतां गाहते ।
सुकुमारस्वभावस्य हि कवेस्तथाविधैव सहजा शक्तिः समुद्भवति, शक्तिशक्तिमतोरभेदाथ् ।
तया च तथाविधसौकुमार्यरमणीयां व्युत्पत्तिमाबध्नाति ।
ताभ्यां च सुकुमारवर्त्मनाभ्यासतत्परः क्रियते ।
तथैवै तस्माद्विचित्रः स्वभावो यस्य कवेस्तद्विदाह्लादकारिकाव्यलक्षणप्रस्ता वात्सौकुमार्यव्यतिरेकिणा वैचित्र्येण रमणीय एव, तस्य काचिद्विचित्रैव तदनुरूपा शक्तिः समुल्लसति ।
तया च तथाविधवैदग्ध्यबन्धुरां व्युत्पत्तिमाबध्नाति ।
ताभ्यां च वैचित्र्यवासनाधिवासितमानसो विचित्रवर्त्मनाभ्यासभाग्भवति ।
एवमेतदुभयकविनिबन्धनसंवलितस्वभावस्य कवेस्तदुचितैव शबलशोभातिशयशालिनी शक्तिः समुदेति ।
तया च तदुभयपरिस्पन्दसुन्दरं व्युत्पत्त्युपार्जनमाचरति ।
ततस्तच्छायाद्वितयपरिपोषपेशलाभ्यासपरवशः संपद्यते ।
तदेवमेते कवयः काव्य करणकलापकाष्ठाधिरूढिरमणीयं किमपि काव्यमारभन्ते, सुकुमारं विचित्रमुभयात्मकं च ।
त एव तत्प्रवर्तननिमित्तभूता मार्गा इत्युच्यन्ते ।
यद्यपि कविस्वभावभेदनिबन्धनत्वादनन्तभेदभिन्नत्वमनिवार्यं, तथापि परिसंख्यातुमशक्यत्वात्सामान्येन त्रैविध्यमेवोपपद्यते ।
तथा च रमणीयकाव्यपरिग्रहप्रस्तावे स्वभावसुकुमारस्तावदेको राशिः, तद्व्यतिरिक्तस्यारमणीयस्यानुपादेयत्वाथ् ।
तद्व्यतिरेकी रामणीयकविशिष्टो विचित्र इत्युच्यते ।
तदेतयोर्द्वयोरपि रमणीयत्वादेतदीयच्छायाद्वितयोपजीविनोऽस्य रमणीयत्वमेव न्यायोपपन्नं पर्यवस्यति ।
तस्मादेतेषां प्रत्येकमस्खलितस्वपरिस्पन्दमहिम्ना तद्विदाह्लादकारित्वपरिसमाप्तेर्न कस्यचिन्न्यूनता ।
ननु च शक्त्योरान्तरतम्यात्स्वाभाविकत्वं वक्तुं युज्यते, व्युत्पत्त्यभ्यासयोः पुनराहार्ययोः कथमेतद्घटते ? नैष दोषः, यस्मादास्तां तावत्काव्यकरणम्, विषयान्तरेऽपि सर्वस्य कस्यचिदनादिवासनाभ्यासाधिवासितचेतसः स्वभावानुसारिणावेव व्युत्पत्त्यभ्यासौ प्रवर्तते ।
तौ च स्वभावाभिव्यञ्जनेनैव साफल्यं भजतः ।
स्वभावस्य तयोश्च परस्परमुपकार्योपकारकभावेनावस्थानात्स्वभावस्तावदारभते, तौ च तत्परिपोषमातनुतः ।
तथा चाचेतनानामपि पदार्थानां स्वभावः स्वभावसंवादिभावान्तरसंनिधानमाहात्म्यादभिव्यक्तिमासादयति, यथा चन्द्रकान्तमणयश्चन्द्रमसः किरणपरा मर्शवशेन स्पन्दमानसहजरसप्रसराः संपद्यन्ते ।
तदेवं मार्गानुद्दिश्य तानेव क्रमेण लक्षयति---

अम्लानप्रतिभोद्भिन्ननवशब्दार्थसुन्दरः ।
अयत्नविहितस्वल्पमनोहारिविभूषणः । । वजी_१.२५ । ।
भावस्वभावप्राधान्यन्यक्कृताहार्यकौशलः ।
रसादिपरमार्थज्ञमनः संवादसुन्दरः । । वजी_१.२६ । ।
अविभावितसंस्थानरामणीयकरञ्जकः ।
विधिवैदग्ध्यनिष्पन्ननिर्माणातिशयोपमः । । वजी_१.२७ । ।
यद्किञ्चनापि वैचित्र्यं तत्सर्वं प्रतिभोद्भवं ।
सौकुमार्यपरिस्पन्दस्यन्दि यत्र विराजते । । वजी_१.२८ । ।
सुकुमाराभिधः सोऽयं येन सत्कवयो गताः ।
मार्गेणोत्फुल्लकुसुमकाननेनेव षट्पदाः । । वजी_१.२९ । ।

सुकुमाराभिधः सोऽयम्, सोऽयं पूर्वोफलक्षणः सुकुमारशब्दाभिधानः ।
येन मार्गेण सत्कवयः कालिदासप्रभृतयो गताः प्रियाताः, तदाश्रयेण काव्यानि कृतवन्तः ।
कथम्---उत्फुल्लकुसुमकाननैव षट्पदाः ।
उत्फुल्लानि विकसितानि कुसुमानि पुष्पाणि यस्मिन्कानने वने तेन षट्पदा इव भ्रमरा यथा ।
विकसितकुसुमकाननसाम्येन तस्य कुसुमसौकुमार्य सदृशमाभैजात्यं द्योत्यते ।
तेषां च भ्रमरसादृश्येन कुसुममकरन्दकल्पसारसंग्रहव्यसनिता ।
स च कीदृशः---यत्र यस्मिन्किञ्चनापि कियन्मात्रमपि वैचित्र्यं विचित्रभावो वक्रोक्तियुक्तत्वं ।
तत्सर्वमलङ्कारादि प्रतिभोद्भवं कविशक्तिसमुल्लसितमेव, न पुनराहार्यं यथाकथञ्चित्प्रयत्नेन निष्पाद्यं ।
कीदृशम्---सौकुमार्यपरिस्पन्दस्यन्दि ।
सौकुमार्यमाभिजात्यं तस्य परिस्पन्दस्तद्विदाह्लादकारित्वलक्षणं रामणीयकं तेन स्यन्दते रसमयं संपद्यते यत्तथोक्तं ।
यत्र विराजते शोभातिशयं पुष्णातीति संबन्धः ।
यथा

प्रवृद्धतापो दिवसोऽतिमात्र- मत्यर्थमेव क्षणदा च तन्वी ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्तां । । वजी_१.७४ । ।
अत्र श्लेषच्छायाच्छुरितं कविशक्तिमात्रसमुल्लसितमलङ्करणमनाहार्यं कामपि कमनीयतां पुष्णाति ।
तथा च "प्रवृद्धतापःऽ तन्वीऽ इति वाचकौ सुन्दरस्वभावमात्रसमर्पणपरत्वेन वर्तमानावर्थान्तरप्रतीत्यनुरोधपरत्वेन प्रवृत्तिं न संमन्येते, कविव्यक्तकौशलसमुल्लसितस्य पुनः प्रकारान्तिरस्य प्रतीतावानुगुण्यमात्रेण तद्विदाह्लादकारितां प्रतिपद्येते ।
किं तत्प्रकारान्तरं नाम ?---विरोधविभिन्नयोः शब्दयोरर्थान्तरप्रतीतिकारिणोरुपनिबन्धः ।
तथा चोपमेययोः सहानवस्थानलक्षणो विरोधः, स्वभावभेदलक्षणं च विभिन्नत्वं ।
उपमानयोः पुनरीर्ष्याकलहलक्षणो विरोधः, कोपात्पृथगवस्थानलक्षणं विभिन्नत्वं ।
"अतिमात्रम्ऽ "अत्यर्थंऽ चेति विशेषणद्वितयं पक्षद्वयेऽपि सातिशयताप्रतीतिकारित्वेनातितरां रमणीयं ।
श्लेषच्छाया क्लेश संपाद्याप्ययत्नघटितत्वेनात्र मनोहारिणी ।
पुनश्च कीदृशः---अम्लानप्रतिभोद्भिन्ननवशब्दार्थबन्धुरः ।
अम्लाना यासावदोषोपहता प्राक्तनाद्यतनसंस्कारपरिपाकप्रौढा प्रतिभा काचिदेव कविशक्तिः, तत उद्भिन्नौ नतनाङ्कुरन्यायेन स्वयमेव समुल्लसितौ, न पुनः कदर्थनाकृष्टौ नवौ प्रत्यग्रौ तद्विदाह्लादकारित्वसामर्थ्ययुक्तौ शब्दार्थावभिधानाभिधेयौ ताभ्यां बन्धुरो हृदयहारी ।
अन्यच्च कीदृशः---अयत्नविहितस्वल्पमनोहारिविभूषणः ।
अयत्नेनाक्लेशेन विहितं कृतं यत्स्वल्पं मनाङ्मात्रं मनोहारि हृदयाह्लादकं विभूषणमलङ्करणं यत्र स तथोक्तः ।
"स्वल्पऽ- शब्दोऽत्र प्रकरणाद्यपेक्षः, न वाक्यमात्रपरः ।
उदाहरणं यथा---

बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनां । । वजी_१.७५ । ।

अत्र "बालेन्दुवक्राणिऽ "अतिलोहितानिऽ "सद्यो वसन्तेन समागतानाम्ऽ इति पदानि सौकुमार्यात्स्वभाववर्णनामात्रपरत्वेनोपात्तान्यपि "नखक्षतानीवऽ इत्यलकरणस्य मनोहारिणः क्लेशं विना स्वभावोद्भन्नत्वेन योजनां भजमानानि चमत्कारकारिता मापद्यन्ते ।
यश्चान्यच्च कीदृशः--- भावस्वभावप्रधान्यन्यक्कृताहार्यकौशलः ।
भावाः पदार्थस्तेषां स्वभावस्तत्त्वं तस्य प्राधान्यं मुख्यभावस्तेन न्यक्कृतं तिरस्कृतमाहार्थं व्युत्पत्तिविहितं कौशलं नैपुण्यं यत्र स तथोक्तः ।
तदयमत्राभिप्रायः---पदार्थपरमार्थमहिमैव कविशक्तिसमुन्मीलितः, तथाविधो तत्र विजृम्भते ।
येन विविधमपि व्युत्पत्तिविलसितं काव्यान्तरगतं तिरस्कारास्पदं संपद्यते ।
अत्रोदाहरणं रघुवंशे मृगयावर्णनपरं प्रकरणम्, यथा

तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्- व्याहन्यमानहरिणीगमनं पुरस्ताथ् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारं । । वजी_१.७६ । ।

इत्यादि ।
यथा च कुमारसम्भवे

द्वन्द्वानि भावं क्रियया विवव्रुः । । वजी_१.७७ । ।

इति ।
अत) परं प्राणिधर्मवर्णनम्---

शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः । । वजी_१.७८ । ।

अन्यच्च कीदृशः---रसादिपरमार्थज्ञमनः संवादसुन्दरः ।
रसाः शृङ्गारादयः ।
तदादिग्रहणेन रत्यादयोऽपि गृह्यन्ते ।
तेषां परमार्थः पर रहस्यं तज्जानन्तीति तज्ज्ञास्तद्विदस्तेषां मनः संवादो हृदयसंवेदनं स्वानुभवगोचरतया प्रतिभासः, तेन सुन्दरः सुकुमारः सहृदयहृदयाह्लादकारी वाक्यस्योपनिबन्ध इत्यर्थः ।
अत्रोदाहरणानि रघौ रावणं निहत्य पुष्पकेणागच्छतो रामस्य सीतायास्तद्विरहविधुरहृदयेन मयास्मिन्नस्मिन्समुद्देशे किमप्येवंविधं वैशसमनुभूतमिति वर्णयतः सर्वाण्येव वाक्यानि ।
तथा

पूर्वानुभूतं स्मरता च रात्रौ कम्पोत्तरं भीरु तवोपगूढं ।
गुहाविसारीण्यतिवाहितानि मया कथञ्चिद्घनगर्जितानि । । वजी_१.७९ । ।

अत्र राशिद्वयकरणस्यायमभिप्रायो यद्विभावादिरूपेण रसाङ्गभूताः शकुनिरुततरुसलिलकुसुमसमयप्रभृतयः पदार्थाः सातिशयस्वभाववर्णनप्राधान्येनैव रसाङ्गतां प्रतिपद्यन्ते ।
तद्व्यतिरिक्ताः सुरगन्धर्वप्रभृतयः सोत्कर्षचेतनायोगिनः शृङ्गारादिरसनिर्भरतया वर्ण्यमानाः सरसहृदयाह्लादकारितामायान्तीति कविभिरभ्युपगतं ।
तथाविधमेव लक्ष्ये दृश्यते ।
अन्यच्च कीदृशः---अविभावितसंस्थानरामणीयकरञ्जकः ।
अविभावितमनालोचितं संस्थानं संस्थितिर्यत्र तेन रामणीयकेन रमणीयत्वेन रञ्जकः सहृदयाह्लादकः ।
तेनायमर्थः---यदि तथा विधं कविकौशलमत्र संभवति तद्व्यपदेष्टुमियत्तया न कथञ्चिदपि पार्यते, केवलं सर्वातिशायितया चेतसि परिस्फुरति ।
अन्यच्च कीदृशः---विधिवैदग्धयनिष्पन्ननिर्माणातिशयोपमः ।
विधिर्विधाता तस्य वैदग्ध्यं कौशलं तेन निष्पन्नः परिसमाप्तो योऽसौ निर्मणातिशयः सुन्दरः सर्गोल्लेखो रमणीयलावण्यादिः स उपमा निदर्शनं तस्य स तथोक्तः ।
तेन विधातुरिव कवेः कौशलं यत्र विवेक्तुमशक्यं ।
यथा

ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरंपरेण ।
कारागृहे निर्जितवासवेन दशाननेनोषितमा प्रसादाथ् । । वजी_१.८० । ।

अत्र व्यपदेशप्रकारान्तरनिरपेक्षः कविशक्तिपरिणामः परं परिपाकमधिरूढः ।
एतस्मिन्कुलके---प्रथमश्लोके प्राधान्येन शब्दालङ्कारयोः सौन्दर्यं प्रतिपादितं ।
द्वितीये वर्णनीयस्य वस्तुनः सौकुमार्यं ।
तृतीये प्रकारान्तरनिरपेक्षस्य संनिवेशस्य सौकुमार्यं ।
चतुर्थे वैचित्र्यमपि सौकुमार्याविसंवादि विधेयमित्युक्तं ।
पञ्चमो विषयविषयिसौकुमार्यप्रतिपादनरपरः ।
एवं सुकुमाराभिधानस्य मार्गस्य लक्षणं विधाय तस्यैव गुणान्लक्षयति---

असमस्तमनोहारिपदविन्यासजीवितं ।
माधुर्यं सुकुमारस्य मार्गस्य प्रथमो गुणः । । वजी_१.३० । ।

असमस्तानि समासवर्जितानि मनोहारीणि हृदयाह्लादकानि श्रुतिरम्यत्वेनार्थरमणीयत्वेन च यानि पदानि सुप्तिङन्तानि तेषां विन्यासः संनिवेशवैचित्र्यं जीवितं सर्वस्वं यस्य तत्तथोक्तं माधृर्यं नाम सुकुमारलक्षणस्य मार्गस्य प्रथमः प्रधानभूतो गुणः ।
असमस्तशब्दोऽत्र प्राचुर्यार्थः, न समासाभावनियमार्थः ।
उदाहरणं यथा

क्रीडारसेन रहसि स्मतपूर्वमिन्दोर्लेखां विकृष्य विनिबद्च मूर्ध्नि गौर्या ।
किं शोभिताहमनयोत शशाङ्कमौलेः पृष्टस्य पातु परिचुम्भनमुत्तरवः । । वजी_१.८१ । ।

अत्र पदानामसमस्तत्वं शब्दार्थरमणीयता विन्यासवैचित्र्यं च त्रितयमपि चकास्ति ।
तदेवं माधुर्यमभिधाय प्रसादमभिधत्ते---

अक्लेशव्यञ्जिताकूतं झगित्यर्थसमर्पणं ।
रसवक्रोक्तिविषयं यत्प्रसादः स कथ्यते । । वजी_१.३१ । ।

झगिति प्रथमतरमेवार्थसमर्पणं वस्तुप्रतिपादनं ।
कीदृशम्--- अक्लेशव्यञ्जिताकूतं अकदर्थनाप्रकटिताभिप्रायं ।
किंविषयम्---रसवक्रोक्तिविषयं ।
रसाः शृङ्गारादयः, वक्रोक्तिः सकलालङ्कारसामान्यं विषयो यस्य तत्तथोक्तं ।
स एव प्रसादाख्यो गुणः कथ्यते भण्यते ।
अत्र पदानामसमस्तत्वं प्रसिद्धाभिधानत्वं अव्यवहितसंबन्धत्वं समाससद्भावेऽपि गमकसमासयुक्तता च परमार्थः ।
"आकूतऽ- शब्दस्तात्पर्ये विच्छित्तौ च वर्तते ।
उदाहरणं यथा

हिमव्यपायाद्विशदाधराणा- मापाण्डुरीभूतमुखच्छवीनां ।
स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु । । वजी_१.८२ । ।

अत्रासमस्तत्वादिसामग्री विद्यते ।
यदपि विविधपत्रविशेषकवैचित्र्यविहितं किमपि वदनसौन्दर्यं मुक्ताकणाकारस्वेदलवोपबृंहितं तदपि सुव्यक्तमेव ।
यथा वा

अनेन सार्धं विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः । । वजी_१.८३ । ।

अलङ्काख्यक्तिर्यथा

बालेन्दुवक्राणि इति । । वजी_१.८४ । ।

एवं प्रसादमभिधाय लावण्यं लक्षयति---

वर्णविन्यासविच्छित्तिपदसंधानसंपदा ।
स्वल्पया बन्धसौन्दर्यं लावण्यमभिधीयते । । वजी_१.३२ । ।

बन्धो वाक्यविन्यासस्तस्य सौन्दर्यं रामणीयकं लावण्यमभिधीयते लावण्यमित्युच्यते ।
कीदृशम्---वर्णानामक्षराणां विन्यासो विचित्रं न्यसनं तस्य विच्छित्तिः शोभा वैदग्ध्यभङ्गी तया लक्षितं पदानां सुप्तिङन्तानां संधानं संयोजनं तस्य सम्पत्, सापि शोभैव, तया लक्षितं ।
कीदृश्या---उभयरूपयापि स्वल्पया मनाङ्मात्रया नातिनिर्बन्धनिर्मितया ।
तदयमत्रार्थः---शब्दार्थसौकुमार्यसुभगः संनिवेशमहिमा लावण्यरूपो गुणः कथ्यते ।
यथा

स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानां । । वजी_१.८५ । ।

अत्र संनिवेशसौन्दर्यमहिमा सहृदयसंवेद्यो न व्यपदेष्टुं पार्यते ।
यथा वा

चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः । । वजी_१.८६ । ।

अत्रापि वर्णविन्यासविच्छित्तिः पदसंधानसम्पच्च संनिवेशसौन्दर्यनिबन्धना स्फुटावभासैव ।
एवं लावण्यमभिधाय आभिजात्यमभिधत्ते---

श्रुतिपेशलताशालि सुस्पर्शमिव चेतसा ।
स्वभावमसृणच्छायमाभिजात्यं प्रचक्षते । । वजी_१.३३ । ।

एवं विधं वस्तु आभिजात्यं प्रचक्षते आभिजात्याभिधानं गुणं वर्णयन्ति ।
श्रुतिः श्रवणेन्द्रियं तत्र पेशलता रामणीयकं तेन शालते श्लाघते यत्तथोक्तं ।
सुरपर्शमिव चेतसा मनसा सुस्पर्शमिव ।
सुखेन स्पृश्यत इवेत्यतिशयोक्तिरियं ।
यस्मादुभयमपि स्पर्शयोग्यत्वे सति सौकुमार्यात्किमपि चेतसि स्पर्शसुखमर्पयतीव ।
यतः स्वभावमसृणच्छायं अहार्यश्लक्ष्णकान्ति यत्तदाभिजात्यं कथयन्तीत्यर्थः ।
यथा

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रीत्या कुवलयदलप्रापि कर्णे करोति । । वजी_१.८७ । ।

अत्र श्रुतिपेशलतादि स्वभावमसृणच्छायत्वं किमपि सहृदयसंवेद्यं परिस्फुरति ।
ननु च लावण्यमाभिजात्यं च लोकोत्तरतरुणीरूपलक्षणवस्तुधर्मतया यत्प्रसिद्धं तत्कथं काव्यस्य भवितुमर्हतीति चेत्तन्न ।
यस्मादनेन न्यायेन पूर्वप्रसिद्धयोरपि माधुर्यप्रसादयोः काव्यधर्मत्वं विघटते ।
माधुर्यं हि गुडादिमधुरद्रव्यधर्मतया प्रसिद्धं तथाविधाह्लादकारित्वसामान्योपचारात्काव्ये व्यपदिश्यते ।
तथैव च प्रसादः स्वच्छसलिलस्फटिकादिधर्मतया प्रसिद्धः स्फुटावभासित्वसामान्योपचाराज्झगितिप्रतीतिकारिणि काव्ये प्रवर्तितव्यहारस्तदेवंविधवैदग्ध्यविहितविचित्रविन्यासरमणीरामणीयकं यथा लावण्यशब्दाभिधेयतया प्रतीतिपेशलतांप्रतिपद्यते ।
तद्वदेव च काव्ये कविशक्तिकौशलोल्लिखितकान्तिकमनीयं बन्धसौन्दर्यं चेतनचमत्कारकारित्वसामान्योपचाराल्लवण्यशब्दव्यतिरेकेण शब्दान्तराभिधेयतां नोत्सहते ।
तथैव च काव्ये स्वभावमसृणच्छायत्वमाभिजात्यशब्देनाभिधीयते ।
ननु च कैश्चित्प्रतीयमानं वस्तु ललनालावण्यसाम्याल्लावण्यमित्युत्पादितप्रतीति---

प्रतीयमानं पुरन्यदेव वस्त्वस्ति वाणीषु महाकवीनां ।
यत्तत्प्रसिद्धावयवातिरिक्तं आभाति लावण्यमिवाङ्गनासु । । वजी_१.८८ । ।

तत्कथं बन्धसौन्दर्यमात्रं लावण्यमित्यभिधीयते ? नैष दोषः, यस्मादनेन दृष्टान्तेन वाच्यवाचकलक्षणप्रसिद्धावयवव्यतिरिक्तत्वेनास्तित्वमात्रं साध्यते प्रतीयमानस्य, न पुनः सकललोकलोचनसवेद्यस्य ललनालावण्यस्य ।
सहृदयहृदयानामेव संवेद्यं सत्प्रतीयमानं समीकर्तुं पार्यते ।
तस्य बन्धसौन्दर्यमेवाव्युत्पन्नपदपदार्थानामपि श्रवणमात्रेणैव हृदयहारित्वस्पर्धया व्यपदिश्यते ।
प्रतीयमानं पुनः काव्यपरमार्थज्ञानामेवानुभवगोचरतां प्रतिपद्यते ।
यथा कामिनीनां किमपि सौभाग्यं तदुपभोगोचितानां नायकानामेव संवेद्यतामर्हति, लावण्यं पुनस्तासामेव सत्कविगिरामिव सौन्दर्यं सकललोकगोचरतामायातीत्युक्तमेवेत्यलमतिप्रसङ्गेन ।
एवं सुकुमारस्य लक्षणमभिधाय विचित्रं प्रतिपादयति---

प्रतिभाप्रथमोद्भेदसमये यत्र वक्रता ।
सभ्दाभिधेययोरन्तः स्फुरतीव विभाव्यते । । वजी_१.३४ । ।
अलङ्कारस्य कवयो यत्रालङ्कारणान्तरं ।
असंतुष्टा निबध्नन्ति हारादेर्मणिबन्धवथ् । । वजी_१.३५ । ।
रत्नरश्मिच्छटोत्सेकभासुरैर्भूषणैर्यथा ।
कान्ताशरीरमाच्छाद्य भूषायै परिकल्प्यते । । वजी_१.३६ । ।
यत्र तद्वदलङ्कारैर्भ्राजमानैर्निजात्मना ।
स्वशोभातिशयान्तः स्थमलङ्कार्यं प्रकाशते । । वजी_१.३७ । ।
यदप्यनूतनोल्लेखं वस्तु यत्र तदप्यलं ।
उक्तिवैचित्र्यमात्रेण काष्ठां कामपि नीयते । । वजी_१.३८ । ।
यत्रान्यथाभवत्सर्वमन्यथैव यथारुचि ।
भाव्यते प्रतिभोल्लेखमहत्त्वेन महाकवेः । । वजी_१.३९ । ।
प्रतियमानता यत्र वाक्यार्थस्य निबध्यते ।
वाच्यवाचकवृत्तिभ्यां व्यतिरिक्तस्य कस्यचिथ् । । वजी_१.४० । ।
स्वभावः सरसाकूतो भावानां यत्र बध्यते ।
केनापि कमनीयेन वैचित्र्येणोपबृंहितः । । वजी_१.४१ । ।
विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते ।
परिस्फुरति यस्यान्तः सा काप्यतिशयाभिधा । । वजी_१.४२ । ।
सोऽतिदुःसंचरो येन विदग्धकवयो गताः ।
खड्गधारापथेनेव सुभटानां मनोरथाः । । वजी_१.४३ । ।

स विचित्राभिधानः पन्थाः कीदृशः---अतिदुःसंचरः, यत्रातिदुःखेन संचरन्ते ।
किं बहुना, येन विदग्धकवयः केचिदेव व्युत्पन्नाः केवलं गताः प्रयाताः, तदाश्रयेण काव्यानि चक्रुरित्यर्थः ।
कथम्---कङ्गधारापथेनेव सुभटानां मनोरथाः ।
निस्त्रैंशधारामार्गेण यथा सुभटानांमहावीराणां मनोरथाः ।
निस्त्रिंशधारामार्गेण यथा सुभटानां महावीराणां मनोरथाः संकल्पविशेषाः ।
तदयमत्राभिप्रायः---यदसिधारामार्गगमने मनोरथानामौचित्यानुसारेण यथारुचि प्रवर्तमानानां मनाङ्मात्रमपि म्लानता न संभाव्यते ।
साक्षात्समरसंमर्दन समाचरणे पुनः कदाचित्किमपि म्लानत्वमपि संभाव्येत ।
तदनेन मार्गस्य दुर्गमत्वं तत्प्रस्थितानां च विहरणप्रौढिः प्रतिपाद्यते ।
कीदृशः सा मार्गः---यत्र यस्मिन्शब्दाभिधेययोरभिधानाभिधीयमानयोरन्तः स्वरूपानुप्रवेशिनी वक्रता भणितिविच्छित्तिः स्फुरतीव प्रस्पन्दमानेव विभाव्यते लक्ष्यते ।
कदा---प्रतिभाप्रथमोद्भेदसमये ।
प्रतिभायाः कविशक्तेरचरमोल्लेखावसरे ।
तदयमत्र परमार्थः---यत्कविप्रयत्ननिरपेक्षयोरेव शब्दार्थयोः स्वाभाविकः कोऽपि वक्रताप्रकारः परिस्फुरन्परिदृश्यते ।
यथा

कोऽयं भाति प्रकारस्तव पवन पदं लोकपादाहतीनां तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठां ।
यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां केनापायेन सह्यो वपुषि कलुषतादोष एव त्वयैव । । वजी_१.८९ । ।

अत्राप्रस्तुतप्रशंसालक्षणोऽलङ्कारः प्राधान्येन वाक्यार्थः, प्रतीयमानपदार्थान्तरत्वेन प्रयुक्तत्वात्तत्र च विचित्रकविशक्तिसमुल्लिखितवक्रशब्दार्थोपनिबन्धमाहात्म्यात्प्रतीयमानमप्यभिधेयतामिव प्रापितं ।
प्रक्रम एव प्रतिभासमानत्वान्न चार्थान्तरप्रतीतिकारित्वेन पदानां श्लेषव्यपदेशः शक्यते कर्तुम्, वाच्यस्य समप्रधानभावेनानवस्थानाथ् ।
अर्थान्तरप्रतीतिकारित्वं च पदानां प्रतीयमानार्थस्फुटताव भासनार्थमुपनिबध्यमानमतीव चमत्कारकारितां प्रतिपद्यते ।
तमेव विचित्रं प्रकारान्तरेण लक्षयति---अलङ्कारस्येत्यादि ।
यत्र यस्मिन्मार्गे कवयो निबध्नन्ति विरचयन्ति, अलङ्कारस्य विभूषणस्यालङ्कारणान्तरं भूषणान्तरं असंतुष्टाः सन्तः ।
कथम्---हारादेर्मणिबन्धवथ् ।
मुक्ताकलापप्रभृतेर्यथा पदकादिमणिबन्धं रत्नविशेषविन्यासं वैकटिकाः ।
यथा

हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्मरोः । । वजी_१.९० । ।

अत्रात्यन्तगर्हणीयचरितं पदार्थान्तरं प्रतीयमानतया चेतसि निधाय तथाविधविलसितः सलिलनिधिर्वाच्यतयोपक्रान्तः ।
तदेतावदेवालङ्कृतेरप्रस्तुतप्रशंसायाः स्वरूपम्---गर्हणीयप्रतीयमानपदार्थान्तरपर्यवसानमपि वाक्यं श्रुत्युपक्रमरमणीयतयोपनिबध्यमानं तद्विदाह्लादकारितामायाति ।
तदेतद्व्याजस्तुतिप्रतिरूपकप्रायमलङ्करणान्तरमप्रस्तुतप्रशंसाया भूषणत्वेनोपात्तं ।
न चात्र संकरालङ्कारव्यवहारो भवितुमर्हति, पृथगतिपरिस्फुटत्वेनावभासनाथ् ।
न चापि संसृष्टिसंभवः समप्रधानभावेनानवस्थितेः ।
न च द्वयोरपि वाच्यालङ्कारत्वम्, विभिन्नविषयत्वात् ।
यथा वा

नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं प्रस्थाने स्खलतः स्वर्त्मनि विधेरन्यद्गृहीतः करः ।
लोकश्चायमदृष्टदर्शनकृता दृग्वैशसादुद्धृतो युक्तं काष्ठिक लूनवान्यदसि तामाम्रालिमाकालिकीं । । वजी_१.९१ । ।

अत्रायमेव न्यायोऽनुसंधेयः ।
यथा च

किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा मञ्जरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः ।
उद्गाढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः । । वजी_१.९२ । ।

अत्र रूपकलक्षणो योऽयं काव्यालङ्कारः तस्य सन्देहोक्तिरियं छायान्तरातिशयोत्पदानायोपनिबद्धा चेतनचमत्कारकारिता मावहित ।
शिष्टं पूर्वोदाहरणद्वयोक्तमनुसर्तव्यं ।
अन्यच्च कीदृक्---रत्नेत्यादि ।
युगलकं ।
यत्र यस्मिन्नलङ्कारैर्भ्राजमानैर्निजात्मना स्वजीवितेन भासमानैर्भूषायै परिकल्प्यते शोभायै भूष्यते ।
कथम्---यथा भूषणैः, कङ्कणादिभिः ।
कीदृशैः---रत्नरश्मिच्छटोत्सेकभासुरैः मणिमयूखोल्लासभ्राजिष्णुभिः ।
किं कृत्वा---कान्ताशरीरमाच्छाद्य कामिनीवपुः स्वप्रभाप्रसरतिरोहितं विधाय ।
भूषायै कल्पनम्---यदेतैः स्वशोभातिशयान्तः स्थं निजकान्तिकमनीयान्तर्गतमलङ्कार्यमलङ्कारणीयं प्रकाश्यते द्योत्यते ।
तदिदमत्र तात्पर्यम्---तदलङ्कारमहिमैव तथाविधोऽत्र भ्राजते तस्यात्यन्तोद्रिक्तवृत्तेः स्वशोभातिशयान्तर्गतमलङ्कार्यं प्रकाश्यते ।
यथा

आर्यस्याजिमहोत्सवव्यतिकरे नासंविभक्तोऽत्र वः कश्चित्काप्यवशिष्यते त्यजत रे नक्तञ्चराः संभ्रमं ।
भूयिष्ठेष्वपि का भवत्सु गणनात्यर्थं किमुत्ताम्यते तस्योदारभुजोष्मणोऽनवसिता नाराच संपत्तयः । । वजी_१.९३ । ।

अत्राजेर्महोत्सवव्यतिकरत्वेन तथाविधं रूपणं विहितं यत्रालङ्कार्यं "आर्यः स्वशौर्येण युष्मान्सर्वानेव मारयति" इत्यलङ्कारशोभातिशयान्तर्गतत्वेन भ्राजते ।
तथा च कश्चित्सामान्योऽपि क्वापि दवीयस्यपि देशे नासंविभक्तो युष्माकमवशिष्यते ।
तस्मात्समरमहोत्सवसविभागलम्पटतया प्रत्येकं यूयं संभ्रमं त्यजत ।
गणनया वयं भूयिष्ठा इत्यशक्यानुष्ठानतां यदि मन्यध्वे तदप्ययुक्तं ।
यस्मादसंख्यसंविभागाशक्यता कदाचिदसंपत्त्या कार्पण्येन वा संभाव्यते ।
तदेतदुभयमपि नास्तीत्युक्तम्---तस्योदारभुजोष्मणोऽनवसिता नाराच संपत्तयः (इति) ।
यथा च

कतमः प्रविजृम्भितविरहव्यथः शन्यतां नीतो देशः । । वजी_१.९४ । ।
इति ।

यथा च कानि च पुण्यभाञ्जि भजन्त्यभिख्यामक्षराणि । । वजी_१.९५ । ।
इति ।

अत्र कस्मादागताः स्थ, किं चास्य नाम इत्यलङ्कार्यमप्रसुतप्रशंसालक्षणालङ्कारच्छायाच्छुरितत्वेनैतदीयशोभान्तर्गतत्वेन सहृदयहृदयाह्लादकारितां प्रापितं ।
एतच्चव्याजस्तुतिपर्यायोक्तप्रभृतीनां भूयसा विभाव्यते ।
ननु च रूपकादीनां स्वलक्षणावसर एव स्वरूपं निर्णेष्यते तत्किं प्रयोजनमेतेषामिहोदाहरणस्य ? सत्यमेतत्, किन्त्वेतदेव विचित्रस्य वैचित्र्यं नाम यदलौकिकच्छायातिशययोगित्वेन भूषणोपनिबन्धः कामपि वाक्यवक्रतामुन्मीलयति ।
विचित्रमेव रूपान्तरेण लक्षणयति---यदपीत्यादि ।
यदपि वस्तु वाच्यमनूतनोल्लेखमनभिनवत्वेनोल्लिखितं तदपि यत्र यस्मिन्नलं कामपि काष्ठां नीयते लोकोत्तरातिशयकोटिमधिरोष्यते ।
कथम्---उक्तिवैचित्र्यमात्रेण, भणितिवैदग्ध्येनैवेत्यर्थः ।
यथा

अण्णं लडहत्तणां अण्ण च्चिअ कावि वत्तणच्छाआ ।
सामा सामण्णापऽवैणो रेह च्चिअ ण होइ । । वजी_१.९६ । ।
अन्यद्लटभत्वमन्यैव च कापि वर्तनच्छाया ।
श्यामा सामान्यप्रजापते रेखैव च न भवति । ।
इति छाया ।

यथा वा उद्देशोऽयं संरसविटपि श्रेणिशोभातिशायी कुञ्जोत्कर्षाङ्कुरितहरिणीविभ्रमो नर्मदायाः ।

किं चैतस्मिन्सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः । । वजी_१.९७ । ।

भणितिवैचित्र्यमात्रमेवात्र काव्यार्थः, न तु नूतनोल्लेखशालि वाच्यविजृम्भितं ।
एतच्च भणितिवैचित्र्यं सहस्त्रप्रकारं संभवतीति स्वयमेवोत्प्रेक्षणीयं ।
पुनर्विचित्रमेव प्रकारान्तरेण लक्षयति---यत्रान्यथेत्यादि ।
यत्र यस्मिन्नन्यथाभवदन्येन प्रकारेण सत्सर्वमेव पदार्थजातं अन्यथैव प्रकारान्तरेणैव भाव्यते ।
कथम्---यथारुचि ।
स्वप्रतिभासानुरूपेणोत्पाद्यते ।
केन---प्रतिभोल्लेखमहत्त्वेन महाकवेः, प्रतिभासोन्मेषा तिशयत्वेन सत्कवेः ।
यत्किल वर्ण्यमानस्य वस्तुनः प्रस्तावमुचितं किमपि सहृदयहृदयहारि रूपान्तरं निर्मिमीते कविः ।
यथा

तापः स्वात्मनि संश्रितद्रुमलताशोषोऽध्यवगैर्वर्जनं सख्यं दुःशमया तृषा तव मरो कोऽसावनर्थो न यः ।
एकोर्ऽथस्तु महानयं जललवस्वाम्यस्मयोद्गर्जिनः संनह्यन्ति न यत्तवोपकृतये धाराधराः प्राकृताः । । वजी_१.९८ । ।

यथा वा

विशति यदि नो कञ्चित्कालं किलाम्बुनिधं विधेः कृतिषु सकलास्वेको लोके प्रकाशकतां गतः ।
कथमितरथा धाम्नां धाता तमांसि निशाकरं स्फुरदिदमियत्ताराचक्रं प्रकाशयति स्फुटं । । वजी_१.९९ । ।

अत्र जगद्गर्हितस्यापि मरोः कविप्रतिभोल्लिखितेन लोकोत्तरौदार्यधुराधिरोपणेन तादृक्स्वरूपान्तरमुन्मीलितं यत्प्रतीयमानत्वेनोदारचरितस्य कस्यापि सत्स्वप्युचितपरिस्पन्दसुन्दरेषु पदार्थसहस्त्रेषु तदेव व्यपदेशपात्रतामर्हतीति तात्पर्यं ।
अवयवार्थस्तु---दुःशमयेत्"तृड्ऽविशेषणेन प्रतीयमानस्य त्रैलोक्यराज्येनाप्यपरितोषः पर्यवस्यति ।
अध्वगैर्वर्जनमित्यौदार्येऽपि तस्य समुचितसंविभागासंभवादर्थिभिर्लज्जमानैरपि स्वयमेवानभिसरणं प्रतीयते ।
संश्रितद्रुमलताशोष इति तदाश्रितानां तथाविधेऽपि सङ्कटे तदेकनिष्ठताप्रतिपत्तिः ।
तस्य च पूर्वोक्तस्वपरिकरपरिपो षाक्षमतया तापः स्वात्मनि न भोगलवलौल्येनेति प्रतिपाद्यते ।
उत्तरार्धेन---तादृशे दुर्विलसितेऽपि परोपकाराविषयत्वेन श्लाघास्पदत्वमुन्मीलितं ।
अपरत्रापि विधिविहितसमुचितसमयसंभवं सलिलनिधिनिमज्जनं निजोदयन्यक्कृतनिखिलस्वपरपक्षः प्रजापतिप्रणीतसकलपदार्थप्रकाशनव्रताभ्युपगमनिर्वहणाय विवस्वान स्वयमेव समाचरतीत्यन्यथा कदाचिदपि शशाङ्कतमस्ताराप्रभृती नामभिव्यक्तिर्मनागपि न संभवतीति कविना नूतनत्वेन यदुल्लिखितं तदतीव प्रतीयमानमहत्त्वव्यक्तिपरत्वेन चमत्कारितामापद्यते ।
विचित्रमेव प्रकारान्तरेणोन्मीलयात---प्रतीयमानतेत्यादि ।
यत्र यस्मिन्प्रतीयमानता गम्यमानता वाक्यार्थस्य मुख्यतया विवक्षितस्य वस्तुनः कस्यचिदनाख्येयस्य निबध्यते ।
कया युक्त्या---वाच्यवाचकवृत्तिभ्यां शब्दार्थशक्तिभ्यां ।
व्यतिरिक्तस्य तदतिरिक्तवृत्तेरन्यस्य व्यङ्ग्यभूतस्याभिव्यक्तिः क्रियते ।
"वृत्तिऽ--शब्दोऽत्र शब्दार्थयोस्तत्प्रकाशनसामर्थ्यमभिधत्ते ।
एष च "प्रतीयमानऽ--व्यवहारो वाक्यवक्रताव्याख्यावसरे सुतरां समुन्मील्यते ।
अनन्तरोक्तमुदाहरणद्वयमत्र योजनीयं ।
यथा वा

वक्त्रेन्दोर्न हरन्ति बाष्पपयसां धारा मनोज्ञां श्रियं निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्यतिं ।
तस्यास्त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी छाया कापि कपोलयोरनुदिनं तन्व्याः परं पुष्यति । । वजी_१.१०० । ।

अत्रत्वद्विरहवैधुर्यसंवरणकदर्थनामनुभवन्त्यास्तस्यास्तथावि धे महति गुरुसङ्कटे वर्तमानायाः---किं बहुना---बाष्पनिश्वासमोक्षावसरोऽपि न संभवतीति ।
केवलं परिणतलवलीलावण्यसंवादसुभगा कापि कपोलयोः कान्तिरशक्यसंवरणा प्रतिदिनं परं परिपोषमासादयतीति वाच्यव्यतिरिक्तवृत्ति दूत्युक्तितात्पर्यं प्रतीयते ।
उक्तप्रकारकान्तिमत्त्वकथनं च कान्तकौतुकोत्कलिकाकारणतां प्रतिपद्यते ।
विचित्रमेव रूपान्तरेण प्रतिपादयति---स्वभाव इत्यादि ।
यत्र यस्मिन्भावानां स्वभावः परिस्पन्दः सरसाकूतो रसनिर्भराभिप्रायः पदार्थानां निबध्यते निवेश्यते ।
कीदृशः---केनापि कमनीयेन वैचित्र्येणोपबृंहितः, लोकोत्तरेण हृदयहारिणा वैदग्ध्येनोत्तेजितः ।
"भावऽ- शब्देनात्र सर्वपदार्थोऽभिधीयते, न रत्यादिरेव ।
उदाहरणं

क्रीडासु बालकुसुमायुधसंगताया यत्तत्स्मितं न खलु तत्स्मितमात्रमेव ।
आलोक्यते स्मितपटान्तरितं मृगाक्ष्यास्तस्याः परिस्फुरदिवापरमेव किञ्चिथ् । । वजी_१.१०१ । ।

अत्र न खलु तत्स्मितमात्रमेवेति प्रथमार्धेऽभिलाषसुभगं सरसाभिप्रायत्वमुक्तं ।
अपरार्धे तु---हसितांशुकतिरोहितमन्यदेव किमपि परिस्फुरदालोक्यत इति कमनीयवैचित्र्यविच्छित्तिः ।
इदानीं विचित्रमेवोपसंहरति---विचित्रो यत्रेत्यादि ।
एवंविधो विचित्रो मार्गो यत्र यस्मिन्वक्रोक्तिवैचित्र्यं अलङ्कारविचित्रभावो जीवितायते जीवतवदाचरति ।
वैचित्र्यादेव विचित्रे "विचित्रऽ शब्दः प्रवर्तते ।
तस्मात्तदेव तस्य जीवितं ।
किं तद्वैचित्र्यं नामेत्याह---परिस्फुरति यस्यान्तः सा काप्यतिशयाभिधा ।
यस्यान्तः स्वरूपानुप्रवेशेन सा काप्यलौकिकातिशयोक्तिः परिस्फुरति भ्राजते ।
यथा---

यत्सेनारजसामुदञ्चति यदे द्वाभ्यां दवीयोऽन्तरान्पाणिभ्यां युगपद्विलोचनपुटानष्टाक्षमो रक्षितुं ।
एकैकं दलमुन्नमय्य गमयन्वासाम्बुजं कोशतां धाता संवरणाकुलश्चिरमभूत्स्वाध्यायवन्ध्याननः । । वजी_१.१०२ । ।

एवं वैचित्र्यं संभावनानुमानप्रवृत्तायाः प्रतीयमानत्वमुत्प्रेक्षायाः ।
तच्च धाराधिरोहरणरमणीयतयातिशयोक्तिपरिस्पन्दस्यन्दि संदृश्यते ।
तदेवं वैचित्र्यं व्याख्याय तस्यैव गुणान्व्याचष्टे---

वैदग्ध्यस्यन्दि माधुर्यं पदानामत्र बध्यते ।
याति यत्तयक्तशैथिल्यं बन्धबन्धुरताङ्गतां । । वजी_१.४४ । ।

अत्रास्मिन्माधुर्यं वैदग्ध्यस्यान्दि वैचित्र्यसमर्पकं पदानां बध्यते वाक्यैकदेशानां निवेश्यते ।
यत्त्यक्तशैथिल्यमुज्झितक्ॐअलभावं भवद्वन्धबन्धुरताङ्गतां याति संनिवेशसौन्दर्योपकरणतां गच्छति ।
यथा

किं तारुण्यतरोः इत्यत्र पूर्वार्धे । । वजी_१.१०३ । ।

एवं माधुर्यमभिधाय प्रसादमभिधत्ते---

असमस्तपदन्यासः प्रसिद्धः कविवर्त्मनि ।
किञ्चिदोजः स्पृशन्प्रायः प्रसादोऽप्यत्र दृश्यते । । वजी_१.४५ । ।

असमस्तानां समासरहितानां पदानां न्यासो निबन्धः कविवर्त्मनि विपश्चिन्मार्गेयः प्रसिद्धः प्रख्यातः सोऽप्यस्मिन्विचित्राख्ये प्रसादाभिधानो गुणः किञ्चित्कियन्मात्रमोजः स्पृशन्नुत्तानतया व्यवस्थितः प्रायो दृश्यते प्राचुर्येण लक्ष्यते ।
बन्धसौन्दर्यनिबन्धनत्वाथ् ।
तथाविधस्यौजसः समासवती वृत्तिः-"ओजःऽ-शब्देन चिरन्तनैरुच्यते ।
तदयमत्र परमार्थः---पूर्वस्मिन्प्रसादलक्षणे सत्योजः संस्पर्शमात्रमिह विधीयते ।
यथा

अपाङ्गगततारकाः स्तिमितपक्ष्मपालीभृतः स्फुरत्सुभगकान्तयः स्मितसमुद्गतिद्योतिताः ।
विलासभरमन्थरास्तरलकल्पितैकभ्रुवो जयन्ति रमणार्पिताः समदसुन्दरीदृष्टयः । । वजी_१.१०४ । ।

प्रसादमेव प्रकारान्तरेण प्रकटयति---

गमकानि निबध्यन्ते वाक्ये वाक्यान्तराण्यपि ।
पदानीवात्र कोऽप्येष प्रसादस्यापरः क्रमः । । वजी_१.४६ । ।

अत्रास्मिन्विचित्रे यद्वाक्यं पदसमुदायस्तस्मिन्गमकानि समर्पकाण्यन्यानि वाक्यान्तरापि निबध्यन्ते निवेश्यन्ते ।
कथम्---पदानीव पदवत्, परस्परान्वितानीत्यर्थः ।
एष कोऽप्यपूर्वः प्रसादस्यापरः क्रमः बन्धच्छायाप्रकारः ।
यथा

नामाप्यन्तरोः इति । । वजी_१.१०५ । ।

अथ प्रसादमभिधाय लावण्यं लक्षयति

अत्रालुप्तविसर्गान्तैः पदैः प्रोतैः परस्परं ।
ह्रस्वैः संयोगपूर्वैश्च लावण्यमतिरिच्यते । । वजी_१.४७ । ।

अत्रास्मिन्नेवंविधैः पदैर्लावण्यमतिरिच्यते परिपोषं प्राप्नोति ।
कीदृशैः---परस्परमन्योन्यं प्रोतैः संश्लेषं नीतैः ।
अन्यच्च कीदृशैः---अलुप्तविसर्गान्तैः, अलुप्तविसर्गाः श्रूयमाणविसर्जनीया अन्ता येषां तानि तथोक्तानि तैः ।
ह्रस्वैश्च लघुभिः ।
संयोगेभ्यः पूर्वैः ।
अतिरिच्यते इति संबन्धः ।
तदिदमत्र तात्पर्यम्---पूर्वोक्तलक्षणं लावण्यं विद्यमानमनेनातिरिक्ततां नीयते ।
यथा

श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः कीर्यन्ते कणशः कृशाङ्गि किममी बाष्पाम्भसां बिन्दवः ।
किञ्चाकुञ्चितकण्ठरोधकुटिलाः कर्णामृतस्यन्दिनो हूङ्काराः कलपञ्चमप्रणयिनस्त्रुच्यन्तिनिर्यान्ति च । । वजी_१.१०६ । ।

यथा वा

एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त पुलन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना- दीनं त्वामनुनाथते कुचयुगं पत्रांशुकैर्मा पिधाः । । वजी_१.१०७ । ।

यथा वा

हंसानां निनदेषु इति । । वजी_१.१०८ । ।

एवं लावण्यमभिधायाभिजात्यमभिधीयते---

यन्नातिक्ॐअलच्छायं नातिकाठिन्यमुद्वहथ् ।
आभिजात्यं मनोहारि तदत्र प्रौढिनिर्मितं । । वजी_१.४८ । ।

अत्रास्मिन्तदाभिजात्यं यन्नातिक्ॐअलच्छायं नात्यन्तमसृणकान्ति नातिकाठिन्यमुद्वहन्नातिकठोरतां धारयत्तत्प्रौढिनिर्मितं सकलकविकौशलसंपादितं सन्मनोहारि हृदयरञ्जकं भवतीत्यर्थः ।
यथा

अधिकरतलतल्पं कल्पितस्वापलीलापरिमलननिमीलत्पाण्डिमा गण्डपाली ।
सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिकेलीयौवराज्याभिषेकं । । वजी_१.१०९ । ।

एवं सुकुमारविहितानामेव गुणानां विचित्रे कश्चिदतिशयः संपाद्यत इति बोद्धव्यं ।

आभिजात्यप्रभृतयः पूर्वमार्गोदिता गुणाः ।
अत्रातिशयमायान्ति जनिताहार्यसंपदः । । वजी_१.११० । ।

इत्यन्तरश्लोकः ।
एवं विचित्रमभिधाय मध्यममुपक्रमते---

वैचित्र्यं सौकुमार्यं च यत्र संकीर्णतां गते ।
भ्राजेते सहजाहार्यशोभातिशयशालिनी । । वजी_१.४९ । ।
माधुर्यादिगुणग्रामो वृत्तिमाश्रित्य मध्यमां ।
यत्र कामपि पुष्णाति बन्धच्छायातिरिक्ततां । । वजी_१.५० । ।
मार्गोऽसौ मध्यमो नाम नानारुचिमनोहरः ।
स्पर्धया यत्र वर्तन्ते मार्गद्वितयसंपदः । । वजी_१.५१ । ।

मार्गोऽसौ मध्यमो नाम मध्यमाभिधानोऽसौ पन्थाः ।
कीदृशः---नानारुचिमनोहरः ।
नानाविधा रुचयः प्रतिभासा येषां ते तथोक्तास्तेषां सुकुमारविचित्रमध्यमव्यसनिनां सर्वेषामेव मनोहरो हृदयहारी ।
यस्मिन्स्पर्धया मार्गद्वितयसंपदः सुकुमारविचित्रशोभाः साम्येन वर्तन्ते व्यवतिष्ठन्ते, न न्यूनातिरिक्तत्वेन ।
यत्र वैचित्र्यं विचित्रत्वं सौकुमार्यं सुकुमारत्वं संकीर्णतां गते तस्मिन्मिश्रतां प्राप्ते सती भ्राजेते शोभेते ।
कीदृशे---सहजाहार्यशोभातिशयशालिनी, शक्तिव्युत्पत्तिसंभवो यः शोभातिशयः कान्त्युत्कर्षस्तेन शालेते श्लाघेत्ये ते तथोक्ते ।
माधुर्येत्यादि ।
यत्र च माधुर्यादिगुणग्रामो माधुर्यप्रभृतिगुणसमूहो मध्यमामुभयच्छायाच्छुरितां वृत्तिं स्वस्पन्दगतिमाश्रित्य कामप्यपूर्वां बन्धच्छायातिरिक्ततां संनिवेशकान्त्यधिकतां पुष्णाति पुष्यतीत्यर्थः ।
गुणा नामुदाहरणानि ।
तत्र माधुर्यस्य यथा---

वेलानिलैर्मृदुभिराकुलितालकान्ता गायन्ति यस्य चरितान्यपरान्तकान्ताः ।
लीलानताः समवलम्ब्य लतास्तरूणां हिन्तालमालिषु तटेषु महार्णवस्य । । वजी_१.१११ । ।

प्रसादस्य यथा तद्वक्त्रेन्दुविलोकनेन इत्यादि । । वजी_१.११२ । ।

लावण्यस्य यथा

संक्रान्ताङ्गुलिपर्वसूचितकरस्वापा कपोलस्थली नेत्रे निर्भरमुक्तबाष्पकलुषे निश्वासतान्तोऽधरः ।
बद्धोद्भेदविसंष्ठुलालकलता निर्वेदशून्यं मनः कष्टं दुर्नयवेदिभिः कुसचिवैर्वत्सा दृढं खेद्यते । । वजी_१.११३ । ।

आभिजात्यस्य यथा

आलम्ब्य लम्बाः सरसाग्रवल्लीः पिबन्ति यत्र स्तनभारनम्राः ।
स्त्रोतश्च्युतं शीकरकूणिताक्ष्यो मन्दाकिनीनिर्झरमश्वमुख्यः । । वजी_१.११४ । ।

अत्रारोचकिनः केचिच्छायावैचित्र्यरञ्जके ।
विदग्धनेपथ्यविधौ भुजङ्गा इव सादराः । । वजी_१.५२ । ।

एवं मध्यमं व्याख्याय तमेवोपसंहरति---अत्रेति ।
अत्रैतस्मिन्केचित्कतिपये सादरास्तदाश्रयेण काव्यानि कुर्वन्ति ।
यस्मातरोचकिनः कमनीयवस्तुव्यसनिनः ।
कीदृशे चास्मिन्---छायावैचित्र्यरञ्जके कान्तिविचित्रभावाह्लादके ।
कथम्---विदग्धनेपथ्यविधौ भुजङ्गा इव, अग्राम्याकल्पकल्पने नागरा यथा ।
सोऽपि छायावैचित्र्यरञ्जक एव ।
अत्र गुणोदाहरणानि परिमितत्वात्प्रदर्शितानि, प्रतिपदं पुनश्छायावैचित्र्यं सहृदयैः स्वयमेवानुसर्तव्यं ।
अनुसरणदिक्प्रदर्शनं पुनः क्रियते ।
यथा---मातृगुप्तमायुराजमञ्जीरप्रभृतीनां सौकुमार्यवैचित्र्यसंवलितपरिस्पन्दस्यन्दीनि काव्यानि संभवन्ति ।
तत्र मध्यममार्गसंवलितं स्वरूपं विचारणीयं ।
एवं सहजसौकुमार्यसुभगानि कालिदाससर्वसेनादीनां काव्यानि दृश्यन्ते ।
तत्र सुकुमारमार्गस्वरूपं चर्चनीयं ।
तथैव च विचित्रवक्रत्वविजृम्भितं हर्षचरिते प्राचुर्येण भट्टबाणस्य विभाव्यते, भवभूतिराजशेखरविरचितेषु बन्धसौन्दर्यसुभगेषुमुक्तकेषु परिदृश्यते ।
तस्मात्सहृदयैः सर्वत्र सर्वमनुसर्तव्यं ।
एवं मार्गत्रितयलक्षणं दिङ्मात्रमेव प्रदर्शितम्, न पुनः साकल्येन सत्कविकौशलप्राकाराणां केनचिदपि स्वरूपमभिधातुं पार्यते ।
मार्गेषु गुणानां समुदायधर्मता ।
यथा न केवलं शब्दादिधर्मत्वं तथा तल्लक्षणव्याख्यावसर एव प्रतिपादितं ।
एवं प्रत्येकं प्रतिनियतगुणग्रामरमणीयं मार्गत्रितयं व्याख्याय साधारणगुणस्वरूपव्याख्यानार्थमाह---

आञ्जसेन स्वभावस्य महत्त्वं येन पोष्यते ।
प्रकारेण तदौचित्यमुचिताख्यानजीवितं । । वजी_१.५३ । ।

तदौचित्यं नाम गुणः ।
कीदृक्---आञ्जसेन सुस्पष्टेन स्वभावस्य पदार्थस्य महत्त्वमुत्कर्षो येन पोष्यते परिपोषं प्राप्यते ।
प्रकारेणेति प्रस्तुतत्वादभिधावैचित्र्यमत्र "प्रकारऽ---शब्देनोच्यते ।
कीदृशम्---उचिताख्यानमुदाराभिधानं जीवितं परमार्थो यस्य तत्तथोक्तं ।
एतदानुगुण्येनैव विभूषणविन्यासो विच्छत्तिमावहति ।
यथा

करतलकलिताक्षमालयोः समुदितसाध्वससन्नहस्तयोः ।
कृतरुचिरजटानिवेशयो- रपर इवेश्वरयोः समागमः । । वजी_१.११५ । ।

यथा वा

उपगिरि पुरुहूतस्यैष सेनानिवेशस्तटमपरमितोऽद्रेस्त्वद्वलान्यावसन्तु ।
ध्रुवमिह करिणस्ते दुर्धराः संनिकर्षे सुरगजमदलेखासौरभं न क्षमन्ते । । वजी_१.११६ । ।

यथा च

हे नागराज बहुधास्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः ।
सोढाविषह्यवृषवाहनयोगलीला- पर्यङ्कबन्धनविधेस्तव कोऽतिभारः । । वजी_१.११७ । ।

अत्र पूर्वत्रोदाहरणयोर्भूषणगुणेनैव तद्गुणपरिपोषः, इतरत्र च स्वभावौदार्याभिधानेन ।
औचित्यस्यैव छायान्तरेण स्वरूपमुन्मीलयति---

यत्र वक्तुः प्रमातुर्वा वाच्यं शोभातिशायिना ।
आच्छाद्यते स्वभावेन तदप्यौचित्यमुच्यते । । वजी_१.५४ । ।

यत्र यस्मिन्वक्तुरभिधातुः प्रमातुरनुभवितुर्वा स्वबावेन स्वपरिस्पन्देन व्च्यमभिधेयं वस्तु शोभातिशायिना रामणीयकमनोहरेण आच्छाद्यते संव्रियते तदप्यौचित्यमेवोच्यते ।
यथा शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः । । वजी_१.११८ । ।

अत्र श्लाघ्यतया तथाविधमहाराजपरिस्पन्दे वर्ण्यमाने मुनिना स्वानुभवसिद्धव्यवहारानुसारेणालङ्करणयोजनमौचित्यपरिपोषमावहति ।
अत्र वक्तुः स्वभावेन च वाच्यपरिस्पन्दः संवृतप्रायो लक्ष्यते ।
प्रमातुर्यथा ।

निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननं । । वजी_१.११९ । ।

अत्र वधूजनैर्निजानुभववासनानुसारेण तथाविधशोभाभिरामतानुभूतिरौचित्य मावहति ।
यथा वा

वापीतडे कुडुङ्गा पिअसहि ह्न्ॐ गएहिं दीसंति ।
ण धरन्ति करेण भणन्ति ण त्ति वलिउं पुण णर्देति । । वजी_१.१२० । ।

वापीतटे निकुञ्जाः स्नातुं गतैर्दश्यन्ते ।
न धरन्ति करेण भजन्ति न किमपि वलितुं पुनर्न ददति । ।
इति छाया ।
अत्र कस्याश्चित्प्रमातृभूतायाः सातिशयमौग्ध्यपरिस्पन्दसुन्दरेण स्वभावेन वाच्यमाच्छादितमौचित्यपरिपोषमावहति ।
एवमौचित्यमभिधाय सौभाग्यमभिधत्ते---

इत्युपादेयवर्गेऽस्मिन्यदर्थं प्रतिभा कवेः ।
सम्यक्संरभते तस्य गुणः सौभाग्यमुच्यते । । वजी_१.५५ । ।

इत्येवंविधेऽस्मिन्नुपादेयवर्गे शब्दाद्युपेयसमूहे यदर्थं यन्निमित्तं कवेः संबन्धिनी प्रतिभा शक्तिः सम्यक्सावधानतया संरभते व्यवस्यति तस्य वस्तुनः प्रस्तुतत्वात्काव्याभिधानस्य यो गुणः स सौभाग्यमित्युच्यते भण्यते । ।
तच्च न प्रतिभासंरम्भमात्रसाध्यम्, किन्तु तद्विहितसमस्तसामग्रीसंपाद्यमित्याह---

सर्वसंपत्परिस्पन्दसंपाद्यं सरसात्मनां ।
अलौकिकचमत्कारकारि काव्यैकजीवितं । । वजी_१.५६ । ।

सर्वसंपत्परिस्पन्दसंपाद्यं सर्वस्योपादेयराशेर्या संपत्तिरनवद्यताकाष्ठा तस्याः परिस्पन्दः स्फुरितत्वं तेन संपाद्यं निष्पादनीयं ।
अन्यच्च कीदृशम्---सरसात्मनामार्द्रचेतसामलौकिकचमत्कारकारि लोकोत्तराह्लादविधायि ।
किं बहुना, तच्च काव्यैकजीवितं काव्यस्य परः परमार्थ इत्यर्थः ।
यथा

दोर्मूलावधिसूत्रितस्तनमुरः स्निह्यत्कटाक्षे दशौ किञ्चित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिष भ्रूलते ।
चेतः कन्दलितं स्मरव्यतिकरैर्लाव्यमङ्गैर्वृतं तन्वङ्ग्यास्तरुणिम्निसर्पतिशनैरन्यैव काचिद्द्युतिः । । वजी_१.१२१ । ।

तन्व्याः प्रथमतरतारुण्येऽवतीर्णे, आकारस्य चेतसश्चेष्टायाश्चवैचित्र्यमत्र वर्णितं ।
तत्र सूत्रितस्तनमुरो लावण्यमङ्गैर्वृतमित्याकारस्य, स्मरव्यतिकरैः कन्दलितमिति चेतसः, स्निह्यत्कटाक्षे दृशाविति किञ्चित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिषु भ्रूलते इति चेष्टायाश्च ।
सूत्रित-सिक्त-ताण्डव-पण्डित-कन्दलितानामुपचारवक्रत्वं लक्ष्यते, स्निह्यदित्येतस्य कालविशेषावेदकः प्रत्ययवक्रभावः, अन्यैव काचिदवर्णनीयेति संवृतिवक्रताविच्छित्तिः, अङ्गैर्वृतमिति कारकवक्रत्वं ।
विचित्रमार्गविषयो लावण्यगुणातिरेकः ।
तदेवमेतस्मिन्प्रतिभासंरम्भजनितसकलसामग्रीसमुन्मीलितं सरसहृदयाह्लादकारि किमपि सौभाग्यं समुद्भासते ।
अनन्तरोक्तस्य गुणद्वयस्य विषयं प्रदर्शयति---

एतत्त्रिष्वपि मार्गेषु गुणद्वितयमुज्ज्वलं ।
पदवाक्यप्रबन्धानां व्यापकत्वेन वर्तते । । वजी_१.५७ । ।

एतद्गुणद्वय मौचित्यसौभाग्याभिधानं उज्ज्वलमतीव भ्राजिष्णु पदवाक्यप्रबन्धानां त्रयाणामपि व्यापकत्वेन वर्तते सकलावयवव्याप्त्यावतिष्ठते ।
क्वेत्याह---त्रिष्वपि मार्गेषु सुकुमारविचित्रमध्यमाख्येषु ।
तत्र पदस्य तावदौचित्यं बहुविधभेदभिन्नोवक्रभावः ।
स्वभावस्याञ्जसेन प्रकारेण परिपोषणमेव वक्रतायाः परं रहस्यं ।
उचिताभिधानजीवितात्वाद्वाक्यस्याप्येकदेशेऽप्यौचित्यविरहात्तद्विदाह्लादकारित्वहानिः ।
यथा

रघुवंशे पुरं निषादाधिपतेस्तदेत- द्यस्मिन्मया मौलिमणिं विहाय ।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलीतास्तवेति । । वजी_१.१२२ । ।

अत्र रघुपतेरनर्घमहापुरुषसंपदुपेतत्वेन वर्ण्यमानस्य "कैकेयि कामाः फलितास्तवऽ इत्येवंविधतुच्छतरपदार्थसंस्मरणं तदभिधानं चात्यन्तमनौचित्यमावहति ।
प्रबन्धस्यापि क्वचित्प्रकरणैकदेशेऽप्यौचित्यविरहादेकदेशदाहदूषितदग्धपटप्रायता प्रसज्यते ।
यथा---रघुवंशे एव दिलीप-सिंह-संवादावसरे

अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि ।
शक्योऽस्य मन्युर्भवतापि नेतुं गाः कोटिशः स्पर्शयता घटोध्नीः । । वजी_१.१२३ । ।

इति सिंहस्याभिधातुमुचितमेव, राजोपहासपरत्वेनाभैधीयमानत्वाथ् ।
राज्ञः पुनरस्य निजयशः परिरक्षणपरत्वेन तृणवल्लघुवृत्तयः प्राणाः प्रतिभासन्ते ।
तस्यैतत्पूर्वपक्षोत्तरत्वेन

कथं नु शक्यानुनयो महर्षिर्विश्राणनादन्यपयस्विनीनां ।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयास्यां । । वजी_१.१२४ । ।

इत्यन्यासां गवां तत्प्रतिवस्तुप्रदानयोग्यता यदि कदाचित्संभवति ततस्तस्य मुनेर्मम चोभयोरप्येतज्जीवितपरिरक्षणनैरपेक्ष्यमुपपन्नमिति तात्पर्यपर्यवसानादत्यन्तमनौचित्ययुक्तेयमुक्तिः ।
यथा च कुमारसंभवे त्रैलोक्याक्रान्तिप्रवणपराक्रमस्य तारकाख्यस्य रिपोर्जिगीषावसरे सुरपतिर्मन्मथेनाभिधीयते---

कामेकपत्नीं व्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टां ।
नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयङ्ग्राहनिषक्तबाहुं । । वजी_१.१२५ । ।

इत्यविनयानुष्ठाननिष्ठं त्रिविष्टपाधिपत्यप्रतिष्ठितस्यापि तथाविधाभिप्रायानुवर्तनपरत्वेनाभिधीयमानमनौचित्यमावहति ।
एतच्चैतस्यैव कवेः सहजसौकुमार्यमुद्रितसूक्तिपरस्पन्दसौन्दर्यस्य पर्यालोच्यते, न पुनरन्येषामाहार्यमात्रकाव्यकरणकौशलश्लाघिनां ।
सौभाग्यमपि पदवाक्यप्रकरणप्रबन्धानां प्रत्येकमनेकाकारकमनीयकारणकलापकलितरामणीयकानां किमपि सहृदयहृदयसंवेद्यं काव्यैकजीवितमलौकिकचमत्कारकारि संवलितानेकरसास्वादसुन्दरं सकलावयवव्यापकत्वेन काव्यस्य गुणान्तरं परिस्फुरतीत्यलमतिप्रसङ्गेन ।
इदानीमेतदुपसंहृत्यान्यदवतारयति---

मार्गाणां त्रितयं तदेतदसकृत्प्राप्तव्यपर्युत्सुकैः क्षुण्णं कैरपि यत्र कामपि भुवं प्राप्य प्रसिद्धिं गताः ।
सर्वे स्वैरविहारहारि कवयो यास्यन्ति येनाधुना तस्मिन्कोऽपि स साधुसुन्दरपदान्यासक्रमः कथ्यते । । वजी_१.५८ । ।

मार्गाणां सुकुमारादीनामेतत्त्रितयं कैरपि महाकविभिरेव, न सामान्यैः, प्राप्तव्यपर्युत्सुकैः प्राप्योत्कण्ठितैरसकृत्बहुवारमभ्यासेन क्षुण्णं परिगमितं ।
यत्र यस्मिन्मार्गत्रये कामपि भुवं प्राप्य प्रसिद्धिं गताः लोकोत्तरां भूमिमासाद्य प्रतीतिं प्राप्ताः ।
इदानीं सर्वे कवयस्तस्मिन्मार्गत्रितये येन यास्यन्ति गमिष्यन्ति स्वैरविहारहारि स्वेच्छाविहरणरमणीयं स कोऽपि अलौकिकः साधुशोभनं कृत्वा सुन्दरपदन्यासक्रमः कथ्यते सुभगसुप्तिङन्तसमर्पणपरिपाटीविन्यासो वर्ण्यते ।
मार्ग-स्वैरविहार-पद-प्रभृतयः शब्दाः श्लेषच्छायाविशिष्टत्वेन व्याख्येयाः ।

इति श्रीराजानककुन्तकविरचिते वक्रोक्तिजीविते काव्यालङ्कारे प्रथम उन्मेषः ।