लौगाक्षिकगृह्यसूत्रम्
| लौगाक्षिकगृह्रसूत्रम् [[लेखकः :|]] |
॥ श्रीः ॥ ॥ लौगाक्षिक गृह्रसूत्रम् ॥
प्रथमोऽध्यायः
[सम्पाद्यताम्]प्रथम खण्डः ओं स्वस्त्यस्तु प्रजाभ्यः॥
नमो गुरुवरचरणारविन्दमकरन्दवृन्दपरजनाङ्घ्र्यब्जयुगलेभ्यः।
श्रीविघ्नहन्त्रे शिवाय सदाशिवाय शिवदाय गुरुरूपधराय नमो नमः।
नमो नरहरिं घोरदंष्ट्रानस्वरदारुणम्।
सन्मार्गोत्सादिदुर्दान्तदैत्यनिर्मूलनोद्यतम्॥
अवावरीं धीतिमिरस्य पीवरीं संसारसिन्धोः परमार्थदृ·ारीम्।
सुधीवरीं सत्पुरुषार्थसंपदं नमामि भक्त्या परया सरस्वतीम्॥
पितुः श्रीहरिपालस्य नत्वा पादौ निबन्धनम्।
समन्त्रकठगृह्रस्य देवपालोऽभिधास्यते॥
यत्सच्चिदात्मानमचिन्त्यरूपं
ब्राहृाग्निवायुरविरूपत्रयातिरूपम्।
स्थानत्रये विविधनामभिरिज्यमानं
भोगापवर्गे फलदात् नमोऽस्तु तस्मै॥
प्रायेण मन्त्रविवृतौ विवृतं मयेदं
गृह्रं तथापि बहुभिः शबलीकृतत्वात्।
स्पष्टं सुयुक्ति लघु वाक्यविदामभीष्टं
मिष्टं चिकीर्षुरहमत्र पुनर्विचित्रम्॥
दे0। एकोनचत्वारिंशताध्यायैर्वैतानिकानि कर्माणि प्रतिपादितानि। सांप्रतं गृह्राग्निसाध्यानि कथ्यन्ते। यद्यपि च गृह्रानुष्ठानपूर्वाणि वैतानिकानि तथापि प्रत्यक्षविधिमूलत्वात्सूत्रकृता पूर्वं प्रतिपादितानि। ततो.............व्रताद्यं विधाय मन्त्रघर्णगम्यान्संस्कारान्वक्ष्यति। तत्र त्रैवर्णिकाणां कृतविवाहानां गृह्रकर्मण्यधिकारो विवाहोऽप्यधीतवेदस्यानन्तरं वेदमधीत्य स्नायात्स्नात्वा भार्यामधिगच्छेतेत्यादिस्मृतेः। अध्ययनमप्युपनीतस्य व्रतचारिणः। तत्रोपनयनं वक्ष्यति। संस्कारव्रतानि त्वाह॥
आ0। पूर्वसूत्रभागेन श्रौतकर्माण्युपदिष्टानि। इदानीमनेनाध्यायेन स्मार्तान्युपदिश्यन्ते। अग्निर्भूतानामधिपतिरित्येवमादयो मंन्त्रा अविनियुक्ताः। ते लिङ्गक्रमसमाख्यानवशात्संस्कारेषु गर्भाधानादिषु पाकयज्ञेषु च विनियुज्यन्ते। एतैश्च श्रौतैः कर्मभिरधिकारशेषतया व्यपेक्ष्यते। न ह्रसंस्कृतस्याकृतपाकयज्ञस्य श्रौतेष्वधिकारः। यस्मात्त्रैवर्णिकोऽधीतवेदः कृतधर्मजिज्ञासः समावृत्तधर्मद्वितीय आवमथ्यकर्मकृदग्नीनादधीतेति क्रमः। ........तत्र द्वौ राशी इह गृह्रशास्त्रे वक्तव्यौ संस्कारराशिः पाकयज्ञराशिश्च। पाकयज्ञा अग्न्यर्जनमपेक्ष्यन्ते संस्काराश्च गर्भाधानादयोऽक्षतयोनिमूढां स्त्रियमपेक्ष्यन्ते। तद्विवाहेनोभयं संपद्यतेऽग्न्यर्जनं च भार्या चेति
मन्त्रसमाम्नायश्चेति विवाहादिरग्निर्भूतानामधिपतिरित्येवमादेः। एवं विवाह एव पूर्वं वक्तव्यः। स चाधीतवेदस्य स्नानार्हस्योपदिश्यते। तथा च भगवान्मनुः। वेदान्...............आवसेदिति। अतो वेदाध्ययनमेव तावदुच्यते॥
इ1.1.1ऊ
उपनयनप्रभृति व्रतचारी स्यात्।1।
दे0 व्रतशब्दो यमनियमवाचकः। तत्र प्रसक्तिप्रतिषेधात्मका यमा अमांसभक्षणादयः। नियमास्त्वप्राप्त्यङ्गपरिपूरका भैक्षवृत्त्यादिविषयाः।..........उपनयनादारभ्या वेदाध्ययनपरिसमाप्तेव्र्रतचरणशीलो भवेत्॥
आ0 उपनयनावधि वेदमधीयानो ब्राहृचारी स्यादित्यर्थः।..............वेदाध्ययनपर्यन्तं ब्राहृचारिणा भवितव्यं। व्रतानि
शास्त्रोक्तानि प्रवृत्तिनिवृत्तिलक्षणानि। तच्चरितुं पालयितुं शीलमस्येति व्रतचारी॥
इ/1.1 .1ऊ
इ1.1.2ऊ
मार्गवासाः।2।
दे0 स्यादित्यनुषङ्गः। उत्तरत्रापि योग्यमेवैतत्। मृगस्येदं मार्गे। .....वासः परिधानं।......मार्गे वासो यस्येति मार्गवासाः॥
आ0.......अविशेषेण त्रैवर्णिकः। तत्र विशेषं वक्ष्यति। ऐणेयं चर्म ब्रााहृणायेत्यादि॥
इ/1.1.2.ऊ
इ1.1.3ऊ
संहतकेशः।3।
दे0 हन्तिहिंसाकर्म सम्यक् क्षुरेण न तु कर्तर्यादिना हता अपसारिताः केशा यस्य स तथा। मुण्डितशिरा इत्यर्थः। तेन मुण्डनेन पौनरुक्त्यमित्याहुः। अथवा संहता एकरूपाः केशा यस्य स तथा एतदुक्तं भवति मुण्डो जटिलः शिखी वेति वक्ष्यति। तत्रैकस्य त्रैवर्णिकस्य ब्राहृचारिणः कालभेदेन विकल्पनिवृत्त्यर्थं नियमाभिधानमेतत्। एकरूपा एवैकैकेन केशाः कर्तव्याः। जटी चेन्न मुण्डी शिखी वेति। एवं मुण्डादिषु॥
व्र0 मुण्डो जटिलः शिखी वेत्या ब्राहृचर्यसमाप्तेरेकतमवेषः॥
आ0 केशवेषान्वक्ष्यति मुण्डो जटिलः शिखी वेत्यादि। तत्र यदेवाङ्गीकृतं तदेव संविहितमविच्छिन्नं मुण्डत्वं जटिलत्वं शिखित्वं वा धारयेन्न व्यामिश्रम्॥
इ/1.1.3ऊ
इ1.1.4ऊ
भैक्षाचार्यवृत्तिः।4।
दे0 भिक्षाणां समूहो भैक्षं।.........भेक्षेणैव ब्राहृचारिणा शरीरं संधारणीयमिति नियमः। आचार्याधीना चास्य वृत्तिः स्थितिरूपा शरीरपोषणरूपा च स्यात्। आचार्यो हि प्रेयं कांश्चिद्भिक्षां दापयतीति। आचार्येणापि तस्य शरीरपोषणलक्षणा वृत्तिरन्यचेष्टावदुपपद्यते। अन्यतो वा कदाचिद्भिक्षस्यालाभ आचार्य एव भोजनमादिकं ददातीति॥
व्र0। भैक्षाभाव आचार्यव्यापृतो वा तदनुज्ञ्यैकान्नाद्योऽपि वा॥
आ0। भैक्षेण आचार्यानुशया वा अभैक्षेणापि वृत्तिः शरीरयात्रा यस्य स एवमुच्यते॥
इ/1.1.4ऊ
इ1.1.5ऊ
सशल्कदण्डः।5।
दे0। इह सामान्याभिधानेऽपि दण्डः पालाशादिर्यथायथं वक्ष्यमाणः। सह शल्केन त्वचा वर्तमानो दण्डो यस्य स सशल्कदण्डः॥
व्र0। सत्वगित्यर्थः॥
आ0। सशल्कः सत्वक्को दण्डो यस्य पालाशादिः स सशल्कदण्डः॥
इ/1. 1.5ऊ
इ1.1.6ऊ
सप्तमुञ्जां मेखलां धारयेत्।6।
दे0। सप्तभिर्मुञ्जव्यक्तिभिस्त्रिवृद्यावती भवति तां मेखलां धारयेत्॥
व्र0। इषीका यस्य देमाभा पत्नं यस्य सुपिञ्जरम्।
सप्तमुञ्ज इति ख्यातः स शरः पर्पढः स्मृतः॥
आ0। सप्तभिर्मुञ्जैः प्रविष्टैर्यावती त्रिवृद्भवति सा सप्तमुञ्जा। ब्रााहृणस्य स्थैल्ये नियम इति केचित्। वस्तुतस्तु
इषका यस्य......स्मृत इति दर्शनात्सप्तमुञ्जो मुञ्जविशेषः। तेन त्रिवृत्तां सप्तमुञ्जां मेखलां रशनां
धारयेदिति॥
इ/1. 1.6ऊ
इ1.1.7ऊ
न मधुमांसे अश्नीयात्।7।
दे0। माक्षिकं मांसं च न भक्षयेदिति। तृप्त्यर्थतया प्रसक्तस्य प्रतिषेधः। मधु मद्यमपि। तत्क्षत्रियवैश्ययोर्निषिध्यत इत्युपाख्यानमेकीयं। तन्न। प्रसक्त्त्याभावात्। तस्माद्ब्रााहृणपराजन्यौ वैश्यश्च न सुरां पिबेदिति त्रयाणामपि निषेधः स्यात्॥
आ0 । मधु च मांसं च ते मधुमांसे। मधु माक्षिकं क्षत्रियादिविषये मद्यं वा समाननिर्देशादन्यत्र निषेधे द्वयोरपि स्यात्॥
इ/1.17ऊ
इ1.1.8ऊ
क्षारलवणवर्जी।8।
दे0। क्षारं च तल्लवणमौषरं समुद्रिकादि तद्वर्जी तद्वजर्यति तच्छीलः क्षारलवणवर्जी। सैन्धवसौवर्चलादिकं भक्षयेदेव। क्षारद्वयं सर्वं च। लवणं वजंयेदिति केचित्॥
आ0। क्षारं यल्लवणमूषरलवणं समुद्रादि तद्वर्जयेत्। न त्वक्षारं विडसैन्धवसौवर्चलादि॥
इ/1.1.8ऊ
इ1.1.9ऊ
आचार्यस्याप्रतिकूलः।9।
दे0 । अनुकूल इत्यर्थः।
आ0 । गुरोरप्रथिकूलः स्यात्। सदानुकूलां हितैषीत्यर्थः॥
इ/1.1.9ऊ
इ1.1.10ऊ
सर्वकार्यास्वतन्त्रः।10।
दे0। आस्ताम्। अध्ययनादिकं क्रियामात्रमप्याचार्यानुज्ञया विना न कुर्यादित्यर्थः॥
व्र0। तदुक्तमाचार्याधीनोऽन्यत्र धर्मचरणात्॥
आ0। सर्वेषु कार्येष्वस्वतन्त्रः आचार्यवशवर्ती स्यात्। आचार्यानुज्ञया कार्याणि कुर्यादित्यर्थः॥
इ/1.1.10ऊ
इ1.1.11ऊ
पूर्वोत्थायी जघन्यसंवेशी।11।
दे0। शयनादिकममाश्रिते गुरुवुत्थातुकामे पूर्वं प्रथममेवोत्तिष्ठेत्। शयनावस्थिते चाचार्ये तत्पादसंवाहनादिकं कृत्वा पश्चाच्छयनादिके संविशेत् जघन्यसंवेशीत्ययमर्थः। यदाचार्यः खट्वायां तिष्ठति तदा ब्राहृचारिणा खट्वायाः सकाशाद्यज्जघन्यमासनं पट्टतलशय्यादिकं तत्र संवेशनीयं। एवं शय्यामासीने गुरौ ततो निम्न इत्याद्यनुमन्तव्यम्॥
ब्रा0। स्नानाग्निपरिचरणार्थं प्रागाचार्यशयनोत्थानात्प्रबुध्येतेति। जघन्यसंवेशी। तदाहापस्तम्बः। तस्य
पादौ प्रक्षाल्य संवाह्रानुज्ञातः संविशेत्॥
आ0। आचार्यात्पूर्वं शयनात्प्रातरुत्तिष्ठति तच्छीलः। आचार्ये संविष्टे शय्यागते तस्याङ्गसंवाहनं कृत्वा पश्चात्संवेशनं शीलमस्येति जघन्यसंवेशी॥
इ/1.1.11ऊ
इ1.1.12ऊ
यदेनमुपेयात्तदस्मै दद्यात्।12।
दे0। यत्सौवर्णादिकं किञ्चिदेनमुपेयादुपनमेदुपच्छेत्तब्राहृचारी अस्मा आचार्याय दद्यात्॥
आ0। यत्किञ्चिदेनं ब्राहृचारिणं धनमुपेयादुपगच्छेत्तदस्मै आचार्याय दद्यात्॥
इ/1.1.12ऊ
इ1.1.13ऊ
बहूनां येन संयुक्तः।13।
दे0। यद्यपि ब्राहृचारी सकलवेदवेदाङ्गोपाङ्गशानार्थं यथायोग्यं क्रमेण बहूनाचार्यानुपास्ते तथापि यस्य सन्निधौ निवसन्यल्लभेत तत्तस्मै दद्यात्। न तु सर्वदा सर्वं सर्वेभ्यो विभज्येत्यर्थः॥
आ0। बहूनामाचार्याणां विद्यमानानां येनाचार्येण संयुक्तो लभेत तत्तस्मै दद्यात्। न विभज्य देयम्॥
इ/1.1.13ऊ
इ1.1.14ऊ
नास्य शय्यामाविशेत्।14।
दे0। यस्यां शय्यायामाचार्यः स्थितः तामपाटवादिदशायां कारुण्यात् स्नेहातिशयाद्वापाटवे वाप्याचार्येणानुज्ञातोऽपि नाधितिष्ठेदित्र्थः। तेन जघन्यसंवेशीत्यनेन पौनरुक्त्याभावः॥
आ0। नाचार्यस्य शय्यां शयनं प्रातिष्ठिकीमाविशेत् संविशेत्॥
इ/1.1.14ऊ
इ1.1.15ऊ
न रथमारुहेत्।15।
दे0। अस्येत्यनुषङ्गः। अनुगमने चानुशातस्य प्रतिषेधः। अन्ये तु शय्याग्रहणमाचार्याधिष्ठितासनाद्युपलक्षणार्थं व्याख्याय शरीरासामाथ्र्ये सति रथाभ्यनुज्ञानार्थं रथवाक्यं वर्णयन्ति रथग्रहणं च करितुरगाद्युपलक्षणार्थं व्याचक्षते॥
आ0। पादुकाद्यपि॥
इ/1.1.15ऊ
इ1.1.16ऊ
न संवस्त्रयेत ।16।
दे0 । समानं वस्त्रं न कुर्यात् । आचार्यपरिहितं वस्त्रं न परिदधीत । नाप्याचार्यवस्त्रेण सह समाने करण्डादिभाण्डे स्ववस्त्रं संमिश्रितं कुर्यात् ॥
आ0। गुरुणा सह नैकवाससासीतान्येन वा ॥
इ/1.1.16ऊ
इ1.1.17ऊ
सर्वाणि सांस्पर्शकानि स्त्रीभिः सह वर्जयेत् ।17।
दे0 । संस्पर्शनिमित्तानि यानि पाणिग्रहणाभ्यञ्जनादीनि कर्माणि तानि सर्वाण्येव सर्वाभिः स्त्रीभिः सह वर्जयेत् । गुराविव तत्पुत्रदारेषु वर्तनीयमित्यस्याः स्मृतेरप्ययमपवादः पादसंवाहनादिविषयः ॥
आ0 । सर्वाणि संस्पृश्य यानि क्रियन्ते तानि संस्पर्शिकानि । अभ्यञ्जनोत्सादनप्रसाधनानि स्त्रीभिः सह परस्परं वर्जयेत् ॥
इ/1.1.17ऊ
इ1.1.18ऊ
न मुषितां प्रेक्षेत ।18।
दे0 । मुषितामिव नग्नां न पश्येत् ॥
आ0 । नग्नां स्त्रियं नेक्षेत ॥
इ/1.1.18ऊ
इ1.1.19ऊ
न विरहार्थं जल्पेत् ।19।
दे0 । विहारः क्रीडा । तदर्थं परिहासादिकं न वदेत् । अथवा सर्वकार्यास्वतन्त्र इत्यनेन सर्वक्रियास्वाचार्यानुज्ञाग्रहणपूर्विकायां वृत्तौ स्थितायां विहारो मूत्रमलोत्सर्गमाह । विहारार्थं न जल्पेदनुज्ञग्रहणाय ॥
व्र0 । विहारार्थः क्रीडापर इति ॥
आ0 । विहारः क्रीडा । तत्प्रयोजनं यस्यासौ विहारार्थं न जल्पेत्किञ्चित् स्त्रीभिः सह जल्पं वर्जयेत् ॥
इ/1.1.19ऊ
इ1.1.20ऊ
न रुच्यर्थे किञ्चन धारयते ।20।
दे0 । रुचिर्दीप्तिः रतिः प्रीतिश्च । तदर्थं द्रव्यविशेषादिकं न संगृह्णीयात् । अलङ्करणक्रीडनादिकम् ॥
ब्रा0 । किञ्चित्.......शोभनमाल्यवस्त्रालङ्करणादिकमिति ॥
आ0 । रुचिरभिलासः तदर्थं क्रीडनादि न धारयेत् ॥
इ/1.1.20ऊ
इ1.1.21ऊ
न स्नायात् ।21।
दे0 । रुच्यर्थमित्यनुवर्तते ॥
आ0 । दीप्त्यर्थं स्नानं शोभाप्रयोजनं न कुर्यात् । नित्यस्नानविकल्पः । नैमित्तिकं कुर्यादेव ॥
इ/1.1.21ऊ
इ1.1.22ऊ
उदकं वाभ्युपेयात् ।22।
दे0 । अयमर्थः । रुच्यर्थं स्नानं निषिद्धम् । नित्यं तु कर्तव्यमेव । नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणमित्यादिना ब्राहृचारिणोऽपि विधानात् । तत्र च विकल्पः स्नान कदाचिन्मन्त्रसंस्कृतेनोदकेन प्रोक्षणं कदाचिन्मज्जनं । तत्राद्यमनेनोक्तमुदकं वाभ्युपेयादिति ॥
आ0 । नित्यस्नाने विकल्पः ।
इ/1.1.22ऊ
इ1.1.23ऊ
यदि स्नायाद्दण्ड इवाप्सु परिप्लवेत् ।23।
दे0 । यदि मज्जनरूपः स्नानपक्षः तदा ब्राहृचारिणा दण्डेनेवाप्सु परिप्लवनमात्रं कर्तव्यं न तु कान्त्यादिसिद्धये यतनीयं मलापसारणादिना ॥
आ0 । मङ्क्त्वोन्मज्जेत् । न बाहुभ्यां नदीं तरेत् । मलापकर्षणं न कुर्यात् ॥
इ/1.1.23ऊ
इ1.1.24ऊ
मुण्डो जटिलः शिखी वा ।24।
दे0 । मुण्डः शिखारहितः ॥
आ0 । शिखारहितः । जटावान् । चूडां वा धारयेत् ॥
इ /1.1.24ऊ
इ1.1.25ऊ
सायं प्रातः सन्ध्यामुपासीत ।25।
दे0 । सकलादित्योपलक्षितः कालो दिवसः । आदित्यशून्यः कालो रात्रिः । अर्धोदितेन वा तंगतेन वादित्येनोपलक्षितः कालः सन्धिः । सन्धौ भावा सन्ध्या । तामुभयामपि प्रत्यहमुपासीत । उपासनं सेवा । कथमुपासीतेति ॥
आ0 । सायमपराह्णे प्रातः पूर्वाह्णे सन्ध्यां सूर्यनक्षत्रवर्जितं कालमुपासीत । उपवासे वा ध्यानमिति पर्यायः । द्वितीयनिर्देशात्सर्वं कासमुपासीत ॥
इ/1.1.25ऊ
इ1.1.26ऊ
तिष्ठेत्पूर्वाम् ।26।
दे0 । पूर्वां पूर्वाह्णभागभवां तिष्ठेत् । निवृत्तगतिपूर्वः प्राङमुखो जपन्नवतिष्ठेत सनक्षत्रकालादारभ्य आ सूर्यज्योतिषदर्शनात् ॥
आ0। स्थित उपासीत पूर्वां सन्ध्यां प्राङ्॥
इ/1.1.26ऊ
इ1.1.27ऊ
आसितोत्तराम्।27।
दे0। अपराह्णसंनिहितामुपविष्टः प्रत्यङमुखः सभास्करकालादारभ्य जपन्नासीतेत्य तारकज्योतिषदर्शनात्॥
आ0। द्वितीयामासीनः प्रत्यङ्ङुपासीत इदं जपन्॥
इ/1.1.27ऊ
इ1.1.28
र्भुवः स्वरित्युक्ता तत्सवितुरिति सावित्रीमन्वाह।28।
दे0। त्रिराचम्य द्विरुन्मृज्य खान्युपस्पृश्य त्रीन्प्राणायामान्पञ्चदशमात्रपरिमाणान् स्मार्तोक्तान् कृत्वा प्रतिप्रणवयुक्तव्याह्मतिसप्तकान्वितसशिरस्कसावित्र्या त्रिरभ्यासेन परिच्छिन्नांस्त्रीन् प्राणायामान् कृत्वाधमर्षणमादिसूर्योपस्थानान्तं भूर्भुवः स्वरिति महाव्याह्मतित्रययुक्तां तत्सवितुरिति सावित्रीमभ्यस्तां जपेत्॥
आ0 सावित्रीग्रहणं क्षत्रियवैश्ययोस्त्रिष्टुब्जगत्यौ भवत् इति सूचयति। तत्सवितुरिति गृह्रान्तरे तपोर्विहिते इह तु सूत्रातिरेकेण॥
इ/1.1.28ऊ
इ1.1.29ऊ
प्रागस्तमयान्निष्क्रम्य समिध आहरेद्धरिणीब्र्राहृवर्चसकाम इति श्रुतिः।29।
दे0। अनस्तंगते भानौ ग्रामान्निष्क्रम्याष्टौ समिधोऽग्निसमिन्धनार्थं हरितवर्णा आद्र्रा आहरेद्यो
वेदाध्ययनतदर्थानुष्ठानादिसमृद्धिलक्षणं ब्राहृवर्चसं कामयते॥
आ0। प्रागस्तमयान्निष्क्रम्य ग्रामात्समिधा आहरेदग्नीन्धनार्थं। अष्टौ हरिणीराद्र्रा ब्राहृवर्चसकामः। अध्ययनविज्ञानकर्माचारानुष्ठानकृतं यत्तेजस्तद्ब्राहृवर्चसम्॥
इ/1.1.29ऊ
इ1.1.30ऊ
सायं प्रातः सन्ध्यानिःसरणं भैक्षचरणमग्नीन्धनम्।30।
दे0। सायं प्रातश्च सन्ध्योपासनार्थं ग्रामाद्बहिर्निः सरणं कर्तव्यं। सायं प्रातश्च भैक्षचरणं कर्तव्यं। उभयकालं हि भोजनमाम्नातं।.........एवमग्निसमिन्धनं कालद्वयेऽपि कर्तव्यं। चतरुाः प्रातश्चतरुाः सायं समिधो होतव्याः॥
आ0। सायं प्रातश्च सन्ध्योपासनार्थं ग्रामान्निः सरणं निष्क्रमणं कर्तव्यं। भैक्षचरणं। सायं प्रातर्भोजनद्वयार्थं
कर्तव्यमिति शेषः। अग्नीन्धनं सायं प्रातरेव कर्तव्यम्॥
इ/1.1.30ऊ
इ1.1.31ऊ
सायमेवाग्निमिन्धीतेत्येके।31।
दे0। अत्रपक्षे चतरुाः समिध आहर्तव्याः॥
आ0। केचिदेवं मन्यन्ते न प्रातरग्नीन्धनमपि तु सायमेवेति॥
इ/1.1.31ऊ
इ1.1.32ऊ
भैक्षस्याचरणे दोषः पावकस्यासमिन्धने।
सप्तरात्रमकृत्वैतदवकीर्णिव्रतं चरेत्॥32॥1॥ (1।1॥)
दे0। अवकरणमवकीर्णे कामतो ब्राहृचारिणो रेतस उत्सर्गः। अवकीर्णं विद्यते यस्य सोऽवकीर्णी। तस्य व्रतमाम्नातं।....एतत्सन्ध्योपासनादिकमकृत्वावकीर्णिव्रतं चरेत्। किं परिपूर्णमाब्दिकमेव। नेत्याह। सप्तरात्रमिति। अन्ये तु व्याचक्षते। सन्ध्योपासनादिकं सप्तरात्रमकृत्वावकीर्णिव्रतं चरेत्परिपूर्णमेवेति। सप्तरात्रान्न्यूनेऽधिके वा अकरणे न्यूनमधिकं चेति।.......नैऋतं गर्दभं च। आलभ्येति शेषः। निर्ऋतिं गर्दभेनेष्ट्वेत्यर्थः। एतत्संवत्सरं व्रतं चरेदिति। अत्रापि पूर्ववद्योजना॥
आ0। ..........तच्च होममात्रं। यदाह याज्ञवल्क्यः। भैक्षाग्नि..........द्वयमिति। तत उपस्थानं। एते रहस्ये। नैर्ऋतं गर्दभं चरुं वा संवत्सरं व्रतचर्या। कामतो रेतःसेक एव भवति। प्रकाशे सप्तरात्रं वावकीर्णिव्रतं चरेत्। व्रतमेव चरेन्न होमः। तद्य व्रतं सप्तागारं चरेद्भैक्षं........विशुष्यति। अत्र पुनः संवत्सरेण॥
इ/1.1.32ऊ द्वितीय खण्डः इ1.2.1ऊ विभूरसीत्यनुवाकेनाग्निमुपस्थायैधोऽसीति समिधमादधाति समिदिति द्वितीयामिदमहमिति तृतीयामिदमहमग्नाविति चतुर्थीम्।1।
दे0। समिदिति द्वितीयामित्यादौ सर्वत्र समिधमादधातीति संबन्धः। एधोऽसीति प्रतीकेनैधिषीमहीत्यन्तस्य ग्रहणम्। एवं समिदसीत्यनेन समेधिषीमहीत्यन्तस्य। इदमहमित्यनेनापि भवामीत्यन्तस्य। चतुर्थः सकलः पठितः॥
व्र0। यस्मिन्नग्नावुपनयनहोमः कृतस्तं स्नानवृतं यावद्धारयेत्। तÏस्मस्त्रैविद्यकादयो व्रतहोमाः। तमेव सायं प्रातरिन्धीत। उद्धृताषोक्षितेऽÏग्न प्रतिष्ठाप्य तस्य पश्चात्प्राङ्मुख उपविश्य। परिसमूह्र पर्युक्ष्य परिषिच्य। उत्तरोऽनुवाको धिष्ण्यानामाङ्गिरसामग्निगणानां चेत्यार्षमनुस्मृत्य। विभूरसि.......नमस्तेऽस्तु मा मा हिंसीरित्युपतिष्ठते। तत उपविश्यैधोऽसीति यथोक्तैश्चतुर्भिर्मन्त्रैश्चतरुाः समिध आदधाति॥
आ0। अग्निमुपस्थाय। अÏग्न यं कंचित्।.......इदमहमिति तृतीयां समिधम्। इदमहमग्नाविति चतुर्थीम्। भिन्नसमाम्नातत्वात् मन्त्राणां द्वितीयादिग्रहणम्॥
इ/1.2.1ऊ
इ1..2.2ऊ
तेजोऽसीत्यग्निमनुमन्त्रयते तेजो मयि धेहीत्यात्मानं शेषेणोपतिष्ठते।2।
दे0। अत्र योग्यत्वादनुमन्त्रयत इत्यध्याहारः। अग्निमात्मानमिति कर्मनिर्देशात्। तथा चान्यत्र परिभाषा दृश्यते। कर्मानदशे मन्त्रोऽनुमन्त्रण इति॥
आ0। तेजोऽसीत्यग्निमनुमन्त्रयते। तेजो मयि धेहीत्यात्मानं ह्मदयदेशे। अपोऽद्यान्वचरिषं संमाग्ने वर्चसेति पुनरुपतिष्ठते। तत उपविश्य ऋतं त्वेति विमुच्य। पूर्ववत्पर्युक्षणं परिषेचनं च॥
इ1.2.2ऊ
इ1.2.3ऊ
ततः प्रातः प्रागुदयात्।3।
दे0। अग्निसमिन्धनं कुर्यादिति शेषः। सायं प्रातश्चाग्निसमिन्धनमेकीयमतेन द्योतितम्। तत्र कालावधिप्रतिपादनार्थमेतत्। प्रातर्यदाप्रसमिन्धनं कर्तव्यं तदादित्योदयात् प्राक् सायमप्यस्तमयात्पूर्वम्॥
आ0। यथा प्रातरग्नीन्धनम्। प्रागादित्योदयात्तु॥
इ/1.2.3ऊ
इ1.2.4ऊ
द्वादशचतुर्विंशतिं षÏट्त्रशतमष्टाचत्वारिंशतं वा वर्षाणि यो ब्राहृचर्यं चरति मलज्ञुरबलः कृशः सर्वं स विन्दते स्नात्वा यÏत्कचिन्मनसेच्छत्येतेनैव धर्मेण साध्वधीते।4॥2॥(1।2)
दे0। एतेनैव पूर्वोक्तधर्मकलापेनोपलक्षितः सन् स साधु यथास्थानकरणवर्णस्वरमधीते।.......स स्नात्वा स्नातकधर्मान्निर्वत्र्यावबुद्धवेदार्थः कृतदारसंग्रहो जातपुत्रः कृष्णकेशः कृताग्न्याधानो
यÏत्कचन कामयते स्वर्गपशुपुत्रादिकं फलं तत्सर्वं सम्यगवबुध्य स्मार्तकर्मानुष्ठानद्वारेण विन्दते लभते।........कियन्तं कालमधीत। शालमव्यवसायादिकमपेक्ष्य प्रतिवेदं द्वादश वर्षाणि ब्राहृचर्यं चरन्। तेनैकत्र वेदद्वादश वर्षाणि परिश्रमः कर्तव्यः द्वयोश्चतुर्विंशतिं। त्रिषु षÏट्त्रशतं चतुष्र्वष्टाचत्वारिंशतं। नैष्ठिकब्राहृचर्यापेक्षं चात्राष्टाचत्वारिंशद्वर्षचतुष्टयाध्ययनं बोद्धव्यं।........
आश्रमान्तरार्थिना सर्वथा प्रज्ञानुसारेण वेदान्वेदौ वेदं वेदैकदेशं वाधीत्याधिगम्य च धर्मसहचारिणीपरिग्रहपूर्वकग्रहस्थाश्रमादिकमनुष्ठातव्यमिति। कीदृशस्त्रैवर्णिकः। मलङ्गुः मलिनजानुरस्नातात्। अबलश्च भैक्षभोजनात्। कृशश्च शुश्रूषादिपरिश्रमात्॥
आ0। एवं ब्राहृचारी द्वादश चतुर्विंशति षÏट्त्रशतमष्टाचत्वारिंशतं वा वर्षाणि। प्रतिवेदं द्वादश तदर्थं पादं ग्रहणान्तं स्मृतिदर्शनात्। यो ब्राहृचर्यं चरति स्नात्वा स सर्वं विन्दते इति। मलङ्गुर्मलिनजानुः रुच्यर्थं स्नानाभावात्।......सर्वं यथोक्तं वेदफलमाप्नोति। स्वाध्यायफलं धृतकुल्यादि। काम्यफलं पुत्रप·ान्नादि। यÏत्क च मनसा प्रार्थयते तदित्थमधीतवेदः अविकल्पं प्राप्नोति एतेनैव धर्मेण यदधीते साधु भवति शोभनमित्यर्थः॥
दे0। ब्राहृचर्यव्रतस्याचार्यपूजाविधिद्वारेणावधिमाह॥
इ/1.2.4ऊ तृतीय खण्डः इ 1.3.1ऊ छन्दस्यर्थान्बुद्ध्वा स्नास्यन्गां कारयेदाचार्यमर्हयेति।1।
दे0। छन्दसि वेदे ऋग्यजुः सामलक्षणमन्त्रब्रााहृणार्थवादनामधेयभेदयुक्ते ये व्यवस्थिता अर्था द्वादशाध्यायनिर्णेयास्तान् बुद्ध्वा तद्योग्यत्वास्नास्यन् दारपरिग्रहार्थं स्नातकधर्मान्ग्रहीतुमिच्छन् आचार्यमधीष्य गां मधुपर्कार्थं दत्वा अर्हयेत्। सा मधुपर्कोष्ठे गुरवे दास्यते। आचार्यो हि शिष्याय मघुपर्कं ददाति। शिष्य आचार्याय दक्षिणामिति काचित्। अन्ये तु गोप्रभवो मधुपर्को गोशब्देन विवक्षित इति व्याचक्षते। तेनाचार्यमधीष्य मधुपर्को मे दीयतामित् मधुपर्कं कारयेदित्यर्थः। गृहीतमधुपर्कश्च ब्राहृचार्याचार्यमर्हयेद्दश्रिणादिना यथाशक्ति पूजयेत्। अन्ये तु सूत्रभेदेन व्याचक्षते।
छन्दस्यार्थान्बुद्ध्वा स्नास्यन्गां कारयेदित्येकम् आचार्यममर्हयेदिति द्वितीयं। आचार्यमधीष्यादावात्मने गां मधुपर्कं च दापयेदित्याद्यस्यार्थः। .....तस्माद्गृहीतविद्यो गुरुणानुज्ञातः स्नायात्स्नात्वा च भार्यामधिगच्छेदनुत्सृष्टो हि वीर्यं हित्वोपावर्तेत। तथा च श्रुतिः। इन्द्रो वै प्रजापतौ ब्राहृचर्यमुवास स वा अनुत्सृष्टो वीर्यं हित्वोपावर्ततेति। आचार्यो ब्राहृचारिणः प्रजापतिरिति च॥
व्र0। त्रैविद्यकापवर्गहोमान्तेऽग्नौ दण्डं प्रास्येदप्सु मेखलामजिनं वासश्च। तत आचार्यं मधुपर्केणार्हयेत्। तं च दक्षिणया तोषयित्वा स्नायाता॥
आ0। छन्दसि वेदे। अर्थान्बुद्ध्वा। बहुवचनं विध्यर्थवादमन्त्रगुणविधिनामधेये श्रुत्याद्युपदेशातिदेशोहबाधात्युच्चयलक्षणतन्त्रप्रसङ्गादीनर्थान् सम्यग्ज्ञात्वानन्तरं गां कारयेदाचार्यमात्मनः। गोशब्देन गोसाधनो मधुपर्कं उच्यते। विद्यान्ते आचार्येण शिष्यमधुपर्को देयः। ......आचार्यं मधुपर्कं कारयेत् आचार्यमर्हयेत्। अवाप्तमधुपर्कः सोऽप्याचार्यममर्हयेद्भूरिदक्षिणया। आचार्यशब्दः काकाक्षिन्यायेनोभयत्र
संबध्यते॥
इ/1.3.1ऊ
इ1.3.2ऊ
श्रोत्रियोऽन्यो वेदाध्यायी।2।
दे0। द्विविधो ब्राहृचारी दर्शितः। उपकुर्वाणो नैष्ठिकश्च। उपकुर्वाणो यो ब्राहृचर्ये चरित्वा स्नानदारपरिग्रहादिकं संश्रयेत। नैष्ठिको यो ब्राहृचर्येण निष्ठां गमयति। तत्रोपकुर्वाणकस्य
सावधिकं ब्राहृचर्यमिति। तदपेक्ष्योक्तं छन्दस्यर्थानित्यादि। नैष्ठिकापेक्षया त्विदमुच्यते। अन्यो नैष्ठिको ब्राहृचारी श्रोत्रियो वेदाध्यायी। श्रोत्रियश्छन्दोऽधीत इति श्रोत्रियशब्दः। वेदाध्यायी निपातितः। ततश्चैतदुक्तं भवति। अन्यो नैष्ठिको ब्राहृचारी।
वेदाध्यायीति पुनर्वचनमवधारणार्थं।
आ0। श्रोत्रियोऽधीयात एव नार्थज्ञः। स नैष्ठिकब्राहृचारी॥
इ/1.3.2ऊ
इ1.3.3ऊ
न तस्य स्नानम्।3।
दे0। तस्यानन्तरोक्तस्य नैष्ठिकस्य स्नानं नास्तीत्यर्थः। यस्य तूपकुर्वाणकस्य स्नानादिकमस्ति तस्य स्नानकर्तव्यतामाह॥
आ0। स्नानाख्यसंस्कारस्तस्य नास्तीत्यत्र्थः॥
इ/1.3.3ऊ
इ1.3.4ऊ
अथास्य स्नानम।4।
आ0। अधिगतार्थस्य गार्हस्थ्यं चिकीर्षोरुपकुर्वाणब्राहृचारिणः स्नानमेतदुच्यते॥
इ/1.3.4ऊ
इ1.3.5ऊ
व्रजपरिहितं प्रपाद्य जटाश्मश्रुलोमनखमभिसंहार्यापो हि ष्ठेति तिसृभिः स्नायाद्धिरण्यवर्णा इति च द्वाभ्यां हिरण्यवर्णाः शुचयाः पावका यासु जातः कश्यपो यास्विन्द्रः। या अÏग्न गर्भं दधिरे विरूपास्ता न आपः शं स्योना भवन्तु॥ हिरण्यवर्णा शुचयः पावका विचक्रमुर्हित्वाद्यमापः शतं पवित्रा वितता ह्रासां ताभिर्मा देवाः सविता पुनात्विति शं न इति च द्वाभ्याम्।5।
दे0। गोसमूहो व्रजः। तेन परिहितमधिष्ठितं देशं प्रपाद्य निवेश्य। प्रयोजककर्तुराचार्यस्यायं निदेशः। यथासंभवं जटिलपक्षे जटानां वापनं शिखिपक्षे केशानां। तेन जटादिकमभिसंहार्यापसार्य वापयित्वा। आपो बि ष्ठेति तिसृभिः संमार्जनं कुर्वन्तं स्नायात् स्नापयेत् मज्ज्ञयेत्। हिरण्यवर्णआ इति द्वाभ्यां द्वितीयं मज्जनं कुर्यात्। शं न आप इति तृतीयं। ..........हिरण्यवर्णां इति शाखान्तरीयत्वात्समस्ताः सूत्रकृता पठिताः।
व्र0। व्रजपरिहिते देशे जटाश्मश्रुलोमनखं परिवापयित्वा॥
आ0। व्रजपरिहितं प्रपाद्य केशवापात्। व्रजो गोष्ठानं तञ्च परिहितं परिश्रितं। तच्च श्मश्रुलोमनखमभिसंहार्य वापयित्वा शुद्ध्यर्थे स्नान कृत्वा आपो हि ष्ठेति तिसृभिः स्नायात् निमज्जेत्। ततो हिरण्यवर्णा इति द्वाभ्यां पुनः स्नायात्। शं न आपो धन्वन्या इति पुनरेव च॥
इ/1.3.5ऊ
इ1.3.6ऊ
द्यौस्ते पृष्ठमिति छत्रं धारयेत्।6।
व्र0। ततः शोभनानि वस्त्राणि परिधाय द्यौस्ते पृष्ठमिति छत्रं धारयेत्॥
आ0। एवं त्रिः स्नात्वा। उत्तीर्य शोभनवाससी परिधाय द्यौस्ते पृष्टमिति छ0 धा0॥
इ/1.3.6ऊ
इ1.3.7ऊ
इममग्न इति हिरण्यम्।7।
दे0। कटककुण्डलादि हिरण्यम्॥
व्र0। रुक्मे कुण्डले च श्रोत्रयोः॥
इ/1.3.7ऊ
इ1.3.8ऊ
प्रतिष्ठेस्थो देवते मा मा हिंसिष्टमिति वाराह्रा उपनहौ प्रतिमुञ्चते।8।
दे0। प्रतिष्ठे स्थ इत्यादिना वाराह्रोपानहौ प्रतिमुञ्चते परिधत्ते। वाराहशब्दो वाराहचर्मणि वर्तते। वराहचर्मणा निर्वृत्ते इत्यण्। तस्याणितौरनार्षयोर्गुरूपौत्तमयोः षङ् गोत्र इति ष्यङं यङश्चाप् वाराह्रे च ते उपानहौ वाराह्रोपानहौ। वराहः सूकरः। .......। अन्ये तु वाराह्रशब्दं संनिवेशविशिष्टोपानद्वाचकं व्याचक्षते। चतुष्कच्छादितवत्। अपरे लक्षणया चर्ममात्रमयोत्वं वर्णयन्ति। न हि कश्चिदाचार्यः सूकरचर्ममय्यावुपानहौ परिदधद्दृश्यते। केचित्तु पठन्ति वाराह्रुपानहाविति। तत्र वाराहो उपानहाविति द्वे पदे। छन्दोवत्सूत्राणि भवन्तीति। प्रथमाद्विवचनस्य लुक्। पूर्वसवर्णादेशो वा। सुपां सुलुक्पूर्वसवर्णेत्यादिना॥
आ0। अनेन वाराह्रोपानहौ प्रतिमुञ्चते। वराहचर्मनिवृत्ते वाराह्रो यङश्चाप्। वाराह्रे च ते
उपानहौ वाराह्रोपारनहौ॥
इ/1.3.8ऊ
इ1.3.9ऊ
द्विवस्त्रोऽत ऊध्र्वम्।9।
दे0। अतो ब्राहृचर्यादूध्र्वं द्विवस्त्रः। ब्राहृचारी ह्रेकवस्त्र आसीत्। मृगाजिनं हि तेनोपरिधारितम्॥
आ0। स्नानादूध्र्वं द्विवस्त्रो भवति। सत्यप्यन्तर्वाससि। तथा वसिष्ठः। स्नातकानां तु स्यादन्तर्वासस्तथोत्तरम्॥
इ/1.3.9ऊ
इ1.3.10ऊ
तस्माच्छोभनं वासो भर्तव्यमिति श्रुतिः।10।
दे0। तच्च वस्त्रद्वयं विभवानुसारेणोत्कृष्टं कर्तव्यम्॥
आ0। सति विभवे न जीर्णमलवद्वासाः स्यादिति॥
इ/1.3.10ऊ
इ1.3.11ऊ
वैणवदण्डधारी नित्यं छत्रधार्यपन्थदायी।11।
दे0। वेणोः संबन्धिनं च दण्डं धारयेत। तच्छीलो वैणवदण्डधारी। नित्यमिति। न त्वष्टम्भनाद्यर्थितयैव कदाचिदेवेति एवं छत्रधारी। अपन्थदायी। नान्यस्मै पन्थानं दद्यात्॥
आ0। छत्रधारी वर्षतपयोः। अपन्थदायी। चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियः। स्नातकस्य च राज्ञश्च पन्था देयो वरस्य चेति। दृष्टविरोधं वर्जयित्वा न कस्यचिन्मार्गे दद्यात्॥
इ/1.3.11ऊ
इ1.3.12ऊ
अदत्तहरणं प्रतिषिद्धम्।12।
दे0। परकीयं यद्द्रव्यं तत्परेणादत्तं न गृह्णीयात्। न परस्वमपहरेदिति श्रुत्यादिनिषिद्धत्वात्॥
आ0। ननु सर्वस्यैवादत्तहरणं प्रतिषिद्धम्। उत्सृष्टमप्यन्येन न प्रथिगृह्णीयादित्यर्थः॥
इ/1.3.12ऊ
इ1.3.13ऊ
अपरया द्वारा निःसरणम्।13।
दे0। प्रतिषिद्धमिति कण्डिकान्तं यावदनुषङ्गः। प्रसिद्धमविगर्हितं यद्द्वारं ततोऽन्यया द्वारा अप्रतिषिद्धया गुप्तान्तःपुरादिनिःसरणप्रवेशाय परिकल्पितया निःसरणं प्रवेशनं च निषिद्धम्॥
आ0। निकृष्टं द्वारमप्रसिद्धमपरिमिति तया द्वारा न प्रविशेत्। न निःसरेत्परं गृहं वा॥
इ/1.3.13ऊ
इ1.3.14ऊ
मलवद्वाससा सह संभाषा।14।
दे0। मलवद्वासाः ·ापचादिः। तेन सह संभाषणं निषिद्धम्॥
व्र0। मलवद्ससो भवन्त्युदक्या सूतिका ·ापाकाशुचयोऽन्त्यावसायिन इति॥
आ0। मलवद्वाससः स्वपाकाद्याः। तैः सह संभाषणं न कुर्यात्॥
इ/1.3.14ऊ
इ1.3.15ऊ
रजोवाससा सह शय्या।15।
दे0। तथा रजोवाससा रजस्वलयोदक्यापरपर्यायया सह शयनं निषिद्धं। स्नानस्य विवाहोपक्रमत्वादेवमुच्यते। इतिकर्तव्यता हि स्नानं। विवाहमृते नास्ति प्रसक्तिः॥
आ0। रजोवाससा स्त्रिया प्रतिस्नातयापि सह शयनं प्रतिषिद्धम्॥
इ/1.3.15ऊ
इ1.3.16ऊ
गुरोर्दुरुक्तवचनम्।16।
दे0। गुरोर्मान्यस्य......दुष्टं पुरुषादि वचनं प्रतिषिद्धम्॥
आ0। गुरोर्दुरुक्तमचनं साधिक्षेपं प्रतिषिद्धम्॥
इ/1.3.16ऊ
इ1.3.17ऊ
अस्थानेस्मयनं सरणं गायनं नर्तनं तस्य चेक्षणम्।17॥3।(1/ 3)
दे0। अस्थाने गुरुस्त्रीजनादौ स्मयनं हसनं प्रतिषिद्धं। एवं सरणं गमनमस्थाने रहस्यगुरुजनाद्यधिष्ठिते। एवं गायनं गीतं नर्तनं चास्थाने निषिद्धं। न तूत्सवादौ
समानशीलमध्यगतस्य गुप्तस्थाने। तथा च महाव्रते गीतवाद्यनर्तनकर्तव्यतावचनं। तमुद्गाता वादयित्वा प्रस्तोत्रे प्रयच्छति प्रस्तोताध्वर्यवेऽध्वर्युरन्यस्मै ब्रााहृणायेत्यादि वीणादिवादनवचनं श्रूयते। तस्य च नृत्तगीतादेरस्थानेऽवेक्षणं प्रतिषिद्धम्॥
व्र0। देवतोत्सवाग्न्याधेयशिवरात्र्यादिविहितजागरणादौ तु न दोषः॥
आ0। अस्थाने असमानशीलेषु स्मयनं हसनं सरणं गमनं गायनं गीतिः नर्तनं गात्रविक्षेपः तस्य च नृत्तादेरीक्षणमुपस्थाने वर्जयेत्। स्थाने पुनर्न प्रतिषेधः। महाव्रतादौ धर्मार्थं वा॥ <1.3.17> चतुर्थ खण्डः इ1.4.1ऊ अथातोऽष्टाचत्वारिंशत्संमितम्।1।
दे0। व्याख्यास्याम इत्यध्याहारः। व्रतमिति च प्रस्तावाद्गम्यते। चतुर्षु वेदेषु यदष्टाचत्वारिंशत्संवत्सरैः संमितं परिच्छिन्नं व्रतमुक्तं तस्य प्रतिनिधिभूतं संवत्सरनिर्वत्र्यं व्रतं व्याख्यास्यामः। यस्य वेदमधीयानस्य यथाकालविहितं व्रतं न संपन्नं तेन चैतत्कर्तव्यं। अधीतवेदचतुष्टयेनैतदेव त्रैविद्यकव्रतमिदमुच्यते। स्नानादनन्तरं चास्याभिधाने प्रयोजनं स्नातकभूतेनाप्येतत्कर्तव्यं प्राग्विवाहादिति। अन्ये तु यथाकालविहितव्रतसंपत्तावप्येतद्वार्षिकं व्रतं
तपोऽतिशयसिद्ध्यर्थं कर्तव्यतयानेन विधीयत इति व्याचक्षते॥
व्र0। गृहस्थाश्रमोत्सुकस्य न नैष्ठिकस्य। अत्रापि यस्य द्वादश वर्षाणि ब्राहृचर्यमभिप्रीतं तस्य मासत्रयमेव विधिः। यस्य चतुर्विंशति वर्षाणि तस्य मासषट्कं। यस्य षÏट्त्रशतं वर्षिणि तस्य
मासनवकं।........कालौ तु दीर्घकालब्राहृचर्यनिषेधादायुष्श्च ह्यासादेष विधिरुपपन्नतरः प्रथिभाति॥
आ0। यथोक्तकालब्राहृचर्यं कर्तुमसमर्थस्येदमष्ठाचत्वारिंशत्संमितं व्रतमुच्यते। असमावृत्तस्यैवेदम्॥
इ/1.4.1ऊ
इ1.4.2ऊ
तत्र विधिविशेषः।2।
दे0। उच्यत इति शेषः॥
आ0। तत्र त्रैविद्यकविधेरयं विशेषः॥
इ/1.4.2ऊ
इ1.4.3ऊ
नियमेष्वाचार्यप्रधानः स्यात्।3।
दे0। स्थानासनादिकान्वक्ष्यमाणान्नियमानाचार्यमादाय कुर्यात्। आचार्यप्राधान्येन च वेदगुणनार्थाभ्यासावनुवर्तेते॥
आ0। नियमेषु स्थानासनादिष्वाचार्यप्रधानः स्यात्। श्रान्त आचार्यानुज्ञयोपविशेत् स्वपेद्वा॥
इ/ 1.4.3ऊ
इ1.4.4ऊ
निलयार्थी यूनबद्धं न प्रविशेत्।4।
दे0। शीतातपभीतो निलयार्थी भूत्वा यूनबद्धं मिश्रवेणुवीरणकाण्डादिनिबद्धं
कुटीशालापाटाजिकवासविरोषं न प्रविशेत्॥
आ0। शराणार्थी यूनबद्धं शुल्बबद्धं न प्रविशेत्॥
इ/1.4.4ऊ
इ1.4.5ऊ
अनिलयः स्यात्।5।
दे0। न केवलं परिनिर्मितमाश्रयविशेषं न प्रविशेद्यावता स्वयं निलयमा6मपि न कुर्वीतेत्यर्थः॥ यद्येवं वात्याकरकवृष्ट¬ाद्युपप्लवाद्देहभङ्गः स्यादित्याशङ्क्याह॥
इ/1.4.5ऊ
इ1.4.6ऊ
अन्यत्र वृक्षाद्वाल्मीकाद्वा।6।
दे0। वृक्षादिकमाश्रयेदित्यर्थः। वाल्मीकं वाल्मीकभूम्यादि॥
आ0। अनिलय एव स्याद्वृक्षवल्मीकं वर्जयित्वा॥
इ/1.4.6ऊ
इ1.4.7ऊ
निस्तान्तवमित्येके।7।
दे0। तन्तुर्वेणुरिति केचित्। शीत्याद्युपहतो वंशनिर्मितव्यतिरेकेणाश्रयान्तरं विशेत्। रज्जुस्तन्तुरित्यन्ये। रज्ज्वादिबन्धैर्यन्निवृत्तं शालादि तत्तान्तवम्॥
आ0। निस्तान्तवं प्रविशेदित्येके मन्यन्ते। प्रतिप्रविशेदिति सिंहावलोकितन्यायेन प्रतिप्रसूयते॥
इ/1.4.7ऊ
इ1.4.8ऊ
यथोक्तमेकं तु वासः शाणी कुतपं वा।8।
दे0। यत्पूर्वमुक्तम् एकं वासस्तदत्रापि। इयांस्तु विशेषः। इह शाणी कुतपं वा। शाणी वरासी। सा पुनः क्षौमीति प्रसिद्धा। क्लिन्नकुट्ठितदर्भनिर्मितेति त्वन्ये। अजलोमनिर्मितं कुतपम्॥
आ0। यथोक्तमेकं तु वासः अजिनमेव। तु शब्दोऽवधारणार्थे। वासोऽवधार्यते। शाणी वरासी। कुतपं पर्वतीयच्छागरोमकृतं वासः॥
इ/1.4.18ऊ
इ1.4.9ऊ
परिमितमुरः प्रमाणमुपरिजानु।9।
दे0। उरस आरभ्य जानुनोरुपरिभागं यावद्व्याप्नोति तावत्परिमितमेतत्कर्तव्यम्॥
आ0। अल्पमित्यर्थः।
इ/1.4.9ऊ
इ1.4.10ऊ
चतुर्थकालपानभक्षः।10।
दे0। सायंप्रातर्मनुष्याणामशनं देवनिर्मितमिति भोजनकालः। तत्र प्रथमदिनस्य सायंप्रातर्लक्षणं कालद्वयं। द्वितीयदिनस्य च प्रातः कालं वर्जयित्वा सायं चतुर्थे काले भोजनपेयपाने कुर्यादित्येके। एकव्यवधानेनैककालं भुञ्जीतेत्यर्थः। अन्ये त्वाहुः। पीयत इति पानं क्षीरतक्रादि। तदेव चतुर्थकाले पश्चिमप्रहरे भक्षोऽस्येति। क्षीरादिपाने च भक्षशब्दो दृष्टः। अभक्षो वायुभक्ष इति।
आ0। चतुर्थे चतुर्थे पानकाले भोजनकाले भक्षो यस्य स तथोक्तः। भोजनपानशब्दे प्रतीच्या व्यवहरन्ति। सायंप्रातः परिकल्पनया त्रीन्पानकालान्परित्यज्य चतुर्थे भक्षयतीत्यर्थः॥
इ/1.4.10ऊ
इ1.4.11ऊ
असञ्चयवान्।11।
दे0। हिरण्यादिसंचयं न कुर्वीतेत्यर्थः॥
आ0। भिक्षित्वा संचयं न कुर्यात्॥
इ/1.4.11ऊ
इ1.4.12ऊ
अहरहर्वा भैक्षमश्नीयात्।12।
दे0। भिक्षाणां समूहो भैक्षं। पूर्वेण भिक्षाणामपि संचयस्य प्रतिषेधे प्राप्ते प्रतिप्रसवोऽनेन क्रियते। प्रतिदिनं भैक्षमश्नीयात्। शरीरापाटवे तु कदाचिदेकामपि भिक्षामश्नीयात्। अटितुमशक्तः सक्तुकणिकादिकं वा तावन्मात्रं संचिनुयादित्यनेनाभिप्रायेण वा शब्दः॥
इ/1.4.12ऊ
इ1.4.13ऊ
अहस्तिष्ठेद्वात्रावासीत।13।
दे0। कालाध्वनोरत्यन्तसंयोगेऽहः शब्दाद्द्वितीया। आहनि तिष्ठेदेव। ऊध्र्व एवासीतेत्यर्थः। रात्रावासीत। उपविशेदतिश्रान्तः सुप्यादपि। अत्यन्तसंयोगाभावात्।.
आ0। अहः सर्वं तिष्ठेद्द्वितीयात्यन्तसंयोगः। रात्रावासीत। अनत्यन्तसंयोगात् श्रान्तः स्वपेदपि॥
इ/1.4.13ऊ
इ1.4.14ऊ
उभयं मुनिव्रतः स्यात्।14।
दे0। उभयमहोरात्रं भूतसाम्यं मौनं वाक्संयमं कुर्यात्। मुनीनां व्रतमेतत्। किमेतत्सर्वविषयं च मतं। अन्यप्रकारेण। अहश्च रातिं्र च वाक्संयमी स्यात्॥
आ0। उभयमहोरात्रं मुनिव्रतः स्यात्। वाग्यत इत्यर्थः॥
इ/ 1.4.14ऊ
इ1.4.15ऊ
स्त्रीशूद्रपतितरभसरजस्वलैर्वा न संभाषेतेति च्यवनो भृगुः।15।
दे0। भार्गवस्तु च्यवनो मन्यते। स्त्र्यादिभिरेव न संभाषेत। न तु सर्वैः। संभाषयेदिति स्वार्थे णिच्। रामो राज्यमकारयदितिवत्। पतितास्त्रैवर्णिका अपि। रभसा अपृष्टवक्तारः। भण्डवन्दिप्रभृतयः। रजस्वलास्तु ये रक्तेन शरीरमवलिप्य भोजनादिकमुद्ग्राहयन्ति। भूतवरप्रभृतयः॥
आ0। स्त्र्यादिभिरेव न संभाषेतेति च्यवनो भार्गवो मन्यते। पतिताभिर्द्विजातिभिरपि। रभसा भासकाः। रजस्वला ये रजसा रुधिरेणात्मानमङ्कयित्वा भिक्षादि दापयन्ति॥
इ/1.4.15ऊ
इ1.4.16ऊ
द्वादशरात्रं वोभयत्र।16।
दे0। देशकालशक्त्यपेक्षयोभयतोऽस्य संवत्सरव्रतस्याद्यन्तयोद्र्वादशरात्रं वा मुनिव्रतः स्यात्॥
आ0। द्वादशरात्रं वोभयतः संवत्सरस्याद्यन्तयोः स्थानासनं मुनिव्रतं च॥
इ/1.4.16ऊ
इ1.4.17ऊ
अमावास्यां पौर्णमासीं च।17।
दे0। पौर्णमासीममावस्यां च। तेन संवत्सरमध्येऽष्टाचत्वारिंशाद्दिनानि भवन्ति। उपक्रमोपसंहारयोः द्वादश पौर्णमास्या द्वादशामावस्याः॥
आ0। एवमेतदष्टाचत्वारिंशत्संवत्सरिकेण ब्राहृचर्येण संमितं। अत्र ष्टाचत्वारिंशद्दिनान्यतितीव्रं व्रतम्॥
इ/1.4.17ऊ
इ1.4.18ऊ
पालाश्यः समिधो नित्याः परिधिवृक्षाणां वा।18।
दे0। या ब्राहृचारिणो नित्याः समिधस्ता इह पालाश्यः। पालाशालाभे प्रतिनिधः। प्रतिनिधाने च
परिधिवृक्षाणां संबन्धिन्यो ग्राह्राः। परिधिवृक्षाश्च यूप्याः बिल्वखदिरपलाशरौहीतकौदुम्बरबदरप्रभृतयः। ब्रााहृणं च। बैल्वो वा खादिरो वा पालाशो वा रौहितको वा सौम्यस्याध्वरस्य यूपः स्यात्। औदुम्बरो यूपो भवति खादिरे बध्नाति पालाशे बध्नाति रौहितके बध्नातिति श्रुतेः। याज्ञेया वा सर्वे परिधिवृक्षाः। श्रूयते हि तस्येन्द्रो यज्ञियेभ्यो वृक्षेभ्यः परिधीनाजहारेति ॥
आ0। नित्या याः समिधो ब्राहृचारिणस्ताः पलाश्यः । अलाभे परिधिवृक्षाणां वा। परिधिवृक्षा यूप्या यज्ञिया वा। तस्येन्त्रो यज्ञेभ्यो वृक्षेभ्यः तरिधीनाजहरेति दर्शनात्॥
इ/1.4.18ऊ
इ1.4.19ऊ
मेधां मह्रमिति पाणिमार्गं दत्त्वा त्रिषवणमहोरात्रमुदकोपस्पर्शनम्।19।
दे0। कुर्यादिति शेषः। मेधां मह्रमङ्गिरस इत्यादिभिर्मन्त्रैः। द्वाभ्यां नाभेरारभ्योध्र्वं ब्राहृद्वारपर्यन्तं मार्जनं निघर्षणात्मकं कृत्वा नाभेरूध्र्वं पाणिनोन्माष्र्टीति स्मृतेः। प्रातः सवने माध्यन्दिनसवने तृतीयसवन इति सवनत्रयेऽपि रात्रिभागत्रयेऽप्येवमुदकोपस्पर्शनं कुर्यात्। स्नानमिहोपस्पर्शनं। उपस्पर्शनशब्दो ह्राचमनस्पर्शनस्नानेषु दृष्टः। उपस्पृश्य स्वस्त्ययनं भवतीत्याद्याचमने।.........उपस्पृश्य सोममालभेरन्नित्यत्र
स्पर्शे। आलभ्य चोपस्पृशेयुरित्यत्राप्युदकाचमनमात्रे। रथ्यादावुपस्पृशेदित्यादौ स्नाने॥
आ0। मेधां मह्रमित्यनुवचनीयैः सर्वैरात्मानमुन्मृज्य उदकमुपस्पृशेत्। स्नायादित्यर्थः। अहोरात्रमध्ये त्रिषवणम्॥
इ/1. 4.19ऊ
इ1.4.20ऊ
नमो हमाय मोहमायेति चानुसवनम्। नमो हमाय मोहमायाग्नये वै·ाानराय तपाय तापसाय तपन्ताय विन्दवे विन्दाय वसुविन्दाय सर्वविन्दाय नमः पाराय सुपाराय पारयन्ताय नम ऊम्र्याय
सूम्र्याय नमश्च्यवनाय भार्गवायेत्येता एव देवतास्तर्पयन्नुदकेन।20।
दे0। एता एव देवता उदकेन तर्पयन्नमः शब्दावच्छिन्नैर्मन्त्रैश्चतुर्भिरुपस्पर्शनं कुर्यादिति संबन्धः॥
आ0। नमो हमायेत्यनुसवनं नमस्कारान्तैश्चतुर्भिरादित्योपस्थानं। एता एव देवतास्तर्पयन्नुदकेन स्नायादित्यर्थः॥
इ/1.4.20ऊ
इ1.4.21ऊ
एष संवत्सरं चरित्वा विमलो विपापो भवति।21।
दे0। एष ब्राहृचारी स्नातको वा प्रकृतः संवत्सरमुक्तं व्रतं चरित्वा विमलो रागादिमलशून्यो विगतपापाश्च भवति॥
आ0। एष संवत्सरः एवंरुपः एवं चरित्वा। विमलः। विगतचित्रमलः। विगतपापश्च॥
इ/1.4.21ऊ
इ1.4.22ऊ
सर्वेषां वेदानां चरितब्राहृचर्यो यदि नान्यत्कुरुते।22।
दे0। यद्यन्यद्व्रतं वेदाध्ययनकाले न कुरुते तदास्यÏस्मस्तत्प्रतिनिधिभूते संवत्सरव्रते कृते सति चतुर्णामपि वेदानामधीतानां चरितब्राहृचर्यः संपद्यते। व्रतपरिपूर्णं वेदचतुष्टयाध्ययनमस्य संपद्यत इत्यर्थः। ये तु स्वतन्त्रमेवेदं संवत्सरव्रतं त्रैविद्यकस्य तपोऽतिशयार्थं वर्णयन्ति त एवं व्याचक्षते। पूर्वेण सहास्यैकवाक्यता। एष संवत्सरं चरित्वा सर्वेषां वेदानां चरितव्रतः सन्विमलो विपापश्च भवति। यदि तन्मध्ये निषिद्धाचरणं न कुरुते॥
इ/1.4.22ऊ
इ1.4.23ऊ
स तु खलु चरितब्राहृचर्यौ दश दश पुरुषान्पुनाति पूर्वापरानात्मानं चैकविंशं पंकिं्त च यावदनुपश्यति यस्यामुपविशति।23।
दे0। तु शब्दः फलान्तरसमुच्चये। खलु निश्चये।.......यान्पश्यति तानपंक्तिपावनानपि पंक्तिपावनान्करोति तपोबलात्। यांश्चैकपंक्त्युपविष्टान्न पश्यति तानपि पावयति॥
आ0। दश दश पुरुषान्पुनाति। पूर्वानपित्रादीन्। अपरान्पुत्रादीन्। आत्मानं चैकविंशं। पंकिं्त च पुनाति। यावदनुपश्यति यावद्दृष्टिगोचरं। कांचित्पंकिं्त यस्यामुपविशति भोजनार्थम्॥
इ/1.4.23ऊ
इ1.4.24ऊ
समाप्त एतासामेव देवतानामन्नस्य जुहोति।24।
दे0। एतस्मिन्व्रते समाप्ते पूर्वोक्तदेवताभ्योऽन्नं जुहोति तण्डुललक्षणं स्थालीपाकं वा।.....अन्नशब्दो हि कृते चाकृते च विपक्वे च दृष्टः। हीषीति निधनं कुर्यादन्नकामायेत्यकृतवचनः। अन्नं प्रयौति घृतं मधु तण्डुलानित्यादौ
कृतवचनः। योऽन्नमश्नीयादित्यादौ विपक्ववचनः॥
आ0। समाप्ते संवत्सरे एतासामेव देवतानां प्राकृतानामन्नस्य कृताकृतस्य वा स्थालीपाकश्रवणातुत्प्राभावः। न च सर्वदेनताश्चेति तन्त्रं। अपि तु हस्तेनैव तण्डुलादेश्चतरुा आहुतीर्जुहोति॥
इ/1.4.24ऊ
इ 1.4.25ऊ
धेनुर्दक्षिणा।25॥4॥(1।4)
आ0। आचार्याय। प्रक्रान्तत्रैविद्यस्यैतद्भवति। तेनात्रारम्भे न व्रतोपयनं न होमः।.
दे0। येनाधीयानेन यथाविहितव्रतानि नानुष्ठितानि नापि संवत्सरव्रतं पश्चात्तं प्रति प्रायश्चित्तान्तरं
स्वतन्त्रं तपोऽन्तरं पूर्ववत्कृच्छ्रादिकमाह॥
इ/1.4.25ऊ पञ्चम खण्डः इ 1.5.1ऊ कृच्छ्रविधिं व्याख्यास्यामः।1।
दे0। कृतमकुशलं विहिताकरणप्रतिषिद्धसेवनलक्षणं कर्म छिन्दन्तीति कृच्छ्राः। तथानन्तरं वक्ष्यति सर्वाकुशलमोक्षायेति। गौतमोऽप्याह। अथैतांस्त्रीन्कृच्छ्रांश्चरित्वा सर्वेषु वेदेषु स्नातो भवति सर्वेषु तीर्थेषु स्नात भवति। त्रीनिति कृच्छ्रमहाकृच्छ्रतप्तकृच्छ्रान्।.......कृच्छ्रस्य विधिः प्रभाव इति कर्तव्यता कृच्छ्रविधिः। तां वक्ष्याम इति शिष्यबुद्धिसमाधानार्थमिदं वाक्यम्॥
आ0। कृच्छ्रविधिं व्याख्यास्यामः। अध्ययनविधेरनन्तरं वास्तुकरणवक्तव्यं। कः प्रसङ्गः। कृच्छ्रविधेरित्याशङ्क्या मुच्यते। येन यथा कथंचिद्वेदा अधीता नाष्टाचत्वारिंशत्संमितं व्रतं कृतं तस्यै तान्यध्ययनाधिकाराय कृच्छ्राण्यतिदिश्यन्ते। अध्ययनविधेर्गुणाधानायेत्यर्थः।.....कृतमकुशलं छिन्दन्तीति कृच्छ्राः तेषां विधिरितिकर्तव्यता। तां व्याख्यास्यामः॥
इ /1.5.1ऊ
इ 1.5.2ऊ
देवासो यथाचरनवसवो रुद्रा आदित्या मरुदङ्गिरसः पुरा।2।
दे0। देवा एव देवासः। आज्जसेरसुक्। येन प्रकारेण देवादयं आचरंस्तं प्रकारं वक्ष्याम
इत्यन्वयः॥
आ0। येन विधिना वस्वादयो देवास्तानाचरन्। मरुतश्चाङ्गिरसश्च ते मरुदङ्गिरसः। पूर्वं वस्वादिग्रहणमार्षार्थम्। एत एवात्र ऋषयो ज्ञातव्याः॥
इ/ 1.5.2ऊ
इ 1.5.3ऊ
स्त्रीशूद्रं नाभिभाषेत।3।
दे0। स्त्रीमात्रं शूद्रमात्रं च न संवादयेत् कृच्छ्रं चरन्॥
आ0। सर्वं कंचन स्त्रीशूद्रं व्रतं चरन्नाभिभाषेत्॥
इ/ 1.5.3ऊ
इ 1.5.4ऊ
नक्तमासीत संश्रितः।4।
दे0। कुड¬काष्ठादिकमालम्बनमात्रमाश्रितः सन् रात्रावासीतैव। उपविशेत्। श्रमातिशयनिवृत्तये। न तु सुप्यात्। एवं हि सातिशयं तपो भवति। अतिश्रान्तस्तूपविष्ट एवान्तरान्तरा मनाक् स्वापं कुर्वीत। शरीरापायस्यावश्यवर्जनीयत्वात्। न तु शय्यामारोहेत्॥
आ0। नक्तं रात्रावासीत संश्रितः। अपाश्रितः। कुड¬ादौ॥
इ /1.5.4ऊ
इ 1.5.5ऊ
र्वाण्यहानि तिष्ठेत्।5।
दे0। दिनेषु सर्वेषु तिष्ठेदेव न तूपविशेत्॥
आ0। सर्वाण्यहानि तिष्ठेच्च नोपविशेद्दिनमध्ये॥
इ/ 1.5.5ऊ
इ 1.5.6ऊ
ब्राहृचारी।6।
दे0। ब्राहृचर्याचरणशीलः। एतेन गृहस्थस्याप्यधिकारं दर्शयति॥
आ0। ब्राहृचारी भवेत्। अनेन ज्ञायते गृहसंस्थाप्यध्ययनसंस्कारायैते भवन्ति॥
इ/ 1.5.6ऊ
इ1.5.7ऊ
क्षपाशयः।7।
दे0। यदि श्रमातिशयपरो विश्रमयितुं मनाङ् निद्रां कुर्यात्तदा क्षपायामेव कुड¬ाद्यवष्टम्भेनोपविष्टः सन्। न तु कथंचिदपि दिवा शय्यायां वा॥
आ0। श्रान्तः सन् क्षफायां शेते न दिवा॥
इ/ 1.5 7ऊ
इ/ 1.5.8ऊ
मधुमांसलवणश्राद्धानि वर्जयेदविचारयन्।8।
दे0। अकामोपनतं मधु न दुष्यतीति वाजसनेयकादौ यद्दृश्यते तथा सैन्धवं तु न दुष्यति। दत्त्वा तु देवविप्रेभ्यः खादन्मांसं न दुष्यतीत्यादि। व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेदित्यादि कण्वागमं। अविचारयन्नेव प्रयत्नविशेषेण मध्वादीन्यत्रव्रते वर्जयेत्॥
आ0। अकामोपनते मधु वाजसनेये न दुष्यतीत्ययं विचैरो मधुनो न कर्तव्यः। मांसस्यापि ब्रााहृणकाम्यादि। लवणस्यापि सैन्धवं न दुष्यतीति। श्राद्धस्य व्रतस्यमपि। दौहित्रं श्राद्धे यत्नेन भोजयेदित्ययं विचारो न कर्तव्यः। सर्वथैतानि वर्जयेदिति तात्पर्यार्थः॥
इ/ 1.5.8ऊ
इ 1.5.9ऊ
गवाजिनं शाणीचीरं कुतपं मार्गं वा वास उच्यते।9।
दे0। गवाजिनं गोचर्म। शाणीचीरं वरासीखण्डः। मृगस्येदं मार्गं चर्म। कुतपमुक्तम्॥
आ0। गवाजिनं वस्त्रमत्र विकल्पेन॥
इ/1.5.9ऊ
इ 1.5.10ऊ
सर्वाकुशलमोक्षाय मरुतोऽप्याचरंस्तथा।10।
दे0। अध्ययनकाले वैगुण्यकृतस्यैवान्यकालकृतस्यारपि समस्तस्येहजन्मकृतस्य पूर्वजन्मविहितस्य चाकुशलस्य पापकर्मणो मोक्षाय विनाशायैतद्व्रतं भवति सम्यक् कृतं सत् तथा च मरुदादयोऽपि तादथ्र्येनैवाचरितवन्तोऽसंभाव्य मानव्या मोहा इति दृठप्रमाणकमेतत्॥
आ0। सर्वपापापनोदाय मरुतोऽप्येतेनाचरन्। वक्ष्यत्येतत्। वसुभी रुद्रैरादित्यैश्चरितं व्रतं
मरुद्भिश्चेत्यर्थः॥
इ/ 1.5.10ऊ
इ/1.5.11ऊ
त्र्यहं सायं त्र्यहं प्रातस्त्र्यहं भुञ्जीतायाचितम्। त्र्यहं नैव तु भुञ्जीतैतद्वसुभी रुद्रैरादित्यैश्चरितं व्रतम्।11।
दे0। मरुद्भिश्चेति ज्ञेयं। त्रीण्यहानि सायमेव भुञ्जीत होमकालादूध्र्वं। त्र्यहं प्रातरेव। त्र्यहं त्वयाचितलब्धमेव भुञ्जीत। त्र्यहं तूपवसनमिति क्रमेणैव द्वादश दिनानि व्रतम्॥
आ0। इदानीं भोजननियम उच्येत। त्र्यहानि त्रीण्यहानि सायमेव भुञ्जीत। होमकालादुध्र्वं। त्र्यहं प्रातरेव भुञ्जीत न सायं। प्रातःशब्दो नियते प्रातराशकाले। त्र्यहमयाचितमिति। याच्ञः प्रतिषेधः। स्वगृहे अप्रार्थितमपि भुञ्जीत हविष्यं नातितृप्तं। चतुर्थं त्र्यहं नैव भुञ्जीत। एतद्वसुभिरिति व्याख्यातम्॥
इ/ 1.5 11ऊ
इ1. 5. 12ऊ
एष एवातिकृच्छ्रस्य विधिरेवं विधीयते।12।
दे0। एतत्कृच्छ्रं व्याख्यातं। अस्य प्राजापत्यमिति नाम। एवंप्रकारं क्लेशसाध्यमन्यदपि कृच्छ्रशब्देनोच्यते। कूर्चसान्तपनादिकं। एतमेव प्रकारं तप्तकृच्छ्रेऽतिदेशयन्नाह। एव एवातिकृच्छ्रस्य विधिरेवं विधीयते। यः कृच्छ्रस्य प्रकारः स्थानशयनब्राहृचर्यादिक उक्तः स एवातिकृच्छ्रस्य विधिः।
यद्येवमभेद एव स्यात्तत्र कोऽतिदेशावकाशः। तस्य भिन्नविषयत्वादित्याशङ्क्याह। एवं विधीयत इति शेषः। तथा चाह॥
आ0। अस्य कृच्छ्रस्य विशेषात्प्राजापत्य इति नाम। अन्योऽप्यविशिष्टः। प्राजापत्य एवोच्यते। अतिकृच्छ्रस्यैवैष विधिः। भोजने तु विशेषः॥
इ/ 1.5 12ऊ
इ 1.5 13ऊ
एतेष्वेवतुकालेष्वेकैकं पिण्डं प्राश्नीयात्।13॥5॥(1।5)
दे0। एतेष्वेव तु सायमादिषु भोजनकालेष्वेकैकं ग्रासमश्नीयादतिकृच्छ्रं चरन्। पिण्डप्रमाणं त्वास्याविकारेण यावद्ग्रासो मुखे वर्तते पाणिपूरणभोजन इति॥
आ0। सायमादिष्वेकैकं पिण्डं प्राश्नीयात्। अविकृतहस्तग्राह्रपिण्डः। तथा च याज्ञवल्क्यः। पाणिपूरणभोजन इति॥
इ/ 1.5.13ऊ षष्ट खण्डः इ 1.6.1ऊ तप्तकृच्छ्रं व्याख्यास्यामः।1।
त्र्यहमुष्णाः पिबेदापस्त्र्यहमुष्णं पयः पिबेत्।
इ /1.6.1ऊ
इ 1.6.2ऊ
त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षः परं त्र्यहम्।2।
दे0। कृच्छ्रकालेष्वेव सायमादिपूष्णजलपानादिकं। पयः क्षीरं। सर्पिस्त्र्यहमयाचितं। वायुभक्ष इति वायुमेवोपजीवेत्।......न त्वन्यत्किमपि भुञ्जीत पिबेद्वेति॥
आ0। त्र्यहमुष्णाः पिबेदापः। यावच्छक्तिः। अन्यत् त्र्यहमुष्णं पयः पिबेत्। अन्यत् त्र्यहमुष्णं यथारुचि। वायुभक्ष इति निराहारोपलक्षणं। न हि वायोर्भक्षः संभवति॥
इ /1.6.2ऊ
इ 1.6.3ऊ
बृहस्पतेस्तु कूर्चस्य एष एव विधिः स्मृतः।3।
दे0। बृहस्पतेराषे प्ररोचनार्थे च कूर्च इति संज्ञा। यः कृच्छ्रस्य स्थानासनादिप्रकार उक्तः स एव कूर्चस्यापि। तुशब्दोऽप्यर्थे॥
आ0। बृहस्पतेरार्षं कूर्चो नाम॥
इ /1.6.3ऊ
इ 1.6.4ऊ
यवागूं यावकं शाकं पयः सर्पिः कुशोदकम्।
त्र्यहं त्र्यहं तु प्राश्नीयाद्वायुभक्षः परं त्र्यहम्।4॥6॥(1।6)
दे0। यवागूरपासिततुषयवसंपाद्या पेयप्राया सिद्धा। यावकोऽपि तद्वत्। स तु भक्तप्रायः कठिनः। शाकं तु हविष्यमेव न त्वविशेषेण।.......कुशोदकमाहारनिर्देशात्सहोपयोगः। तेऽपि सप्तत्र्यहा भवन्ति॥
आ0। तत्र यवाग्वादय उष्णास्त्र्यहं प्रथि। यवागूः पेया। यावकः प्रसिद्धः। यवमु मिश्रः। प्रसृतियावकादन्यः। शाकं यवोच्छिष्टभोजनीयं अन्यत् व्याख्यातं। एवं सप्तत्र्यहः बृहस्पतिकूर्चं व्रतम्।
इ /1.6.4ऊ
सप्तम खण्डः इ 1.7.1ऊ अथ सान्तपनम्।1।
दे0। कृच्छ्रं व्याख्यास्याम इति वाक्यशेषः। अथशब्दः पृथक्स्थानतां पूर्वेभ्यो द्योतयति॥
आ0। अथशब्दः पृथक्प्रक्रियार्थः॥
इ /1.7.1ऊ
इ 1.7.2ऊ
मरुतां होमो मरुतस्तर्पयेत्।2।
दे0। मरुतामेवात्रार्षे। अतस्तेषामेव होमः। तानेव चोदकेन तर्पयेत्॥
आ0। मरुतः सान्तापनऋषयः। तेषामेव होमः। तेषामेव तर्पणम्॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्।
इ /1.7.2ऊ
इ 1.7.3ऊ
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्।3।
कृच्छरूपं च तत्सान्तपनं कृच्छसान्तपनं। गोमूत्रादिकमेकैकमहन्यहन्येकरात्रोपवासश्चेत् सप्तरात्रः॥
आ0। गोमूत्रादीनि षड्रात्राण्येकरात्रतः। उपवाशश्च द्वितीयः। एतत्सान्तपनम्॥
इ /1.7.3ऊ
इ 1.7.4ऊ
एतदेव त्रिरभ्यस्तं महासान्तपनं स्मृतम्।4॥7॥(1।7)
दे0। एतदेव सान्तपनं यथास्थानं गोमूत्रादिभक्षणमुखेन त्रिरभ्यस्तं दण्डकलितकेन वा महासान्तपनं भवति। तेन भङ्घ्य सान्तपेन सप्तोपवासाः महासान्तपने चैकविंशतिः पर्यवस्यतीति।.........यत्तु याज्ञवल्क्येन सान्तपनस्य द्वयहत्वं महासान्तपनस्य सप्ताहत्वं प्रतीयते तदपि विकल्पेन शक्तिविशेषाभावाबेक्षया पुरुषान्तर एव कल्पते सर्वस्मृतीनां प्रामाण्यात्। न त्वेतावता सर्वत्र संकोचव्याख्यया क्लेशोऽनुभावनीयः।
तत्र च याज्ञवल्क्यवचनं-
पञ्चगव्यं तु गोक्षीरं दधि मूत्रं शकृद् घृतम्।
जग्ध्वा परेऽह्नयुपवसेत्कृछ्रं सान्तपनं चरन्।
अत्र पञ्चगव्यादीनामेकाहन्युपयोगः। द्वितीये तूपवास उक्तः। यतो महासान्तपनमाह। पृथक्......स्मृत इति। अत्र पञ्चगव्यादीनां पृथगुपयोगात्षडहानि सप्तमेऽहन्युपवासः॥
आ0। एतदेव त्रिरभ्यस्तं स्वस्तानविवृदण्डकलितवद्वा महासान्तपनं। सप्ताहः संख्या।
एकविंशत्यहःसंख्या न कर्तव्या यतो याज्ञवल्क्येन स्फुटमुक्तं-
कुशोदकं तु गोक्षीरं दधि मूत्रशकृद् घृतम्।
जग्ध्वा................................चरन्।
पृथक्.......महासान्तपनं मतम्। मनुना तन्त्रेण द्वावप्युक्तं। गोमूत्रं गोमयमिति। अत्र समस्तद्रव्येणैकरात्र उपवासश्च द्वितीयः। अयं द्व्यहः। महासान्तपने गोमूत्रमेकरात्रः। एवंव्याख्याने
सप्तरात्रः॥ <1.7.4> अष्टम खण्डः नवम खण्डः इ 1.9.1ऊ वर्षासु श्रवणेनाध्यायानुपाकरोति।1।
दे0। अत्रान्तेवासिनां योगमिच्छन्निति वक्ष्यमाणं संबन्धनीयं। यद्यदध्ययनाध्यापनाङ्गं स्मर्यते तत्तत्किल वक्तव्यं। उपाकरणं वाध्ययनाध्यापनयोरप्यङ्गं। तथा चान्तेवासिनां योगमिच्छन्नित्यतोऽध्येतुः फलसंबन्धः प्रतीयते।........ तत्र त्रैविद्यकसिद्ध्यर्थे वेदाध्ययनाङ्गभूतानि व्रतानि प्रतिपादितानि। अधीतवेदस्यापि शिष्यस्याङ्गोपाङ्गग्रहणार्थं गुरोर्वास इष्यते शिल्पादिशिक्षार्थं च। तथा च स्मृतिः-
कृतशिल्पोऽपि निवसेत्कंचित्कालं गुरोर्गृहे।
अन्तेवासीत्यादि।
तत्रान्तेवासिनां योगं संबन्धमिच्छन्नाचार्य उपाकरणं वेदानां कुर्यात्। उपाकरणं स्वीकरणं। मनसा संकल्पनं। एतत्स्थानकविशेषादि मयास्मै शिष्याय प्रवक्तव्यमिति। शिष्योऽपि शिल्पाङ्गोपाङ्गपरिज्ञानायापि गुरौ वसन्स्थानकविशेषादिकमपि गुरोः सकाशादधीते।........श्रावणभाद्रपदौ मासौ वर्षास्तत्र यः प्रधमः श्रावणं नक्षत्रं तत्रैवोपाकरणं कर्तव्यं। प्रथमपरित्यागे कारणाभावात्। प्रथमं वा नियमेन कारणादभिक्रमः स्यादिति नयेन। किं कुर्वता। अन्तेवासिनां साङ्गोपाङ्गादिशिक्षार्थं गुरौ निवसतां योगं संबन्धमध्यापयितृकृतव्याख्यलक्षणमिच्छता। अन्तेवासिकश्च प्रज्ञातिशयसंबन्धमिच्छतेति फलतो व्याख्या॥
आ0। वर्षास्वध्ययनविधिशेषत्वेनेदमुच्यते। येन वा कृच्छ्रद्वयेनाध्ययनं कृतं तस्यापीदमुपाकर्म। वर्षासु श्रवणेन प्रथमेनैव। अध्यायान् स्नातकविशेषानुपाकरोति। अङ्गीकरोति। इदं मया प्रवक्तव्यमिति॥
इ 1/.9.1ऊ
इ 1.9.2ऊ
स जुहोत्यप्वा नामासि तस्यास्ते जुष्टीयं गमेयम् अहमिद्धि पितुष्परि मेधामृतस्य जगृभ अहं सूर्य इवाजनि स्वाहा। रन्तिर्नामासि युक्तिर्नामासि योगो नामासीत्युत्तरास्तिरुाः। तस्यास्त इति सर्वत्रानुषजति।2।
दे0। स जुहोति य उपाकरोति। अप्वा नामासीत्यादिभिर्यजुर्भिरन्यास्तिरुाः। एतेषु यजुःषु प्रथममन्त्रस्थं तस्यास्त इत्यनुषजति।.........तेन रन्तिर्नामासि तस्यास्त इत्यादीनि वाक्यानि भवन्ति। समस्तपाठः शाखान्तरीयत्वा॥
ब्रा0। उपाकर्मणि स्नानव्रतवत्परिसमूह्र पर्युक्ष्य चातुष्कोष्ठैः स्तरैः परिस्तीर्याज्यं संस्कृत्य दर्भोपयामोऽप्वा नामासि रन्तिर्नामासि युक्तिर्नामासि योगो नामासीति चतरुाः रुाुवेणाहुतयः। योगो नामासि तस्य ते जुष्टीयं गमेयमित्यूहः॥
आ0। य एवोपाकरोति स एव जुहोति। आज्यं पवित्रेण संस्कृत्य चातुष्कोष्ठैः स्तीत्र्वा अपवा नामासि तस्यास्त इति सानुषङ्गैश्चचुर्भिर्ऋग्यजुषैश्चतरुा आहुतीर्जुहोति॥
इ/1.9.2ऊ
इ1.9.3ऊ
युजे स्वाहोद्युजे स्वाहा युक्त्यै स्वाहा योगाय स्वाहेत्यन्तेवासिनां योगमिच्छन्।3।
दे0। इति प्रत्येकं संबध्यते॥
आ0। अन्तेवासिनां शिल्पशिक्षार्थं ये गुरौ वसन्ति। उपवेदग्रहणार्थं वा। तथा च स्मृतिः। कृतशिल्पोऽपि........फलप्रदं इति॥
इ/1.9.3ऊ
इ1.9.4ऊ
दधिक्राव्ण इति त्रिर्दधि भक्षयित्वा दर्भपाणिः सावित्रीं त्रिरन्वाहादितश्च त्रीननुवाकान्कस्त्वा युनक्तीति च।4।
दे0। दधिक्राव्ण इति मन्त्रः सकृद्दधिभक्षणमेवावर्तते त्रिः। सावित्री सवितृदेवत्या तत्सवितुरित्यादिका महाप्रभावत्वान्नान्या आ कृष्णेन रजसेत्यादिका। आदावादितः। ये
त्रयोऽनुवाकाः। इषे त्वेत्यादिरेकः। देवस्य त्वेत्यादिर्द्वितीयः। वसोः पवित्रमित्यादिस्तृतीयः। कस्त्वा युनक्तीति चा·ामेधे परिधिनियोजने विनियुक्तः। उभयत्रान्वाहेत्यनुषङ्गः॥
ब्रा0। होमादनन्तरमात्मना दधि प्राश्य शिष्यांश्च प्राशयित्वा तैः सह प्रागग्रेषु दर्भेषूपविश्य दर्भपाणिरो भूर्भुवः खरित्युक्ता तत्सवितुरिति सावित्रीं त्रिरन्याह। पच्छोऽर्धर्चशः सर्वामन्ततः।........ततः कस्त्वा युनक्तीत्युक्ता नमो ब्राहृण इति परिधानीयां त्रिरन्वाह। अÏग्न विमुच्य शिष्यपरिवृतः पूजोपकारणमादाय नदीतीरं गच्छेत्।........तत्र नदीतीरे शुंचौ देशे दर्भविष्टराÏन्वशतिसंख्यान्कृत्वा प्रागग्रानुदगपवर्गानवस्थाप्य तेष्वग्नये वायवे सूर्याय ब्राहृणे इन्द्राय प्रजापतये भवाय शर्वाय ईशानाय ई·ाराय विष्णवे बृहस्पतये यजुर्वेदाय छन्दोभ्य ऋषिभ्यो वेदेभ्यो ब्रााहृणेभ्यः सोमेभ्यः सोमपेभ्य आचार्येभ्यो नम इति जीवादानपूर्वं पाद्याध्र्यादिपूजनं कृत्वा तर्पयेत्॥
आ0। होमादनन्तरं दधिक्राव्ण इति त्रिर्दधि भक्षयित्वा। क्रियाय आवृत्तिः सकृन्मन्त्रः।........कस्त्वा युनक्तीति च प्रवादः। प्रच्युत्यै त्वेत्यन्तः॥
इ/1.9.4ऊ
इ1.9.5ऊ
तस्यानध्यायः।5।
दे0। तस्याध्यापयितुरध्येतुश्चानध्याय उच्यते॥
आ0। तस्यानध्यायो विरतिरध्ययनादुच्यते॥
इ/1.9.5ऊ
इ1.9.6ऊ
न विद्योतमाने न स्तनयति।6।
दे0। वर्तमाननिर्देशात्तत्कालिकमेतिदंनध्ययनं। विद्योतमाने वैद्युते तेजसि। स्तनयति गर्जति मेघे॥
आ0।न विद्योतमानेऽधीयीत।नस्तनयति गर्जति सति।......यावद्विद्योतयते तावदनध्यायः। यावच्च गर्जति॥
इ/1.9.6ऊ
इ1.9.7ऊ
आकालिकं देवतुमुलं विद्युद्धन्वोल्का।7।
दे0। आकालिकं समानकालमुच्यते। य एवादिः स एव चेदन्तो भवति। तस्य वचने
आकालिकशब्दो निपातितः। आकालिकडाद्यन्तवचन इति सूत्रेण। टकारो टीवार्थः। आकालिकी विद्युत्। य एवोपक्रमकालः स एव विनाशकालो विद्युत इत्यर्थः। एवमिहापि यस्मिन्प्रथमार्धप्रहरादौ देवतुमुलादिकमुत्पद्यते स तस्यादिकालः। स एव
द्वितीयदिवसे अन्तकालो भवति। एतदाकालिकशब्देनोक्तं। एतदुक्तं भवति। यावति काले देवतुमुलादिकमुत्पद्यते तावत्येव काले द्वितीये दिवसेऽध्ययनयोग्यता भवति। अन्तरा त्वनध्यायः।.......तत्रान्तरिक्षं गीतवाद्यादिकं गन्धर्वाधिकृतं देवतुमुलं। विद्युदिति विद्युत्पातो विवक्षितः।.........धन्वशब्देनापीन्द्रधनुर्वर्षाकालादन्यत्र वर्षासु......उल्कापि महत्या उल्कायाः पातो विवक्षितः तारकामात्रपातनोऽपि ह्रुल्काशब्दप्रयोगोऽस्ति॥
आ0। इदानीमाकालिकाननध्यायान्व्याख्यास्यामः। देवतुमुलम्। अन्तरिक्षचराणां गन्धर्वादीनां मतव्या
ध्वनिः देवतुमुलम्। यस्मिन्काले स भवति तदारभ्य यावच्छूः स एव कालो विद्युत्पातः धनुदर्शनं ऐन्द्रस्य धनुषः। महोल्कादर्शनं। एतच्चतुष्टयमाकालिकम्॥
इ/1.9.7ऊ
इ1.9.8ऊ
आचारेणान्ये।8।
दे0। अन्येऽप्यनध्ययनहेतव आचाराध्यायोक्ता अनुमन्तव्याः। भूकम्पचन्द्रार्कोपरागनृपतिमहापुरुषंप्रमयप्रभृतयोऽनुमन्तव्याः॥ तद्यथा॥
आ0। आचाराध्यायेनान्ये अनध्याया व्याख्याताः॥
इ/1.9.8ऊ
इ1.9.9ऊ
अत्यक्षाः शब्दाः संततवलीकप्ररुाावः।9।
दे0। अतिक्रान्ताक्षरा अत्यक्षराः शब्दा निर्घातहुंकारतलास्फोटनप्रभृतयः। संततं वलीकस्य प्ररुाावो न तु प्ररुाावमात्रं तस्य प्रायेणाभावात्। एतद्द्वयमाकालिकस्यानध्ययनस्य निमित्तम्॥
आ0। अक्षराण्यतिक्रम्य ये वर्तन्ते वेणावेणुमनुजान् कांस्यशङ्कदुन्दुभि·ासृंगालगर्दभानां शब्दाः अत्यक्षराः। संततवलीकप्ररुाावो यावत्। वलीकाः छर्दिःपटलपर्यन्ताः। ते यावत्संततमविच्छिन्नं प्ररुावन्ति॥
इ/1.9.9ऊ
इ1.9.10ऊ
अर्धपञ्चमान्मासानधीत्य पञ्चार्धषष्ठान्वोत्सृजत उत्सुजामहेऽध्यायान्प्रतिवि·ासन्तु छन्दांसि कस्त्वा विमुञ्चतीति च।10।
दे0। अर्धः पञ्चमो येषां तेऽर्धपञ्चमा मासाः। सार्धचत्वारः। एवमर्धषष्ठाः सार्धपञ्चमाः मासानुक्तविधिनाधीत्य। अध्ययनार्थप्रयोजकव्यापाराध्ययनं निर्वत्र्य। अध्याप्येति यावत्। उत्सृजते अध्यायान्। उत्सर्गसंकल्पनं करोतीत्यर्थः। न च वेदाध्ययनस्य त्यागोऽस्ति। अनध्यायविशेषेभ्योऽपि वा उत्सर्गे मन्त्रद्वयसंबन्धमाह। उत्सृजाम इत्यादि।
ब्रा0। श्रावण्या ऊध्र्वं सार्धांश्चतुरो मासानधीत्य पञ्चसार्धान्वा पञ्च वोत्सर्गः।.........उत्सर्गेऽपि ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य जलतीरे तेष्वेव दर्भविष्टरेषु पूर्ववदग्निवाय्वाद्या देवता
अभ्यच्र्य शिष्यैः सहैव दर्भपाणिः सावित्रीं त्रिरुक्त्वेषे त्वेत्याद्यनुवाकत्रयमन्वाह। नमो ब्राहृण इति परिधानीयांस्त्रिरुक्तोत्सृजामहेऽध्यायानाप्रति·ासन्तु छन्दांसि कस्त्वा विमुञ्चतीति पठेत्। तत आज्यमिदं श्येनं यदोषधय उपधानाग्नेः प्रियं धाम तेनैनं संगमयिष्यामीति कक्षमादीप्याग्नये नमो वायवे नम इत्येवं पूर्ववदुददकमुत्सृजेयुः। तदुक्तमाचाराध्याये। उत्रुाक्ष्यन्तः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य कक्षमादीपयन्त्युदकमुत्सृजन्तीति॥
आ0। एवमर्धपञ्चमान्मासानधीत्य उपाध्यायनध्यायात्.......अर्धषष्ठान्वा पञ्च मासानधीत्य तत उत्सृजतेति मानसं एव संकल्पः। उपाकरणमुत्सर्गाश्च कदाचित्स्वाध्यायोत्सर्गोऽस्ति। अथवा समाचारोऽयं। दर्भमयानि पवित्राणि विंशतिं पात्राणि कुर्वन्त्यध्येतार उपाकर्मणि। तानि बद्धानि धारयति आ उत्सर्गात्। उत्सर्गकाले च प्राचीमुदीचीं दिशमुपनिष्क्रम्य कक्षमादीपयन्ति तानि च
पवित्राण्युदकसमीप आस्तीर्य तेषूदकमुत्सृजन्त्याताराध्यायोक्तेन विधिना। यथा। अग्नये वायवे......आचार्येभ्यो नम इत्युदकमुत्सृज्य ततो जपन्त्युत्सृजामहे....छन्दांसि कस्त्वा विमुञ्चतीति चानुवाकशेषम्॥
इ/1.9.10ऊ
इ1.9.11ऊ
तस्यामध्यायोऽमावस्यां पक्षिणीं नाधीते।11।
दे0। अयमन्योऽनध्यायः। पक्षाविवोभयपार्·ावर्तितया अमावस्यायाश्चतुर्दशी प्रतिपञ्च। यद्यपि चाचाराध्याये द्वे पौर्णमास्यौ द्वे अमावस्ये चतुर्दशीसहिते पौर्णमास्यामवास्ये उक्ते तथापि प्रतिपद्विधानार्था पुनः श्रुतिः। तदुक्तं गुणार्थेन पुनः श्रुतिरिति॥
आ0। प्रतिपच्चतुर्दश्यौ पक्षस्थानीयौ यस्याः सा पक्षिणी॥
इ/1.9.11ऊ
इ1.9.12ऊ
नात ऊध्र्वमभ्रेषु।12॥9॥(1/ 9)
दे0। अत उत्सर्गादूध्र्वमभ्रदर्शन्मात्रेऽपि सति नाध्येतव्यं। का कथा विद्योतमानादिषु॥
आ0। अत ऊध्र्वमुत्सर्गादुध्र्वं। आ उपाकरणात्। केचित्। नात ऊध्र्वं घनेष्वभ्रेषु वर्षत्स्ववर्षत्सु वा नाधीयीत॥
इ/1.9.12ऊ
दशम खण्डः इ1.10.1ऊ अथोपनिषदर्हाः।1।
दे0। शिष्या उच्यन्त इति शेषः। अध्यायोपाकरणानन्तरमध्ययनप्रसङ्गेनोपनिषदं रहस्यशास्त्रं ये अर्हन्ति त उपनिषदर्ङाः शिष्या नैष्ठिकब्राहृचार्यादय उच्यन्ते॥
आ0। उपनिषद्विद्या। तामर्हन्ति ये त उपनिशदर्हाः। रहस्यवेदार्थप्रणिधानयोग्या उच्यन्त अध्ययनप्रसङ्गेन॥
इ/1.10.1ऊ
इ1.10.2ऊ
ब्राहृचारी सुचरिती मेधावी कर्मकृद्धनदः प्रियो विद्यया वा विद्यामन्विच्छंस्तानि तीर्थानि ब्राहृणः।2।10॥(1।10)
दे0। ब्राहृचारी नैष्ठिकब्राहृयुक्तः। सुचरितमस्यातीति सुचरिती सदाचारो गृहस्थादिरपि। मेधावी ग्रहणधारणशक्तियुक्तः। कर्मकृत् नित्यनैमित्तिककर्मानुष्ठानरतः गुरुपरिचर्याचरणकारी च। धनदः प्रचुरधनदाने समर्थः ग्रहणान्ते गुरुदक्षिणावसरे।.......प्रियः पुत्रादिः सदाचारः। यश्च विद्यया विद्यामादित्सते। तानि ब्राहृणस्तीर्थानि। वेदस्य रहस्यरूपस्य दाने निपाननिग्रहणे सापाया इत्यर्थः। तीर्थं हि निपानं स्मृतं।
तीर्थाभिधानमिच्छन्ति तृतीयं कृतबुद्धयः।
शास्त्रं चैव निपानं च वारि चाप्यृषिसेवितम्॥
आ0। ब्राहृचारी तावद्यथोक्तः। सुचरितः शोभनाचारः। अब्राहृचार्यपि। मेधावी ग्रहणधारणसमर्थः।
कर्मकृच्छुश्रूषापरः। धनदो भृतिं वर्जयित्वा प्रवारान्तरेण यो धनं ददाति। प्रियः स्वचरितत्वेन। विद्यया विद्यां परिवन्तेनाद्धिच्छन्। तान्येतानि तीर्थानि पात्राणि ब्राहृणः प्रतिपाद्यस्य। अन्तेवासिनोऽप्येवं लक्षणा भवन्ति॥ एकादश खण्डः इ/1.11.1ऊ
नवं नवावसानं समं समूलं समवरुाावं समवरुाुत्य वा यस्मात्प्रागुदीचीरापो निद्र्रवेयुः प्रत्यगुदीचिर्वा तस्मिन्प्राग्द्वारं दक्षिणद्वारं वा शरणं कारयेत्।1।
दे0। अध्याहिताग्निमिति वक्ष्यति। तत्संबद्धमिदमनागतावेक्षणेनाभिधीयते। सहकर्मचारिणीमुद्धोढुकामस्तस्मिन्देशविशेषे शरणं कारयेत् स्थपत्यादिभिर्विवाहात्पूर्वमेव। कीदृशं शरणं। प्राग्द्वारं दक्षिणद्वारं वा। तथा नवमन्यानुपयुक्तदार्वादिनिर्मितं। नवावसानं। अवसानं भूप्रदेशः। नवदेशमित्यर्थः। सममनिम्नोन्नतं। समूलं प्रशस्तक्रीडाकुसुमादिमूलयुक्तं। समवरुाावं समोऽवरुाावो यत्र तत्समवरुाावं। उदकं प्रक्षिप्तं यत्र समं कृत्वा रुावति संचरति तत्समवरुाावं। अतिरश्चीनमित्यर्थः। समवरुाावं यद्भूमण्डलं तस्मिन्निति संबन्धः।
समवरुाुत्य वा यस्मात्प्रागुदीच्य आपो निर्हवेयुः। निर्गच्छेयुः। अथवा प्रतीच्य उपीच्यो वा यत्रापौ गच्छन्ति तÏस्मस्तिरश्चीनेऽपि शरणं कारयेत्॥
आ0। उक्तो ब्राहृचारी द्विविधः। श्रोत्रियो वेदाध्यायी स नैष्ठिकः। द्वितीय उपकुर्वाणकः। स त्रिविधः। यथोक्तचरितव्रतो मुख्यः। अष्टाचत्वारिंशत्संमितब्राहृचारी मध्यमः। कृच्छ्रैरवाप्तब्राहृचर्यफलस्तृतीयः। इदानीं गृहस्थोऽप्यनेकप्रकार उच्यते। यदि पितृगृहे
निवसन्नविभक्तधनः स निवसमानः पितृगृह एव सद्वितीयो वसति। तस्य वैवाहिकेऽग्नौ विकल्पः। यस्तु पुनः प्रमीतपितृकः पितृगृहेषु विद्यमानेषु तस्यापि वास्तकरणं नोपयुज्यते। अÏग्न पुनरादधीत। यस्त्वविद्यमानपितृगृहो निवेष्टुमिच्छति स पूर्वं गृहान्कृत्वा पश्चाद्विवहेत्। यतो वक्ष्यति। ऊर्जं बिभ्रदिति गृहान्प्रतिदृश्य जपति। यथा सोदकं सौषधमावसथं प्रतिपद्यत इति तस्य गृहकरणमुच्यते। नवं नवावसानं। नवमन्यैरनध्युषिते। नवारत्निमात्रं स्थानं। तद्विशिनष्टि। समूलमनूषरं। समवरुाावं सर्वत आपो यस्मान्निरुावन्ति। समवरुाुत्य वा यस्मात्प्रागुदीचीरापो निर्गच्छेयुः। एतदुक्तं भवति। प्रागुदक्प्रवणमित्यर्थः। दक्षिणाप्रत्यदुन्नतं वा। अस्मिन्नेवंविधे नवावसाने प्राग्द्वारं दक्षिणद्वारं वा शरणं कारयेत्। स्थपतिभः कारयेन्न स्वयमिति णिजर्थः॥
इ/1.11.1ऊ
इ1.11.2ऊ
मध्यमायाः कर्ते प्रागग्रोदगग्रान्दर्भानास्तीर्य तेषु स्थूणामवदधाति ध्रुवां सिनोम्यमृतस्य पत्नीं क्षेमे तिष्ठ घृतमुक्षमाणा। तां त्वा स्थूणे सर्ववीराः सुवीरा अरिष्टवीरा इह संविशेम। इहैव स्थूणे अमृतेन रोहा·ावतो गोमत्यमृतवती सूनृतावती। ऊर्जस्वती पयस्वती चास्मान्स्थूणे पयसाभ्यववृस्त्व॥ आ त्वा कुमारस्तरुण आ वत्सो जगता सह। आ त्वा परिश्रुतः कुम्भ आ दघ्नः कलशैरयमिति।2।
दे0। मध्यमायाः स्थूणायाः स्तम्भैस्य संबन्धिनि कर्ते। कृति छेदने। कृत्यत इति कर्तः। स्वातः गर्तः। तस्मिन्प्रागग्रान्वा स्वस्किसंनिवेशभाजो दर्भानास्तीर्य तेष्वेव दर्भेष्वधिकरणभूतेषु स्थूणास्तम्भं
मध्यममवदधाति प्रक्षिपति॥
आ0। मध्यमायाः स्थूणायाः गर्ते खाते प्रागग्रोदग्रान्दर्भान्खस्तिकाकारानास्तीर्य तेषु दर्भेषु स्थूणां स्तम्भमवदधाति ध्रुवोस्मिनोसीति तिसृभिर्ऋग्भिः इति करावच्छिन्नाभिः॥
इ/1.11.2ऊ
इ1.11.3ऊ
प्राञ्चं वंशं समारोपयत्यृतेन स्थूणामधिरोह वंशोग्रो विराजन्नपसेध शत्रून्। अथा रयिं सर्ववीरा वयं त इति।3।
दे0। प्राञ्चं वंशं समारोपयति। मन्त्रमाह। ऋतेन......वयं त इति।.....मध्यमवंशस्तम्भयोर्मन्त्रविनियोगादितरस्तम्भवंशानामन्त्रकं तूष्णीमेवारोपणं शस्यते॥
आ0। तत्र प्रागग्रं वंशं वास्त्वाख्य समारोपयते मध्यदेशे न्यासपद्धक इति प्रसिद्धः। ऋतेन स्थूणामित्येतया विराजा॥
इ/1.11.3ऊ
इ1.11.4ऊ
उत्तरपूर्वं समाधानम्।4॥11॥(1।11)
दे0। प्राञ्चं वंशं समारोपयतीत्युक्तं। प्राग्द्वारं दक्षिणद्वारं वा शरणं कारयितव्यमित्युक्तं। तत्र प्राग्द्वारतापक्षे पूर्वाग्रताभावं वंशसमाधानस्य भावयितव्यं। तदर्थमिदं सूत्रं। समाधानं सम्यगाधानं वंशस्यारोपणं स्तम्भस्य कुड¬कोटिषु॥
आ0। तत उत्तरपूर्वमुदगाग्रं च वंशसमारोपणं कर्तव्यं तूष्णीं स्वस्त्यर्थत्वादत्र त्रिकादिभिर्होमो
यावदुक्तः॥
इ/1.11.4ऊ
द्वादश खण्डः
इ1.12.1ऊ
अमीवहा वास्तोष्पत इति चतमृभिर्वास्तोष्पतीयस्य स्थालीपाकस्येष्ट्वाथ वास्त्वाविशेत्। अमीवहा वास्तोष्पते वि·ाा रूपाण्याविशन्। सखा सुशेव एधि नः। वास्तोष्पते प्रतिजानीह्रस्मान्स्वावेशो अनमीवो भवा नः। यत्त्वेमहि प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे॥ वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिर·ाोभिरिन्दो। अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व। वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातृमत्या। पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा न इति।1।
दे0। अथ विवाहे कृते वैवाहनाग्नौ प्रवेशितेऽनन्तरमध्यासिताग्निकं वास्त्वाविशेत्। .........किं कृत्वा प्रविशेत्। वास्तोष्पतीयस्य स्थालीपाकस्येष्ट्वा।.......व्यत्ययेन षष्ठी। स्थालीपाकेनेष्ट्वा।......अमीवहा इत्यादिना चतसृभिरित्यर्थेन शिष्यहितार्थं चतरुाः पठित्वार्पयति॥
आ0। ततो विवाहे कृते तस्मिन्नेव गृहे वैवाहनेऽग्नौ वास्तोष्पतीयं स्थालीपाकं श्रपयित्वा। अमीवहा वास्तोष्पत इति चतसृभिरिष्ट्वा। अथ वास्तु गृहं सद्वितीय आविशेत् प्रविशेत्। इदं तद्वक्ष्यति। अध्याहिताग्निमिति। अनेनैव विधिना अध्याहिताग्निर्गृहस्थः। अथ होमादनन्तरं स तत्र निवसेदित्यथशब्दस्यार्थः॥
इ/1.12.1ऊ
इ1.12.2ऊ
वंशोद्वीक्षणिकं ब्रााहृणान्भोजयेत्।2॥12॥(1।12)
दे0। तस्मिन्गृहे ब्रााहृणान्भोजयेत्। तस्य च कर्मणो वंशोद्वीक्षणिकमिति नाम। ते हि वंशानुद्वीक्षमाणा भुञ्जते॥
आ0। वंशोद्वीक्षणिकान्ब्रााहृणान्भोजयेत्। तस्मिन्नेव गृहे ये ब्रााहृणा वंशान्भुञ्जानः सन्त उद्वीक्षन्ते तथा भोजयेत्। अन्ये वंशोद्वीक्षणमिति ब्रााहृणभोजनस्यैतन्नामेत्याहुः॥
इति लौगाक्षिसूत्रे गृह्रपञ्चिकायां प्रथमोऽध्यायः॥ <1.12.2>
द्वितीयोऽध्यायः
[सम्पाद्यताम्]प्रथम खण्डः इ2.1.1ऊ अथ पाकयज्ञः।1।
दे0। सहकर्मचारिण्या सार्धं यो गृहप्रवेशस्तदनन्तरं पाकयज्ञः कर्तव्यः। तदनुष्ठानावसरलाभात्। पाके निर्वत्र्य यज्ञाः पाकयज्ञाः। तेषामासूत्रणमिह क्रियते। विस्तरेण सद्वक्ष्यते॥
आ0। गृहे निवसता सद्वितीयेण पाकयज्ञाः कर्तव्या इति। अथ शब्दः पाकयज्ञा इदानीं वक्तव्यत्वेनाधिक्रियन्ते। पक्वद्रव्यसाध्याः पाकयज्ञाः। केचित्पाकयज्ञ अन्यार्थं पक्वाः क्रियन्ते वै·ादेवातिथिभोजनादयः। केचित्तदर्थेन पक्वाः क्रियन्ते अष्टकादयः॥
इ/2.1.1ऊ
इ2.1.2ऊ
चतुर्विधः पाकयज्ञो भवति हुतोऽहुतः प्रहुतः प्राशितश्चेति।2।
दे0। ........तत्र हुतो हवननिर्वत्र्यो वै·ादेवादिः। अहुतस्त्वहवनसाध्यो बल्युपहारादिः। यस्य तु प्रारम्भे हवनं स प्रहुतोऽन्वष्टकादिः। प्रकृष्टेनाशनेन निर्वत्र्यते योऽतिथिब्रााहृणभोजनादिः स प्राशितः॥
आ0। हुतादयः एतेऽन्वर्थसंज्ञाः। हवनसंपाद्यो हुतः। अहुतस्तद्विपरीतः। प्रारम्भे यस्य हुतं स प्रहुतः। प्राश्यते यत्र स प्राशितः॥
इ/2.1.2ऊ
इ2.1.3ऊ
हुतो हुतानाम्।3।
दे0। प्रकृतिरिति शेषः। इर्हत्यानां हुतानां वैदिको होमः प्रकृतिरित्यर्थः। यत इतिकर्तव्यतोपजीव्यते सा प्रकृतिः। योपजीवति सा विकृतिः। तथा च वै·ादेवे प्रकृतिः। समूहनपर्युक्षणपरिस्तरणस्वाहाकारान्तप्रक्षेपादयः क्रियाः क्रियन्ते॥
ब्रा0। यथा श्रौत उपयड्डोमादिको हुत इहत्यानां वै·ादेवादीनां हुतानां प्रकृतिः तत्र यथा श्रौते हि परिसमूह्र पर्युक्ष्य चातुष्कोष्ठैः स्तरैः परिस्तीर्य हस्तेन जुहोति तथैवेहापि॥
आ0। हुतो हुतानामिति किमुक्तं भवति। अपरिसमाप्तं वाक्यं। तत्र दर्शपूर्णमासप्रकृतय इति वक्ष्यति। अतः प्रकृतिशब्दमाह्मत्य वाक्यसमाÏप्त कुर्यात्। .....हुतो हुतानां प्रकृतिः। कश्च वैदिको हुतो यः पक्वान्नेन संबद्धो जुहोति यथा·ामेधे समाप्तेऽग्निष्टोमेऽन्नं प्रयौति। घृतं मधु तण्डुलान्पृथुकान्करम्भाणि धानाः सक्तून्वाज्यानि प्रियङ्गुतण्डुलांल्लाजाः परिहुतासु वसतीवरीषु जुहोति सेयं जुहोतिरिहत्यानां जुहोतीनां प्रकृतिः। यथा वै·ादेवस्येति तत्प्रकृतित्वेन परिसमूह्र परियुक्ष्य परिस्तीर्य चातुष्कोष्ठं हस्तेनावदायामन्त्रकं देवतानामधेयेन स्वाहाकारान्तेन होमः॥
इ/2.1.3ऊ
इ2.1.4ऊ
उपहारोऽहुतानाम्।4।
दे0। वैदिक उपहारोऽत्रत्यानामुपहाराणां प्रकृतिः। अत्रोपाग्निविष्टरमास्तीर्यावाहनं कृत्वा रुाजो गन्धांश्चोपह्मत्य धूपं प्रदाय बल्युपहारादिदानान्तम्॥
ब्रा0। वैदिक उपहारो यथा वैश्रवणीयं कर्म तद्गृह्रोक्तानामुपहाराणां प्रकृतिः। तत्र हि वैश्रवणीये
कर्मणि पूर्वेणाÏग्न विष्टरमास्तीर्यावाहनं कृत्वा रुाजो गन्धांश्चोपह्मत्य धूपं प्रदाय बलिमुपकल्पत इति यथोक्तविधिः। इह तथैव नागविनायकादीनां बलिकर्मणि शूलगवादौ च पशुकर्मणि सावित्रेण बलिमुपह्मत्य तद्दैवत्यान्मन्त्राञ्जपेत्॥
आ0। .....यथा वैश्रवणीयं पूर्वेणाÏग्न विष्टरमास्तीर्य॥
इ/2.1.4ऊ
इ2.1.5ऊ
पिण्डपितृयज्ञः प्रहुतानाम्।5।
वैदिकः पिण्डपितृयज्ञ इहत्यानां प्रकृतिः। वै·ादेवशेषपिण्डप्रतिपत्तित्वात्तदीयपिण्डमन्त्रः। ग्रासाशनादयश्च तद्धर्मा भवन्त्यतिदेशात्॥
ब्रा0। पिण्डपितृयज्ञोऽन्वष्टकादीनामिहेत्यानां प्रहुतानां प्रकृतिः। यतोऽत्र पितरो मादयध्वमित्याद्यवघ्राणान्तं पिण्डपितृयज्ञोक्तं स्यात्॥
आ0। यथा पवित्रान्तर्हितासेचनावाहनश्रपणाभिघारदक्षिणत उद्वासनादि प्रणीतहोमपिण्डदानोङ्ङासीनावृत्यनिह्नुवनादि पिण्डपितृयज्ञे क्रियते तथेहापि तत्प्रकृतिकत्वे सति भवति। वै·ादेवे पिण्डेषु पिण्डशेषाप्रतिपत्तित्वात्पिण्डमन्त्रा एव न भवन्ति। श्राद्धे स्वविधिरेवास्ति। तत्र यन्नोक्तं निह्नुवनादि तद्भवत्येव॥
इ/2.1.5ऊ
इ2.1.6ऊ
मधुपर्को ब्राहृौदनश्च प्राशितानाम्।6।
दे0। प्राशितो द्विविधः। अतिथिभोजनदानादिना ब्रााहृणभोजनवितरणात्मना च। तत्रातिथिभोजनदानस्यातिथ्ये वैदिको मधुपर्कः प्रकृतिः। तत्र च श्रोत्रियाणां पादाध्र्यमधुपर्कपूर्वं मांसप्रदानं भोजनमिति विध्यन्तः। देवताविशेषोद्देशेन तु ब्रााहृणभोजनदाने आधानविहितो ब्राहृौदनः प्रकृतिः। तत्रापि बर्हिर्युक्तेष्वासनेषूपवेशनमध्र्यदानादिकं संघृतमन्नं देवतायै संकल्प्य प्राश्नन्तु भवन्त इत्यनुज्ञातपूर्वकं चासनमित्यादिरित्थंभावः॥
ब्रा0। मधुपर्को ब्राहृौदनश्च प्राशितानां श्राद्धादीनां प्रकृतिः। यथा मधुपर्क एकैक त्रिः प्राह मयि दोह इत्वादिवश्च पाद्याध्र्यदानविधिरुक्ताः तथैव इहापि श्राद्धादौ स्यात्। ब्राहृौदने च यथा प्राश्नन्तु भवन्त इति यजमानानुज्ञाता ऋत्विजः सघृतान्पिण्डान्प्राश्नन्ति॥
आ0। इहत्यानां प्राशितानां वैदिकमधुपर्को ब्राहृौदनश्च प्रकृतिः। यथा श्रोत्रियाणां पाद्यमध्र्यं मधुपर्कपूर्वं मांसप्रदानं
भोनंज पशुवधं मम चामुष्य चेति संज्ञापनं नानागोत्रभोजनं च तथेहापि ब्राहृौदनो यथादेवोद्देशे ब्रााहृणभोजने बर्हिष्मत्स्वासनेपूपवेशनं पाद्याध्र्यदानममन्त्रकः। सघृतमन्नं देवतायै संकल्प्य प्राश्नन्तु भवन्त इत्युक्तानुज्ञाताः प्राश्नन्तीति ब्राहृौदनः प्रकृतिः। उक्तश्चतुर्विधिः पाकयज्ञः॥
इ/2.1.6ऊ
इ2.1.7ऊ
दर्शपूर्णमासप्रकृतयः पाकयज्ञाः।7।
दे0। साधारणेतिकर्तव्यतातिदेशोऽयं। असाधारणात्तु पूर्वमितिकर्तव्यता निदर्शिता। दर्शपूर्णमासिके
विध्यन्ते अविशेषेण प्राप्ते क्वचिदपवादमाह॥
ब्रा0। वैतानिकाग्निदर्शपूर्णमासौ श्रावण्यादीनां पाकयज्ञानां प्रकृतिः॥
आ0। .....तेषु दर्शपूर्णमासानां सर्वं प्राप्तं। तत्र किंचित्प्रतिषिध्यते॥
इ/2.1.7ऊ
इ2.1.8ऊ
तेष्वावृदुपचारस्तूष्णीम्।8।
दे0। आवृत्क्रिया। उपचारोऽनुष्ठानं। तत्तूष्णीं। निर्वापावधातादि क्रियानुष्ठानममन्त्रकमित्यर्थः॥
आ0। आवृत्क्रिया। तस्योपचारः व्यापारः। व्रीह्रवघातादि तूष्णीं कुर्यात्। न तु मन्त्रवत्॥
इ/2.1.8ऊ
इ2.1.9ऊ
अनर्थलुप्तम्।9।
दे0। यल्लुप्तार्थं। निष्प्रयोजनं प्रकृतौ दृष्टमपि न कर्तव्यं विकृतावमन्त्रकमपि। यथा पेषणकलापोपधानादि स्थालीपाके निष्प्रयोजनमेवं सामिधेनीनां लुप्तत्वात्समिदाधानं लुप्तार्थत्वान्न कर्तव्यम्॥
ब्रा0। तेषु तु दर्भलवनावाहननादि कर्मामन्त्रकं। ब्राहृवरणोपभृद्ध्रुवाप्राशित्रेडाचमसादिपात्रप्रयोगादिकमनर्थकं लुप्यत एव॥
आ0। यदनर्थलुप्तं। अर्थात्प्रयोजनवशाद्यल्लुप्तं तत्तूष्णीमपि। यथा चरौ पेषणं। सामिधेनीषु लुप्तासु समिदाधानम्॥
इ/2.1.1ऊ
इ2.1.10ऊ
प्रयाजाभावाच्चोपभृत्।10॥13॥(2।1)
दे0। सामिधेन्यभावस्तु वक्ष्यमाणः परिसंख्यानात्तत्र क्लृप्तिः पाकयज्ञानामित्यादिकात्। न चैतावता दर्विहोमगृहमेधीयादिवदपूर्वत्वं पाकयज्ञानां किं दर्शपूर्णमासप्रकृतित्वाभिधानेनेति वाच्यं कतिपयचतुरवत्तजहूहोमादिधर्मोपजीवनात्॥
आ0। प्रयाजानुयाजानामभावादुपभृत्। एवमादि प्रयाजादयः कस्माल्लुप्यन्तं। परिसंख्यानात्। वक्ष्यति हि तन्त्रक्लृÏप्त पाकयज्ञानां। एवं तह्र्रपूर्वाः पाकयज्ञा गृहमेधीयवत्। किं दर्शपूर्णमासप्रकृतित्वेन अस्ति प्रयोजनं चतुरवत्तं जुह्वा होमादि॥
इ/2.1.10ऊ ----------
द्वितीय खण्डः इ/2.2.1ऊ उदगयने भार्यां विन्देति।1।
दे0। स्नात्वा भार्यामधिगच्छेदिति। स्नानानन्तरं भार्यान्वेषणकालः......विन्देत लभेत पश्येदित्यर्थः। उदगयने आदित्यस्य दक्षिणः दिग्भागादुत्तरदिग्भागाभिमुखगमनेसति। उत्तरायण इत्यर्थः। दृष्टायां वरेण कन्यायां पित्रा सहजेन सेवकेन। नक्षत्राण्याह॥
आ0। वेदमधीत्य स्नात्वा भार्यामधिगच्छेदित्यवसरप्राप्तो भार्याधिगमः। उदगयने उदयगते सूर्येऽधिगच्छेत्।
भरणीया भार्या। तथा कुर्याद्यथा लभेत। भार्याधिगमे यत्नः कार्यः। उदगयने नोदासीत॥
इ/2.2.1ऊ
इ2.2.2ऊ
कृत्तिकास्वातिपूर्वैरिति वरयेत्।2।
दे0। कृत्तिकाश्च स्वातिश्च पूर्वाणि तैर्वरयेत्। कंचित्प्रयुञ्जीत न तु स्वयं वृणुयादित्यौचित्यं णिचा दर्शयति॥
आ0। भार्ये लब्धां सतीमुदगयने कृत्तिकास्वातिपूर्वैर्नक्षत्रैर्वरयेत्। कृत्तिकाश्च स्वातिपूर्वाणि च तानि कृत्तिकास्वातिपूर्वाणि। तैर्वरयेत्। आत्मनो भार्यत्वेनाङ्गीकुर्यात्। मयैषा भरणीया विभवानुसारेणेति॥
इ/2.2.2ऊ
इ2.2.3ऊ
लक्षणिना लक्षणानि परीक्षयेत्।3।
दे0। हस्तादिलक्षणवेदिना लक्षणानि शुभसूचकानि परीक्षयेत्।........लक्षणपरीक्षणपूर्वकं वरणमिति। लक्षणालाभे परीक्षायां कारणान्तरमाह॥
आ0। कथं वरयेत्। पूर्वं भागधेयं तस्याः परीक्ष्य। लक्षणानि वेत्तीति लक्षणी। तेन पुरुषेण लक्षणानि शुभाशुभफलानि शरीरचिन्हानि परीक्षयेत्॥
इ/2.2.3ऊ
इ2.2.4ऊ
भागधेयमिति वा पिण्डैः परीक्षयेत्।4।
दे0। अपिशब्द उपायान्तराभ्युपगमे। वाशब्दो विकल्पे। पिण्डैर्वा भाग्यानि परीक्षयेत्। भर्तर्यनुकीलत्वापादनानि। पूर्वोक्तालाभ इत्यर्थः॥
आ0। भागधेयं प्राशस्त्यं धर्मसुखभागित्वं। अपि वा पिण्डैः परीक्षयेत्। मृत्पिण्डैरित्यर्थः॥
इ/2.2.4ऊ
इ2.2.5ऊ
वेद्याः सीताया ह्मदाद्गाष्ठादादेवनादादहनाच्चतुष्पथादिरिणात्संभार्यं नवमम्।5।
दे0। यज्ञार्था वेदिः प्रसिद्धा। सीता हलोत्कृत्ता भूमिः। अशोष्यः पज्ञ्माद्याकारो जलाशयो ह्मदः। गोष्ठं गावाश्रया गोकुलादिः। आदीव्यन्त्यस्मिन्नादेवनं कितवस्थानं। आदह्रन्तेऽस्मिन्नित्यादहनं
श्मशानं। स्वस्तिकाकारेण संबध्यमानं मार्गद्वयं चतुष्पथः। इरिणमूषरप्रदेशः। निस्तृण इत्यर्थः। एतेभ्यः प्रत्येकैकस्मिन्पिण्डं गृह्णीयात्। संभार्यं च नवमं। अष्टाभ्योऽपि वेद्यादिभ्यो लेशं लेशं मृदः संभृत्य नवमं कुर्यादित्यर्थः।
ब्रा0। प्राशस्त्य परीक्षणार्थं पिण्डान्योक्तवेद्यादिस्थानेभ्योऽष्टौ कुर्वन्नवमार्थं सर्वतः किंचिच्छिष्यात्तदेकीकृत्य नवमम्॥
आ0। वेदिर्यागार्थं परिगृहीता भूमिः। सीता हलकर्षेण लेखा। ह्मदः संततोदकजलाशयः। गोष्ठो गोस्थानं। आदेवनं द्यूतभूमिः। आकष उच्यते। आदहनं श्मशानं। चतुष्पथः चतुर्णो पथां संपातः।
इरिणः ऊषर प्रधेशः। निस्तृण इत्यर्थः। तेभ्यश्चाद्भिः पिण्डान्कृत्वा तांश्च लक्षयित्वा प्रच्छन्नैरक्षरैः। संभार्यं सर्वेभ्यः संभृतं नवमम्॥
इ/2.2.5ऊ
इ2.2.6ऊ
ऋतमेव परमेष्ठ¬ृतं नात्येति किंचन। ऋत इयं पृथिवी श्रिता सर्वमिदमियमसौ भूयादिति कन्याया नाम गृहीत्वा सर्वतः कृतलक्षणान्पिण्डान्पाणावादाय कुमार्या उपनामयेत्।6।
दे0। वेदादिभ्य उद्धृतानां पिण्डानामनुमन्त्रणमाह। ऋतमेव.......अमावित्युक्ते नाम प्रतीयात्। कन्या उच्यते। असौ भगवत्यादिसंज्ञिता॥
ब्रा0। तत्रादौ लोकपालप्रजापत्यादीनां यथाचारमुदकलशे पूजनं बलिहरणान्तं विदध्यात्। तांश्च
पिण्डान्
गन्धकुसुमाद्यैरलंकृत्य स्वस्तिपुण्यत्वान्त्रिकादिभिर्हुत्वा स्वस्त्ययनमुच्चार्य यथोक्तविदिना कन्यायाः उपनामयेत्। ऋतमेवेति। अत्रासौ शब्दस्थाने कन्यायाः प्रथमान्तं नाम ग्राह्रं। यथा। सर्वमिदमियं रुक्मिणी भूयादिति॥
आ0। ऋतमेव परमेष्ठीत्यनेन मन्त्रेणाभिमन्त्र्यासौ शब्दस्थाने कन्याया नाम गृहीत्वा पिण्डान् पाणौ गृहीत्वा कुमार्याः पाणिमुपनामयेत्सपिण्डं हस्तमुपन्तं कृत्वा॥
इ/2.2.6ऊ
इ2.2.7ऊ
एतेषामेकं गृहाणेति ब्राूयात्।7।
इ/2.2.7ऊ
इ2.2.8ऊ
पूर्वेषां चतुर्णामेकं गृह्णतीमुपयच्छेत्।8।
दे0। वेदिसीताह्मदगोष्ठोद्धृतानामन्यतमं गृह्णीयाच्चेत्तदोद्वहेदेनां। इतरग्राहिणीं तु वर्जयेत्।
वेदिपिण्डे हि वेदार्थक्रियासाहाय्यमावहेत्।
प्रजावतीति सीतायां गोष्ठपिण्डे गवादिकम्॥
ह्मदपिण्डे ह्मदोद्भूतकुसुमाभरणोदिता।
तृप्तिदा शैत्यहेतुश्च भर्तृजीवनकारिणी॥
श्मशाने विधवावश्यं द्यूतभूमौ कलिप्रिया।
इरिणे नित्यसंतप्तावकीर्णी तु चतुष्पथे॥
ब्रा0। क्रियावती वेदिपिण्डात्सीतायाः फलदा भवेत्।
अक्षुब्धा तु ह्मदाज्ज्ञेया गोष्ठाद्भवति गोमती॥
चतुष्पथाद्विप्रकीर्णा द्यूतस्थानात्कलिप्रिया।
श्मशानान्मृतभर्ता स्याद्वन्ध्या भवति चोषरात्॥
संभार्यं पिण्डमित्याहुर्वामिश्रं भजते सदा॥
आ0। तां च पूर्वेषां चतुर्णां मध्यादेकं गृह्णतीमुपयच्छेदङ्गीकुर्यादित्यर्थः
अर्थादुक्तं भवत्युत्तरेषां चतुर्णां मध्यादेकं गृह्णतीं नोपयच्छेत्॥
इ/2.2.8ऊ
इ/2.2.9ऊ
संभार्यमपीत्येके।9।
दे0।मन्यन्त इत्यध्याहारः। गृह्णतीमुपयच्छेदित्यनुषङ्गः॥
आ0। संभार्यमपि गृह्णतीं कदाचिदुपगच्छेतेति विकल्पो रुचिकृतः। ततो वृणीयाद्वक्ष्यमाणेन विधिना॥
इ/2.2.9ऊ
इ2.2.10ऊ
रोहिणीमृगशिरः श्रविष्ठा उत्तराणीत्युपयमे।10।
दे0। उपयमः स्वीकारः। तत्रैतान्यनुकूलानीत्यर्थः॥
आ0। ततो वृताया रोहिणीमृगशिरः श्रविष्ठा उत्तरा इत्येतानि नक्षत्राणि उपगमने प्रशस्तानि॥
इ/2.2.10ऊ
इ2.2.11ऊ
यद्वा पुण्योक्तम्।11॥14॥(2।2)।
दे0। पुण्यं। ज्योतिःशास्त्रं यथासंभवमनुमन्तव्यमित्यर्थः॥
आ0। यद्वा पुण्योक्तं ज्योतिःशास्त्रविहितं हस्तस्वात्यादि। तद्वोपयमने विवाहे भवति॥
इ/2.2.11ऊ
तृतीय खण्डः
इ2.3.1ऊ
अथ ब्राहृदेयायाः प्रदानविदिं वक्ष्यामः।1।
दे0। ब्रााहृेण विदिना या दीयते सा ब्राहृदेया। तस्याः प्रकृष्टे दाने विधिमितिकर्तव्यतां वक्ष्यामः। अथाधिकारार्थः। ब्रााहृो दैवः आर्षः प्राजापत्यः आसुरः गान्धर्वः राक्षसः पैशाच इत्यष्टौ विवाहाः। तत्र ब्रााहृासुरव्यतिरिक्तानां षण्णां विधानं सुप्रथितं नेह वचनमर्हति। तेन ब्रााहृासुरयोरेवेतिकर्तव्यतोक्ता। तथा हि प्रसह्रापहाराद्राक्षसो विवाहस्तत्र किं प्रकाराभिधानेन। न किंचिदित्यर्थः। एवमसंविज्ञातोपगमात्पैशाचोऽपि प्रकारवचनं नार्हति पापत्वात्। स्वयमिच्छन्त्या सहेच्छावतः संयोगाद्गार्वस्तत्राप्यसाधारणीकेतिकर्तव्यता। सह धर्मश्चर्यतां सहापत्यमुत्पाद्यतामिति धर्मे चार्थे च कामे च नाभिचरयितव्यमिति प्राजापत्यविधिः प्रथितः। असंकृत्य कन्यामन्तर्वेद्यृत्विजे प्रदीयत इति दैवः। गोमिथुनं कन्यावते दद्यादित्यार्षस्य विधानं॥
आ0। अथशब्दो मङ्गलार्थः। ब्रााहृण विवाहेन दीयते या सा ब्राहृदेया। ब्राहृशब्दो विवाहोपलक्षणार्थः। दैवस्याप्ययमेव विधिः। न प्रदानमितिकर्तव्यतां वक्ष्यामः॥
इ/2.3.1ऊ
इ2.3 .2ऊ
शुद्धपक्षस्य पुण्याहे पर्वणि वोदगग्रान्दर्भानास्तीर्य तेषूपविशतः प्राङ्मुखः प्रतिग्रहीता सामात्यः प्रत्यङ्मुखः प्रदाता।2।
दे0। शुक्लपक्षस्य संबन्धिनि प्रशस्ते ज्योतिःशास्त्रविशुद्धं दिवसे पर्वणि वा पौर्णमास्यरूपे विस्तररूपपवित्रार्थमुत्तरदिगग्रान्दर्भानास्तीर्य। ततो दातृप्रतिग्रहीतारावुपविशतः। प्राङ्मुखो भूत्वा
कः। प्रतिग्रहीता। कीदृशः। सामात्यः। सपरिजनः। प्रदाता पुनः पत्यङ्मुख उपविशेत्। तथैव। सामात्यो दर्भानास्तीर्योदगग्रान्॥
ब्रा0। अत्र दातृप्रतिग्रहीत्रोः सुह्मद्बन्धुभृत्यैः सहोदगग्रेषु दर्भेषूपविष्टयोः॥
आ0। शुद्धपक्षस्यापूर्यमाणपक्षस्य। पुण्याहे पुण्येऽहनि। शुद्धतिथिनक्षत्रग्रहकरणयोगयुक्ते विष्टिव्यतिपातगण्डान्तदुर्योगग्रहोपतपविवर्जिते ज्योतिःशास्त्रप्रसिद्धे। अथवा पर्वणि। दर्शपूर्णमासयोः। कन्यां दद्यात्प्रतिगृह्णीयाच्च। कथं। उदगग्रान्दर्भानास्तीर्य तेषु दर्भेषूपविशति। यतः प्राची दिक् ततो मुखमस्येति प्राङ्मुखः। कोऽसौ। प्रतिग्रहीता। कन्यायाः पितृव्यमातुलादिभिरमात्यैः सह वर्तते यः स सामात्यः। तेषु दर्भेषु प्रदातोपविशति। सामात्य इत्युभयत्रापि संबध्यते॥
इ/2.3.2ऊ
इ2.3.3ऊ
मध्ये प्रागग्रोदगग्रान्दर्भानास्तीर्य तेषूदकं संनिधाय व्रीदियवानोप्य दक्षिणत उदङ्ङासीन ऋत्विगुपयमनं कारयेत्।3।
दे0। तयोर्दातृप्रतिग्रहीत्रोर्दक्षिणदेशे उत्तराभिमुख उपविष्टः सन्नृत्विग्विशेष आचार्यस्तयोरूपयमनं दातृप्रतिग्रहीतृसंबन्धं कारयेत्। किं कृत्वा। दातृप्रतिग्रहीत्रोर्मध्ये प्रागग्रानुदगग्रांश्च दर्भानास्तीर्य तेषु च दर्भेषु कंसपात्र्यामुदकं संनिधाय। तत्रोदकमध्ये व्रीहियवस्यावपनं कृत्वा। अथोदकं संनिधायेति सामान्यवचनात्। कंसस्य कुतो लाभः। कंसे हिरण्यं समोप्येति दर्शनात्॥
ब्रा0। ऋत्विङ् मध्ये यथाचारं शालिचूर्णैर्मण्डलं कृत्वा स्वस्त्ययनं च कृत्वा तत्र प्रागग्रान्दर्भान्प्रथममास्तृणाति तेषूपर्युदगग्रांस्तत्रोदकपूर्णं कंसं परिवर्तुलं मङ्गल्यपात्रं व्रीहियवगर्भं निदधाति। तत्र यथाचारं विवाहोद्वाहदेवता अभ्यच्र्य दक्षिणत उदङ्मुख उपयमनं वक्ष्यमाणविधिना करोति॥
आ0। मध्ये दातृप्रतिग्रहीत्रोः प्रागग्रानुदगग्रान्दर्भानास्तीर्य। प्रथमं प्रागग्राः। तेषु दर्बेषूदकपूर्णं कंसं निधाय। कंसे हिरण्यं समोप्येति दर्शनात्। उदकं वा संनिधायति। तत्रोदके व्रीहीयवान्प्रक्षिप्य ततो दक्षिणत उदङ्मुख उपविष्टः। कोऽसौ। ऋत्विक्। उपयमनं कुर्यात्॥
इ/2.3.3ऊ
इ2.3.4ऊ
समेतेष्वाह ददानीति प्रतिगृह्णामीति त्रिरावेदयते।4।
दे0। समेतेषु संघट्टितेषु दातृप्रतिग्रहीतृबन्धुषु सत्स्वृत्विग्ब्राूयात्। दातुस्तावदिदं ब्राूयात्। कन्यास्मै प्रदीयतामिति। प्रतिग्रहीतुः कन्यास्मात्प्रतिगृह्रतामिति। ततो ददानि ते इति त्रिरुच्चायति दातारं बोधयेत्। दाता तथैव कुर्यात्। एवं प्रतिगृह्णामि ते इत्यप्यृत्विजावेदितः प्रतिग्रहीता ब्राूयात्। त्रिषत्या हि देवा इति श्रुतिः। त्रिरभिहितं न व्यभिचारि स्यात्सकृदुक्तं व्यभिचारो भवतीति त्रिरुच्चरणमिष्टं। अत एव समेतेष्वाहेत्युक्तं बहुजनसनिधौ दत्तां प्रतिगृहीतां च न कश्चित्कदाचिदपहर्तुं त्यक्तुं वा शक्यतीति॥
ब्रा0। कन्यां ददात्वस्मै भवानिति दाता प्रचोदयेत्। कन्यां प्रतिगृह्णात्वस्मद्भवानिति वरं। एवं त्रिवारं। उदकपूर्वं दत्तायां कन्यायां प्रणवोच्चारणपूर्वं भगवन् कन्यां प्रथिगृह्णामीति त्रिवारं। नात्र
सावित्रः प्रतिग्रहमन्त्रः। प्रत्याम्नानात्॥
आ0। समेतेषु संगतेषु ज्ञातिष्वाह। किं। कन्यां ददात्वस्मै भवानिति प्रदातारं चोदयेत्। कन्यां प्रथिगृह्णात्वस्मद्भवानिति वः। ततो ददानि ते प्रतिगृह्णामीति त्रीन्वारानावेदयते उच्चैर्भाषयते गातृप्रतिग्रहीतारौ। कन्यां ददातनि त इति दातारं जल्पयते। कन्यां प्रतिगृह्णामीति वरं। एवं त्ररावेदनमुच्चैः सुव्यक्तं यथा भवति निबन्धनमेतदुपयमनमृत्विक् कारयेद्द्वयेनापि॥
इ/2.3.4ऊ
इ2.3.5ऊ
एतद्वः सत्यमित्युक्त्वा समाना वः सं वो मनांसीत्युत्विगुभौ समीक्षमाणो जपति।5॥15॥(2।3)
दे0। एतद्दानप्रतिग्रहककर्म युष्माकं सन्यमव्यभिचारितमस्त्विति लौकिकोक्तौ। ऋत्विक् समाना व
इत्यादिकमृग्द्वयं जपति। उभौ दातृप्रतिग्रहीतारौ वीक्षमाणः॥
ब्रा0। प्रतिगृहीतायां कन्यायामृत्विगेतद्वः सत्यमिति दातृवरौ पश्यन्नाह। एतन्नः सत्यमिति प्रतिवदतः। एवं त्रव्र्यत्यासं ततो वरस्योत्तरत उपविष्टायां वध्वां समाना वः सं व इत्यृत्विग्वधूवरावीक्षमाणो जपति। जपादूध्र्वं वरस्योत्तरत उपवेशयेदित्यन्ये॥
आ0। एतद्वः सत्यमित्युक्ता ऋत्विक्। तेऽपि एतन्नः सत्यमिति प्रतिवचनं यथालिङ्गं वदन्ति। ततः समाना वः सं वो मनांसीत्यृग्द्वयमृत्विगुभौ पक्षो वधूवरयोः समीक्षमाणो जपति। पुनर्ऋत्विग्ग्रहणादेतन्नः सत्यमिति प्रथिवचनं ज्ञायते। अत्र सावित्रः प्रत्याम्नातः। कन्यां तूषे करे वा गृहीत्वा कन्यां प्रतिगृह्णामीत्येष एव प्रतिग्रहः॥
इ/2.3.5ऊ
चतुर्थ खण्डः
इ2.4.1ऊ
अथ शुल्कदेयायाः।1।
दे0। आसुरविवाहविधिमाह। अथ शुल्कदेयायाः। प्रदानविधिरुच्यत इति शेषः। शुल्केन मूलेन या दीयते सा शुल्कदेया॥
ब्रा0। शुल्कदेयाविदिरासुरविवाह विषयः।........कुमारीणां यदा केशा वेणीबन्धनयोग्याः स्युस्तदा सीमन्तोन्नयनविधिना सढोद्धरणममन्त्रकं प्राग्वाक्प्रदानात्कर्तव्यमिन्द्राणीमासु नारीष्विति यद्वक्ष्यति तद्वाचा दत्तायां कन्यायामिन्द्राणीयाग आज्येन वाग्दानदिवसे भवेत्। तत्राज्यं हविः। आज्यं हविरनादेश इति हि परिभाषा। यज्ञं यजेतेति वचनात्। इति तन्त्रं लक्ष्यते। तस्मादाज्यभागान्ते चतुर्गृहीतेन प्रधानम्।
अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्॥
आ0। मिथुनं शुल्कं। तथा। आसुरे ज्ञातिभ्यो द्रविणं दत्त्वा। स च वैश्यस्य द्रविणवत्त्वात्। तेन शुल्केन या दीयते सा शुल्कदेया। तस्याः पदानविधिं वक्ष्याम इति शेषः।
इ/2.4.1ऊ
इ2.4.2ऊ
हिरण्यं व्यतिहरतः।2।
दे0। सुवर्णे विजिगीषया परस्परं ददतो दातृप्रतिग्रहीतारौ। आसुरत्वादस्य विजिगीषोः। प्रधानत्वाच्चासुराणां राजसत्वेन अन्योन्योपचारं कुरुत इति गन्यते। कन्यामूलभूतं तु सुवर्णं व्यतिहरतो निश्चिन्वतो द्वौ दातृप्रतिग्रहीतारौ। संभूयेत्यर्थद्वयं तन्त्रेणावृत्त्यावगम्यते॥
आ0। हिरण्यं व्यतिहरतो दातृप्रतिग्रहीतारौ परस्परं समर्पयतः॥
इ/2.4.2ऊ
इ2.4.3ऊ
प्रजाभ्यस्त्वेति प्रददाति।3।
दे0। तत्प्रकृतं हिरण्यं प्रजाभ्यस्त्वेत्यनेन ददाति वरः कन्यायाः पित्रे॥
आ0। प्रदादाति वरः॥
इ/2.4.3ऊ
इ2.4.4ऊ
रायस्पोषाय त्वेति प्रतिगृह्णाति।4।
दे0। कन्यायाः पिता प्रतिगृह्णाति॥
कंसे हिरण्यं समुप्य हिरण्यवर्णा इति चतसृभिः
इ/2.4.4ऊ
इ2.4.5ऊ
समवमृशन्ते।5॥16॥(2।4)
दे0। सर्वे बन्धव उपस्पृशन्ति। बहुवचनं सर्वबन्ध्वपेक्षणं। तत्कन्यामूलभूतं हिरण्यं प्रतिगृहीतं कंसपात्रे निधाय जलयुक्तं हिरण्यवर्णा इत्यृग्भिस्तिसृभिः समवमृशन्ते घोरपापविशुद्धये॥
आ0। कंसे हिरण्यं समोप्य प्रक्षिप्य प्रकृतं हिरण्यवर्णा इति चतसृभिः समवमृशन्ते। बहुवचनात्सर्वे ज्ञातयोऽपि। हिरण्यमन्यदेव न मूल्यं। मूल्यमन्यदपि भवति॥
इ/2.4.5ऊ
पञ्चम खण्डः
इ2.5.1ऊ
गौदानिकैर्मन्त्रैः कन्यामलंकृत्य चतुष्पादे भद्रपीठे प्राङासीनायाश्चतरुाोऽविधवा माता पिता च गुरुः सप्तमस्तां सहरुाच्छिद्रेण पवित्रेण स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोतीन्द्राय स्वाहेन्द्राण्यै स्वाहा कामाय स्वाहा भगाय स्वाहा ह्यियै स्वाहा श्रियै स्वाहा लक्ष्म्यै स्वाहा पुष्ट¬ै स्वाहा वि·ावासवे गन्धर्वराजाय स्वाहेति।1।
दे0। अथ विवाहमाह।.........पादचतुष्टययुक्तो भद्रपीटः। शोभने आसने प्राङ्मुख्या उपविष्टायाश्चतसृषु दिक्षु चतरुाोऽविधवा भवन्ति। वामभागे माता। दक्षिणभागे पिता। अग्रे गुरुः संस्कारस्य कर्ता सप्तमः। तेषु यथासंनिवेशनं स्थितेषु। गोदाने भवा गौदानिकाः। तैर्मन्त्रेस्तां गुरुः कन्यां सहरुाच्छिद्रयुक्तेन पवित्रेण पावनेन वस्त्रविशेषेण सुप्रजास्त्वाय गौदानिकैरेव मन्त्रैः कटककेयूरादिभिर्यथाविभवमलंकृत्याहतेनानुपभुक्तेन वाससा प्रच्छाद्य स्थालीपाकेन गुरुर्जुहोति। अत्र पल्लवचतुष्टयं वस्त्रस्य पवित्रस्य चतरुाोऽविधवा अवष्टम्भनन्त। मातापितरौ जलमभिषिञ्चतः। गुरुमन्त्रपाठं करोति स्नापनेऽलंकरणे च गुरोरेव प्रयोजककर्ता तेन होमेन समानकर्तृकत्वं।.......वि·ाावसवे गन्धर्वराजाय स्वाहा इत्येकैवाहुतिः। तेन नव भवन्ति॥
ब्रा0। ब्राहृदेयविदिना प्रत्तायां कन्यायां सौभाग्यविवृद्धये विवाहसंनिकृष्टेष्वहस्सु गौदानिकमन्त्रस्नापनपूर्वमिन्द्राद्या नव देवता स्थालीपाकेन यष्टव्याः।.......शुद्धपक्षस्य पुण्याह इदं सर्वं।......आज्यभागान्तं हुत्वा हारकेयूराद्याभरणालंकृतां दक्षिणतोऽग्नेश्चतुष्पादे भद्रपीठे प्राङ्मुखीमुपवेश्य तस्या मूÑध्न सहरुाच्छिद्रं शुक्लोर्णोतं पवित्रं सव्येन पाणिना सप्त यथोक्तः स्नापकाः स्वयं चालंकृताः प्रान्तैरवष्टभ्य सर्वगन्धकुंकुमकर्पूरजातीफलपूरफलमङ्गल्यफलादिदूर्वाक्षतनानाविधकुसुममङ्गल्यवृक्षपल्लवादिमिश्रितवारिपूर्णकल
शैर्दक्षिणपाणिस्थैर्या आपो दिव्या इति द्वाभ्यामेना व्याघ्रमिति च स्नापयन्ति। ततोऽवरूढां गुरोर्दक्षिणतो मङ्गल्यमञ्चोपविष्टामहतेन वाससा प्रच्छाद्येन्द्राय स्वाहेत्येवं नव यथोक्ताः
प्रधानाहुतीः स्थालीपाकस्य मेक्षणेनावदाय जुहोति। वि·ाावसवे गन्धर्वराजाय स्वाहेति नवमी॥
आ0। इदानीं भर्तृसंयोगे सति मन्त्रवत्संस्काराधिकारान्पिता करोति। गौदानिकैर्मन्त्रैः कन्यां स्नापयित्वेति संबन्धः। कन्यामलंकृत्य कटककेयूरकुण्डलादिभिः। चतुष्पादे भद्रपीठे त्रिपात्स्नानपीठं भवति। अत्र चतुष्पादग्रहणं। प्राङासीनायाः चत्वारोऽविधवा........स्नापयन्ति। गौदानिकैर्मन्त्रैर्या आपो दिव्या इत्यादिभिः। तथा सर्वसुरभिणानुलिप्यमानामेना व्याघ्रं परिषस्वजानमित्येतदभिप्रायं गौदानिकैर्मन्त्रैः स्नापयित्वेति। चतरुाोऽविधवाः सहरुाच्छिद्रं वरुां पर्यन्तेषु गृहीत्वा शिरसि धारयन्ति। माता पिता गुरुश्च वासस उपरि या आपो दिव्या इत्यपोऽभिषिञ्चन्ति। ......ततः स्थालीपाकस्य जुहोति इन्द्राय स्वाहेति।......ये तु गौदानिकैर्मन्त्रैर्जटाकर्ममन्त्रैः कन्यायाः क्षुरेणालंकृतिं व्याचक्षते तेषां केशपवनं प्रत्याख्यातं।
अस्तु चेच्चूडाकरणमेव किं नातिदिष्टं समाचारविरोधश्चामङ्गलं। एतस्माद्यदेवास्माभिध्र्याख्यातं तदेव साधीयः॥
इ/2.5.1ऊ
इ2.5.2ऊ
नाडीं तूणवं मृदङ्गं पणवं सर्वाणि च वादित्राणि गन्धोदकेन समुपलिप्य कन्या प्रवादयते शुनं वद दुन्दुभे सुप्रजास्त्वाय गोमुख प्रकीडयन्तु कन्याः सुमनस्यमानाः सहेन्द्राण्या कृतमङ्गला इति।2।
दे0। नाड¬ादीनि सर्वाणि वादित्राणि गन्धोदकेन सुगन्धिना चतुःसमाधिकेनोपलिप्य पूर्वं कन्यैव प्रवादयते। वाद्यमानेषु च गुरुर्मन्त्रं पठति। तत्र नाडी वंशः। तूणवं गोमुखः वाद्यविशेषः॥
ब्रा0। प्रधानानन्तरं नाडीतूणवादि गन्धोदकेनोपलिप्तं शुनं वद दुन्दुभ इत्यादिना कृतमङ्गला इत्यन्तेन मात्रेण कन्या प्रवादयते। तत ऋतुतिथियागादितन्त्रे समाप्ते स्वस्त्ययनं कृत्वा सर्पिष्मदन्नं ब्रााहृणान्भोजयेत्॥
आ0। ततो नाड¬ादीनि वादित्राणि गन्धोदकेन चन्दनकुंकुमादिकल्केन समुपलिप्य कन्या प्रथमं वादयते।......नाडी वंशः। तूणवस्तत्प्रकारः मुखवायुपूरणः। नालवक इति प्रसिद्धः॥
इ/2.5.2ऊ
इ2.5.3ऊ
प्रतिसखि प्रक्रीडयत्येकमहद्र्वे वाहोरात्रे।3।17॥(2।5)
आ0। ततः प्रतिसखि क्रीडयति। सखी सखी नर्तयति गापयन्ति च। एकमहः। द्वे वाहनी।
अहोरात्रे वा द्वे॥
इ/2.5.3ऊ
षष्ट खण्डः इ2.6.1ऊ यज्ञियस्य वृक्षस्य प्रागायतां शाखां सकृदाच्छिन्नां सूत्रतन्तुना प्रच्छाद्य सावित्रेण कन्यायै प्रयच्छति।1।
दे0। यज्ञमर्हतीति यज्ञियः। यज्ञÐत्वग्भ्यां घखञाविति। यज्ञार्हाणां वृक्षाणां वटादीनामन्यतमस्य संबन्धिनीं शाखां सकृदाच्छिन्नां सूत्रतन्तुना प्राच्यां दिश्यायतां प्रसृतां सकृदेकेनैव प्रहारेण
छिन्नामेकसरेणे सूत्रतन्तुनो प्रच्छाद्य कन्यायै प्रयच्छति। देवस्य त्वेत्यादिना प्रयच्छामीति कन्यायै प्रददाति गुरुः॥
ब्रा0। एकमहद्र्वे वाहोरात्रे सखीभिः सह गायननर्तनादनन्तरम·ात्थोदुम्बरादियज्ञायवृक्षोद्भवां पूर्वदिक्प्रसृतां सकृदाच्छिन्नां लोहितसूत्रप्रच्छन्नां सावित्रेण कन्यायै शाखां प्रयच्छति॥
आ0। .....देवस्य त्वेत्यनेन शाखां प्रयच्छामीत्यन्तेन॥
इ/2.6.1ऊ
इ2.6.2ऊ
या तेऽलक्ष्मीर्मातृमयी पितृमयी संक्रामणी सहजावापि काचित्। तां तिष्येण सह देवतया निर्भजामि
निर्णुदामि सा द्विषन्तं गच्छतु तिष्यबृहस्पतिभ्यां नमोनम इति।2।
दे0। गृहीतशाखां कन्यां मन्त्रयते गुरुः। या तेऽलक्ष्मीं.......नमो नमः........अन्ये तु तिष्यबृहस्पतिभ्यां नमो नम इति एकं यजुरेकदेशमाच्छिद्य शाखोत्सर्गे प्रयुञ्जते वक्ष्यमाणे॥
ब्रा0। या तेऽलक्ष्मीरिति शाखाहस्तामनुमन्त्रयते। तिष्यबृहस्पतिभ्यां नमो नम इत्यन्तो मन्त्रः॥
आ0। या तेऽलक्ष्मीरिति गृहीतशाखां कन्यामनुमन्त्रयते नमस्कारान्तेन। अलक्ष्मीनिर्णोदनमेतच्छाखाप्रदानम्॥
इ/2.6.2ऊ
इ2.6.3ऊ
तस्या उत्सर्गः स्थावरोदके शुचौ वा देवतायतने।3॥18॥(2।6)
दे0। स्थावरोदकं कूपतडाकादि। तत्र तस्याः शाखाया उत्सर्गः प्रतिपत्तिकर्म। शुचौ देवगृहे। देवगृहं मद्योपहारशोणितादिनापवित्रमपि संभाव्यते। तदर्थं शुचिग्रहणम्॥
ब्रा0। शाखाया यथोक्तस्थाने स्थापनं। होमस्यानाम्ना न त्रिकादिभिर्जुहुयात्॥
आ0। स्थावरोदके शुचौ वा देवतायतने। देवतायतनमश्रुच्यपि भवति मद्यरुधिरोपहारसंबन्धात्। अतो शुचाविति। अत्र होमशङ्का न कायौ॥
इ/2.6.3ऊ
सप्तम खण्डः
इ2.7.1ऊ
अथातो हविष्यकल्पं व्याख्यास्यामः।1।
दे0। हविष्यकल्प इति पारिभाषिकी कर्मविशेषसंज्ञा॥
ब्रा0। द्वादशवर्षे यावद्यद्यनूढा कन्यात ऊध्र्वं रजस्वलेतिदोषनिवारणार्थं हविष्यकल्पः॥
आ0। अथशब्दोऽत्र नैमित्तिकप्रदर्शनार्थः। ब्राहृचर्यान्तं निमित्तं। दशवार्षिकं ब्राहृचर्य कुमारीणां द्वादशवार्षिकं वा। अत ऊध्र्वं पुरुषं प्रतीच्छया स्वप्ने वा रेतःसेकः संभाव्यते। अत ऊध्र्वमेतत्कर्मावश्यं कर्तव्यं। अतो हविष्यकल्पनाम व्याख्यास्यामः॥
इ/2.7.1ऊ
इ2.7.2ऊ
दशवार्षिकं ब्राहृचर्यं कुमारीणां द्वादशवार्षिकं वा।2।
दे0। वर्षदशकादूध्र्वं ब्राहृचर्ये कुमारी न स्थापयितव्या पित्रा। आगत्या वा द्वादश वर्षाणि नातिक्रमणीयानि॥
इ/2.6.2ऊ
इ2.6.3ऊ
ब्राहृचर्यान्ते गन्धर्वे देवकुले वा द्वावग्नी प्रज्वाल्य द्वौ पशू उपाकरोत्यर्यम्णे दक्षिणं प्राजापत्यमुत्तरम्।3।
दे0। ब्राहृचर्यावसाने विवाहात्पूर्वं गन्धर्वे निर्निमित्तजलरुााविणि देशे देवतायतने वा लौकिकौ द्वावग्नी प्रज्वाल्य द्वौ पशू छागौ कन्यासंस्कारार्थमुपाकुर्यात्। पशुकल्पवत्। एकमर्यम्णे दक्षिणभागवर्तिन्यग्नौ द्वितीयं प्रजापतये उत्तरभागवर्तिन्यग्नौ। इति कर्तव्यतां समन्त्रव्याख्यानां पशुकल्प एव व्याख्यास्यामः॥
ब्रा0। अत्र द्विपशूपक्षे द्वावेवÐत्वजौ वरुणप्रघासवत्। एकपशुपक्षे एक एवाग्निरेक एवÐत्वक्। विशेषवचनाभावादजपशू एव द्वौ। ऋतस्य त्वेत्यत्रार्यम्णे जुष्टं प्रजापतये जुष्टमिति प·ाालाभे न प्रयोगः।
आ0। एतद्वयसोऽर्वाङ्गः न कर्तव्यः। ब्राहृचर्यान्तसंभावनमात्रेणैव कर्तव्यं। गन्धर्वे गन्धर्वोदकसंनिधाने प्रतिमा देवकुले वा। अग्नी द्वौ प्रज्वाल्य वरुणप्रघासवत् द्वौ पशू उपाकरोति। पशुकल्पवत्। अर्यम्णे दक्षिणं प्रजापतये उत्तरम्॥
इ/2.5.3ऊ
इ2.5.4ऊ
असंभवे त्वेकपशुः।4।
दे0। प्रचुरार्थाद्यभावे एक एव द्विदैवतः पशुरुपाकर्तव्यः। अवदानानि च ह्मदयादिभ्यो मेदोऽन्तेभ्यो द्वादशभ्यो द्विर्द्विग्र्रहीतव्यानि। अर्यमप्रजापतिभ्यां स्वाहेति होमः। एक ए च योगः सह तयोरेकदेशत्वधर्मसमवायात्। अत एव केचिद्धूदयादिभ्यो द्विगुणान्यवदानानि नेच्छन्ति॥
ब्रा0। यद्येक ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चाम्यर्यमप्रजापतिभ्यां जुष्टमित्यजं दक्षिणेऽर्धशिरसि बध्नाति। अर्यमप्रजापतिभ्यामिति भीषाहोमः। अर्यमप्रजापतिभ्यां जुष्टमवकृन्तामीति
वपाकर्तनं। अर्यमप्रजापतिभ्यां स्वाहेति नामधेयहोमः॥
आ0। यदार्थानुसमयेन क्वचित्काण्ड्वानुसमयेन सहार्थस्यानुग्रहाय असंभवे त्वेकपशुः यागो
द्विदैवतः। अर्यमप्रजापतिभ्याम्॥
इ/2.7.4ऊ
इ2.7.5ऊ
तण्डुलैर्वा कुर्यात्।5।
दे0। धनदौर्गत्ये सति हिंसानियमेन वा तण्डुलैः कुर्यात्। तण्डुलग्रहणं पिष्टकार्थम्॥
ब्रा0। प·ाालाभे तण्डुलपिष्टेन वा प·ााकृतिं कुर्यात्॥
आ0। तण्डुलशब्दः प्रकृतिद्रव्यसमर्पकः। तेन तण्डुलपिष्टेन कर्तव्यः। अन्यथा वृत्तिसंगृहपक्तयो नोपपद्यन्ते अत्यन्तविकारत्वात्॥
इ/2.7.5ऊ
इ2.7.6ऊ
यथास्थानं पशुर्यथास्थानमवदानानि तथा हविः।6।
दे0। यत्रैव स्थाने आज्यभागाभ्यां पूर्वे मुख्यः पशुस्तत्रैव पिष्टकपशुः अवदानान्यपि तेषां च श्रपणहोमौ इति कर्तव्यतारशनाबन्धयूपनियोजनोपपायनविशसनादिलुप्तार्थवर्जं। हविः पशुपुरोडाशस्थाने स्थालीपाकः। तदपि यथास्थानं पशुपुरोडाशक्रमे। वपाहोमस्थाने त्वाज्यहोमः॥
ब्रा0। तस्य वपामन्यानि चावदानानि ह्मदयादीनि यथास्थानं कल्पयेत्॥
आ0। पिष्टपशोर्यथास्थानं पशुः यथास्थानमवदानानीति वदति। तेनोपाकरणशाखानियोजनोदङ्नयनावदानादि पिष्टपशोरपि कुर्यात्। अवदानानि वपादीनि। तेभ्य एवाङ्गेभ्योऽवदाय श्रपयित्वा जुहुयात्। स्विष्टकृतं च त्र्यङ्गात्। एकपशावर्यमप्रजापतिभ्यां स्वाहेति होमः। बहून्यक्षराण्यतिरिच्यन्ते यत्र। ऋक्सामान्यक्षराणि। तत्र ऋक्षूमः। एतदर्थमाह। पूयति वा एतदृचो यदक्षरं यदेनमूहति तस्मादृचं नोहेत्। दर्शितश्च सूत्रकारेण तूल्याक्षर ऊहः। उन्मेष तिष्ठोदुरुा तिष्ठेति। विकारः। तथा हविः। किमत्र विधीयते। यावत्पशुतन्त्रे प्राक् स्विष्टकृतो यथाचरितमन्नं साधयित्वेत्यप्येतत्किमर्थं विधीयते। अत्रोच्यते। इहान्यत्पशुपुरं डाशस्थानीयं हविर्विधीयते॥
अÏग्न सोमं वरुणं मित्रमिन्द्रं बृहस्पतिं स्कन्दं रुद्धं वात्सीपुत्रं भगं भगनक्षत्राणि कालीं षष्ठीं भद्रकालीं पूषणं
इ/2.7.6ऊ
इ/2.7.7ऊ
त्वष्टारं महिषिकां च गन्धाहुतिभिर्यजेत्।7॥19॥(2।7)
दे0। सुगन्धचन्दनघनसारादिद्रव्ययुतेजाज्येनाहुतयो गन्धाहुतयः। ताभिगन्यादिकः सप्तदश देवता यजेत। वात्सीपुत्र इति देवतानाम। यतः शब्दैकममधिगम्या देवता विभक्तिविपरिणामेन चतुथ्र्यन्तेः स्वाहाकारयुक्तैः शब्दैरुद्दिश्याग्न्यदिदेवता यष्टव्याः। अग्नये स्वाहेत्यादिकैः॥
ब्रा0। वनस्पतियागादनन्तामग्नये स्वाहा.......वात्सीपुत्राय स्वाहा......महिषिकायै स्वाहेति समदश रुाुवेण कर्पूरकुंकुमगन्धाहुतीर्हुत्वा ऋतुतिथियागादि तुल्यम्।......अतिक्रान्तद्वादशवर्षाणां कन्यानामिदं
प्रायश्चित्तं नान्यासाम्॥
आ0। ततोऽग्न्यादीन् गन्धद्रव्ययुक्ताभिश्चन्दनयुक्ताभिराहुतिभिर्यजेता
अग्न्यादीन्महिषिकान्तान्सप्तदशावापस्थाने
यजेत। काल्यै स्वाहा षष्ठ¬ै स्वाहेति होमः। उपहारो भवत्येव॥
इ/2.7.7ऊ
अष्टम खण्डः
इ2.8.1ऊ
अथातो हविष्यपुण्याहः।1।
दे0। इयमपि पारिभाषिकी संज्ञा। हविष्येण व्रीह्रादिना पुण्येऽहनि क्रियमाणताशब्दप्रवृत्तिनिमित्तम्॥
आ0। अथातः शब्दो नैमित्तिकव्युदासार्थः। हविष्यपुण्याह इति कर्मणो नामधेयम्॥
इ/2.8.1ऊ
इ2.8.2ऊ
उदकान्तं गत्वा यथोपपत्ति वा पयसि स्थालीपाकं श्रपयित्वा सर्वगन्धैः फलोत्तरैः सशिरस्कां स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोतीन्द्राणी वरूणानि गन्धर्वाण्युदकान्यग्निर्जीवपुत्रः प्रजापतिर्महाराजः स्कन्दोऽर्यमा भगः प्रजानक इति।2॥20॥(2।8)
दे0। उदकस्य समीपं गत्वा। अतिदूरं तडाकादिके ग्रामे यथोपपत्ति यत्रोपपद्यते स्थाने क्षीरेण स्थालीपाकं कृत्वा माङ्गलिकबिल्वाक्षोटादिफलोपेताभिः सर्वौषध्यादिगन्धयोगिनीभिश्चाद्भिरामलकैः कन्यां स्नापयेत्। सशिरस्तामित्यनेनान्यदा स्त्रीणामशिरस्कमपि स्नानं भवतीति सूचयति स्नापनाहतवस्त्राछादनव्यवदानेन च स्थालीपाकेन होमः स्नानाच्च तत्पूर्वं स्थालीपाक इति विवक्षितः क्रमः। चतुथ्र्या देवतापदपरिणामः स्वाहाकारश्च पूर्ववत्। जीवपुत्रोऽग्निरित्येकैव देवता। जीवः प्राणो वायुः पुत्रो रक्षकोऽस्येति बहुव्रीहिरन्यपदार्थप्रधानो योग्यश्च संनिहितोऽग्निरेवान्यपदार्थः। महाराज इत्यत्र न पूजनादिति प्रतिषेधोऽस्ति नियमाश्रयणात्। पूजायां स्वतीग्रहणं कर्तव्यमिति वचनादन्यथा हि परमराज इत्यादावपि ऋचः प्रतिषेधः स्यात्। अन्ये तु महाराजा इत्याकारान्तं पठन्ति। ते स्वतीनियमं प्रति नाद्रियन्ते॥
ब्रा। इन्द्राण्यै वरुणान्यै गन्धर्वाण्यै उदकान्यै.........महाराजाय स्कन्दाय........प्रजानकाय जुष्टं निर्वपामीति सावित्रादिना समनुद्रुत्यैकादशभ्यौ देवताभ्यो निर्वपति। आज्यभागान्ते हुते सर्वगन्धैः फलोत्तरैः सशिरस्कां स्नापितां कन्यां नवेन शुक्लेन सदशेनानन्यधृतेन वाससाछाद्येन्द्राण्यै स्वाहा वरुणान्यै स्वाहेत्येवं पयसस्यावदायैकादश प्रधानाहुतयः। अग्नये जीवपुत्रायेत्येकाहुतिः।
आ0। तम् (हविष्यपुण्याहं) उधकसमीपे गत्वा कुर्यात्। यथोपपत्ति वा। यत्र वा कर्तुमुपपद्यते। पयसि स्थालीपाकं श्रपयित्वा नाप्सु। आज्यभागान्ते सर्वगन्धैः सर्वैषधिभिः फलोत्तमैरामलकादिकैः। तथा च। सर्वौषधीभिः संयुक्ताः शुष्क आमलकत्वचः। स्नानं माङ्गलिकं कुर्यादलक्ष्मीनोदनं हितम्। सशिरस्कमिति वचनादशिरस्कमपि स्नानं स्त्रीबालकानामिति ज्ञायते। अन्तेन अव्युषितेन विभवानुसारेण वाससा प्रच्छाद्य स्थालीपाकस्य जुहोति।.....अग्नये जीवपुत्राय स्वाहेत्येकाहुतिः। जीवपुत्र इति बहुव्रीहिरन्यपदार्थमपेक्षते। महाराजेति समासान्तो न कृतः। तेन महाराज्ञे स्वाहेति प्रयोगः॥
इ/2.8.2ऊ
नवम खण्डः
इ2.9.1ऊ
यामेव द्वितीयां रातिं्र कन्यां विवाहयिष्यन्स्यात्तस्यां रात्र्यामतीते निशाकाले नवां स्थालीमाह्मत्य पयसि स्थालीपाकं श्रपयित्वा सर्वगन्धैः फलोत्तरैः सशिरस्कां स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोत्यग्नये सोमाय मित्राय वरुणायेन्द्रायोदकाय भगायार्यम्णे पूष्णे त्वष्ट्रे राज्ञे प्रजापतय इति।1।
दे0। एका विवाहाहोरात्ररात्रिः। तस्याः पूर्वा या द्वितीया रात्रिः यस्यां पिता कन्यां विवायिष्यन्भवेत् विवाहयिष्यामीत्यनेन व्यवसायेन युक्तः। अथवा यां भविष्यन्तीं रात्रिमधिकृत्य पिता कन्यां विवाहयिष्यन्स्यात् तस्या या द्वितीया रात्रिस्तामाश्रित्येतिकर्तव्यता प्रवृत्ता। तस्यामेव
रात्र्यामतीतेमध्यप्रहरद्वये महानिर्शाख्ये पूर्ववत्स्थालीपाकेन यागं कुर्यात् गुरुरन्यादिभ्यो देवताभ्यः॥
ब्रा0। अथ विवाहदिनस्य पूर्वेद्युररुणोदयवेलायां नवां स्थालीमाहत्याग्न्यादिभ्यः प्रजापत्यन्ताभ्यो द्वादशभ्यौ निरुप्य पयसि स्थालीपाकं श्रपयेत्। आज्यभागान्ते यथावत्स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोत्यग्नये स्वाहेत्यादि प्रजापतये स्वाहेति यावद्द्वादशेत्। स्वाहान्ते होमः। तत ऋतुतिथ्याद्याश्रावितान्तं तुल्यम्॥
आ0। यां रात्रिमवधिं कृत्वा द्वितीयां रातिं्र कन्यां विवाहयिष्यन्स्यात्तस्यामवधिभूतायामतीते निशाकाले महारात्र इत्यर्थः प्रहराधेशेषमात्रे नवां स्थालीमादृत्येति। नवग्रहणात्पुराणान्यन्यत्रापि भवन्ति। इह तु नियमः। पयसि स्थालीपाकमिति व्याख्यातं। श्रपणार्थीये पयसीत्यर्थः। अग्नये सोमायेति द्वादशाहुतीर्जुहोति॥
इ/2.9.1ऊ
इ2.9.2ऊ
एता एव देवताः पुंसः कुम्भं वैश्रवणमीशानं च यजेत।2॥21॥(2।6)
दे0। पुंसोऽपि तस्यां रात्र्यां संस्कारार्थमेतयैवेतिकर्तव्यतया एता एव देवता यजेत। कुम्भादयश्च तिरुा इति। एतावानेव च विशेषः। स्त्रियो द्वादशाहुतयः पुंसः पञ्चदश॥
ब्रा0। वरोऽपि तस्मिन्नेवाह्यि एतस्मिन्नेव काले नवायां स्थाल्यां पयसि स्थालीपाकं श्रपयित्वाज्यभागान्ते तथैव स्नापयित्वाहतेन वाससा प्रच्छाद्यैताभ्यो देवताभ्यो हुत्वा कुम्भाय वैश्रवणाय ईशानाय तिरुा आहुतीर्यजेत। निर्वपणकालेऽप्येवं पञ्चदश देवताः॥
आ0। एता एव देवताः पुंसोऽतिदिश्यन्ते। अस्यामेव रात्र्यामन्यदा वा॥
इ/2.9.2ऊ
दशम खण्डः
इ2.10.1ऊ
चतरुाोऽष्टौ वाविधवाः शाकपिण्डीभिः स्त्रियोऽन्नेन च ब्रााहृणान्भोजयित्वा वीणागायिभिः सह संगायेयुरपि वा चतुरो नर्तनं कुर्यात्। क्रीडं वः शर्धो मारुतमनर्वाणं रथेशुभं कण्वा अभिप्रगायतेत्॥1॥
दे0। अधिधवाः जीवद्भर्तृकाः। शाकमिश्राः पिण्ड¬ः शाकपिण्ड¬ः। चतरुाोऽष्टाविति च प्रथमान्तं स्त्रीपदसमानाधिकरणं। चतरुाोऽष्टौ वेति यथासंभवं विकल्पः। समसंख्या
नियमार्थमेतश्चतुष्ट्वाष्टत्वनियमार्थमिति केचित्। तेनायं समन्वयः। अन्यूनाश्चतसृभ्यौऽविधवाः स्त्रियः समसंख्याः षट्कवर्जाः शाकपिण्डीभिरन्यैश्च यथासमृद्धिभिर्भोजनविशेषैर्बाहृणान्भोजयित्वा। वीणाया वाद्यामानया सह ये गायन्ति तच्छीलास्तैः सह संभूता मङ्गलाचारं गायेयुः।.........अपि वा चतुरो नर्तनं कुर्यात्। चतुरो मर्तनप्रवीणो नर्तनं कुर्यात्। यद्यसौ शीलादिगुणयुक्तो भवेत्। विपर्ययेण तु न ताभिः सह नर्तनं कुर्यादित्यनेनाभिप्रायेणापिवाशब्दः। अनुष्ठानं त्वार्यवर्ते यादृग्दृश्यते तथा ब्राूमः। कन्याया मातृप्रभृतयोऽष्टौ चतरुाो वा अविधव यथाविभवं भोजयित्वा ब्रााहृणांश्चाविधवाभिः सह वीणगायिभिश्च गायन्ति नृत्यन्ति च सोत्साहं। तदनुसारेणायमर्थः। चतरुाो वा स्त्रियः कर्मभूतब्रााहृणांश्च शाकपिण्डीभिरन्येन च भोजनप्रकारेण भोजयित्वा वीणागायिभिः सहाविधवाभिश्च संगायेयुः। के अर्थात् कन्यामात्रादयः। अपि वेति समुच्चये सकलोऽसौ
स्त्रीगणश्चतुरः सोत्साहो भूत्वा नर्तनं कुर्यात्। क्रीडं वः.......प्रगायत। अनेन गायतोऽनुमन्त्रयते॥
ब्रा0। पूर्वेद्युरेव विवाहाह्यः इदमपि कर्म।........पतिवत्यः स्त्रियो नृत्तगीतकुशलाः शाकपिण्डीभिः शर्करामरिचघृतक्षौद्रमध्वादिसाधिताभिर्भोजयेत्। अन्येनाम्नेन च।.....ता अविधवास्ते च विप्रा वीणागायिभिः सह संगायेयुरपि वा तेषां मध्यादेव एव चतुरो गीतनृत्तज्ञः पुरुषः कश्चिन्नर्तनं कुर्यात्। क्रीडं व इति गायत ऋत्विगनुमन्त्रयते मन्त्रलिङ्गात्॥
आ0। अविधवाः पतिव्रताः.......पतिवत्य इत्यर्थः। .........अन्येन चोदनादिना ब्रााहृणांश्चान्येन च शाकपिण्डीभिर्भोजयित्वा। अक्षोटतिललवणदध्यादिसंस्कृताः शाकपिण्ड¬ः। उभयसमुच्चयार्थश्चशब्दः। वीणागायिभिः संहताः संगायेयुः। वीणया सह ये गायन्ति ते वीणागायिनः। अपि वा चतुरो नर्तनं कुर्यात्। चतुरो नृत्तकुशलः। तद्गेयं नृत्तं चानुमन्त्रयेत क्रीडं व इत्यनया। एतदाज्यभागान्तं कृत्वा कुर्यात्॥
अक्षतसक्तूनामÏग्न पुष्टिपतिं प्रजापतिं च यजेत। अग्निना रयिमश्नवत्पोषमेव दिवे दिवे यशसं वीरवत्तमम्॥
इ/2.10.1ऊ
इ2.10.2ऊ
प्रजापते न हि त्वदन्य इति च।2।
दे0। अक्षतानामनवहतानां यवानां सक्तूभिरÏग्न पुष्टिपतिं यजेताग्निना रयिमित्येतया ऋचा। तथा प्रजापतिं प्रजापत इत्यादिमन्त्रेण। एतावप्याज्यभागान्ते यागौ॥
ब्रा0। ततोऽक्षतसक्तूनां पाणिनावदायाग्निना रयिं प्रजापते न हीति प्रधानद्वयं। ऋतुतिथ्याद्याश्रावितान्तं तुल्यम्॥
आ0। .......हविषो यत्र यत्र षष्टी स्थालीपाकस्य जुहोत्याज्यस्य जुहोतीति तत्राप्राणिनः षष्ठी
पञ्चम्यर्थे वा इ/2.10.2ऊ
इ2.10.3ऊ
सर्वत्रोद्वाहकर्मस्वनादिष्टदेवतेष्वÏग्न पुष्टिपतिं प्रजापतिं च यजेत।3॥22॥(2।10)
दे0। यत्र नाम्ना मन्त्रवर्णैर्वा देवतानिर्दिष्टा विवाहप्रकारेणोक्ते तत्राÏग्न पुष्टिपतिं प्रजापतिं च यजेत। प्रकृतत्वादक्षतसक्तूभिराज्यभागान्ते भविष्यत्सु प्रास्थानिकादिष्वेतद्बोद्धव्यम्॥
आ0। प्राग्विवाहेऽद्य होमान्ते उद्वाहाः। ते च सर्वे इत आरभ्यानादिष्टदेवताः। यथा इधं प्रास्थानिकं
विवाहो न च सहयत्तेषु त्रिष्वनादिष्टदेवतेष्वÏग्न पुष्टिपतिं प्रजापतिं च यजेत। आज्येनेति केचित्। देवताग्रहणाद्द्रव्यं परिसंचष्टे इति वदन्तः। अन्यथा सर्वत्रोद्वाहकर्मस्वनादिष्टदेवतेष्वित्यवक्ष्यत्। नैवं। एवमुच्यमाने शाकपिण्डीभोजनं गायनं नर्तनं सर्वमितिदिष्ठं स्यात्। अतो यागः सक्तुभिरेव॥
इ/2.10.3ऊ
एकादश खण्डः
इ2.11.1ऊ
अथ प्रास्थानिकम्।1।
दे0। प्रस्थाननिमित्तं प्रास्थानिकं कर्मान्तरं वक्ष्यत इत्यर्थः। प्रस्थानं च वरस्य ·ाशुरगृहप्राप्तये
विवाहे कर्तुम्॥
ब्रा0। इदं प्रास्थानिकं कर्म वरस्य विवाहार्थं ·ाशुरगृहागमनसमये कर्तव्यम्॥
आ0। अथशब्दः कन्योद्वाहत्वव्यावृत्त्यर्थः। पुंस एव वेदमिति। भावः प्रस्थाननिमित्तं कर्म प्रास्थानिकम्॥
इ/2.11.1ऊ
इ2.11.2ऊ
तस्मिन्यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा पश्चाद्भगिनी सिचं गृह्णाति शस्त्रं गृहीत्वा।2।
दे0। तस्मिन्प्रास्थानिके कर्मणि। यथोक्तमुपसमाधायाग्नेः पूर्वं कर्तव्यं। उद्धृस्र्य चावोक्षितस्य च परिसंवाहनपर्युक्षणपरिस्तरणपूर्वमाज्याहुतिपञ्चकेन संतनीहोमैश्चैकादशभिः संस्करणमुपसमाधानमुच्यते। तत्र जयप्रभृतिभिर्मन्त्रैर्होमं कुर्यात्। जयाभिधानाभ्यातानहोमं कुर्यात्। आकूतं चाकूतिश्च बृहस्पतिपुरोहिता ऋताषाडित्यादिभिर्मन्त्रैर्जुहुयादित्यर्थः। एते हि मन्त्रास्तत्साध्या वा होमा जयाभ्यातानराष्ट्रभृदाज्यभागादिशब्दसाधतया प्रसिद्धाः। आज्यभागान्ते चाÏग्न पुष्टिपतिं प्रजापतिं च यजेत्। सर्वत्रोद्वाहकर्मस्वनादिष्टदेवतेष्वित्यादिसूत्रवचनप्रामाण्यादिति केचित्। अन्ये त्वाहुः। सूत्रकारप्रामाण्यादेव जयशब्दोऽत्राग्निप्रजापतिदेवतयोर्होमयोर्हुतयोः परिभाषतये। आज्यभागान्ते चोपसमाधानमिति। कश्चित्त्वाह। विवाहकरणेऽन्तरान्तराचोदितत्वादाज्यभागान्ताति कर्माणि कृत्वा पुष्ट¬र्थमग्नये प्रजापतये चाक्षतसक्तुभिर्होमः कर्तव्यः। सूत्रकारवचनसंप्रत्ययार्थमिति। अन्यथा हि नाम्ना मन्त्रैर्वा सर्वत्र देवतावगमान्नानादिष्टदेवतं किंचिदुद्वाहकर्मसु कर्म विद्यत इति। सूत्रार्थसंप्रत्ययाभावः स्यात्। एवं जयहोमेषु कृतेष्वाज्यभागान्ते वरस्य पश्चात्स्थिता सती भगिनी मुख्योपचरिता वा यथासंभवं स्वङ्गच्छØरिकादीनामन्यतमं शस्त्रविशेषं हस्ते गृहीत्वा तूष्णीं सिचमुपरिपरिधानीयस्य वाससो भ्रातुः संबन्धिनोऽञ्जलं गृह्णाति। परिधानदशां हस्तेन स्पृशतीत्यर्थः। अञ्चलग्रहणमदृष्टसंस्कारार्थं शस्त्रग्रहणमपि। तथा च प्रायस्तदेव शस्त्रमुत्तरकालेऽपि रक्षार्थं शयनादिसन्निधौ
निधीयमानमार्यवर्ते लक्ष्यते॥
ब्रा0। अत्राप्यक्षतसक्तव एव हविः। आज्यभागान्ते व्रजतो महाराजस्य भगिनी पश्चाद्वस्त्रान्तमादत्ते छुरिकादिकं शस्त्रमादाय जन्येः सह पूषा मेति गृहान्निष्क्रम्य स्वसा सिचान्चहस्तेन सह जलसमीपं गच्छति॥
आ0। तस्मिन्प्रास्थानिके कर्मणि यथोक्तमुपसमाधाय। उद्धतापोक्षितेऽग्निसादनं परिसमूह्र पर्युक्ष्य परिस्तीर्याज्यसंस्कारान्तं जयप्रभृतिभिर्मन्त्रैराज्यभागान्तैर्हुत्वा। प्रभृतिशब्दोऽवमग्राहकः। तेनाघाराद्यपि भवति। एवं च जयप्रभृतिभिर्हुत्वेतिवचनमाज्यभागान्तं तन्त्रमुपलक्षयति। सर्वत्र प्रभृतिशब्दस्यावमग्राहकत्वं सर्वतन्त्रेषु प्रसिद्धं। द्वादशरात्रप्रभृतीनि सत्त्राणीत्युक्त्वा एकादशरात्रादीनि विदधाति। एवमाज्यभागान्तं हुत्वा पश्चाद्भगिनी वरस्य सिचं वस्त्रैकदेशं गृह्णाति। कथं। पूर्वं शस्त्रं शासनसमर्थं शरादि भगिन्येव॥
इ/2.11.2ऊ
इ2.11.3ऊ
पूषा मेति यान्ति यत्रोदकम्।3।
दे0। पूषा मा प्रपथे पात्वित्यादिना मन्त्रेणोदकसंमुखा व्रजन्तीत्यर्थः॥
ब्रा0। द्मड्ढड्ढ द्वदड्डड्ढद्ध द्मद्वद्यद्धठ्ठ3
आ0। पूषामेति गच्छन्ति जन्याः वरश्च॥
इ/2.11.3ऊ
इ2.11.4ऊ
शं नो देवीरित्युपस्पृश्य प्राची दिगिति यान्ति यथादि शम्।4॥23॥ (2।11)
दे0। उदकान्तं प्राप्योदकोपस्पर्शनं शिरसि प्रक्षेपमाचमनं कृत्वा। प्राची दिगग्निर्देवतेत्यादिना मन्त्रेण यथादिशं या दिग्येषां गन्तव्या तदभिध्यायिना मन्त्रेण यथालिङ्गमभिध्याय वरप्रभृतयो गच्छन्ति। अत्र विवाहस्य कारयिता यो गुरुः स एव पिता वा वरस्य मन्त्रपाठे कर्ता॥
ब्रा0। तत्र शं नो देवीरित्युपस्पृश्य प्राची दिगग्निर्देवतेति यान्ति यथादिशं। उदकान्तात्कल्याणं वदन्ती स्वसा प्रत्येति। ततो होमकर्ताÏग्न पुष्टिपतिं प्रजापतिं च सक्तुभिरिष्ट्वा ऋतुतिथ्यादि संस्थापयेत्॥
आ0। भगिनी यत्र स्थाने उदकं तत्र शं नो देवीरित्यपः स्पृष्ट्वा हस्तार्धसेकमात्रं प्राची दिगिति यान्ति गच्छन्ति यथादिशं दिगुपलक्षणेन मन्त्रेणेत्यर्थः। ततोऽक्षतसक्तूनामÏग्न पुष्टिपतिं प्रजापतिं च यजेत। ततस्तन्त्रसमाप्तिः॥
इ/2.11.4ऊ
द्वादश खण्डः इ2.12.1ऊ षडघ्र्यार्हा भवन्त्याचार्य ऋत्विग्राजा विवाह्रः प्रियः स्नातक इति।1।
दे0। विवाहात्पूर्वमेव पाद्याघ्र्यमधूपर्कैर्विवाह्रः ·ाशुरेण पूजनीयः तुल्यं च पूजाविधानं षण्णमपीति षण्णमुद्देशः। अघ्र्यं पूजामर्हन्तीत्यघ्र्यार्हाः षड् भवन्ति। आचार्य उपनेताध्यापयिता शिष्यस्य। ऋत्विग्याज्यस्य। तस्यापि प्राक् कर्मणः संमननात्। राजा क्षत्रियाः। स त्वमिषेकभावेन सदा जनपदस्य पूज्यः। विवाहनमर्हतीति विवाह्रः। अर्हे कृत्यतृचश्चेति कृत्ये ण्यप्रत्ययः। स कन्यायाः पितुरध्र्यार्हः। तथा यो यस्य प्रियो गुणोत्कर्षेण स तस्य दानाद्यवसरेष्वघ्र्यार्हः। स्नातकस्तु सद्यः
स्नातक आचार्यस्य॥
ब्रा0। विवाह्रस्य ·ाशुरगृहागतस्याघ्र्यदानप्रसङ्गेणान्येषामपि विधसामान्यादघ्र्यार्हाणामिह पञ्चानां ग्रहणम्॥
आ0। अनन्तरं ·ाशुरगृहप्राप्तस्य मधुपर्केणार्पणं पूर्वं क्रियते। ब्राहृदेयाविधानस्य सर्वोऽयमितिकर्तव्यताकलापः। प्रस्थानार्तः तेन शङ्का न कर्तव्या। कन्याप्रदानादनन्तरं मधुपर्क इति। मधुपर्कादनन्तरं ब्राहृदेयाविधानस्योपपन्नत्वात्पूजापूर्वकत्वाश्च दानस्य। केचिद्विवाहस्योपरिष्टान्मधुपर्कविधिः पठ¬त इति तत्रैव मधुपर्कं ददाति तदैव कन्यादाने निवृत्तेऽसौ विवाह्र इति वदन्तः। सर्वदेशसमाचारस्तु विवाहात्पूर्वे मधुपर्कदानं।
अतस्तदेव साधीयः। अतोऽत्रैव व्याख्यास्यामः। आदौ तावन्मधुपर्काणां विधिरुच्यते। षडघ्र्यार्हा
भवन्ति। अघ्र्यं पूजामर्हयन्ति ये तेऽघ्र्यार्हाः। षडिति नियमः॥
इ/2.12.1ऊ
इ2.12.2ऊ
अथैनमर्हयन्ति।2।
दे0। अथशब्दो वक्ष्यमाणप्रकारस्वीकारार्थो निपातानामनेकार्थत्वात्। एनमाचार्यदीनामन्यतमं वक्ष्यमाणप्रकारेणार्हयन्ति पूजयन्ति संमानयन्ति॥
आ0। अथैतेषामन्यतममर्हयन्ति यदा तदानयेतिकर्तव्यतया॥
इ/2.12.2ऊ
इ2.12.3ऊ
आदौ च कर्मणः।3।
दे0। विवाहोत्तरकालमर्हणं विहितमिति यथाचोदितमानुपूव्र्यमिति नयेन विवाहादूध्र्वमेव मधुपर्कादिदानमिति केचिदाहुः। अत एव च विवाहोत्तरकाल एवेदमपकृष्य व्याचक्षते। तन्निरासायेदं कर्मण आदावेव पूजनं कर्तव्यम्.........॥
आ0। चशब्दात्मप्रतिसंवत्सरं च तदुक्तं विवाहयज्ञयोरर्वाक् कर्मणः तथा यज्ञं प्रत्यृत्विजः पूनरिति॥
इ/2.12.3ऊ
इ2.12.4ऊ
अघ्र्यमुदकं सौषधं दर्भा इति।4।
दे0। अघ्र्यलक्षणमाह। अघ्र्य.....इति। उदकं व्रीहियवयोश्चान्यतरः। दर्भाः।एतत्त्रयमध्र्यम्॥
आ0। अध्र्ये तावदुच्यते। उदकं सौषधं। सतणडुलाक्षतबदरादि। दर्भाश्च। एतद्द्रव्यत्रितयमघ्र्यशब्देनोच्यते॥
इ/2.12.4ऊ
इ2.12.5ऊ
कंसे चमसे वा दध्यासिच्य मधु च वर्षीयसापिधाय विष्टराभ्यां परिगृह्र पाद्यप्रथमैः प्रतिपद्यन्ते।5।
दे0। मधुपर्कलक्षणूर्विकां पूजयितुरनुपदेशां पूजाप्रतिपत्तिमाह। कंसे चमसे वा.......प्रतिपद्यन्ते। अत्र पूजयितार इत्यर्थाल्लभ्यते। कंसपात्रे चमसे वा दारुपात्रविशेषे दध्यासिच्यते। मधु च मधुपर्क
उच्यते। तच्च मधुपर्कपात्रं बृहता पात्रेण पिधाय स्थगयित्वा विष्टराभ्यां गृहीत्वा। पाद्यं प्रथमं येषां पाद्याघ्र्यमधुपर्काणां तैर्यथायोग्यमूध्र्वमधो मध्ये च पूजां स्वयमेव प्रतिपद्यन्ते पूजयितारः। न तु तत्राप्युपदेशमपेक्षन्ते॥
ब्रा0। अघ्र्यार्थमागतं बुद्ध्वा प्रत्युत्थाय स्वागतमित्युक्त्वा स्वयमेव तस्य पादप्रज्ञालनं विधाय तं हर्षयन्गृहं प्रवेशयेत्॥
आ0। ......विष्टराभ्यां दर्भसटाभ्यां परिगृह्राधस्तादुपरिष्टाच्च पाद्यप्रथमैद्र्रव्यैरुपक्रमन्ते॥
इ/2.12.5ऊ
इ2.12.6ऊ
मयि दोहोऽसि विराजो दोहः पाद्यायै विराजो दोहमशीयेत्याह्यियमाणमनुमन्त्रयते।6।
दे0। कन्याया दातरि विवाह्रस्य निकटीभूते सति ऋत्विक् पाद्यादिकं कन्यादातृसमीपमानाययति। तदानीयमानमनेन मन्त्रेण विवाह्रोऽनुमन्त्रयते। अमन्त्रज्ञश्चेदिवाह्रस्तदा ऋत्विगेवैनं पाठयति। एवं सर्वैज्र्ञेयम्॥
ब्रा0। ततो विष्टरादिप·ान्तमर्घोपाकरणमुपहरेत्। मयि दोह इति पाद्यादिकं सर्वं तदाह्यियमाणमघ्र्यार्होऽनुमन्त्रयते॥
इ/2.12.6ऊ
इ2.12.7ऊ
विष्टरोऽसि मातरि सीदेति विष्टरमास्तीर्य तस्मिन्नुपविशति।7।
दे0। अनेनासनान्तरस्योपरि दर्भविष्टरमास्तीर्य विवाह्र उपविशति तूष्णीम्॥
ब्रा0। भगवन्निदमास्यतामित्युक्त्वार्हयित्रा विष्टरे प्रत्ते विष्टरोऽसि मातरि सीदेति विष्टरमास्तीर्य तस्मिन्नुपविशति॥
आ0। अनन्तरं विष्टरो......सीदेति विष्टरं दत्तं स्वयं वा गृहीत्वा आसनपीठादावास्तीर्य तस्मिन्नुपविशति॥
इ/2.12.7ऊ
इ2.12.8ऊ
विष्टर आसीनायैकैकं त्रिः प्राह।8।
दे0। विष्टरे दर्भाछादितासनविशेषे आसीनायोपविष्टाय विवाह्राय पाद्यादीनामेकैकं त्रिः प्राह कन्याया दाता। पाद्यं पाद्यं पाद्यं। अघ्र्यमघ्र्यमघ्र्यं। मधुपर्को मधुपर्को मधुपर्कः।
आचमनीयमाचमनीयमाचमनीयमिति। आसीनायेति सप्तम्यर्थे चतुर्थी। विष्टर आसीने विवाह्र इत्यर्थः॥
आ0। पाद्याद्येकैकं द्रव्यं त्रीन्वारान्प्राह॥
इ/2.12.8ऊ
इ2.12.9ऊ
नैव भो इत्याह न मार्षेति।9।
दे0। अभ्यर्हणीयाभिमुख्यापादनाय यद्भो इति पूजासंबोधनं प्राप्तं नामसंबोधनं च मार्ष यज्ञदत्त इत्यादि तन्निपेधयति॥
ब्रा0। भगवन्निति पूज्यसम्मान वा वचनमत्र ब्राूयान्नैव भो इति न मार्षेति॥
आ0। अत्र प्राप्तानां पूजावचनानामभिमुखीकरणाय प्रतिषेधः॥ शं नो देवीरित्यपोऽभिमन्त्र्य पाद्याभिः प्रक्षालयते दक्षिणं पादमवनेनिज इदमहमस्मिन्कुले ब्राहृवर्चसं दधाभ्युत्तरं पादमवनेनिज इदमहं मयि तेजो वीर्यमन्नाद्यं प्रजां
इ/2.12.9ऊ
इ2.12.10ऊ
पशून्ब्राहृवर्चसं दधामीति।10।
दे0। शं नो देवीरभिष्टय इत्यादिमन्त्रैरपोऽभिमन्त्र्य विशेषेण पाद्याभिः पादयोः शोधनसंपादनसमर्थाभिः पादौ प्रक्षालयतेऽभ्यर्हणीयस्य कन्याया दाता। पादयोः प्रक्षालने
यथालिङ्गमन्त्रौ॥
ब्रा0। भगवन्पाद्ये पाद्यं पाद्यमिति पाद्ये निवेदिने दक्षिणेन पाणिनादाय तत्सख्ये पाणौ निधाय शं नो देवीरित्यपोऽभिमन्त्र्य।.............ताभिर्यथालिङ्गं वर एव स्वयं पादाववनेनिज्यात्॥
आ0। ........ताभिः पादौ प्रक्षालयते स्वयमेव। दक्षिणं पादामिति दक्षिणमुत्तरं पादामित्युत्तरम्॥
आपोहिष्ठीयाभिरघ्र्यं परिगृह्र सावित्रेण मधुपर्कविष्टरोऽस्यन्तरिक्षमधिविश्रयस्वेति विष्टरमवकृष्योरुत्वेत्यवसार्य तच्चक्षुरित्यवेक्ष्य पृथिव्यास्त्वेति विष्टरे निधाय मधु वात ऋतायत इति तिसृभिः प्रदेशिन्या
इ/2.12.10ऊ
इ2.12.11ऊ
प्रदक्षिणमालोडयति॥11॥
दे0। आपो हिष्टेत्यादिभिरघ्र्यं प्रतिगृह्णाति। देवस्य त्वेत्यादिना मधुपर्कं प्रतिगृह्णातीत्यध्याहारपूरितेन सवितृदेवताकेन मन्त्रेण मधुपर्कं प्रतिगृह्णाति। विष्टरोऽसीतिमन्त्रेणोपरितनं विष्टरमवकर्षति। अवकृष्य चाक्षिप्य उरु त्वेति मन्त्रेणापसारयति। तच्चक्षुरित्यादिना मधुपर्कं वीक्ष्य। पृथिव्यास्त्वेत्यादिमन्त्रेणाधस्तने विष्टरे मधुपर्कं निदधाति। मधु वात ऋतायत इति तिसृभिरङ्गुष्ठसमीपवर्तिन्या प्रदेशिनीति संज्ञयाङ्गुल्या प्रदक्षिणं कृत्वा दधिमधुनी मिश्रयति॥
ब्रा0। भगवन्नघ्र्यमघ्र्यमिति त्रिरुक्ते पाद्यपात्रवदघ्र्यपात्रमादायापो हि ष्ठेति तिसृभिः शिरसि कुशपवित्रेणापः क्षिपेत्।....... भगवन्मधुपर्को मधुपर्को मधुपर्क इति त्रिराहं दाता। देवस्य त्वेति
मन्त्रेण मधुपर्कं प्रतिगृह्णामीत्यञ्जलिना प्रतिगृह्र सव्ये पाणौ निदधाति। विष्टरोऽसीति वर्षिष्ठपात्रस्योपरिस्थितं विष्टरमुत्क्षिपति विष्टरमवकृष्य उरु त्वेत्यवसार्य। अपिधानं निवार्य। तच्चक्षुरित्यभ्यवेक्षते। पृथिव्यास्त्वेति मधुपर्कं विष्टरेऽधस्थितं
भूमौ निधाय। मधु वात ऋतायत इकि तिसृभिः प्रत्यृचं प्रदेशिन्याङ्गुल्या प्रदक्षिणं संयौति॥
आ0। ततोऽघ्र्यं निवेदिते आपोहिष्ठीयाभिरघ्र्यपात्रं गृह्णाति। सावित्रेण च मधुपर्कं गृह्णातीति वाक्यशेषः।.....विष्टरोऽसीत्युपरितनं विष्टरमाकृष्यापास्य। उरु त्वेत्युद्धाट¬ तच्चक्षुरित्यनयानुष्टुभावेक्ष्यावलोक्य पृथिव्यास्त्वा नाभौ सादयामीत्यधस्तने विष्टरे स्थापयित्वा।......दधिमधुनी प्रदक्षिणावृत्तं मिश्रयति॥
इ/2.12.11ऊ
इ2.12.12ऊ
वसवस्त्वाग्निराजानो भक्षयन्तु पितरस्त्वा यमराजानो भक्षयन्तु रुद्रास्त्वा सोमराजानो भक्षयन्त्वादित्यास्त्वा वरुणराजानो भक्षयन्तु वि·ो त्वा देवा बृहस्पतिराजानो भक्षयनन्त्विति प्रदक्षिणं प्रतिदिशं प्रतिमन्त्रं पात्रस्यान्तेषु लेपान्निमाÐष्ट॥12॥
दे0। प्राच्या आरभ्य प्रदक्षिणं कृत्वा भक्षयन्त्वन्तैर्मन्त्रैर्मधुपर्कपात्रप्रान्तेष्वङ्गुलिलेपान्निमाÐष्ट। प्रतिदिशं प्रतिमन्त्रमिति वचनात्पञ्चमेन मन्त्रेणार्थात्पूर्वोक्तादिकोणे निमार्जनमापतति।
ब्रा0। .........लेपात्रिमाÐष्ट। वि·ो त्वा देवा इत्युत्तरार्ध एव॥
आ0। वसवस्त्वेति पात्रान्ते प्राच्या आरभ्य दक्षिणाङ्गुलेर्लेपान्निमाÐष्ट शोधयति। पञ्चमेनोत्तरत
एवान्तरतोऽवरेकात्॥
यन्मधुनो मधव्यस्य परमस्यान्नाद्यस्य परममन्नाद्यं रूपं तेनाहं मधुनो मधव्यस्य परमस्यान्नाद्यस्य परमोऽन्नादो मधव्यो भूयासं। त्रय्यै विद्यायै यशोऽसि श्रियै यशोऽसि यशसे ब्राहृणो दीप्तिरसि सत्यश्रीर्यशः श्रीर्मयि श्रीः श्रीः श्रयतामिति
इ/2.12.12ऊ
इ2.12.13ऊ
मधुपर्कस्य चतुष्प्राश्नात्यङ्गुष्ठद्वितीयाभिः कनिष्ठया प्रथममेवमनुपूर्वं सर्वाभिस्तदवशिष्टं सुह्मदे प्रयच्छति॥13॥
दे0। यन्मधुन इति मन्त्रेण मधुपर्कस्य संबन्धिनो भागानङ्गुष्ठसहितया एकैकयाङ्गुल्या गृहीत्वा चतुरो वारानश्नाति। अङ्गुष्ठसहितया वा कनिष्ठया प्रथमं ततोऽनामिकया मध्यमया प्रदेशिन्या प्रत्येकं।.......यच्छिष्यते तत्सुह्मदे कनीयसे भ्रातृप्रभृतये प्रयच्छति॥
ब्रा0। यन्मधुन इति कनिष्ठादिभिश्चतसृभिरङ्गुलीभिरङ्गुष्ठाद्वितीयाभिक्रमेण चतुष्प्राश्यावशिष्टं सवर्णाय मित्राय ददाति॥
आ0। यन्मधुन इति चतुर्वारान्प्राश्नाति। कथं। अङ्गुष्ठद्वितीयाभिरङ्गुलिभिः। अङ्गुष्ठो द्वितीयो यासां ता अङ्गुष्ठाद्वितीयाः। एवमानुपूव्र्येण सर्वाभिरित्यस्यातिरिच्यमानत्वात्पञ्चमं प्राशनमिच्छन्ति। तच्चशब्दे विना न लभ्यते। अतोऽनुपपन्नं। तदवशिष्टं सुह्मदे प्रयच्छित्। शिष्टमिति वक्तव्ये तदवशिष्टग्रहणं स्वयं वा प्राश्नीयादित्येवार्थम्। गृह्रान्तरेषु च दृश्यत एव प्राशनम्॥
इ/2.12.13ऊ
इ2.12.14ऊ
आचामत्यमृतोपस्तरणमसीति॥14॥
दे0। अनेन मन्त्रेणाचामति॥
ब्रा0। भगवन्नाचमनीयमाचमनीयमाचमनीयमित्येवं त्रिरुक्तेऽमृतोपस्तरणमसीत्यप आचामति॥
इ/2.12.14ऊ
इ2.12.15ऊ
तस्मा असिपाणिर्गां प्राह॥15॥
दे0। अर्हयिता दत्तमधुपर्कः सन् खड्गपाणिर्भूत्वा तस्मा अर्हणीयाय भक्षितमधुपर्काय गामाह। गां
प्रकरिष्या इत्यानुज्ञां प्रार्थयते। अर्थार्थेनेत्यर्थः गोश्च करणं निपातनं॥
ब्रा0। तत आचान्तायार्हयिता स्वङ्गपाणीर्भगवन् गां प्रकरिष्ये गां प्रकरिष्ये इत्येवं गां संनिहितां कृत्वाह॥
आ0। गां प्राह। गां प्रकरिष्य इति निवेदयतीत्यर्थः॥
इ/2.12.15ऊ
इ2.12.16ऊ
तां शास्ति मम चामुष्य च पाप्मानं जहि हतो मे पाप्मा पाप्मानं मे हतों कुरुतेति॥16॥
दे0। तां गां शास्ति। ओं कुरुष्वेत्यनुज्ञामर्हणीयो ददातीत्यर्थः। मम च......मे ह्मत। अर्हयितामुं मन्त्रमाह।.....ओं कुरुत। हे विशसितारः गौः क्रियतामित्यनुजानातीत्यर्थः॥
ब्रा0। मम चामुष्य चेत्यादिनों कुरुतेत्यन्तेन मन्त्रेण वरानुज्ञातस्तामसिना शास्ति। अमुष्येति षष्ठ¬न्तं दातुर्नामोदीरणम्॥
आ0। तां गामनुशास्ति अर्होऽनुमन्यते चेत्। अनुशासनं प्रेषणं क्रियायोगः। अमुष्येत्यत्रार्हयितुः षष्ठ¬न्तं नाम। यथा। मम देवदत्तस्य च पाप्मानं जहीति॥
इ/2.12.16ऊ
इ2.12.17ऊ
चतुरो नानागोत्रान्ब्रााहृणान्भोजयेत्॥17॥
दे0। नानागोत्रान्नानाप्रवराश्चादौ चतुरो ब्रााहृणान्भोजयेत्। पश्चात्सबान्धवमर्हणीयम्॥
तया चतुरः पृथग्गोत्रान्विप्रानाशयेत्॥
आ0। तया गवा प्रकृतया पूर्वं चतुरो नानागोत्रान्ब्रााहृणान्भोजयेत्॥
इ/2.12.17ऊ
इ2.12.18ऊ
एष आद्य उपायः॥18॥
दे0। ब्रााहृणाय उपायो गोकरणादिक उपदिष्टः। तेन नात्र विचिकित्सा कर्तव्येत्यर्थः॥
ब्रा0। एष प्रथम कल्पः कलौ तु निषिद्धः॥
आ0। प्रथमः कल्प इत्यर्थः।
यद्युत्सृजेन्माता रुद्राणामिति जपेत्। माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः। प्र णु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट। सूयवसाद्भगवती हि भूया अथो वयं
भगवन्तः स्याम।
इ/2.12.18ऊ
इ2.12.19ऊ
अद्धितृणमध्न्ये वि·ादानीं पिव शुद्धमुदकमाचरन्ती। ओमुत्सृजत। तृणान्यत्त्वित्युक्त्वा तामुत्सृष्टां पशुमङ्गं वा॥19॥
दे0 अर्हयिताह ओमित्यविचारितसिद्धं कृत्वा।.......इत्युक्त्वा तामुत्सृष्टां दृष्ट्वा पशुं छागं प·ाङ्गं वा मांसखण्डं प्रतिनिदधीत॥
ब्रा0। यद्युत्सृजेद्भगवन् गां प्रकरिष्य इति यथोक्तमुक्तेऽध्र्यार्हो मा प्रकार्षीरित्युक्त्वा माता
रुद्राणामित्यृग्द्वयं जप्त्वोमुत्सृजत तृणान्यत्त्वित्याह। तस्यामुत्सृष्टायां महाजं तदङ्गं वा क्रीत्वा यथाविभवं प्रतिनिदध्यात्॥
आ0। तत्र यद्युत्सृजेदर्हो गामेवं प्रयोगः॥
इ/2.12.19ऊ
इ2.12.20ऊ
नामांसो मधुपर्कः स्यादिति ह विज्ञायते॥20॥
दे0। नामांसो मांसविहीनो मधुपर्कः स्यादिति ह श्रुतितो विज्ञायते। हशब्द इतिहासे॥
आ0। हशब्द आगमसूचनार्थः। स चायमागमः श्रोत्रियायागताय महोक्षं वा महाजं वा पचेदिति॥
इ/2.12.20ऊ
इ2.12.21ऊ
अपि वा घृतौदन एव स्यात्॥21॥24॥(2।12)
दे0। अपि वा घृतमिश्रितौदन एव कर्तव्यो मांसद्वेषेण तादृशा वा
ब्रा0। अपि वा सर्पिष्मदन्नं स्यात्॥
आ0। गोसंनिकृष्टं हि घृतम्॥
इति लौगाक्षिसूत्रे गृह्रपञ्चिकायां द्वितीयोऽध्यायः॥
इ/2.12.21ऊ
तृतीयोऽध्यायः
[सम्पाद्यताम्]प्रथम खण्डः इ3.1.1ऊ अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम्। समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सूर्यममस्तु देवा इत्युदाहारं प्रहिणोति॥1॥
दे0। अनृक्षरा इत्यादिमन्त्रेण गृहीतजलभाण्डमुदकस्याहर्तारं प्रषेयति। कन्यास्नानाद्युपयोगिजलमानेतुं पुरुषं प्रहिणोतीत्यर्थः।
ब्रा0। मधुपर्कप्रदानादनन्तरं सुमुहूर्ते पाणिग्रहणसंस्कारः। तत्र ऋत्विगनृक्षरा ऋजव इति कंचिन्मङ्गल्योदकानयनाय प्रेषयति। कश्मीरेषु ·ाश्रूरवविधवा चेदन्या वाप्यविधवैव तदाहरति॥
आ0। अनृक्षरा इत्यनया त्रिष्टुभा उदाहारमुदकाहरणार्थं सकुम्भं पुरुषं प्रेषयति॥
इ/3.1.1ऊ
इ3.1.2ऊ
शमीशाखया सपलाशयापिधायाहरेत्॥2॥
दे0। स प्रहित उदाहार उदकुम्भं शमीशाखया सपत्नयापिधाय स्थगयित्वा उदकमानयेत्॥
ब्रा0। मङ्गल्यतर्व·ात्थादिशाखया सपर्णया कुसुममालया शमीशाखया सकिसलया वा सुवर्णं वा ताम्रभृङ्गारमयां पूर्णं स्थगयित्वा हरेत्॥
आ0।स च पुरुषः शमीशास्वया सपर्णाया कुम्भमपिदायाद्भिः पूरयित्वा आनयेत्॥
इ/3.1.2ऊ
इ3.1.3ऊ
एतासामेवापामुदकार्थान्कुर्वीत॥3॥
दे0। एतासामेवाहारितानामपां संबन्धिनो भागानवदायावदायोदकसंपाद्यानर्थान् कन्यास्नानसुवर्णक्षारणाग्निपर्युक्षणादीन् कुर्यात् नान्येन जलेन॥
आ0। एतासामेवापामाहतानां वक्ष्यमाणानुदकार्थान् कुर्वीत कन्यास्नापनादीन्॥
इ/3.1.3ऊ
इ3.1.4ऊ
शं न आपो धन्वन्याः शं नः सन्त्वमूप्याः। शं नः समुद्रिया आपः शमु नः सन्तु या इमा इत्यकेवलाभिरद्भिः स्नातां या अकृन्तन्या अवयन्या अतन्वत याश्च देवीरन्तॅ अमितोऽददन्त। तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मतीदं परिधत्स्व वास इत्यहते वासः परिधाप्याशासानेत्यन्तरतो मौञ्जेन दार्भेण योक्त्रेण वा संनह्रति। आशासना सौमनसं प्रजां सौभाग्यं रयिम्। अग्नेरनुव्रता
भूत्वा संनह्रे सुकृताय कम्॥4॥
दे0। .....अकेवलाभिः सर्वौषध्यादिगन्धद्रव्ययुक्ताभिः फलाविशेषसहिताभिश्चाद्भिः कन्यां स्नापयेत्।.......अहतमपूर्वपरिहितमत्यन्ताभिनवं वस्त्रं परिधापयेत् ततश्चाशासानेत्यादिना मन्त्रेणान्तरे मध्ये गुप्तं कृत्वा यथा न दृश्यते तथा वा संनहनं कन्यायाः कुर्यात्। मौञ्जेन दर्भनिर्मितेन वा योक्त्रेण॥
ब्रा0। ततः स्नानमण्डपं चतुष्पादे भद्रपीठे कन्यां नीत्वा शं न आपो या इमा इति सर्वौषध्यामलकयुक्ताभिरद्भिः स्नापयति।......स्नातां या अकृन्तन्निति वसनहस्तः परिधानार्थं प्रचोदयति। मन्त्रमृत्विगेवाह न कन्या परिहिता।
आशासानेति कमित्यन्तेन स्वयमेव कन्या मुञ्जमयेन दर्भमयेन वा दाम्ना वासोऽन्तरतो बध्नाति॥
आ0। स्नातां स्वयमेवाभिषिक्तं......। आशासानेत्यनयानुष्टुभा योक्त्रेण तद्वासः संनह्रति स्वयमेव कन्या। अन्तरतः प्रच्छन्नेन। योक्त्रं त्रिगुणं दाम। तच्च मौञ्जं दर्भमयं वा॥
इ/3.1.4ऊ
इ3.1.5ऊ
प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम्। यथेयमिन्द्रमीढ्वः सुपुत्रा सुभगासति। पूषा त्वेता नयतु हस्तगृह्रा·िानौ त्वा प्रवहतां रथेन। गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमावदासि। मा विदन्परिपन्थिनो य आसीदन्ति दम्पती। सुगेभिर्दुर्गमतीतामपद्रान्त्वरातय इत्युदानीय॥5॥
दे0। प्रेतो मुञ्चात्वित्यादिभिस्तिसृभिरुदानीय स्नानस्थानादुत्क्षिप्योत्सङ्गे कृत्वा स्थानान्तरे पिता ज्येष्ठो भ्राता, वा॥
ब्रा0। एवमधोवरुापरिहितां संनद्धां च प्रेतो मुञ्चामीति तिसृभिः स्नानदेशादुदानीय॥
आ0। एवं स्नातां परिहितवाससं तस्मात्स्थानादुदानयति। उत्क्षिप्यानयत्यृत्विक्। प्रेतो मुञ्चामीति तिसृभिस्त्रिष्टुम्मध्यमाभ्यामनुष्टुभ्याम्॥
इ/3.1.5ऊ
इ3.1.6ऊ
उक्तं वाससः कर्म॥6॥
दे0। (पिता ज्येष्ठो भ्राता वा) यथोक्तं वासस उपरिभागाछादनस्याप्यधस्तनाच्छादनमवकृन्तन्नित्यादिना मन्त्रेण कर्म कुर्यादित्यर्थः॥
ब्रा0। या अकृन्तन्नित्येतयैवोत्तरीयं च वासः परिधापयति॥
आ0। उक्तं च वासः कर्मोत्तरीयस्य या अकृन्तन्निति॥
इ/3.1.6ऊ
इ3.1.7ऊ
आचारिकाणि॥7॥
दे0। अस्मिन्नवसरे आचारिकाणि आचारादागतानि देशजातिकुलधर्मतया प्रसिद्धानि कर्माणि कारयेदित्यर्थः। तद्यथा। आगमनप्रयोजनकथनं कन्याया नामग्रहणं कुलदेवतापूजनं सुमनोलताभिस्ताडनमित्यादीनि॥
ब्रा0। अस्मिन्नवसरे देशजातिकुलोचितानामाचारिकाणां मङ्गल्यानां कर्मणां कालः। यथा कश्मीरेषु
·ाश्रूरन्या वाविधवा वधूवरयोः शिरसि मङ्गल्यमालामाबध्नाति।
महे·ारस्त्र्यम्बकस्य ई·ारः शिव एव च।
भवः शर्वश्च रुद्रश्च दक्षिणादिक्रमेण तु॥
इति वरस्य पादजानुस्कन्धशिरःसु सप्तसु स्थानेषु ·ाश्रूः पुष्पाणि निदध्यात्।
गौरी चैव तु गायत्री सावित्री च सरस्वती।
उमा कान्ता भवानी च वामावर्तेन पूजयेत्॥
इति वध्वा वामावर्तक्रमेणमैव पुष्पाणे निदध्यात्। पुष्पवतीरित्यृत्विक् पठेत्।
आचारिकाणि द्रव्याणि वस्त्राण्याभरणानि च।
मणिमुक्ताप्रवालानि यथाशक्ति प्रदीयते॥
गोभूहिरण्यम·ाांश्च वस्त्राणि विविधानि च।
अन्यानि चैव दानानि यथाविभवमर्पयेत्॥
अस्मिन्नवसरेऽलंकरणस्वदायेषु परस्परं ग्राह्रा चटोपचटिका॥
आ0। अस्मिन्नवसरे आचारिकाणि कर्माणि कुर्यात्। देशजातिकुलव्यवस्थया स्थितानि। अशास्त्रार्थमिति न प्रतिबध्नीयात्॥
इ/3.1.7ऊ
इ3.1.8ऊ
तूष्णीं निर्मन्थ्यं भ्राष्ट्रात्सान्तपनं यत्रदीप्यमानं वा बहिरग्निमुपसमाधाय परिसमूह्र पर्युक्ष्य परिस्तीर्याज्यं विलीनोत्पूतं कृत्वाधारादाज्य भागान्तं हुत्वापरेणाग्निमनोरथं वावस्थाप्य योगे योग इति युनक्ति दक्षिणमितरमुत्तरामितराम्॥8॥
दे0। एष औपसदोऽग्निर्वैवहनो वा तस्मिन्पाकयज्ञा इति वक्ष्यति। वैवाहनस्य विकल्पमानाश्चतरुाः प्रकृतयोऽत्रोच्यन्ते। सद्योऽरणिभ्यां निर्मथितो यस्तत्र निर्मथ्यशब्दो रूढः। तत्र निर्मथनसामान्यान्निर्मथनानन्तरवन्मन्त्रे प्राप्ते तूष्णीमित्युक्तं। एष एकः। भ्राष्ट्राद्द्वितीयः। सान्तपनस्तृतीयः। स पुनर्यो बलेनाग्निना संतप्तादपसारिताद्भूभागात् कर्पासगोमयचूर्णादिसंसर्गे कृत्वोत्पाद्यते पाषाणं कंसमणिं च तापयित्वा सूर्यसंमुखं सूर्यकान्तमणिं वा स्थापयित्वा सोऽभिमतः। यत्रदीप्यमानश्चतुर्थः। अत्र विशेषश्रुतावपि तेतावथश्मशानपरिगृहीतसूतकपतिताद्यग्निवर्जमिति ज्ञयं। उपसमाधायेति प्रत्येकं संबन्धनीयं। गार्हपत्यवदुद्धातावोक्षिते जानुदघ्ने कुण्डे स्थापययित्वेत्यर्थः। गृहाद्बहिरेवेति नियमः। परिसमूहनं संजलेन करेण चतुर्दिक्संस्पर्शनं। पर्युक्षणमासेचनं। एवं चतुर्दिक्क्रमेणैव दर्भैः परिस्तरणं प्रथितं।........त्रिभिः स्तरैः स्तृणातीति वैश्रवणीये दर्शनात्। आज्यस्य विलयनं विगलनं। उत्पवनं पवित्रेण पवनं। आधारादारभ्याज्यभागान्तान्होमान्हुत्वाग्नेः पश्चिमभागे स्थितयो सतोः कन्यावरयोर्यथासंख्यं वामदक्षिणभागे नाग्नेरपरभागे अनः शकटं रथं वा स्यन्दनं वा सयुगमवस्थाप्य योगे योग इत्यादिकया ऋचा कन्यावरौ यूपे युनक्ति दक्षिणभागे वरमुत्तरभागे कन्यां। योक्त्रेण संयोजयतीत्यर्थः।
ब्रा0। ततोऽरणिभ्याम·ात्थीशमीगर्भीत्यादियथोक्तजातिरूपाभ्यां तूष्णीं निर्मथितं। भ्राष्ट्राद्वा। उखामङ्गारेषु निधाय......मुञ्जतृणादिकमाधाय यो जन्यते।
सूतकाग्निशवाग्निसंकराग्निपनिताग्निवर्जं। तथा च। चण्डालाग्निरमेध्याग्निः सूतकाग्निश्च कर्हिचित्। पतिताग्निः शवाग्निश्च ते नष्टग्रहणोचिताः॥ यत्रदीप्यमानं वा। तं बहिर्वेश्मनो गार्हपत्यसंमितोद्धतावोक्षिते न्युप्य तस्मिन्नुद्वाहविवाहहोमौ कुर्यात्। उद्वाहेऽक्षतसक्तवो हविः। विवाहे तु लाजाः। लाजानां निर्वपणं केचिन्ननेच्छन्ति। सद्विचार्यं। अग्नये पुष्टिपतये प्रजापतये जुष्टं निर्वपामीति सक्त्वर्थे यवान्निर्वपेत्। आज्यभागान्तं हुत्वा पश्चादग्नेः शकटं रथं वावस्थाप्य तस्मिन्वधूवरौ प्राङ्मुखौ योगे योगे तवस्तरमिति मन्त्रावृत्त्या युनक्ति। दक्षिणेन वरं तस्योत्तरतो वधूम्॥
आ0। ततो होमार्थं बहिरग्निमुपसमाधाय। तं विशिनष्टि। तूष्णीं निर्मथ्य। अरणिभ्यां निर्मथ्येत्यर्थः।
अग्नेर्जनित्रमित्यादि मा भूदिति तूष्णीग्रहणं। भ्राष्ट्राद्वा। संतापजनितं वा। अश्मनामुखां वा संताप्य कंसमणिं वा परिमृज्यादित्याभिमुखं शुष्कगोमयादिना जन्यते यः स सान्तापनः। यत्रदीप्यमानं वा सत्यप्यविशेषे रथ्या सूतकसंकरपरिगृहीताग्निवर्जं। एवमयं वैवाहनोऽग्निरुपशान्तः सर्वेभ्य एव योनिभ्यो यथायोन्याह्मत्य तं प्राक्तने भस्मनि निक्षिपेत्। भस्मनारणी संस्पृश्य मन्येयुरिति वचनात्। भस्मनाशेऽग्निनाशो भवतीति श्रुतेश्च। प्रादुष्करणकाले चेद्गृह्र उपशान्तः श्रोत्रियगृहादानीय तूष्णीं गृह्रभस्मनि प्रक्षिप्याग्निहोत्रदेवताभ्यो हुत्वा गृही पत्नी वोपवसतीति भस्मन्येवाग्निप्रक्षेपस्य बह्वृचगृह्रेऽपि दर्शनात्। एष वैवाहनोऽग्निर्दक्षिणाग्निप्रकृतिः। यस्तूदयकाले आह्यियते शुचिर्भूत इति स गार्हपत्यप्रकृतिः।......बहिरग्निमुपसमाधाय। बहिरिति नियमः। गार्हपत्यलक्षणसदृशमुद्धत्यावोक्ष्य तत्राग्निमुपसमाधाय स्थापयित्वा सोदकेन पाणिना चतुर्दिशं समन्तात्समूह्र पर्युक्ष्य परिषिच्योदकेन समन्तात्परिस्तीर्य वैश्रवणीयवत्।....तत आज्यं निरुप्य मन्त्रेण विलीनं कृत्वा ऊर्जे त्वेत्युत्पूतं कृत्वाग्नेर्जिह्वत्यनेन।.......आधारदाज्यभागान्तं हुत्वापरेणाग्निमग्नेरदूरे अनः शकटं रथं स्यन्दनं वास्थाप्य तत्र युगधुरोर्दम्पती युनक्ति दक्षिणं वरमुत्तरां वधूम्॥
इ/3.1.8ऊ
इ3.1.9ऊ
तूष्णीं विमुच्य खे रथस्य खेऽनसः खे युगस्य शतक्रतो। अपालामिन्द्रस्त्रिष्पूत्वा करोतु सूर्यवर्चसमिति
हिरण्यं निष्टक्र्यं बद्धवाध्यधि मूर्धनि दक्षिणस्मिन्युगतद्र्मन्यद्भिरवक्षारयते शं ते हिरण्यमिति। शं ते हिरण्यं शमु सन्त्यापः शं ते मेथी भवतु शं युगस्य तद्र्म। शं त आपः शतपवित्रा भवन्त्वेना पत्या तन्वा संसृजस्वेति॥9॥
दे0। प्राकृतयोक्त्नवदत्रापि प्राप्तं मन्त्रं निषेधयति तूष्णीमिति विमुच्य कथं योजितं योक्त्नं मोचयित्वा। खे रथस्येत्यादिकयर्चा हिरण्यं दर्भपवित्रेण बद्ध्वा युगस्य दक्षिणभागगते रन्ध्रे निदधाति। कथं बद्ध्वा नष्टक्र्यं कृत्वा। यथा सुखविमोचनं भवति तथेत्यर्थः। तत्सुवर्णं बद्ध्वानन्तरं दक्षिणभागे वरस्थाने कन्यामानीय सुसुवर्णे दक्षिणभागे युगतत्र्मनि छिद्रे पूर्वोक्ताभिरद्भिरध्यधि क्षारयति। उपर्यधः सामीप्ये इति। वीप्सायामध्यधीति द्विर्वचनं। युगपच्छिद्रस्याधः समीपं कन्यां स्थापयित्वा मूर्धनि सुवर्णोदकं क्षारयतीत्यर्थः॥
ब्रा0। स्वे रथस्येति हिरण्यमूध्र्वपाशेन ग्रन्थिना दर्भैर्बद्ध्वा वधूमन्तरा वराग्नी आनीय वरस्य
दक्षिणत उपवेश्याध्यधिमूर्धनि दक्षिणस्मिन्युगच्छिद्रे तद्धिरण्यं निष्टक्र्यं बद्ध्वाप आसिञ्चति॥
आ0। तूष्णीं विमुच्य योक्त्नपाशं........हिरण्यमङ्गुलीयादि दर्भैर्निष्टक्र्यं निश्चत्यं सुखविमोचनीयमूध्र्वपाशेन ग्रन्थिनेत्यर्थः। दक्षिणस्मिन्युगच्छिद्रेऽवधाय तस्याधस्तात्कन्यामद्भिरवक्षालयते। शं ते हिरण्यमित्यनया जगत्या हिरण्योदकेन शिरस्यवसिञ्चति॥
इ/3.1.9ऊ
इ3.1.10ऊ
दक्षिणतः पुमान्भवति॥10॥
दे0। कन्याया अभिषेकसंस्कारे कृते सति पुमानग्नेरपरभागे प्राङ्मुखः पुरुषो भवति। दक्षिणेनार्थात्कन्योत्तरतो भवतीति लभ्यते॥
ब्रा0। ततो वरस्योत्तरतो वधूमुपवेश्य दक्षिणतः पुमान्भवति॥ ततस्तां तथैव प्रत्यानीय वरस्योत्तरत उपवेशयति॥
आ0। ततो दक्षिणतः पुमान्भवति। अन्तरङ्गाकन्या संस्कार्यत्वात्। अनेन ज्ञायते दक्षिणयुगतज्र्ञनि कन्या आसीत॥
इ/3.1.10ऊ
इ3.1.11ऊ
अथ जुहोत्यग्नये जनिविदे स्वाहा सोमाय जनिविदे स्वाहा गन्धर्वाय जनिविदे स्वाहा॥11॥
दे0। अथशब्दो मङ्गलार्थं इति मथुरः। अन्तरालेऽक्षतसक्तुहोमद्योतनायाथशब्द इत्यादित्यदर्शनः। अवश्यं ह्रुक्त्युक्तया ते होमान्तरालादावपि होतव्याः इत्यत्रैवावसरे न क्षतिरिति। होमान्क्रमेणाह। अग्नये जनिविदे......स्वाहेति। पूर्वं स्त्रियो देवैर्भुक्ताः सोमगन्धर्ववह्निभिरिति श्रूयते। तेन निष्क्रयाय तेषामिति होमः॥
ब्रा0। अथ जुहोति। होमं कुर्यादृत्विक्॥
आ0। अथ जुहोति केचिदस्मिन्नवसरेऽक्षतसक्तून्जुह्णोति। अथ शब्दस्योदितत्वात्। कां क्षतिः एषां होमानां पुरुस्ताद्योपरिष्टाच्चावश्यं होतव्यास्ते अत्र चाथशब्दस्यार्थवत्ता भवति। अन्ये व्याचक्षते। विवाहे जयप्रभृतयश्चेति यद्वक्ष्यति ते जयप्रभृतय इत्यादयो भवन्ति॥
इ/3.1.11ऊ
इ3.1.12ऊ
आयुषः प्राणमिति सन्तनीर्जुहोति॥12॥
दे0। एकादश सन्तन्य एवमाद्याः॥
ब्रा0। आयुषः प्राणमित्येकादश नाभेर्भौवनस्य। आयुषः प्राणं सन्तनु स्वाह। दिवः स्वः सन्तन्वित्यन्तम्॥
आ0। आयुषः प्राणमित्येकादश सन्तनीर्जुहोति॥
इ/3.1.12ऊ
इ3.1.13ऊ
जयाभ्यातानानाष्ट्रभृतश्च॥13॥
दे0। जुहोतीत्यनुषङ्गः। जयांश्चाभ्यातानांश्च। तान्राष्ट्रभृतश्च जुहोतीत्यर्थः॥
ब्रा0। आकूतमिति त्रयोदशाहुतीः। द्वादशगृहीतेन प्रतिमन्त्रं जयाञ्जुहुयादिति लौगाक्षिः।.......चतुर्गृहीतं जुहोत्यभ्यातानैः।.......। ऋताषाडिति द्वादशभिर्वडन्तैर्हुत्वा स नो भुवनस्येति त्रयोदशी रथमुखे॥
इ/3.1.13ऊ
इ3.1.14ऊ
तानि यथोक्तम्॥14॥
दे0। तानि त्रीणि जयादीनि कर्माण्युक्तानतिक्रमेण कर्तव्यानि। द्वादशगृहीतेन जयाञ्जुहुयादिति
लौगाक्षिः। यथाधीतं मन्त्रमनुद्रुत्य ऋगन्तेन स्वाहाकारेण द्वादश प्रक्षेपा अपीति केचित्। अन्ये तु द्वादशावदानगृहीताज्यस्य सर्वमन्त्रानुद्रवणेन सर्वान्ते स्वाहाकारेणैकः एव प्रक्षेप इत्यनुतिष्ठन्ति। प्रतिमन्त्रं तु द्वादशावदानान्युद्धरन्ति। अभ्यातानाहोमे तु चतुर्गृहीतं जुहोति।......राष्ट्रभृतस्तु द्वादशगृहीतेन। त्रयोदश होमाः। ऋतापाडिति द्वादशभिर्वडन्तैर्हुत्वा स नो भुवनस्य पत इति रथमुखेऽध्यध्यÏग्न ध्रियमाण इति यथोक्तता।
आ0। तानि त्रीणि कर्माणि यजूंषि वा यथोक्तमर्थानतिक्रमेण जुहोति। द्वादशगृहीतेन जयाञ्जुहुयादिति लौगाक्षिः। द्वादशगृहीतं गृहीत्वा यथाधीतं मन्त्रमनुद्रुत्य ऋगन्तेनैक एव होमः। चतुर्गृहीतं जुहोत्यभ्यातानैः। राष्ट्रभृतो यथोक्तता ऋताषाडिति द्वादशभिर्वडन्तैर्हुत्वा स नो भुवनस्य पत इति रथमुखे त्रयोदशीं जुहोति। तानि यथोक्तमाधिपत्यानि जुहोतीति ये व्याचक्षते तेषां तानीत्यतिरिच्यते। यथोक्तता चाधिपत्यलिङ्गानां मन्त्राणां च काचिदस्ति। पुंल्लिङ्गानां तानीति परामर्शः कर्मापेक्षया यजुरपेक्षया वा न विरुध्यते॥
इ/3.1.18ऊ
इ3.1.15ऊ
आधिपत्यानि जुहोति॥15॥
दे0। अधिपतिशब्दोपलक्षितानि लिङ्गादाधिपत्यान्युच्यन्ते। तानि सानुषङ्गान्येकविंशतिर्यजूंषि॥
ब्रा0। एवं जयाभ्यातानाम्राष्ट्रभृतश्च हुत्वा। अग्निर्भूतानामित्याहुत्येकविंशतिमाधिपत्यानि जुहोति॥
आ0। .........तानि सानुषङ्गान्येकविंशतिः॥
इ/3.1.15ऊ
इ3.1.16ऊ
आकृत्या इति त्रिभिस्त्वेत्यन्तैः॥16॥
दे0। त्वेत्यन्तैरिति स्वाहाकारान्ततां निर्वर्तयतीति केचित्। अन्ये त्वाहुः। त्वान्तानामेव पाठान्तत्वाव्यभिचारादन्यान्तत्वमप्यस्तीति स्वाहाकारान्तताद्योतनाय त्वान्तग्रहणमिति॥
ब्रा0। तत आकूत्यै त्वा स्वाहा। कामाय त्वा स्वाहा। समृधे त्वा स्वाहेति तिरुाः॥
आ0। त्वेत्यन्तैः। यतोऽत्वान्ता अपि सन्ति॥
इ/3.1.16ऊ
इ3.1.17ऊ
हिरण्यगर्भ इत्यष्टाभिः प्रत्यृचम्॥17॥
दे0। हिरण्यगर्भं इत्यादिना सकलेनानुवाकेनैक एव होमो मा विज्ञायीति प्रत्यृचग्रहणम्॥
आ0। प्रत्यृचग्रहणमनुवाकेन होमो मा भूत्। अनुवाकेनैकोऽपि होमः सावित्रवै·ाकर्मणादिषु॥
इ/3.1.17ऊ
इ3.1.18ऊ
भूः स्वाहेति महाव्याह्मतिभिश्चतसृभिः॥18॥
ब्रा0। ओं भूः स्वाहा। ओं भुवः स्वाहा।ओं स्वः स्वाहा।ओं भूर्भुवः स्वः स्वाहा॥
इ/3.1.18ऊ
इ3.1.19ऊ
अग्न आयूंषीत्याग्निपावमानीभिश्च तिसृभिः॥19॥
दे0। अग्निपावमानीभिरिति अग्निलिङ्गाभिः पावमानलिङ्गाभिश्च॥
ब्रा0। अग्न आयूंष्यग्निर्ऋषिरग्ने पवस्वेत्यग्निपावमान्यस्तिरुाः॥
इ/3.1.19ऊ
इ3.1.20ऊ
हुत्वा हुत्वा कन्याया मूर्धनि संपातानवनयेद्या ते पतिघ्नी तनूरपतिघ्नीं ते तां करोमि स्वाहा। या तेऽपुत्रिया तनूः पुत्रियां ते तां करोमि स्वाहा। या तेऽपशव्या तनूः पशव्यां ते तां करोमि स्वाहेति त्रिभिः॥20॥
दे0। आकृत्यै त्वेत्यादिभिर्मन्त्रैराज्यं हुत्वा हुत्वा कन्याया मूर्धनि संपातान्हुताऽज्यशेषबिन्दूनवनयेत् रुाावयेत्।......या त इत्यादिभिश्च त्रिभिर्मन्त्रैर्हुत्वा हुत्वा कन्याया मूर्धनि संपातानवनयेदित्यनुषङ्गेण तत्र समाप्तिः।....अत्रावसरे पूर्वनिदर्शितविधानेनाक्षतसक्तूञ्जुहूयात्॥
ब्रा0। तासामग्न आयूंषीत्यग्नौ हुत्वा या ते पतिघ्नीत्याहुतिशेषं मूर्धन्यवनयेत्। अग्निर्ऋषिरित्यग्नौ हुत्वा या तेऽपुत्रियेति मूÐध्न। अग्ने पवस्वेत्यग्नौ हुत्वा या तेऽपशव्येति मूर्धनि संपातानवनयेत्।.......प्राक् पाणिग्रहणादग्निना रयिं प्रजापते न हि त्वदित्यक्षतसक्तुयागः॥
आ0। .......पावमानीर्हुत्वा या ते पतिघ्रीत्यवनयनं। द्वितीयं हुत्वा (या तेऽपुत्रिया तनूरिति। तृतीयं हुत्वा) या तेऽपशव्या तनूरिति। केचिदेतैरेव होममेतैरेवावनयनं कुर्वन्ति स्वाहापाठात्तत्र। नैषा सूत्रकारस्य शैली यत्पूर्वं विनियोगः पश्चान्मन्त्रविधानं। तस्माद्यथास्माभिव्र्याख्यातं तथा साधीयः। तत्र चाक्षतसक्तुहोमः॥
इ/3.1.20ऊ
इ3.1.21ऊ
उदगग्नेर्दर्भेषु प्राचीमवस्थाप्य शुचिः पुरस्तात्प्रत्यङ्ङुपयन्ता देवस्य ते सवितुः प्रसवेऽ·िानोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णामीति हस्तं गृह्णाति दक्षिणमुत्तानं साङ्गुष्ठं नीचारिक्तमरिक्तेनैवं सव्यं सव्येन॥21॥
दे0। अग्नेरुदीच्यां दिशि दर्भास्तीर्णे देशे प्राङ्मुखीं कन्यामवस्थाप्य गुरुर्देवस्य त्वेत्यादिना मन्त्रेण कन्यायाः संबन्धिनं हस्तं ग्राहयतीत्यध्याहर्तव्यं। समानकर्तृत्वार्थं। केन प्रयुज्य ग्राहयतीत्यपेक्षायामर्थद्वारेणोपयन्त्रेति योज्यं। स चोपयन्ता गुरुणानुज्ञातस्तं गृह्णाति। कीदृशो वोढा गृह्णाति। शुचिः करग्रहेणाविकृतः धर्मोपयोगिनी ममेयमिति शुद्धसंकल्पः। प्रत्यङ्मुखाः कन्यायाः
पुरस्तादग्रे स्थितः सन्। प्राङ्मुखः सर्वकर्माणि कुर्वीतेत्यस्यापवादार्थं प्रत्यङ्मुख इति। दक्षिणं लोकप्रसिद्धमङ्गुष्ठसहितमुत्तानं नीचा दक्षिणेन।.....न्यग्भूतेनेत्यावृत्त्या योज्यं। अरिक्तं साभरणं। असंभवे सुवर्णकनकादियुक्तं। अतिदौर्गत्ये पुष्पफलादिसहितं। अरिक्तेनेति तद्वत्। एवेमेव सव्येन सव्यम्॥
ब्रा0। तत उदगग्नेर्दर्भानास्तीर्य तेषु प्राङ्मुखीं वधूमवस्थाप्य तस्या वरः प्रत्यङ्मुखस्तिष्ठन्नेव हस्तौ गृह्णाति देवस्य त्वेति यथोक्तं सावित्रेण। सव्यं च गृहीत्वा॥
आ0। प्राचीमवस्थाप्य कन्यां प्राङ्मुखीमित्यर्थः। तस्याः पुरस्तात्प्रत्यङ्मुख उपयन्ता वरः। उपयच्छतीत्युपयन्ता वोढा। शुचिः समाहितमनाः। देवस्य त्वेति कन्यायाः पाणिं गृह्णाति। तं
विशिनष्टि। दक्षिणमुत्तानमङ्गुष्ठसहितमरिक्तं। साभरणं। दक्षिणेन हस्तेन। किंभूतेन। नीचा। न्यग्भूतेनारिक्तेन च। एवं सव्यं सव्येन। अनेनैव मन्त्रेणोत्तानं साङ्गुष्ठमरिक्तम्॥
गृभ्णामीति चतरुाो वरं वाचयति गृभ्णामि ते सुप्रजास्त्वाय हस्तौ मया पत्या जरदष्टिर्यथासः। भगो अर्यमा सविता पुरन्धिर्मह्रं त्वादुर्गार्हपत्याय देवाः॥ तां पूषञ्शिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति। या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेषम्॥ सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये। रयिं च पुत्रांश्चादादग्निर्मह्रमथो
इ/3.1.21ऊ
इ3.1.22ऊ
इमाम्॥ सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः। तृतीयो अग्निष्टे पतिस्तुरीयोऽहं मनुष्यज इति॥22॥
दे0। गृह्णामीति चतरुारिुाष्टुबनुष्टुभौ जपति॥
ब्रा0। गृम्भणामीत्याद्यश्चतरुाो जपति॥
आ0। ततो जपति गृह्णामीति चतरुाः॥
इ/3.1.22ऊ
इ3.1.23ऊ
ततो गाथा वाचयति सरस्वति प्रेदमवेत्यनुवाकम्। उभावित्येके॥23॥
दे0। गीयन्त इति गाथाः। विशिष्टा एव ऋचः। अत एव कास्ता इत्यपेक्षायां सरस्वति प्रेदमवेत्यनुवाकमित्याह। अत्रानुवाके याः स्थितास्ता एवेत्यर्थः। ह्रन्तस्वरयुक्तासु च कासुचिद्दक्षु गाथाशब्दो रूढः। यथोक्तं-
छन्दोगा बह्वृचाश्चैव पौगा वाजसनेयिनः।
उच्चनीचस्वरं प्राहुः स वै गाथिक उच्यते॥
इति। अयं समुदायार्थः। ततोऽनन्तरं सरस्वतीत्यनुवाकपरिच्छिन्ना गाथा गुरुर्वरं वाचयति भणयति। एके पुनर्मन्यन्ते। उभावपि कन्यावरौ गाथा गुरुर्वाचयतीति। किं सर्वदा। नेत्याह। यदि पृथक्तन्त्रमिति। अत्रायमभिप्रायः। विवाहोद्वाहौ हि भिन्ने कर्मणी। कन्यासंस्कारो विवाहः। वरसंस्कार उद्वाहः। तत्र यदि देशकालकत्र्रैक्यात्तन्त्रेणेति कर्तव्यता तदा सकृदेकं वरमेव भणयति गाथास्वाध्यायिनं गुरुः। यदि तु देशकालैक्येऽपि कन्यावरयोरेवाधिकृतत्वादृत्विजो दक्षिणया क्रीतत्वात्कर्तृभेदात्तन्त्रभेदः तदोभावपि वाचयितव्याविति॥
ब्रा0। तत ऋत्विक् सरस्वति प्रेदमवेत्यनुवाकं गाथा वरं वाचयति। वधूवरा इत्येके॥
आ0। ततो गाथा वाचयतृत्विक्। वरो वक्ति। गाथाग्रहणाद्ह्रन्तरस्वरप्रापणार्थं।......उभौ दम्पती वाचयीत्येके॥
इ/3.1.23ऊ
इ3.1.24ऊ
यदि पृथक्तन्त्रं प्रदक्षिणमग्निमानीय तत्रैवोपवेश्य संस्थापयेत्॥24॥
दे0। यदि पृथक्तन्त्रमिति विवृतमिवता। यदि पृथक्तन्त्रमित्युत्तरसूत्रेणापि संबध्यते। पृथक्तन्त्रपक्षे अग्निप्रदक्षिणं कृत्वा। वधूवरावानीय। पुनस्तत्रैवोपवेश्य यत्र पाणिग्रहणं वृत्तं। संस्थापयेत्
समापयेत्। ऋतुतिथ्यादिकं भविष्यत्तन्त्रमुद्वाहसंबन्धितया। ततो विवाहसंबन्धितया भूय उद्वाहनतन्त्रं सकलं पूर्वं प्रदर्शितं विवाहसंबन्धितयोपक्रम्य वक्ष्यमाणं कुर्यादित्यर्थः॥
ब्रा0। यद्युद्वाहविवाहयोः पृथक्तन्त्रं सरस्वतीवाचनादनन्तरं वधूवरौ प्रदक्षिणमग्निमानीय यत्र पाणिग्रहणं कृतं तत्रैवोपवेश्य ऋतुतिथियागादितन्त्रं समापयेत्। पुनः परिसमूहनपरिस्थरणाद्युपक्रम्येदमर्यम्णे गन्धर्वाय त्र्यम्बकायेति लाजांस्तस्मिन्नेवाग्नौ संस्कृतांश्चतुरञ्जलिप्रमाणान्कल्पयेत्॥
आ0। इह द्वे कर्मणी प्रकृते विवाहश्चोद्वाहश्च। तत्रैकदेशकालकर्तृत्वात्तन्त्रेणानुष्ठानमावृत्त्या वा। तदर्थमाह। यदि पृथक्तन्त्रं विवाहोद्वाहयोर्वाचनादुध्र्वं प्रदक्षिणमानीय वरौ तावेवोपविश्य यत्र पाणिग्रहणं कृतं तत्रोद्वाहमृतुतिथ्यादि संस्थापयेत् समापयेदित्यर्थः। पुनरुपक्रम्याज्यभागान्तं स्यात्। तत्र लाजा हविः॥
इ/3.1.24ऊ
इ3.1.25.ऊ
एककर्मणि तन्त्र उत्तरेणाÏग्न प्रत्येत्य ततो विवाहः॥25॥
दे0। कर्मशब्दः प्रयोगवचनः। तन्त्रमितिकर्तव्यता विध्यन्तः। सकृदनुष्ठीयमानेतिकर्तव्यतोपकारपक्षे उत्तरेणाÏग्न प्रत्येत्य प्रदक्षिणमकृत्वैव। उत्तरभागेनैव कतिपयक्रमाण गत्वा प्रत्यागत्य ततो विवाहः। विवाहाङ्गतया वक्ष्यमाणानामृतुतिथ्यादीनां प्रयोगः। तन्त्रेण चोद्वाहोपकारोक्तानां वक्ष्यमाणानां च वृत्त्यानुष्ठानमित्यर्थः। एकतन्त्रे कर्माणि विवाहोद्वाहलक्षण इत्यपि केचित्पदयोजनं कुर्वन्ति॥
आ0। एककर्मणि तन्त्र एव प्रयोग इत्यर्थः। गाथा वाचयित्वा उत्तरेणाÏग्न प्रदक्षिणमकृत्वैव प्रत्येत्य ततो विवाहो भवति॥
इ/3.1.25ऊ
इ3.1.26ऊ
य इमे द्यावापृथिवी इत्यादय उद्वाहे होमा जयप्रभृतयश्च नैककर्मणि तन्त्रे स्विष्टकृदाज्यभागौ च॥26॥
दे0। उद्वाहे होमा ये जयप्रभृतयः य इमे द्यावापृथिवी इत्यादयश्च तथा स्विष्टकृत् तथाज्यभागौ एते सर्वे नैकतन्त्रे कर्मणी आवृत्त्या कर्तव्या इत्यर्थाज्ज्ञायते। तेन श्रुत्यर्थानां विधिनिषेधलक्षणमर्थद्वयं। तथासंभवमनेन निदर्शितं। स्विष्टकृच्छब्द उपरितनतन्त्रखण्डोपलक्षणार्थः। आज्यभागशब्दोऽप्यधस्तनस्य॥
ब्रा0। आज्यभागान्तं हुत्वा य इमे द्यावापृथिवी इत्यादिसंपातावनयनान्तं जुहोति ततोऽग्नये जनिविद इत्यादि येन द्यौरुग्रेत्यन्तम्॥
आ0। इदानीमेकेनैव सूत्रेणैकतन्त्रपृथक्तन्त्रयोः स्वरूपं दर्शयति। य इमे द्यावापृथिवी इत्येवमादयो ये उद्वाहे होमा वृत्ताः संपातावनयनान्ता जयप्रभृतयश्च अग्नये जनिविदे स्वाहेत्यादयो पावत्येन द्यौरुग्रेत्यनेन क्रमेण सर्वे उद्वाहहोमा उक्तास्ते न त्वेककर्मणि तन्त्रे भवन्ति। एककर्मणि निषेधं कुर्वन्नर्थात्पृथकतन्त्रे विदधाति। तथा स्विष्टकृदाज्यभागौ च। स्विष्टकृच्छब्देनोपरितनं तन्त्रखण्डमुपलक्ष्यते। आज्यभागशब्देनाधस्तनं। एकतन्त्रे सर्वमेतत्प्रतिषेधति। सकृत्कृतस्य पुनः करणायोगादिति भावः पृथक्तन्त्रे पुनर्विदधाति। तच्च सुह्मद्भूत्वा संकुलत्वा जयादीनां
पुनर्दर्शनादृतुतिथ्यादीनामावापस्थामावृत्त्या शङ्कया। अक्षतसक्तूनामप्रत्यक्षत्वात्सर्वं पृथक्तन्त्रे विदधाति। नात्र सूत्रोपालम्भः कर्तव्यः। तेनैकतन्त्रे गाथा वाचयित्वा प्रदक्षिणमग्निमानीय तत्रैवोपविश्य ऋतुतिथ्यादितन्त्रखण्डं समाप्यपुनरुपक्रम्य लाजान्संस्कृत्याज्यभागान्तं हुत्वा य इमे द्यावापृथिवी इत्यादि यावद्धिरण्यगर्भं इति चतरुाः॥
इ/3.1.26ऊ
इ/3.1.27ऊ
पश्चादग्नेर्दर्भेषु सा त्वमसीति वाचयति। सा त्वमस्यमोऽहममोऽहमस्मि सा त्वं ता एहि निवहावहै। पुंसे पुत्राय कर्तवे रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति॥27॥
दे0। एककर्मणि तन्त्रे उत्तरेणाÏग्न प्रत्येत्य प्रत्यानीयाग्नेः पश्चाद्दर्भेषु विनिहितचरणौ वधूवरौ कृत्वा सा त्वमस्तीति वाचयति वरं गुरुः॥
ब्रा0। तत उत्तरेणाÏग्न वधूवरावानीय पश्चादग्नेर्दर्भेषूपवेश्य सा त्वमसीति वरं वाचयति॥
इ/3.1.27ऊ
इ/3.1.28ऊ
अग्निमभिदक्षिणमानीयेह्रश्मानमिति वरं दक्षिणेन पदाश्मानमास्थापयति। एह्रश्मानमातिष्ठाश्मेव त्वं स्थिरो भव। कृण्वन्तु वि·ो देवा आयुष्टे शरदः शतमिति। आतिष्ठेममिति वधूम्। आतिष्ठेममश्मानमश्मेव त्वं स्थिरा भव। प्रमृणीहि दुवस्यवः सहस्व पृतन्यत इति॥28॥
दे0। अग्निमभिदक्षिणं वधूवरावानीयाग्नेरुत्तरभागेऽश्मानं स्थापयित्वा दक्षिणेन चरणेनास्थापयति गुरुः प्रयोजकः। वधूवरावातिष्ठतः आक्रामतः यथामन्त्रलिङ्गमाद्येन वरोऽश्मानमाक्रामत्युत्तरेण वधूः। गुरुस्त्वाशास्ते तयोर्मन्त्रणेष्टम्॥
ब्रा0। ततोऽÏग्न प्रदक्षिणमुभावानीय प्राङ्मुखाववस्थाप्येह्रश्मनामिति वरं दक्षिणेन पदाश्मानमास्थापयति। आतिष्टेममिति दक्षिणेनैव वधूम्॥
आ0। ततोऽग्निमभिदक्षिणमानीय वधूवरावेङ्यश्मानमातिष्ठेति दक्षिणेन पदाश्मानं ग्रावाणमास्थापयति। आक्रामयत्यृत्विग्वरं। आतिष्ठेममिति वधूं दक्षिणेन पदेत्यनुवर्तते। मन्त्रवर्णाह्रवस्था॥
इ/3.1.28ऊ
इ3.1.29ऊ
आज्यस्याञ्जलावुपस्तीर्येदं हविरित्यभिमृश्याथास्यै शमीलाजानावपति भ्राता ब्राहृचारी वा॥29॥
दे0। आज्येनाञ्जलावुपस्तृणाति चतुरवदानेन। तत इदं हविरित्यादिना मन्त्रेण शूर्पस्थान्शमीपर्णमिश्रांल्लाजानभिमृशति वरः। अनन्तरमञ्जलावस्या वध्वा भ्राता ब्राहृचारी भ्रातुरसंनिधाने शमीपर्णमिश्रांल्लाजानावपति॥
ब्रा0। ततो वध्वा अञ्जला ऋत्विगाज्यस्योपस्तृणाति। इदं हविरिति लाजान्वरोऽभिमृशति। इदं हविः प्रजननमिति पूर्वं। अथास्यै भ्राता शमीपर्णमिश्रांल्लाजानञ्जलिना प्राजापत्येन तीर्थेनाञ्जलः आवपति। भ्रातरि त्वसंनिहितेऽन्यो ब्राहृचारी कश्चित्। भ्रातु समावृत्तस्यापि न दोषः॥
आ0। आज्यस्याज्येनाञ्जलावुपस्तृणाति। अपूर्वत्वाच्चतुरवत्तं विदधाति। इदं हविरित्यभिमृश्य लाजान्। वरोऽभिमृशेल्लिङ्गात्॥
इ/3.1.29ऊ
इ3.1.30ऊ
तानविच्छिन्दती जुहोत्यर्यमणं नु देवमिति। अर्यमणं नु देवं कन्या अग्निमयक्षत। सोऽस्मान्देवो अर्यमाप्रेतो मुञ्चातु मामुष्य गृहेभ्यः स्वाहा॥30॥
दे0। तांल्लाजानविच्छिन्दती विच्छेदमकुर्वती। एकेनैव प्रक्षेपेण। जुहोति।.........अमुष्येति सामान्येन भर्तृनाम लक्ष्यते॥
ब्रा0। तानृत्विगभिघारितान्वधूं संततमर्यमणं नु देवमिति वाचयित्वा हावयति। अमुष्येति वरस्य षष्ठ¬न्तं नाम गृह्णाति वधूः॥
आ0। तांल्लाजानविच्छिन्दती अविकिरन्ती। एकेनैव प्रक्षेपेण। जुहोति।......अमुष्य गृहेभ्य इत्यत्र भर्तृनाम षष्ठ¬न्तं। प्रेतो मुञ्चातु मा देवशर्मणो गृहेभ्यः स्वाहेति॥
इ/3.1.30ऊ
इ3.1.31ऊ
अग्निर्मा जनिमानिति वाचयति। अग्निर्मा जनिमाननया जनिमन्तं करोतु जीवपत्निर्भूयासम्॥31॥
दे0। वरं भणयति गुरुरग्निर्मेत्यादिमन्त्रमित्यर्थः॥
आ0। वाचयति वरम्॥
इ/3.1.31ऊ
इ3.1.32ऊ
इयं नारीति सर्वत्रानुषजति। इयं नार्युपब्राूते तोक्मान्यावपन्तिका। दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो ममेति॥32॥
दे0। इयं नारीत्यस्या अनुष्टुभस्त्रिष्वनुषङ्गः कर्तव्यः॥
ब्रा0। हुतेष्वग्निमा जनिमानियं नारीति वरं वाचयति॥
आ0। इयं नारीत्यनुष्टुभं सर्वत्र त्रिष्वनुषजति॥
इ/3.1.32ऊ
इ3.1.33ऊ
एवं द्विरुत्तरम्॥33॥
दे0। द्वौ वारौ द्विः। एवमुत्तरं कर्म द्वौ वारौ कर्तव्यम्। तदेव स्फुटं दर्शयितुमाह॥
आ0। एवं द्विरुत्तरं कर्म। द्वौ वारौ। द्विरेव कुर्यात्। एतदेव स्फुटं दर्शयति॥
इ/3.1.33ऊ
इ3.1.34ऊ
पर्ययणे पर्ययणे लाजहोमो याजमानं चाश्मानं चास्थापयति॥34॥
दे0। पर्ययणमग्निपरिगमनं। याजमानानुषञ्जनं। तत्र च वरः कर्ता। ततोऽश्मनि स्थापनं। तत्र परिस्तीर्य लाजानामावपनम्।
आ0। पर्ययणमग्नेः परिगमनं। ततोऽश्मास्थापनमिति। परिस्तीर्य लाजानामावपनम्॥
इ/3.1.34ऊ
इ3.1.35ऊ
गन्धर्वं पतिवेदनमिति। गन्धर्वं पतिवेदनं कन्या अग्निमयक्षत। सोऽस्मान्देवो गन्धर्वः प्रेतो मुञ्चातु मामुष्य गृहेभ्यः स्वाहा॥35॥
दे0। गन्धर्वमित्यादिमन्त्रेणापि होमविशेषः॥
ब्रा0। गन्धर्वमिति वदन्ती वधूर्लाजाञ्जुहोति॥
आ0। इति होमविशेषः॥
इ/3.1.35ऊ
इ3.1.36ऊ
सोमो मा ज्ञातमिति वाचयति। सोमो मा ज्ञातिमाननया ज्ञातिमन्तं करोतु जीवपत्निर्भूयासम्॥36॥
दे0। सोम इत्यादि मन्त्रं गुरिर्वाचयतीत्यर्थः॥
ब्रा0। सोमो मा ज्ञातिमानियं नारीति वरं वाचयति॥
इ/3.1.36ऊ
इ3.1.37ऊ
त्र्यम्बकं यजामह इति। त्र्यम्बकं यजामहे सुगÏन्ध पतिपोषणम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामुष्य गृहेभ्यः स्वाहा॥37॥
दे0 ब्रा0 आ0। त्र्यम्बकमित्यादि तृतीयो होमः॥
इ/3.1.37ऊ
इ/3.1.38ऊ
पूषा मा पशुमानिति वाचयति। पूषा मा पशुमाननया पशुमन्तं करोतु जीवपत्निर्भूयासम्॥38॥
दे0। अस्यापि वाचनमेव न त्वनेन होमः॥
ब्रा0। पूषा मा पशुमानियं नारीति वरं वाचयति।......तत ऋतुतिथियागादि येन रक्षसि दाशुष इत्यन्तम्॥
इ/3.1.38ऊ
इ3.1.39ऊ
शिष्टान्स्विष्टकृते जुहोति शूर्पेण कर्ता॥39॥
दे0। लाजाशब्द उभयलिङ्गः सूत्रकृता दृष्टः। कन्यया ये हुतास्तेभ्यो ये शिष्टा लाजास्तान्स्विष्टकृते जुहोति। शेषान्स्विष्टकृते समवद्यतीति वचनात्। कन्यया हि प्रधानहोमः
कृतोऽञ्जलिना च। तन्निवृत्तये शूर्पग्रहणं कर्तृग्रहणं च॥
ब्रा0। शिष्टांल्लाजानुपस्तीर्णाभिघारितान्शूर्पेण कर्ता ऋत्विक् स्विष्टकृते जुहोति॥
आ0। शिष्टांल्लाजान्स्विष्टकृते जुहोति। सक्तूनामवदानं शूर्पेणैव कर्ता जुहोति। अञ्जलिना कन्यया प्रधानहोमः कृतः। अतः शूर्पग्रहणं कर्तृग्रहणं च॥
इ/3.1.31ऊ
इ/3.1.40ऊ
वरो दक्षिणा॥40॥
दे0 अथ दक्षिणा केन देयेत्याह। वरो दक्षिणां। वर एव दक्षिणां विवाहकर्मणः कत्र्रे
दद्यात्.........न तु नारीत्यर्थः। ऋतुतिथ्यादि यावत्स्विष्टकृत्॥
ब्रा0। हुते वरो होमकत्र्रे वरं ददाति। वरे गां तु विजानीयाश्चतुर्वर्षामिति श्रुतिः॥
आ0। वरो दक्षिणा। कत्र्रे स्विष्टकृदन्ते दक्षिणादानं स एव ददाति।
इ/3.1.40ऊ
इ3.1.41ऊ
तूष्णीं हस्तौ विमुच्य वि ते मुञ्चामीति संनहनम्॥41॥
दे0। सावित्रेण मन्त्रेण हस्तग्रहणं यथा तथा विमोचनं मा भूदिति तूष्णीग्रहणं। हस्तौ विमुच्य वि ते मुञ्चामीति
मन्त्रेण संनहनं योक्त्रं विमुञ्चति कर्ता। मन्त्रलिङ्गात्। न तु स्वयम्॥
ब्रा0। मनो ज्योतिरिति सप्तान्ते हुते तूष्णीं वरो हस्तौ विमुच्यति। वि ते मुञ्चमीति वध्वाः संनहनम्॥
आ0। आश्रावितान्ते समाप्य। तूष्णि हस्तौ विमुच्य मन्त्रेण गृहीतत्वान्मन्त्रेणैव विमको मा भूत्। वि ते मुञ्चामीति संनहनं। योक्त्रं। कर्ता न स्वयं विमुञ्चेत्। लिङ्गात्॥
इ/3.1.41ऊ
इ3.1.42ऊ
उत्तरतोऽग्नेर्दर्भेषु प्राचीं प्रक्रामयत्येकमिषे द्वे ऊर्जे त्रीणि रायस्पोषाय चत्वारि मयोभव्राय पञ्च प्रजाभ्यः षडृतुभ्यो दीर्घायुत्वाय सप्तमं सखा सप्तपदा भव सुमृडीका सवस्वति मा ते व्योम संदृशे विष्णुस्त्वान्वेत्वित्यमुषङ्गः॥42। ।
दे0। अग्रेरुत्तरेणास्तीर्णेषु दर्भेषु प्राङ्मुखीं वधूं प्रक्रामयति कर्ता सप्त पदानि सप्तभिर्मन्त्रैः। विष्णुस्त्वान्वेत्विति सर्वत्रानुषङ्गः। एकमिषे विष्णुस्तान्वेतु॥
ब्रा0। यथा। एकमिषे सखा सप्तपदा भव सुमृडीका सरस्वति मा ते व्योम संदृशे विष्णुस्त्वान्वेतु॥
आ0। एकमिष इत्येवमादिभिः सप्तभिः। सखा सप्तपदेत्यनुषङ्गः। केचित्तु विष्णुस्त्वान्वेत्वित्यनुषङ्गं कुर्वन्ति। दीर्घायुत्वाय सप्तमं सखा सप्तपदा भवेत्यस्यैवैतच्छेषं मन्यन्ते। तदानीं मा ते व्योम संदृश इति सप्तममित्येवं सूत्रमभविष्यत्। गृह्रान्तरेषु तूभयथा दृश्यते।
इ/3.1.42ऊ
इ3.1.43ऊ
तच्चक्षुरित्यादित्यमुपस्थापयति॥43॥
दे0। तच्चक्षुरित्यादिना कन्यामादित्यमुपस्थापयति॥
ब्रा0। सप्तमं पदं नीत्वा तच्चक्षुरिति वाचयन्नादित्यमुपस्थापयति॥
इ/3.1.43ऊ
इ3.1.44ऊ
अस्तमितेऽग्निम्॥44॥
दे0। विवाहे क्रियमाणे यदि रात्रिर्भवति रात्रौ वा विवाहस्तदा तच्चक्षुरित्यनयाग्निमुपस्थापयति॥
आ0। अस्तमिते चानयैवाग्निमुपस्थापयति॥
इ/3.1.44ऊ
इ3.1.45ऊ
जीवन्तीं ध्रुवं स्वस्त्यात्रेयं दर्शयत्यरुन्धतीं च। एतेषामेकैकं पश्यसीत्याह पश्यामीति प्रत्याह॥45॥
दे0। जीवन्तं........अरुन्धतीं च। जीवन्तीं कन्यामिच्छन्ध्रुवादिकं दर्शयेत्। अत्र केचिद्रात्रावित्यनुवर्तयन्ति। दिवा ध्रुवादिदर्शनाभावात्। अपरे नानुवर्तयन्ति। यतोऽग्ने पश्यसीति प्रश्ने अपश्यन्त्यपि पश्यामीति प्रतिवचनमाहेत्यर्थो लक्ष्यते। दर्शनमात्रविवक्षया हि पश्यप्रश्नाः पश्यामि न वेति चोत्तरं पश्येम।एतेषामेकैकं पश्यसीत्याह। ध्रुवं पश्यसीत्याद्येकैकस्य नाम गृहीत्वा पृच्छेद्गुरुः। पश्यामीति प्रत्याह। सापि पृष्टा सती पश्यामीति प्रब्राूयात्॥
ब्रा0। ततो जीवन्त्यादीन्दर्शयति। जीवन्तीं पश्यसि पश्यामीति सर्वत्र वधूः प्रत्याह। ध्रुवं। स्वस्त्यात्रेयं। अरुन्धतीं। जीवन्तीमिति वध्वा विशेषणमित्यन्ये॥
आ0। जीवन्तीं चेदाशास्यते जीवतीत्याशिषं ध्रुवादीन्दर्शयति। केचिदस्तमित इत्यनुवर्तयन्ति। न पुनस्ते दिवा न सन्ति। अपश्यन्त्यपि पश्यामीति प्रत्याह। तस्माद्दिवापि। एतेषामेकैकं पश्यसीत्याह। पश्यामीत्येकैकं प्रत्याह।
इ/3.1.45ऊ
इ3.1.46ऊ
सुमङ्गलीरियं वधूरिमां समेत पश्यत। सौभाग्यमस्यै दत्त्वायाथास्तं विपरेतनेति वीक्षिताननुमन्त्रयते॥46॥
दे0। वीक्षितान्ध्रुवादीन् गुरुरनुमन्त्रयते।
आ0। सुमङ्गलीरित्यनयानुष्टुभा विक्षिताननुमन्त्रयते ऋत्विक्।
इ/3.1.46ऊ
इ3.1.47ऊ
उदुत्तममिति प्रागुदीचीमावसथं यतीमनुमन्त्रयते यतो वा स्यात्। उदुत्तममारोहन्ती व्यस्यन्ती पृतन्यतः। मूर्धानं पत्युरारोह प्रजया च विराङ्भव॥ इमां त्वमिन्द्रमीढ्वः सुपुत्रां सुभगां कृणु। दशास्यां पुत्रानाधेहि पतिमेकादशं
कृधि॥ सम्राज्ञी ·ाशुरे भव सम्राज्ञी ·ा·ाां भव। ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु॥ स्नुषाणां ·ाशुराणां च प्रजायाश्च च धनस्य च। पतीनां देवराणां च सजातानां विराड्भवेति॥44॥25॥(3।1)
दे0। उदुत्तममित्यादिनानुष्टुप्चतुष्टयेनावसथं गृहं यतीं गच्छन्तीं
प्रागुदीचीमुत्तरपूर्वदिगभिमुखीमनुमन्त्रयते। यत्र वावसथः स्यात्तदभिमुखी गच्छेत्।......अत्र भर्तृगृहे गमनावसरे मधुपर्ककाण्डिका पठ¬ते। सा च स्नातकप्रकरणे व्याख्यायते॥
ब्रा0। उदुत्तममिति चतसृभिर्वधूमैशानीं दिशं गृहं व्रजन्तीमनुमन्त्रयते यत्र वा स्यात्तस्मिन्पितृवेश्मनि॥ इति पृथक्तन्त्रविधिः। एककर्मणि तन्त्रे सक्तुसंस्कारकाले लाजांश्च संस्कुर्यात्। सरस्वतीवाचनानन्तरं। यथोक्तमुद्वाहे होमतन्त्रं निर्वत्र्योत्तरेणाÏग्न वधूवरावानीय पश्चादग्नेर्दर्भेषु सा त्वमसीतिवाचनादि यथोक्तं संस्थापयेत्।नैककर्मणि तन्त्रे य इमे द्यावापृथिवी इत्यादयो होमा न चाग्नये जनिविद इत्यादयो हिरण्यगर्भ इति चतरुा इत्यन्ता। न चात्र पुनराज्यभागौ समवदाय शूर्पेणैव तु स्विष्टकृत्। तथा च।
पृथक्तन्त्रं यदि भवेद्गाथावाचनतः परम्।
प्रदक्षिणाग्निमानीय आद्यं होमं समापयेत्॥
द्वितीयमाज्यभागान्तं हुत्वा चैकादशाहुतीः।
य इमे द्यावापृथिवी इत्यादि जुहुयात्ततः॥
संपाताश्च यथोक्ताः स्युर्वध्वाः शिरसि ये स्मृताः।
ततोऽग्ने जनिविदे इत्याद्याश्च यथाक्रमम्॥
जुहुयात्सप्तपञ्चाशद्येय द्यौरन्तमाहुतीः।
पश्चात्तत्राग्नेर्दर्भेषु वाचयेत्सा त्वमित्यृचम्॥
हुत्वाग्निपावमानीभिः संपातानवनीय च।
यागस्त्वक्षतसक्तूनां प्राक् पाणिग्रहणाद्भवेत्॥
इ/3.1.47ऊ
द्वितीय खण्डः इ3.2.1ऊ पुण्याहे युङ्क्ते। योगे योग इति युनक्ति॥1॥
दे0। यदा वधूः पुण्ये दिवसे भर्तृगृहं गच्छति तथा रथशिबिकां यथासंभवं युङ्क्ते। तत्र योगे योग इति मन्त्रावृत्त्या·ाादिकं युनक्ति॥
ब्रा0। योगे योग इति रथयोजनादि। स्वगृहोपस्थानं पत्न्यागमने विधानं सुमृष्टार्थत्वान्नोक्तं। सुनक्षत्रे वध्वा सह रथमारुह्र ·ाशुरगृहाज्जन्यवृतस्तूर्थदुन्दुभ्यादिवाद्यघोषेण सह स्वगृहं यथोक्तविधिना गच्छति॥
आ0। यदा वधूः पतिगृहं याति पुण्याहे तदा युंक्ते रथादि। योगे योग इति तत्र वहान्युनक्ति युगरश्मिभिः शिबिकादौ मनुष्यान्वा॥
इ/3.2.1ऊ
इ3.2.2ऊ
अङ्कन्यङ्का अभितो रथं ये ध्वान्ता वाताग्रमभि ये संपतन्ति। दूरेहेतिः पतत्रिणी वाजिनीवांस्ते नोऽग्रयः
प्रप्रयः पारयन्त्विति चक्रे अनुमन्त्रयते॥2॥
दे0। अङ्कन्यङ्कावित्यादिकया जगत्याग्निदैवतया रथचक्रे अनुमन्त्रयते ऋत्विग्वरो वा। सकृच्च
मन्त्रः प्रयोक्तव्यो द्विवचनलिङ्गात्॥
आ0। चक्रे अनुमन्त्रयते। शिबिकादावुभयपार्·ो। द्विवचनाभिधायित्वात्सकृन्मन्त्रः॥
इ/3.2.2ऊ
इ3.2.3ऊ
खे रथस्य खेऽनसः खे युगस्य च तर्दसु खे अक्षस्य खे अवदधामीति युगतर्दसु शमीशाखामवदधाति॥3॥
दे0। खे रथस्येत्यादिना युगस्य तत्र्मसु छिद्रेषु शमीशाखामवदधाति।
आ0। खे रथस्येति युगच्छिद्रे शमीशाखामवदधाति। यग्यादौ यथासंभवम्॥
इ/3.2.3ऊ
इ3.2.4ऊ
सुकिंशुकं शल्मलिं वि·ारूपं हिरण्यवर्णं सुवृतं सुचक्रम्। आरोह सुर्ये अमृतस्य योनिं स्योनं पत्ये वहतुं कृणुष्वेत्यारोपयते॥4॥
दे0। सुकिंशुकमित्यादिना वधूमारोहयति॥
आ0। अनया वधूमारोपयते॥
इ/3.2.4ऊ
इ3.2.5ऊ
मा विदन्परिपन्थिनः सुमङ्गलीरिति च प्रवाहयते॥5॥
दे0। मा विदन्निति सुमङ्गलीरिति चैताभ्यां.......प्रवाहयते रथम्॥
इ/3.2.5ऊ
इ3.2.6ऊ
संकाशया विवहतं ब्राहृणा गृहैरघोरेण चक्षुषा मैत्रेण। पर्याणद्धं वि·ारूपं यदस्याः स्योनं पतिभ्यः सविता कृणोतु तदिति वधूसंगमे॥6॥
दे0। एतां जगतीं सावित्रीं वधूसंगमे जपति।
आ0। संकाशयेति जगतीमन्यस्या नवोढायाः संगमे जपति॥
इ/3.2.6ऊ
इ3.2.7ऊ
ये पथीनामिति चतुष्पथेषु जपतीमे चत्वार इति च॥7॥
दे0। सूत्रं स्फुटार्थम्॥
आ0। ये पथीनामिति चतुष्पथेऽनुष्टुभं जपति। इमे चत्वार इति च त्रिष्टुभम्॥
इ/3.2.7ऊ
इ3.2.8ऊ
ये श्मशानेष्विति श्मशानेषु। ये श्मशानेषु पुण्यजनाः शावास्तेषु शेरते। अत्रैव ते रमन्तां मा वधूरन्वेक्षतेति॥8॥
दे0। जपतीत्यनुषङ्गः॥
इ/3.2.8ऊ
इ3.2.9ऊ
ये वनेष्विति महावनं महावृक्षं दृष्ट्वा॥9॥
दे0। स्फुटम्॥
आ0। ये वनेष्विति महावने वृक्षगुल्मलतादिसमवायं दृष्ट्वा महावृक्षं वा विटपिनं देवताधिष्ठितं चिरन्तनं दृष्ट्वा
जपति॥
इ/3.2.9ऊ
इ3.2.10ऊ
इह रडिरिति क्रूरं दृष्ट्वा॥10॥
दे0। क्रूरं सिंहादिकं दृष्ट्वा जपतीत्यनुषङ्गः॥
आ0। क्रूरं क्रूरकर्माणं हिंरुां दृष्ट्वा जपति॥
इ/3.2.10ऊ
इ3.2.11ऊ
नमो अस्तु सर्पेभ्य इति सर्पान्॥11॥
दे0। दृष्ट्वा जपतीत्यनुषङ्गः॥
इ/3.2.11ऊ
इ3.2.12ऊ
ये तीर्थानीति तीर्थे ता मन्दसानेति च। ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे। कृतं तीर्थं सुप्रमाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम्॥ अयं नो मह्राः पारं स्वस्ति नेषद्वनस्पतिः। सीरा नः सुतरा भव दीर्घायुत्वाय वर्चसे॥ अश्मन्वती रीयते
संरभध्वमुत्तिष्ठत प्रचरता सखायः। अत्रा जहाम ये आसन्नशेवाः शिवान्वयमुत्तरेमाभिवाजानिति॥12॥26॥(3।2)
दे0। तीर्थे जपति प्रत्येकमुचितान्मन्त्रानित्यर्थः॥
आ0। ये तीर्थानीति नद्यास्तीर्ये तारे जपति। ता मन्दसानेति चापरशाखाम्नातत्वात्पठति तिरुाः॥
इ/3.2.12ऊ
तृतीय खण्डः इ3.3.1ऊ
शं न इति नदीं तरति॥1॥
दे0। गतार्थम्॥
आ0। शं न आप इति प्रकृते नदीं तरति॥
इ/3.3.1ऊ
इ3.3.2ऊ
य ऋत इति रथाङ्गेऽवशीर्णे। य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः। संघाता सÏन्ध मघ वा पुरूवसुर्निष्कर्ताविहुतं पुनरिति॥2॥
दे0। अविशेषाभिधानाद्यस्मिन् कÏस्मश्चिद्रथाङ्गे विशीर्णे श्लथे य ऋत इत्यादिकामैन्द्रीं बृहतीं जपतीत्यर्थः॥
आ0। य ऋत इति रथाङ्गेऽवशीर्णे बृहती॥
इ/3.3.2ऊ
इ3.3.3ऊ
अपराहृेऽधिवृक्षसूर्ये गृहानुपयायोर्जं विभ्रतीति गृहान् प्रतिदृश्य जपति। ऊर्जं बिभ्रती वसुवनिः सुमेधा गृहानागां मोदमाना सुवर्चाः। अघोरेण चक्षुषाहं मैत्रेण गृहाणां पश्यन्ती वय उत्तिरामि॥ गृहाणामायुः प्र वयं तिराम गृहा अस्माकं प्रतिरन्त्वायुः॥ गृहानहं सुमनसः प्रपद्ये वीरघ्री वीरपतिः
सुशेवा। इरां वहतो धृतमुक्षमाणांस्तेष्वहं सुमनाः संविशामि॥ येषां मध्येऽधिप्रवसन्नेति सौमनसं बहु। गृहानुपह्वयामहे ते मो जानन्तु जानतः। सूनृतावन्तः स्वधावन्त इरावन्तो ह सामदाः। अक्षुध्या अतृष्या गृहा मास्मद्विभेति॥ उपहुता इह गाव उपहुता अजावयः। अथो अन्नस्य कीलाल उपहुतो गृहेषु मे॥ उपहुता भूरिधनाः सखायः साधुसंमदाः। अरिष्टाः
सर्वपुरुषा गृहा नः सन्तु सर्वदेति॥3॥27॥(3।3)
दे0 अपराहृसमयेऽधिवृक्षसूर्ये। यदा वृक्षाणामुपर्येव रविरश्मयो दृश्यन्ते नाधस्तात्तदा गृहानुपायाय। गृहग्रहणेन स्वग्राम उपलक्ष्यते। स्वग्रामसमीपं गत्वा। तत्र स्वगृहान्प्रतिदृश्य ऊर्जं बिभ्रतीति जपति। वध्वा एव जपो मन्त्रलिङ्गात्॥
आ0। ततो ग्रामं प्राप्यापराह्नेऽस्तमयसमये अधिवृक्षसूर्ये गृहाणां समीपमागत्य ऊर्जं बिभ्रतीति गृहानवलोक्य जपति कन्या सप्तैत ऋचः। कन्याया जपः। मन्त्रवर्णात्।
इ/3.3.3ऊ
चतुर्थ खण्डः
इ3.4.1ऊ
उलपराजीं स्तृणात्या शयनीयात्॥1॥
दे0। उलपो वीरणः। प्रसूना दीर्घदर्भा इति तु प्रसिद्धिहीनं वचः। मध्यदेशादौ वीरणानामेव सिद्धं। ऋत्विग्वीरणपÏङ्क्त स्तृणोति रचयति। तथावतरणस्थानादारभ्य वधूशयनगृहविशेषं यावत्॥
ब्रा0। उलपास्तृणविशेषः। तेः शयनस्थानं यावद्गृहमार्गमास्तीर्य॥
आ0। तत ऋत्विगुलपराजी स्तृणाति। उलपा तृणविशेषः। राजी पंक्तिः। आ शयनीयात्। गृहाद्यावत्॥
इ/3.4.1ऊ
इ3.4.2ऊ
तया प्रविशति॥2॥
दे0। तया राज्या प्रविशति गृहं। रथादिकादवतीर्य वधूसहितो वरः॥
आ0। रथादवतीर्य तया राज्या प्रविशति॥
इ/3.4.2ऊ
इ3.4.3ऊ
अध्याहिताÏग्न सोदकं सौषधमावसथं प्रतिपद्यते॥3॥
दे0। अध्याहितः स्थापितो विवाहाग्निर्यत्र तं। तथा सोदकं। उदकुम्भभूषितं। प्रतिपद्यते। प्रविशति। अत ऊध्र्वं हि पाकयज्ञेष्वधिक्रियते। वास्तुहोमानन्तरं चैष प्रवेश इष्यते। उक्तं हि सूत्रं पूर्वं। अमीवहा वास्तोष्पत इति......आविशेदिति॥
आ0। कीदृशमावसथं प्रविशति। अध्याहितोऽग्निर्यस्मिन्सोऽध्याहिताग्निरावसथः एतदुक्तं भवति। योऽसौ वैवाहनोऽग्निः स तत्र पूर्वमेवाहितः। अस्मिन्नवसरे पूर्वकृतेषु गृहेषु वास्तुहोममिच्छन्ति। सोजकमिति। उदकुम्भं। सौषधं। तण्डुलादिभिरौषधीभिरधिष्ठितं। एवं विधमावसथं प्रतिपद्यते। प्रविशति॥
इ/3.4.3ऊ
इ3.4.4ऊ
रोहिण्या मूलेन वा यद्वा पुण्योक्तमपरेणाग्निमानडुहे रोहिते चर्मण्युपविश्यापि वा दर्भेष्वेव जयप्रभृतिभिर्हुत्वाग्निरैतु प्रथम इति च। अग्निरैतु प्रथमो देवतानां सोऽस्याः प्रजां नयतु सर्वमायुः। तदयं राजा वरुणोऽनुमन्यतां यथेयं रुाी पौत्रमघं निरुन्ध्यात्स्वाहा॥ अग्निरिमां त्रायतां गार्हपत्यः सोऽस्याः प्रजां मुञ्चतु मृत्युपाशात्। अरिक्तोपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामियं स्वाहा॥ मा ते गृहे निशि घोर उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु। जीवपुत्रा पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां स्वाहा॥ मा ते कुमारः स्तनधः प्रमायि मा त्वं विकेश्युर आवधिष्ठाः। स्तनं धयन्तं सविताभिरक्षत्वा वाससः परिधानाद्बृहस्पतिर्वि·ो देवा अभिरक्षन्तु नित्यं स्वाहा॥ अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि यास्यां भृशा तनूस्तामस्या नाशय स्वाहा॥ वायो प्रायश्चित्ते॥ सूर्य प्रायश्चित्ते॥ चन्द्र प्रायश्चित्ते॥ विष्णो प्रायश्चित्ते॥ विष्णो प्रायश्चित्ते॥ चन्द्र प्रायश्चित्ते॥ सूर्य प्रायश्चित्ते॥ वायो प्रायश्चित्ते॥ अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि याम्यां भृशा तनूस्तामस्या नाशय स्वाहा॥
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम्॥ यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषमिति॥4॥
दे0। रोहिण्या मूलेन वा नक्षत्रेण। रोहिण्या मूलेन वा युक्ते चन्द्रमसीति ज्ञेयं। यद्वा पुण्योक्तं। ज्योतिःशास्त्रे पुण्यरूपं श्रेयस्करं यद्दिनमुक्तं तत्र वा। अपरेणाÏग्न प्रकृतत्वादावसथ्यं। अनडुह इदमानडुहं वार्षतं। तत्र रोहिते चर्मण्युपवेश्य वधूं वरः स्वयं चोपविश्य। केवलेष्वेव वा दर्भेषु वधूमुपवेश्य स्वयं चोपविश्य। जयहोमप्रभृतिकमाज्यभागान्तमाज्यसाधनत्वाद् आज्यधर्मयुक्तमुपसमाधानादिपूर्वकं हुत्वा। अग्निरैतु प्रथम इत्यादिभिश्च कर्मान्तराणि कुर्यात्। कानि तानि। पाकयज्ञानर्थत्वात्। अग्निरैतु प्रथम इति वै·ादेव्यश्चतरुास्त्रिष्टुभः। एताभिश्चतसृभिर्ऋग्भिश्चतरुा आहुतयो दातव्या वरेण स्वयं। एतमुत्तरा अप्यग्ने प्रायश्चित्त इत्यादिर्भियजुर्भिरन्या दशाज्याहुतयः क्रमापक्रमाभ्यां।........विष्णो प्रायश्चित्ते। चन्द्र प्रायश्चित्ते। सूर्य प्रायश्चित्ते। वायो प्रायश्चित्ते। अग्ने प्रायश्चित्ते। एतानि सानुषङ्गाणि पराणि पञ्च यजूंष्यप्रकमेण। तेन ऋग्भिश्चतसृभिर्यजुर्भिर्दशाभिश्चतुर्दशाहुतयः संपन्नाः। त्र्यायुषमित्यनेन पञ्चदशेत्वादित्यदर्शनः। स आज्यैकदेशे योऽनेन यजुषा वक्ष्यमाण आसेकस्तामेवाहुतिं मन्यते। मन्त्रावृतिं्त वा।.......स्वयंकर्तृत्वादासां क्रमेण पूर्वोक्ता आज्याहुतीर्हुत्वा त्र्यायुषमित्यादियजुषः॥
ब्रा0 उद्धतावोक्षितेऽग्निमासाद्यापरेणाग्निमानडुहे रोहिते चर्मणि प्राङ्मूलेषु दर्भेषु वा वध्वा सहोपविश्य स्वयमिमं होममारभते। अत्राज्यं हविः। आज्यभागान्तं हुत्याग्निरैतु प्रथम इत्याद्यैः
पञ्चदश रुाुवेणाज्याहुतीर्जुहोति। त्र्यायुषमिति पञ्चदशी॥
आ0 ततो रोहिण्या नक्षत्रेण मूलेन वा। यद्वा पुण्योक्तं ज्योतिः-शास्त्रविद्भिस्तस्मिन्नेव वक्ष्यमाणं कर्म कुर्यात्। कथं। अपरेणाÏग्न। तमेवौपासनं। आनडुहे। अनडुह इदं। तस्मिन्नानडुहे आर्षभे रोहिते लोहिते चर्मण्युपवेश्य वधूं स्वयं चोपविश्य वरः। अपि वा दर्भेष्वेव न चर्मणि। जयप्रभृतिभिर्हुत्वा। यथोक्तमुपसमाधेयेति नात्रोक्तं यतः पूर्वमेवोपसमाहितोऽग्निः। आज्यहोमत्वादाज्यसंस्कारोऽत्रार्थाक्षिप्तः। जयप्रभृतिशब्देनाज्यभागान्तं तन्त्रमुपलक्षयति। अग्निरैतु प्रथम इति चतसृभिर्ऋग्भिरग्ने प्रायश्चित्त इति क्रमोत्क्रमैर्दशभिर्यजुर्भिः साङ्गैस्त्र्यायुषमिति चैताः पञ्चदशाहुतीः रुाुवेण हुत्वा॥
इ/3.4.4ऊ
इ3.4.5ऊ
आज्यस्यैकदेशे दध्यासिच्य दधिक्राव्ण इति त्रिर्दधि भक्षयित्वा माणवकायोत्सङ्ग इडागम इति फलानि प्रददाति।5।28।(3।4)
दे0। पृथक्पात्रोद्धृते धृते धृतैकदेशे दध्यासिच्य दधिक्राव्ण इत्यनया त्रीन्वरान्दधि भक्षयित्वा वरो माणवकाय वध्वा उत्सङ्गे निहिताय फलानि प्रददातीडामग्न इति मन्त्रेण॥
ब्रा0। तत आज्यस्य किञ्चिन्मात्रं पात्रान्तरे कृत्वा तस्मिन्दध्यासिच्य तदाज्यमिश्रितमात्मना दधिक्राव्ण इति त्रिर्दधि प्राश्याचम्य।........माणवकाय वध्वा उत्सङ्गे स्थिताय फलानि प्रददाति।.........ततो वै·ादेव्याग्नेय्या वा प्रधानम्। ऋतुतिथियागादितन्त्रसमाप्तिः। इति प्रायश्चित्तहोमः॥
आ0। तत आज्यस्यैकदेशे आज्यं पात्रान्तरे कृत्वा तत्र दध्यासिच्य। तद्दधि दधिक्राव्ण इति त्रिर्भक्षयित्वानन्तरं माणवकायोत्सङ्गे स्थिताय वध्वा इडागम इति फलानि प्रददाति। एवं होमस्य
कर्ता दधिभक्षयित्वा। स्यान्नः सूनुरिति वध्वा उत्सङ्गे लिङ्गात्। आचमनानाम्नात्। केचिद्देवता अप्रज्ञायमाना आग्नेय्या यजेदिति चतुर्गृहीतेन यजन्ति। केचिद्देवता एव ताः प्रधानत्वान्नेच्छन्ति। तत ऋतुतिथ्यादिसमापनम्॥
इ/3.4.5ऊ
पञ्चम खण्डः
इ3.5.1ऊ
तूष्णीमुपचरितं स्थालीपाकं श्रपयित्वा तस्याग्निमिष्ट्वा प्रजापतिं च शेषं प्राश्नीतः। अन्नमेव विवननमन्नं संवननं, स्मृतम्। अन्नं पशूनां प्राणोऽन्नं ज्येष्ठं भिषक् स्मृतम्। अन्नमयेन मणिना प्राणसूत्रेण पृश्निना। सिनोमि सत्यग्रन्थिना ह्मदयं च मनश्च ते॥ सह वाचा मनो अस्तु सह चित्तं सह व्रतम्। चक्रमिवानडुहः
पदं मामेवान्वेतु ते मनः॥ मां चैव पश्य सूर्यं च मा चान्येषु मनः कृथाः। चाक्रवाकं संवननं मम चामुष्याश्च भूयादिति॥1॥25॥(3।5)
दे0। तूष्णीमेव यत्रोपचारो निर्वापादिस्तं चरुं स्वरससिद्धत्वादुदकेन श्रपयित्वा। तस्यांशेनाÏग्न प्रजापतिं चेष्ट्वानाम्नैव तूष्णीग्रहणात्। हुतशेषं प्राश्नीतः वधूवरावेकत्र पात्रे सह। गृह्रान्तरेषु हि समशनमिति संज्ञा। सहाशनं समशनं प्रसिद्धं मन्त्रलिङ्गाच्च। तथैव व अत ऊध्र्वं गृह्रान्तरेषु ज्ञातिषु भोजनं प्रसिद्धं संवननमिति मन्त्रलिङ्गात्। अन्ये त्वत्रापि चैकपात्रे सहभोजनमिच्छन्ति।
यथा हि यजमानपञ्चमा इडां प्राश्नन्ति। सपत्नीका भुञ्जत इत्यतः। पञ्चंसख्या सह श्रवणेऽपीडाया गृहमेधीययोः पृथगेवाशनं तद्वदिहापि भवितव्यं। पाकयज्ञप्रतिषेधार्थं पुनस्तूष्णीमुपचरितग्रहणं। उक्तं ह्रेतत्। तेष्वावृदुपचारस्तूष्णीमिति। भक्षणं त्वन्नमेव विवननमित्यादिभिश्चतसृभिरनुष्टुब्भिः॥
ब्रा0। तूष्णीं निरुप्तं चरुं श्रपयित्वा। इदं समशनं नात्र पाकयज्ञतन्त्रं। परिसमूह्र पर्युक्ष्य चातुष्कोष्ठैः स्तरैः परिस्तीर्य। चरुं श्रृतमभिधार्योदगुद्वास्य। अग्नये स्वाहा प्रजापतये स्वाहेति हस्तेनाहुतिद्वयं हुत्वा मेक्षणेन वा। अवशेषमन्नमेवेति चतसृभिरभिमन्त्र्य शालिचूर्णमण्डले सौवर्णं
राजतं वा पात्रं प्रतिष्ठाप्य तस्मिन्दधिमिश्रितं प्राश्नीतः। मन्त्रो वरस्यैव न वध्वाः। मम चामुष्याश्च भूयादित्यत्र वध्वाः षष्ठ¬न्तं नाम ग्राह्रं।......भुक्त्वोच्छिष्टं वध्वै प्रदद्यादिति गोभिलः। इति समशनम्॥
आ।0 तूष्णीमुपचरितं तेष्वावृदुपचारस्तूष्णीमित्यस्य चास्य च को विशेषः। इह तूष्णीग्रहणं पाकयज्ञतन्त्रविधानार्थं। तस्यान्नस्य मेक्षणेनैवाÏग्न प्रजापतिं चेष्ट्वा शेषं प्राश्नीतः दम्पती। एकस्मिन्पात्रे समशनमिति गृह्रान्तरेषु संज्ञा। अन्नमेव विवननमिति चतसृभिर्ऋग्भिः प्राशनं। मम चामुष्याश्च भूयादिति वध्वा वरो नाम गृह्णाति। वरस्यैव मन्त्रो न स्त्रियः। लिङ्गात्। सहभोजनं समशनलक्षणं गृह्रान्तरेषु चात ऊध्र्वं सहभोजनप्रतिषेधो दृश्यते॥
इ/3.5.1ऊ
षष्ट खण्डः
इ3.6.1ऊ
संवत्सरं ब्राहृचर्यं चरतो द्वादश रात्रीः षट् तिरुा एकां वा॥1॥
दे0। ब्राहृचर्यममैथुनं चरित्वा गर्भाधानं कार्यमिति। तत्पौर्णमास्याममावास्यायां न मैथुनं कर्तव्यमिति च संकल्पः। एकैककर्तृकोऽत्र व्रतं। संवत्सरं प्रथमः कल्पः। यौवनमदस्यातिशयात्तु अनुकल्पेनापत्कालो विकल्पः। द्वादश रात्रीः षट् तिरुा एकां वेति॥
आ0। संवत्सरं ब्राहृचर्यं चरतो। विकल्पो वयोविशेषेणौत्सुक्यापेक्षया॥
इ/3.6.1ऊ
इ3.6.2ऊ
तौ संविशतः॥2॥
दे0। तौ वधूवरावेकस्मिन्शयने भवतः। विवाहोत्तरकाले प्रथमशयने। आधाने च समानमेतद्विधानमनन्तरमन्त्रचतुष्टयजपसहितम्॥
आ0। तौ संविशतः। सदृशयितौ भवतः॥
इ/3.6.2ऊ
इ3.6.3ऊ
अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम्। इह प्रजामिह रयिं रराणः प्रजायस्व प्रजया पुत्रकाम। अपश्यं त्वा मनसा दीध्यानां स्वायां तन् ऋद्धथौ नाधमानाम्। उप मामुञ्चा युवतिर्बभूयाः प्रजायस्व प्रजया पुत्रकामे। प्रजापते तन्वं मे जुषस्व त्वष्टर्देवेभिः सहसा न इन्द्रः। वि·ौर्देवैर्यज्ञियैः संविदानः पुंसां बहूनां मातरः स्याम॥ अहं गर्भमादधाम्योषधीष्वहं वि·ोषु
भुवनेष्वन्तः। अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अवरीषु पुत्रानिति स्त्र्यादिव्यत्यासं जपतः॥3॥
दे0। स्त्र्यादिव्यत्यासं कृत्वा। प्रथमां स्त्री। द्वितीयां वरः। तृतीयां स्त्री। चतुर्थी वरः। व्यत्यासो विपर्ययः। स्त्री आदिर्यत्र व्यत्यासे स स्त्र्यादिव्यत्यासः॥
आ0। अपश्यं त्वेति चतरुाः स्त्र्यादिव्यत्यासं जपतः। प्रथमां स्त्री द्वितीयां वरः॥
इ/3.6.3ऊ
इ3.6.4ऊ
एवमेवर्तै प्रजाकामौ संविशतः॥4॥
दे0। गतार्थम्॥
व्र0। एवमेवर्तौ। तत्र त्विदमधिकम्॥
आ0। एवमेतत्प्रथमं संवेशनं। एवमेवानेनैव विधिना ऋतौ तु काले प्रजाकाले संविशतः। संभवतः। तत्र विशेषः॥
इ/3.6.4ऊ
इ3.6.5ऊ
करदिति भसदमभिमृशति॥5॥
दे0। करदिति यजुषा भसदं स्त्रीचिह्नं वरोऽभिमृशति॥
ब्रा0। करदिति स्त्रीप्रजननमभिमृशति॥
आ0। मेढ्रश्चैव भसच्चैव समानार्थौ प्रकीर्तितौ। भसदं स्त्रीप्रजननमभिमृशति पुरुषः॥
इ/3.6.5ऊ
इ3.6.6ऊ
भसदित्युपरिजननम्॥6॥
दे0। पुंचिह्नं भसदिति यजुषाभिमृशति॥
ब्रा0। भसदिति तदुपरिनिहितं शेपम्॥
आ0। भसदित्यनेननोपरिजननं पुंप्रजननमभिमृशति॥
इ/3.6.6ऊ
इ3.6.7ऊ
बृहदिति जातम्॥7॥
दे0। बृहदित्यनेन जातं वीर्यं प्रक्षिपति॥
ब्रा0। बृहदिति सिच्यमानं रेतः॥
आ0। बृहदिति जातं रेतः सिञ्चतीत्यर्थः॥
इ/3.6.7ऊ
इ3.6.8ऊ
इति गर्भाधानम्॥8॥30॥(3।6)
आ0। अयमसौ निषेकाख्यः संस्कारो गर्भाधानमुच्यते॥
इ/3.6.8ऊ
सप्तम खण्डः
इ3.7.1ऊ
तृतीये गर्भमासे सीमन्तं कारयते ॥1॥
दे0। गर्भाधानादारभ्य यस्तृतीयो मासस्तत्र शुक्लपक्षस्य पर्वणि वा मुख्ये दिने सीमन्तोन्नयनसंज्ञया यौगिक्या प्रसिद्धयत्संस्कारकर्म तत्कारयते। स्वयं कुर्यादिति णिचः प्रयोगाद्दर्शितं। एतश्च पात्रस्यैव केचित्संस्कारमिच्छन्त्याधानसंस्कारादेव। गर्भस्योपकारो भविष्यति गोलकसंस्कारेणैव चक्षुष इति वदन्तः। तथा च स्मृतिः॥
सकृत्संस्कृतसंस्काराः सीमन्तेन द्विजस्त्रियः।
यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतो भवेदिति॥
अन्ये तु गर्भस्यैव संस्कारं मन्यन्ते। तत्रैव तृतीये गर्भमासे इत्यस्योपपत्तेः। पात्रमात्रसंस्कारत्वे हि किं गर्भमासस्यापेक्षया। यदा कदाचित्सीमन्तो विधीयते। कार्यः सीमन्त इति स्मृतेरपि॥
गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः।
वैजिकं गार्भिकं चैनो द्विजानामपसृज्यत इति॥
अपरे तूभयसंस्कारमाहुः। तत्र क्षेत्रसंस्कार एवानुमततमप्रायो वेदार्थविदां सकृदनुष्ठानस्य प्रसिद्धत्वाद्वा तुल्येन॥
ब्रा0। तृतीये गर्भमासे सीमन्तकर्मेदं स्वयं कर्तव्यम्॥
आ0। गृहीतगर्भया तृतीये मासि सीमन्तकारणं। कारयत इति णिजुपदेशन्न स्वयं। वैवाहन एवाग्नौ सीमन्तोन्नयनमिति। यौगिकमेतत्कर्मनाम। प्रथमगर्भ एवेति केचित्। मातुः संस्कारात्पुरुषसंस्कार इति स्मृतिदर्शनात्। तथा गार्भैर्होमैरिति मनुः। अन्यत्राभ्युत्क्रमो दृश्यते। पूर्वं पुंसवनं पश्चात्सीमन्तोन्नयनं नम्यमात्रं। इह त्वन्यदेव देवतायागलक्षणम्॥
इ/3.7.1ऊ
इ3.7.2ऊ
शुद्धपक्षस्य पुण्याहे पर्वणि वा यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा पश्चादग्रेर्दर्भेषु प्राङासीनायाः सर्वान्केशान्संप्रमुच्य प्रसाधयते यं सीमन्तमिति। यं सीमन्तंकङ्कतस्ते चकार यद्वा क्षुरः परिववर्ज वपंस्ते। रुाीषु रूपम·िानौ तं निधत्तं पौंस्येनेमं संसृजतं वीर्येण॥ इन्द्राणी चक्रे कङ्कतं स सीमन्तं विसर्पतु। पुनः पतिभ्यो जायां दा अग्रे प्रजया सह॥ पुनः पत्नीमग्निरदादायुषा सह वर्चसा। दीर्घायुरस्या यः पतिर्जीवाति शरदः शतमिति॥2॥
दे0। यथोक्तमुपसमाधानं कृत्वा जयप्रभृतिभिराज्यभागान्तैर्हुत्वा प्रकृतस्यावसथ्यस्याग्नेः पश्चादग्नेर्दर्भेषु प्राङ्मुख्या उपविष्टायाः सर्वान्केशान्सम्यक् प्रकर्षेण मुक्तान्कृत्वा कङ्कतेन दारुमयोभयात्मकदिक्कभूरितरदन्तयोगिना बालस्पष्टीकरणेन प्रसाधयते। स्पष्टीकरोति। वक्ष्यमाणभिस्तिसृभिर्ऋग्भिः। इति शब्दः करणप्रधानः। अनेन मन्त्रत्रयेण केशान्प्रसाधयत इति पूर्वेण संबन्धः॥
ब्रा0। अत्राज्यभागान्तेऽपरेणाÏग्न दर्भेषु प्राङ्मुखीमुपवेश्य यं सीमन्तमिति तिरुा उक्त्वा कङ्कतेन संप्रमुक्तान्केशान्प्रसाधयते॥
आ0। शुद्धपक्षस्येति व्याख्यात्। आज्यभागान्तं यावत्पश्चादग्नेर्दर्भेषु प्राङ्मुख्या उपविष्टायाः सर्वान्केशान्संप्रमुच्य प्रसादयते। संस्करोति कङ्कतेन। यं सीमन्तमिति तिसृभिर्ऋग्भिः॥
इ/3.7.2ऊ
इ3.7.3ऊ
त्रिःश्येतया शलल्या शमीशाखया सपलाशया वा सीमन्तं विचिनोति यास्ते राक इति॥3॥
दे0। त्रीन्वरान् त्रिः श्येतया शुक्त्या शलल्या। शललिः ·ाावित् सेधा। तस्याः शलाका शललिरुपचारात्। तया शमीशाखया सपलाशया सपत्त्रया। सीमन्तं विचिनोति। यास्ते राक इति त्रिष्टुभा। शलल्या ताम्रशलाकया श्येतया लोहितयेति यह्रचक्षते तन्न दृष्टानुरूपम्॥
ब्रा0। यास्ते राक इति शलल्या शमीशाखया सपर्णया वा ललाटमध्यादारभ्य कृकाटिकां यावद्विधा केशान्करोति॥
आ0। ततस्त्रिःश्येतया त्रिषु स्थानेषु श्येतया शुक्त्याशलल्या ·ााविच्छलाकया शमीशाखया सपर्णया तथा पाटितया वा सीमन्तं विचिनोति। केशान्विशुध्यति। यास्त इत्यनया जगत्या॥
इ/3.7.3ऊ
इ3.7.4ऊ
अथास्याः पृथकेशपक्षौ संनह्रति नीललोहितेन सूत्रेण नीललोहितं भवति कृत्यासक्तिव्र्यज्यते। एधन्ते अस्या
ज्ञातयः पतिर्बन्धेषु बध्यातामिति॥4॥
दे0। अनन्तरमस्या गर्भिण्याः कङ्कतसमीकृतानां शलल्या विभ्जयमानाभिरेखापरिच्छेदेन कृतसीमन्तभागानां केशानां कृतौ पृथग्यौ पक्षौ पार्·ाद्वयगतौ संनह्रति नीललोहितसूत्रेण नीललोहितमित्यादिकयानुष्टुभा॥
ब्रा0। नीललोहितं भवतीति नीलरक्तसूत्रेण मन्त्रावृत्या पृथक्पृथक् केशार्धौ संनह्रति। प्रथमं दक्षिणम्।
आ0। .....संनह्रति। आ अवटदेशं कृकाटिकां वा द्विभक्ताः केशाः। तेषां द्वौ पक्षौ विभक्तौ पृथक्पृथक् संनह्रति नीललोहितेन प्रतिसरेण॥
इ/3.7.4ऊ
इ3.7.5ऊ
यो गुरुस्तमर्हयेत्॥5॥
दे0। यो गुरुः सीमन्तोन्नयनस्य कर्ता ब्रााहृणस्तमर्हयेत्। यथाशक्ति मधुपर्कदानादिना पूजयेत्॥
ब्रा0। तत आज्येनाग्नेय्या वै·ादेव्या वा प्रधानं। ऋतुतिथ्यादियागादितन्त्रं समाप्य यथाश्रद्धं गुरुमर्हयेत्॥
आ0। ततो देवताप्रज्ञायमानेति हुत्वा आग्नेय्या यजोद्वै·ादेव्या वेति चतुर्गृहीतेन प्रधानं। एवंविधोऽस्य विषयो यतः तत्र तन्त्रं कृष्यते। आवापस्थाने न किञ्चित्प्रधानं द्रव्यं देवता वा तत्राप्रज्ञायमाना देवता। योऽत्र कर्मणि गुरुर्होमकर्ता मातुलादिस्तमर्हयेद्दक्षिणादानेन। योनिसंबद्धं कंचिदेतत्कर्म कारयेन्न त्वृत्विङ्मात्रम्॥
इ/3.7.5ऊ
इ3.7.6ऊ
एतदेव कुमारीणां सटोद्धरणमत्रैवानुलेपनम्॥6॥31॥(3।7)
दे0। अत्रैव काले वाग्दत्तानां कुमारीणां सटोद्धरणं कर्म कर्तव्यं केशरजनाविशेषात्मकमनुलेपनं सर्वौषधिकुङ्कुमप्रभृतिभिरनुलेपनं शोभाविशेषाधायि सीमन्तस्य। अत्राग्नेय्या ये के च ज्मेत्येतया चतुर्गृहीतेन प्रधानयागः सीमन्तोन्नयनं परिपूर्णम्॥
ब्रा0। अस्मिन्नेव मास्यनवलोभनं गर्भरक्षार्थमन्यगृह्रोक्तं कर्तव्यं। यास्ते राक इति। भुवो यज्ञस्येत्याग्नेय्या ये के च ज्मेति वै·ादेव्या वा॥
आ0। एतदेव कुमारीणां सटोद्धरणं वेणीगूहनं मन्त्रवत्कर्तव्यं। अन्यत्तूष्णीं। विशेषस्त्वत्रैवानवलोभनं। अस्मिन्नेव काले सीमन्तस्य विलोभनं मोहनमनुपलब्धि कुर्यात्॥
इ/3.7.6ऊ
अष्टम खण्डः
इ3.8.1ऊ
अथ पुंसवनम्॥1॥
दे0। अथेत्यानन्तर्ये। सीमन्तोन्नयनानन्तरं पुंसवनसंज्ञकं गर्भसंस्कारकर्म कर्तव्यमित्यादिना॥
ब्रा0। अनेकदेवतायागे एक एव चरुर्भवेत्।
ऋते पुंसवनाद्गृह्रे लौगाक्षिवचनं यथा॥
आ0। अथ शब्दमानन्तर्यार्थं करोति। सीमन्तोन्नयनादनन्तरं पुंसवनं। पुंसवनमिति संस्कारनाम॥
इ/3.8.1ऊ
इ3.8.2ऊ
भूयिष्ठगतेषु गर्भमासेषु त्रीन्स्थालीपाकाञ्श्रपयेदाग्नेयमैन्द्रं वैष्णवं च॥2॥
दे0। दशमे मासि सूतव इति श्रुतेर्दर्शनाश्च दश गर्भमासाः। तत्र पञ्चार्धभागः षड् भूयांसः सप्त भूयिष्ठाः। भूयिष्ठः सप्तमो गतो येषु तेषु गर्भमासेषु सत्सु। अष्टमे मासि शिष्टाचारात्॥
ब्रा0। पुंसवनमन्यशाखासु तृतीये गर्भमासे पुरा गर्भस्पन्दनादुक्तं। लौगाक्षिस्तु भूयिष्ठगतेष्वाह। यदा पुंसा नक्षत्रेण चन्द्रमा युज्येत तदा पुंसवनमिति गृह्रान्तरं। सप्तमेऽष्टमेव पुंसवनमिति सदाचारः। अग्नये जुष्टमिन्द्राय
जुष्टं विष्णवे जुष्टमिति स्थालीपाकानामत्र निर्वापः॥
आ0। कदा। भूयिष्ठगतेषु गर्भमासेषु। गर्भमासास्तावद्दश........। भूयिष्ठगतो येषां ते भूयिष्ठगतो येषां ते भूयिष्ठगताः। तेष्वष्टामितिषु त्रीन्स्थालीपाकाञ्श्रपयेत्। आग्नेयमैन्द्रं वैष्णवं च देवताविधानम्॥
इ/3.8.2ऊ
इ3.8.3ऊ
तेषां यथादेवतं जुहोति। अग्रिस्तुविश्रवस्तममिन्द्र क्षत्रं स तद्विष्णुः। पुमानित्यभिजुहोति। पुमानग्निः पुमानिन्द्रः पुमान्विष्णुरजायत पुमांसं जनयेत्पुत्रं दशमे मासि सूतवे। येन जातेन विभुना जीवेम शरदः शतं पश्येम शरदः शतमिति तं नो मंहस्व शतिनं सहरिुाणं गोसनिम·ासनिं वीरं
स्वाहा॥3॥32॥(3।8)
दे0। तेषां मध्यादन्यतममन्यतमं गृहीत्वा यथादेवतं जुहोति। यत्रैकः स्थालीपाकस्तत्र देवताभेदेऽपि एककर्म द्रव्यदेवतासंयोगस्यैक्यात्। इह तूभयभेदात्संयोगभेदेन कर्मबहुलत्वं। अग्निस्तुविश्रवस्तममित्यादिनाÏग्न जुहोति। इन्द्र क्षत्रमित्यादिनेन्द्रं। प्रतद्विष्णुरित्यादिना विष्णुं। पुमानित्यादिनैकैकस्माद्भागमुद्धृत्य स्विष्टकृतं जुहोति।.....पुमानग्निः........तं नो मंहस्व........आभ्यां ऋग्यजुभ्र्यां स्विष्टकृत् क्रियते॥
ब्रा0। आज्यभागान्तं हुत्वा। अग्निस्तु 0 इति स्थालीपाकस्य जुहोति। पुमानग्निरिति रुाुवेणाज्यस्याभिहोमः। इन्द्र........इति स्थालीपाकस्य। पुमानिन्द्र इत्यभिहोमः। प्र तद्विष्णुरिति
स्थालीपाकस्य। पुमान्विष्णुरित्यभिहोमः। पुमांसं जनयेत्पुत्रमित्यनिषङ्गः। तत ऋतुतिथियागादि तुल्यं। समवदाय स्विष्टकृतम्॥
आ0। देवताभेदादेव भेदे प्राप्ते त्रिगुणमन्यत्र......भवतीति विज्ञापयति। तथा च दर्शितं स्थालीपाकस्य जुहोति। यत्र पुनद्र्रव्यभेदस्तत्र हविद्र्रव्यभेदोऽपि श्रावण्यादौ। तेषां यथा दैवतं
जुहोति। यथा दैवतं प्राप्तं। सदुच्यते। उपहोमार्थमग्निस्तुविश्रवस्तममिति मन्त्रविधानं। पुमानित्यभिजुहोति। यथादेवतं विभज्य। पुमानग्निरजायत पुमांसं जनयेत्पुत्रं। पुमानिन्द्रो अजायत पुमांसं जनयेत्पुत्रं। पुमान्विष्णुरजायतेति ऋग्यजुभ्योमेकैकामाहुतिं। अभिहोमो हविषामुपरि न तु ध्यवधानेन। त्रिः समवदाय स्विष्टकृतं जुहुयात्॥
इ/3.8.3ऊ
नवम खण्डः
इ3.9.1ऊ
अथ सोष्यन्तीसवनम्॥1॥
दे0। अनन्तरं सोष्यन्तीसवनं नाम दृष्टार्थं कर्मोच्यते। यौगिकीयं संज्ञा। सूयतेऽनेन सवनं। सुखप्रसवकं कर्म। सोष्यमाणया आसन्नप्रसवायाः सवनं सोष्यन्तीसवनम्।
इ/3.9.1ऊ
इ3.9.2ऊ
विजनिष्यमाणाया अद्भिः पाणिं रुावन्तं शिरस्याधाया ह्मदयादभिमृशेद्यथायं वातः पवते यथा समुद्र एजति। एवं ते गर्भ एजतु सह जरायुणावपद्यतामिति॥2॥
दे0। भर्तात्र कर्ता। तदसंनिधावाप्तः कश्चिद्देवरादिः॥
आ0। विजनिष्यमाणया अद्भिरुदकेन पाणिं हस्तं रुावन्तं कृत्वाथास्याः शिरस्याधाय यावद्धृदयदेशं रुावता पाणिना यथायं वात इत्यनयाभिमृशेत्॥
इ/3.9.2ऊ
इ3.9.3ऊ
क्षिप्रमेव प्रजायते॥3॥33॥(3।6)
दे0। तथा सति क्षिप्रमेव सुखेन प्रसूयत इति दृष्टार्थतामस्य कर्मण आह॥
ब्रा0। सोष्यन्तीसवन त्रिकादिभिर्होमः। तव श्रिय इत्यादि येन रक्षसि दाशुष इत्यन्तम्॥
आ0। एवं कृते क्षिप्रं प्रजायत इति प्रयोजनवाचकम्॥
इ/3.9.3ऊ
दशम खण्डः
इ3.10.1ऊ
पुत्रे जाते नाम धीयते॥1॥
दे0। पुत्रे जाते जातकर्म कृत्वा नाभिवर्धनादनन्तरं नाम धीयते। इदं नाम करिष्यत इति केचिह्राकुर्वते। नामकरणं ह्रेकादश्यां नाम कुर्वीत पुण्ये वाहनीत्यशौचशुद्धौ स्मृतं। अन्ये त्वाहुः। जाते सत्येकादशीं तदनन्तरं वा सुलग्नं नामकर्मणि नातिक्रामेदित्येवं परमेतदिति। वयं तु दूरे
वक्ष्यामः॥
आ0। न दुहितरि होमः। नाम तु क्रियते। अमन्त्रकं मधुसर्पिषः प्राशनं। जाते जाते पुत्रे पुत्रे नाम तस्य धीयते स्थाप्यते चिन्त्यते वा॥
इ/3.10.1ऊ
इ3.10.2ऊ
घोषवदाद्यन्तरन्तस्थं चतुरक्षरम्॥2॥
दे0। नाम्न आदौ घोषवदक्षरं कर्तव्यं। मध्ये चान्तस्थसंज्ञकं। चत्वार्यक्षराणि यत्र तत्। अक्षराण्यचोत्रहलानामनवधारणात्॥
आ0। घोषवान्वर्ण आदिर्यस्य तद्घोषवदादि। वर्गतृतीयचतुर्थपञ्चमा यरलवाश्च घोषयन्तः। अन्तरन्तस्थं। अन्तर्मध्येऽन्तरस्थानां यरलवानामन्यतमो यस्य तदन्तरन्तरस्थं। चतुरक्षरं। चत्वार्यक्षराणि यस्य। यथा देवदत्त इति॥
इ/3.10.2ऊ
इ3.10.3ऊ
यथोपपत्ति वा॥3॥
दे0। यथा वा देवतालब्धत्वाद्यनुसारेम तदुपपद्यते तथा कर्तव्यम्॥
आ0। अथवा यथोपपत्तिः। यथोपपद्यते। मासस्तु नक्षत्रदेवताकुलप्रबन्धादिनिमित्तेन॥
अग्निमत्रानीय तस्मिन्नाज्यभागान्तं हुत्वा सहिरण्यकांस्ये संपातानवनयोद्धिरण्यगर्भः संवत्सरस्य प्रतिमां काय स्वाहा
इ/3.10.3ऊ
इ3.10.4ऊ
कस्मै स्वाहा कतमस्मै स्वाहा प्रजापतये स्वाहा प्रजापते नहि त्वदन्य इति च द्वाभ्याम्॥4॥
दे0। यत्र गृहे प्रसवस्तत्र लौकिकमग्निमाह्मत्य तत्रैवाज्यभागान्तान्होमान् कृत्वा हिरण्ययुक्ते कांस्यपात्रे संपातान् हुतशेषबिन्दूनवनयेत् रुाावयेत्। हिरण्यवर्ण इत्येकाहुतिः। संवत्सरस्येतिद्वितीया। काय स्वाहा कस्मै स्वाहा कतस्मै स्वाहा प्रजापतये स्वाहा इति चतरुाः। प्रजापते नहि त्वदिति च द्वाभ्यां द्वे। एवमष्टौ भवन्ति। प्रधानकर्मत्वाच्चतुर्गृहीतेनैव होम इत्याहुः॥
ब्रा0। नाभ्यां छिन्नायां गेहाग्नेरग्निमुद्धृत्य सूतिकावसथ एवोद्धतावोक्षित आसदयेत्। तस्मिन्नाज्यभागान्तं हुत्वाष्टौ प्रधानाहुतीर्जुहुयात्।......एतासामष्टानामेकैकां हुत्वा सहिरण्यकांस्ये
संपातानवनयेत्॥
आ0। अग्निमत्रानीय यत्रैव गृहे जातः. लौकिकमाह्मत्य तस्मिन्नाज्यभागान्तं हुत्वा सहिरण्यकंसपात्रे
संपातान् हुतशेषान्बिन्दूनवनयेत्। स्थापयेत्। हिरण्यगर्भ इति वक्ष्यमाणैरष्टभिः। केचित्प्रधानत्वाश्चतुर्गृहीतेनैव जुह्वति। अत्र प्रजापते नहि त्वदिति सप्तमी विराट्। अमुष्येति। नामव्यतिषङ्गः पितृपुत्रयोः। जातस्य नाम प्रथमान्तमाद्यन्तयोर्मध्ये षष्ठ¬न्तं पितुर्द्विः। देवस्वामी विष्णुस्वामिनः पुत्रो विष्णुस्वामिनो देवस्वामी पुत्रः। वयं स्याम पतयो रयीणमिति॥
इ3.10.4ऊ
इ3.10.5ऊ
अग्नेरायुरसीति हिरण्येन मुखं मेध्यं कृत्वा पाणिना मुखमद्भिः संस्पृश्य प्रक्षाल्य स्तनावनुमन्त्रयते मधु
वात ऋतायत इति तिसृभिः प्रत्यृचमुभा उत्तमया॥5॥
दे0। अग्नेरायुरसीत्यादिना मन्त्रेण हिरण्येन मुखं मेध्यं पवित्रं कृत्वा जलाविलेन हस्तेन मुखं स्पृष्ट्वा बालस्य मातुः स्तनावनुमन्त्रयते प्रक्षाल्य बालस्य पिता। तदसंनिधौ पुरोहितः। एकैकयर्चैकैकमन्ययोत्तमया तूभौ। तदपेक्षमेव बहुवचनं स्तनानिति। मधुवात इति दक्षिणं। मधु नक्तमिति वामं। मधुमान्न इति द्वौ॥
ब्रा0। तेन हिरण्येन शिशोरग्नेरायुरसीत्यास्यं संयोज्य पाणिना मुखमद्भिः संस्पृश्ति। अग्नेरायुरसीत्यत्रामुष्मा आयुर्धेर्हीति कुमारस्य चतुथ्र्यन्तं नाम गृह्णाति। यथा। अग्नेरायुरसि तस्य ते मनुष्या आयुष्कृतस्तेनास्मै देवदत्तायुर्धेहीति। ततः सूतिकास्तनौ प्रक्षालितौ मधु वात इति तिसृभिः प्रत्यृचमनुमन्त्रयते। मधु वात इति दक्षिणं मधु नक्तमित्युत्तरं मधुमान्न इत्युभौ युगपत्॥
इ/3.10.5ऊ
इ3.10.6ऊ
हिरण्येन संपातान्संनिघृष्य मुधु चेत्येके तन्मुखे कृत्वा प्रपाययत्यायुर्धय जरां धय सत्यं धय श्रियं धयोर्जं धय रायस्पोषं धय ब्राहृवर्चसं धय॥6॥
दे0। सुवर्णेन संपातान्संनिधृष्य बालकमुखे कृत्वा पाययति। एक पुनर्मन्यन्ते मधु च मधुयुक्तान्संपातान्संनिधृष्य पाययेदित्यर्थः। उत्सर्गेण पितृकर्मकत्वाज्जातकर्मप्रभृतीनां पिता ब्राूते। हे बालक आयुः धय पिब......॥
ब्रा0। ततो हिरण्येन संपातान्संनिघृष्य.........तद्धिरण्यं शिशोरास्ये कृत्वायुर्धयेति सप्तभिराज्यं स्तनौ च पाययेत्॥
आ0। ......तद्धिरण्यं मुखे कृत्वा प्रपाययति। निधृष्टमधुसर्पिषी प्रपाययति सप्तमिर्मन्त्रैः॥
इ/3.10.6ऊ
इ3.10.7ऊ
जीव शरदः शतं पश्य शरदः शतमिति मूर्धनि निघ्राप्य स्वस्त्ययनं वाचयति॥7॥34॥(3।10)
दे0। जीव.....शतमिति मूर्धानं निघ्राप्य स्वस्त्ययनं वाचयति। बोधश्च मेत्यनुवाकं। स्वार्थेऽपि णिच् वाचयतीति। शिष्टं स्पष्टम्॥
आ0। जीव शरदः शतमिति मूर्धनि निघ्राणं। ततस्तन्त्रं समाप्य स्वस्त्ययनं वाचयति। बोधश्च मेत्यनुवाकं। पितुः स्वयं कर्तृकाण्येतानि प्राक् चूडाकरणात्। वाचयतीति स्वार्थे णिच्। यदापरः
कर्ता तदा पितुरेव वाचनम्॥
इ/3.10.7ऊ
एकादश खण्डः
इ3.11.1ऊ
सर्पपान्फलीकरणमिश्रान्दव्र्या जुहोति शण्डो मर्कोपवीतस्तौण्डुलेयः उलूखलश्चपलो नश्यतामितः स्वाहा॥ अनालिखन्नवलिखन किंवदन्त उलूखलाश्चपलो नश्यतामितः स्वाहा हर्यक्ष्णः कुम्भिः
शक्तिर्हन्ता चुपणीमुखश्चपलो नश्यतामितः स्वाहा॥ केशिना ·ालोमिनी कवकेशावकाशिन्यपेतो नश्यतामितः स्वाहेति॥1॥
दे0। .......जुहोति। बालकसूतिकयोरित्यर्थः। अशौचकाले अमी होमाः। अतश्च दृष्टार्था एव। फलीकरणं कम्बुकाः। तैर्मिश्रितान्सर्षपान् सञ्जूरिकामिश्रीकृत्य दव्र्या दशाहं यावत्सायंप्रातर्जुहुयात् शण्ड इत्यादिचतुर्भिमन्त्रैः॥
ब्रा0। परिसमूह्र पर्युक्ष्य परिस्तीर्य सर्षपान्फलीकरणमिश्रान्दव्र्या दर्भैः संमृष्टया सायंप्रातः शण्डो मर्क इत्यादिभिश्चतुर्भिरशुद्धे जुहुयात्॥
आ0। ततः सर्षपान्फलीकरणमिश्रान् सकम्बुकान्दव्र्या जुहोति सकृद्गृहीतान्स्वाहान्तैश्चतुर्भिः॥
इ/3.11.1ऊ
इ3.11.2ऊ
एवं सायंप्रातर्दशाहं जुहुयात्॥2॥35॥(3।11)
दे0। अनेन प्रकारेण मन्त्रचतुष्टयेन दशाहं जुहुयात्। अशौचकालं यावत्तावज्जुहुयादित्यर्थः॥
आ0। एवं सायंप्रातर्दशाहं सूतिकाशौचापनिवृत्तये होमो दृष्टार्थः॥
इ/3.11.2ऊ
द्वादश खण्डः
इ3.12.1ऊ
दशम्यां तस्मिन्नेवाग्नौ पयसि स्थालीपाकं श्रपयित्वा सर्वगन्धैः फलोत्तरैः सशिरस्कं स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोति कया नश्चित्र इति द्वाभ्यां कया तच्छृण्वे प्रजापतये स्वाहा प्रजापतये नहि त्वदन्य इति च द्वाभ्याम्॥1॥
दे0। दशम्यां व्यतीतायामशौचशुद्धावेकादशेऽहनि द्वादशेऽहनि तत्र नक्षत्रादिवैगुण्ये दिनान्तरे नामधेयं दशम्यां वा द्वादश्यां वापि कारयेत्। पुण्येऽहनि मुहूर्ते वा नक्षत्रे वा गुणान्वित इति स्मरणात्। औदयिक्या व्यवस्थया त्रयोदशमी तिथिर्गृह्रते। नन्वा न्याय्यादुत्थानादा न्याय्यायाच्च संवेशनादद्यतनकाल इत्यादिकया रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिर्विभातायामपिरजन्यामुदयात्प्राक् परिज्ञायते। अशौचानुवृत्तिदर्शनात्। तस्मिन्नेव सूतिकागारस्थे सूतिकाग्नौ पयसि स्थालीपाकं श्रपयित्वा सर्वौषधिप्रभृतिभिः सुगन्धिद्रव्यविशेषैरुपरिविनिहितमङ्गलार्थजातीफलपूगफलविशेषैः सशिरस्कं स्नापयित्वा। पुंलिङ्गनिर्देशात्स्त्रियं वर्जयति। अनुपभुक्तेन वस्त्रेण संछाद्य स्थालीपाकस्य संबन्धिभिरवदानैव्र्यत्ययेन स्थालीपाकेन जुहोति कया नाश्चित्र इति पञ्चाहुतीः॥
ब्रा0। एवं दशभ्यां रात्र्यामतीतायां नामधेयकरणं। तत्र यस्मिन्नेवाग्नौ जातकर्म कृतं तस्मिन्नेव पयसि स्थालीपाकं श्रपयेत्। काय प्रजापतये जुष्टं निर्वपामीति निर्वापः। आज्यभागान्ते शिशुं सर्वगन्धमिश्रोदकैर्जातीफलपूगफलादियुतैः सशिरस्कं स्नाप्याहतेन वाससा प्रच्छाद्य कया नश्चित्रः कस्त्वा सत्यः कया तच्छृण्वे प्रजापतये स्वाहा प्रजापते नह्रसा अमुष्येति षट् स्थालीपाकस्यावदाय प्रधानाहुतयः॥
आ0। दशम्यां व्युष्टायां जननाद्या दशमी तस्यामतीतायामशौचापगम इत्यर्थः। आ न्याय्यादुत्थानादारभ्याशौचापगमनं। उभयतोऽर्धरात्रमिति केचित्। तत्तु पुनरयुक्तं। रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिरिति गौतमीयस्मृतिदर्शनात्। प्रभातायामपि रात्रावनुदिते सूर्ये अशौचशेषं दर्शयति।
तेन चावशेषायामपि रात्रौ अशौच उत्पन्ने सा रात्रिर्भण्यते। दशमीग्रहणमशौच निवृत्त्युपलक्षणं। तस्मिन्नेवाग्नौ भूतकापगमेनासौ सूतिकाग्निः। तस्मिन्नेवाग्नौ तत्र च गृहे यावच्छिशोर्निष्क्रमणं गृहान्न कृतं तावदन्यत्रायुक्तं। पयसि स्थालीपाकमित्यादि गतार्थं। सशिरस्कमिति पुंलिङ्गग्रहणात् स्त्रिया एतन्न भवति। कया नश्चित्र इति स्थालीपाकस्य षडाहुतीर्जुहोति। नामव्यतिषङ्ग उक्तः॥
इ/3.12.1ऊ
इ3.12.2ऊ
अग्नेरायुरसीति तुल्यमा ललाटाभिमर्शनात्॥2॥
दे0। अग्नेरायुरसीत्यादिकमायुचेष्टया तुल्यमित्यतिदेशः। अवधिमाह। आललाटाभिमर्शनात्। तस्य ललाटमभिमृश्या·िानोः प्राण इति जपतीति वक्ष्यति। तदनन्तरमायुषेष्टया समानमित्यर्थः॥
आ0। .......तुल्यमायुषेष्टया॥
इ/3.12.2ऊ
इ3.12.3ऊ
तदेव नाम धीयते॥3॥
दे0। अत्रानुवाके असावित्यस्य स्थाने तदेव नाम धीयते। यत्तु जातकर्मणि कतं नान्यत्॥
आ0। अस्मिन्ननुवाके असौशब्दस्थाने तदेव नाम धीयते यज्जातकर्मणि॥
इ/3.12.3ऊ
इ3.12.4ऊ
अन्यादित्येके॥4॥
दे0। एके पुनराहुः। अन्यद्विधीयते। द्वे हि नाम्नी ब्रााहृणस्य कर्तव्ये। तत्र यद्रहस्यं जातकर्मण्युक्तं पुत्रे जाते नाम धीयते इति प्रयोजनं परैरभिचारे क्रियमाणेऽनुच्चारादप्रकटं प्रकटं त्वेकादशादौ व्यावहारिकं। तथा च श्रुतिः तस्माद्ब्रााहृणो द्विनामेति। किं तु तुल्यमायुषेष्टयेत्यर्थः॥
ब्रा0। तस्माद्ब्रााहृणो द्विनामार्धुक इति श्रुतिः। अन्यन्नाम लोकप्रसिद्धमिह कार्यम्॥
आ0। अन्यदिति केचिदाचार्याः। परमतमप्रतिषिद्धमनुमुर्तं। तथा च श्रुतिः। तस्माद्ब्रााहृणो द्विनामार्धुक इति। अतोऽन्यदेव। किं तु तुल्यम्॥
इ/3.12.4ऊ
इ3.12.5ऊ
प्राक् स्विष्टकृतः कांस्ये पूतमाज्यमासिच् हिरण्यं चाबन्धनीयमग्नेरायुरित्यवधाय तस्य जुहोतीन्द्रस्य
प्राण इति पञ्चभिः॥5॥
दे0। स्विष्टकृतः पूर्वं पूतं घृतं कंसपात्रे प्रक्षिप्य तत्र च हिरण्यं प्रक्षिप्याग्नेरायुरसीत्यादिना मन्त्रेण। कीदृशं सुवर्णं। यदाबन्धनीयं। बालस्य कण्ठादौ बन्धनार्हं। तस्या जुहोति। इन्द्रस्य प्राण इति पञ्चभिः स्वाहाकारान्तैः॥
इ/3.12.5ऊ
इ3.12.6ऊ
प्राक् संस्थितयजुषो ब्राहृा घृते हिरण्यमवपद्यते सर्वे च ऋत्विजो यदसर्प इति॥6॥
दे0। संस्थितयजुर्होमात्पूर्वं ब्राहृा घृते हिरण्यमवपद्यते। अवष्टभ्राति। यत्तद्बालगलादिबन्धनार्थं
घृते निहितं सर्वे चÏत्वजस्तदवष्टम्नन्ति। यदसर्प इत्यादि मन्त्रैः॥
ब्रा0। ततः स्विष्टकृदादि मनो ज्योतिरिति सप्तान्ते हुते ब्राहृणोऽन्येषां गृह्रकर्मण्यनुपयोगित्वात् कर्तैव यदसर्प इत्यैरयदित्यन्तेन कंसे घृतस्थं हिरण्यमवष्टभ्राति॥
आ0। ततः स्विष्टकृदादि कृत्वा प्राक् संस्थितयजुषो ब्राहृा घृते हिरण्यमवपद्यते। हस्तेनावष्टभ्राति। इह ब्राहृण ऋत्विजां चाभावात्कर्तावपद्यते॥
इ/3.12.6ऊ
इ3.12.7ऊ
पावमानेनेत्युद्धृत्य देवा आयुष्मन्त इति यजमानाय प्रयच्छति॥7॥
दे0। आज्यात्सुवर्णं पावमानेनेत्युद्धृत्य यजमानाय प्रयच्छति देवा आयुष्मन्त इत्यादिमन्त्रैः॥
ब्रा0। पावमानेन त्वा बृहता त्वाग्नेस्त्वा मात्रयेति त्रिभिरसा इत्यन्तैरुद्धरति। अत्रासौशब्दस्थाने शिशोरामन्त्रितप्रथमान्तं नाम ग्राह्रं। यथा। उपांशोर्वीर्येणोद्धरामि देवस्वामिन्। शुक्रस्य वीर्येर्णोत्सृजामि यज्ञमिव। जीवनस्यायै सोमशर्मन्॥ देवा आयुष्मन्त इति षड्भिर्यजमानाय प्रयच्छति। अत्रासौशब्दस्थाने शिशोः प्रथमान्तं नाम ग्राह्रम्॥
आ0। पावमानेनेति त्रिभिरुद्धृत्यासौशब्दस्थाने संबुद्ध्यन्तं शिशोर्नामानुदात्तत्वादसौशब्दस्य। केचिद्धिरण्यस्य नाम गृह्णन्ति तदभिधानत्वात्। तदयुक्तं। इदानीं हिरण्यशब्द एव पठ¬ेत। किं
सर्वनाम्ना हिरण्यं तु यजमानेनाध्यास्यते। यथा वध्यमुद्धरत्युत्सृजत्युन्नयत्येवरुं नमेतदुद्धरत्युत्सृजत्युन्नयतीति। एनमिति पुंलिङ्गेन यजमानमन्वादिशति। देवा आयुष्मन्त इति षड्भिर्यजमानाय प्रयच्छति हिरण्यं। अत्रोदात्तत्वादसौशब्दस्थाने प्रथमान्तं नाम॥
इ/3.12.7ऊ
इ3.12.8ऊ
तत्पिबति निरवधयोद्धिरण्याद् घृतम्॥8॥
दे0। तत्सुवर्णाविरुाावमाज्यं बालकः पिबति। तच्च निःशेषेणावधयेत् पिबेत्॥
ब्रा0। ततस्तद्धिरण्याद्घृतं प्रक्षाल्य तूष्णीं पाययति कंसस्थशेषं च॥
आ0। हिरण्याद्घृतं माणवकः पिबति। निरवधयेन्निष्पिबेदिति॥
इ/3.12.8ऊ
इ3.12.9ऊ
प्रक्षाल्येममग्न इति हिरण्यमाबध्नाति॥9॥
दे0। हिरण्यलग्नं घृतं प्रक्षाल्यैतद्धिरण्यं बध्नाति बालस्य गलादौ। इममग्न इत्यातिना॥
ब्रा0। प्रक्षाल्य हिरण्यमिममग्न इति शिशोः कण्ठे आबध्य॥
आ0। प्रक्षाल्य घृतमिमग्न इति माणवकस्य कण्ठादौ बध्नाति॥
इ/3.12.9ऊ
इ3.12.10ऊ
तस्य ललाटमभिमृश्या·िानोः प्राण इति जपति॥10॥
दे0। तस्य ललाटतटं हस्तेन स्पृष्ट्वा जपत्य·िानोः प्राण इत्यादिकम्॥
ब्रा0। अ·िानोः प्राण इति त्रिभिर्ललाटमभिमृश्य जपति॥
इ/3.12.10ऊ
इ3.12.11ऊ
अङ्गादङ्गात्संभवसि ह्मदयादभि जायसे। आत्मा वै पुत्रनामासि जीव शरदः शतं पश्य शरदः शतमिति मूर्धनि निघ्राप्य स्वस्त्ययनं वाचयति॥11॥
दे0। अङ्गादङ्गादित्यादिना बालस्य शिङ्घनं कृत्वा स्वस्त्ययनं वक्ति। क्वचिन्निघ्राष्येति पाठः। तत्र स्वार्थे णिच्। पित्रसंनिधौ वा मातरं प्रयुज्येति केचित्। ऋत्विग्वा पितुः प्रयोजको विवक्षितः॥
ब्रा0। एतदग्नेरायुरसीति हिरण्यावधानादिललाटाभिमर्शनादनन्तरमङ्गादङ्गादिति पितरं मूर्धनि निघ्राप्य संस्थितयजुर्हुत्वा। बोधश्चेति स्वस्त्ययनं। बहु सर्पिष्मदन्नं ब्रााहृणान्भोजयेत्॥
आ0। एतत्तुल्यमा ललाटाभिमर्शनात्। ततः संस्थितयजुः। अङ्गादङ्गादिति पंक्त्या मूर्धनि निघ्राय गन्धमुपादाय स्वस्त्ययनं वाचयति। ये निघ्राप्येति पठन्ति माणवकस्य पितरं निघ्रापयन्ति। तमेव स्वस्त्ययनं वाचयन्ति॥
इ/3.12.11ऊ
इ3.12.12ऊ
एवमत ऊध्र्वं विप्रोष्यैवं मासि मासि स्थालीपाकस्येष्ट्वा जातकर्मणा वाज्यस्यैवं संवत्सरम्॥12॥
दे0। अतो नामकारणादूध्र्वं यदा प्रवासादायाति पिता तदानेनैव प्रकारेण मूर्धन्यभिनिघ्राणं कुर्यात्।
एवेमेव जन्मदिने स्थालीपाकेन जातकर्मविधिवदाज्येन्ष्ट्वा निघ्राणं मूर्धनि कुर्यात्। एवं संवत्सरं। प्रतिमासमिमां कर्तव्यतां संवत्सरं यावत्कुर्यात्॥
ब्रा0। एवमत ऊध्र्वं प्रवासादागत्या मौञ्जीबन्धनात्पिताङ्गादङ्गादिति मूर्धन्यवघ्राय स्वस्त्ययनं कुर्यात्। एवं प्रतिमासं यावदब्दं नामधेयविधिना पयसि स्थालीपाकस्येष्ट्वावघ्राणं स्वस्त्ययनं ब्रााहृणभोजनं च जातकर्मविधिना वाज्यस्य प्रतिमासं होमः। विप्रोष्य न तु होमः॥
आ0। एवमत ऊध्र्वं विप्रोष्य प्रवासादागत्य मूर्धनि निजिघ्रति अनेनैव मन्त्रेण। एवं मासि मासि स्थालीपाकस्येष्ट्वा निघ्राय स्वस्त्ययनं वाचयति। स्थालीपाकग्रहणात्पयस्यन्द नादरः। जातकर्मविधिनावाज्यस्येष्ट्वा निघ्राय वाचयति। आज्यग्रहणं स्थालीपाकत्य प्रकृतत्वात्। जातकरणहोमो नामकरणहोमो वा मासि मासि यावत्संवत्सरम्॥
इ/3.12.12ऊ
इ3.12.13ऊ
मांसं तु नाश्नीतः॥13॥
दे0। मांसं तु बालस्य माता पिता च संवत्सरं यावन्नाश्नीतः॥
ब्रा0। संवत्सरं तु दम्पत्योर्मांसाशननिषेधः॥
इ/3.12.13ऊ
इ3.12.14ऊ
समाप्ते संवत्सरेऽजाविभ्यां वाग्निधान्वन्तरी इष्ट्वा सर्पिष्मदन्नं ब्रााहृणान्भोजयेत्॥14॥36॥(3।12)
दे0। प्रथमे संवत्सरे समाप्ते अजेनाग्निमविना धान्वन्तरिमिष्ट्वा। वाशब्दादाज्येन स्थालीपाकेन वा। सर्पिषा प्रचुरेण युक्तमन्येन च पवित्रेण दधिप्रभृतिनान्नं ब्रााहृणान्भोजयेत्। तैः सुप्रीतैः
स्वस्त्ययनाशीः प्रभृतिभिरनयेदेनम्॥
ब्रा0। समाप्ते संवत्सरे बालस्य जन्मदिने जातकर्मविधिनाज्यस्य नामधेयवत्पयसि स्थालीपातस्य वा यजेताथवा छागेनाÏग्न मेषेण धान्वन्तरिमिज्यात्॥
आ0। समाप्ते संवत्सरे जन्मनक्षत्रे अजाविभ्यामग्निधान्वन्तरी इष्ट्वा। सत्यपि समासे द्रव्यदेवताविभागः। अजेनाग्निमविना धान्वन्तरिं विभागश्च सूत्रितत्वान्नादुपपन्नः। वा शब्दौ हविर्विकल्पार्थः। तेनाजाविभ्यां वा स्थालीपाकेन वा आज्येन वा। सर्पिर्विपक्वं। सर्पिष्मत् संयार्धादिः॥
दे0। एवं गर्भोधानादि नामकरणान्तं व्याख्यातं। अनन्तरं चूडाकर्म सूत्रकारेणोक्तं। स्मृतिस्तु हि निष्क्रमणान्नप्राशने नामकरणानन्तरमुक्ते।
तृतीये मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात्।
षष्ठे मास्यन्नप्राशनं कर्तव्यमित्यादीनि।
तेन ते अप्यवश्यकर्तव्ये। चन्द्रदर्शनं चातो गृह्रान्तराद्यनुसारेणेहापि दर्शयति॥
इ/3.12.14ऊ
त्रयोदश खण्डः
इ3.13.1ऊ
तृतीयेऽर्धमासे दर्शनामादित्यस्य॥1॥
दे0। जन्मनः प्रभृति मासद्वये व्यतीते तृतीयस्य मासस्य प्रथमार्थे व्यतीते आदित्यस्य दर्शनं बालः कारयितव्यः। तत्रेयमितिकर्तव्यता॥
ब्रा0। निष्क्रमणान्नप्राशनविधिमाचार्यो नाह। श्रोत्रियास्तु पारंपर्येण पठन्ति।
तृतीये मासि कर्तव्यं शिशोः सूर्यस्य दर्शनम्।
चतुर्थे मासि कर्तव्यं तथा चन्द्रस्य दर्शनम्॥
आ0। निष्क्रमणान्नप्राशनं च स्मृतिषु कर्तव्यतयोपदिष्टं। इह तु विशेषहोमो नास्ति। तेन नानादेशहोमस्त्रिकादिभिरत्र। अन्यदाचारप्रसिद्धं कर्तव्यम्॥
इ/3.13.1ऊ
इ3.13.2ऊ
पुण्याहे पर्वणि वोदिते त्वादित्ये रथचक्रमात्रं स्थण्डिलमुपलिप्य तस्मिन्यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा तरणिर्दिवो रुक्म उदुत्यं चित्रं देवानामित्याज्यस्य जुहोति॥2॥
दे0 पुण्ये दिने ज्योतिः शास्त्रपरिशुद्धे पर्वणि वा सुनक्षत्रादियोगिनिदर्शनं कारयितव्यः इत्येकस्यैव पर्वण इतरतिथिसमुदायेन सह विकल्पदर्शनादुत्कर्षातिशयः प्रतीयते। उदिते त्वादित्ये रथचक्रपरिमाणं स्थण्डिलमुपलिप्य गेहाङ्गने आदित्यरश्म्यलंकृते। तत्रोपलिप्ते प्रतिष्ठाप्य लौकिकमÏग्न यथोक्तमुपसमाधानमुद्धतावोक्षणपरिसमूहनपर्युक्षणपरिस्तरणपवित्रकरणाज्यविलयनाज्यवीक्षणाग्न्युपस्थानरूपं कृत्वा। ततो जयप्रभृतिभिर्जयाकारैराघाराज्यभागान्तैर्हुत्वा तरणिर्वि·ादर्शत इति दिवो रुक्म इत्युदुत्यमिति चित्रं देवानामिति चतसृभिराज्यस्य जुहोति॥
ब्रा0। रथचक्रमात्रं सावित्रवदष्टाचत्वारिंशदङ्गुलमालिख्योदिते त्वादित्ये तमभ्यर्चयेत्। मित्राय
जुष्टं निर्वपामीति निर्वापः। आज्यभागान्तं हुत्वा तरणिः......इति चतरुाः रुाुवेणाज्याहुतीर्जुहुयात्॥
इ/3.13.2ऊ
इ3.13.3ऊ
मित्रो जनान्प्र स मित्रेति स्थालीपाकस्य॥3॥
दे0। जुहोतीत्यनुषज्यते। मित्रो जनान्प्र स मित्रेति च द्वाभ्यां स्थालीपाकस्य जुहोति॥
इ/3.13.3ऊ
इ3.13.4ऊ
अभ्यावर्तस्वेति कुमारमभ्युदानयन्ति॥4॥
दे0। अभ्यावर्तस्वेत्यादिना मन्त्रेण कुमारमभिमुखं कृत्वोन्नमय्य नयति पिता गुरुर्वा॥
ब्रा0। अभ्यावर्तस्वेति सुमृष्टम्॥
इ/3.13.4ऊ
इ3.13.5ऊ
द्रष्ट्रे नम इत्युपस्थानमादित्यस्याद्दश्रन्नस्येति च ॥5॥
दे0। द्रष्ट्रे नम उपद्रष्ट्रे नम इत्यादिना बालस्य पितादित्यस्योपस्थानं करोति। बालं संमुखं
कृत्वोत्सङ्गे॥
ब्रा0। द्रष्ट्रे नम इत्युपस्थानमदृश्चन्नित्यनेन च॥
इ/3.13.5ऊ
इ3.13.6ऊ
सर्पिष्मदन्नं ब्रााहृणान्भोजयेत्॥6॥37॥(3।13)
दे0। बहुघृतदध्यादियुक्तं च हविष्मदन्नं ब्रााहृणान्भोजयेत्॥
इ/3.13.6ऊ
चतुर्दश खण्डः
इ3.14.1ऊ
एवं चन्द्रदर्शनम्॥1॥
दे0। एवंशब्देन रथचक्रपरिमाणस्थण्डिलोपलेपनान्तस्यातिदेशः। विशेषमाह॥
इ/3.14.1ऊ
इ3.14.2ऊ
मक्षू धाता भूयो जात इति द्वाभ्यामाज्येन चतुर्गृहीतेनाज्यभागान्ते जुहोति॥2॥
इ/3.14.2ऊ
इ3.14.3ऊ
आप्यायस्व सं ते पयांसीति द्वाभ्यां स्थालीपाकस्य॥3॥
ब्रा0। आज्यभागान्त आप्यायस्व सं ते पयांसीति चरोः प्रधानद्वयं हुत्वा। केषांचिन्मते। अभ्यावर्तस्वेति बालमभ्युदानयेत्॥
इ/3.14.3ऊ
इ3.14.4ऊ
नवो नव इत्युपस्थानम्॥4॥
दे0। नवो नव इत्यनेन मन्त्रेण चन्द्रमस उपस्थानं कर्तव्यम्॥
ब्रा0। यथादित्यं नवो नव इति द्वाभ्बामुपस्थानम्॥
इ/3.14.4ऊ
इ3.14.5ऊ
प्रकाशो दक्षिणा॥5॥38॥(3।14)
दे0। प्रकाश आदर्शो दक्षिणा दातव्या॥
ब्रा0। अधीवास उत्तरं वासो दक्षिणा। ऋतुतिथियागादितन्त्रसमाप्तिः॥
इ/3.14.5ऊ
पञ्चदश खण्डः इ3.15.1ऊ षष्ठे मासेऽन्नप्राशनं दन्तेषु वा जातेषु॥1॥
दे0। प्रसवादारभ्य षष्ठे मासे बालस्यान्नप्राशनं कर्तव्यं दन्तेषु वा जातेषु॥
इ/3.15.1ऊ
इ3.15.2ऊ
सर्वाणि हविष्यान्नानि संयूय। आयुर्दा देव घृतप्रत्तीक इति हुत्वान्नपते अन्नस्येत्येतयैव कुमारमन्नं प्राशयेत्॥2॥36॥(3।15)
ब्रा0। संयूय साधयित्वा।.........अन्नपतये जुष्टं निर्वपामीत्यत्रान्नप्राशने निर्वापः। आज्यभागान्ते आयुर्दा इति रुाुवेणाज्यस्य जुहोत्यन्नपत इति स्थालीपाकस्य। तत ऋतुतिथ्याद्याश्रावितान्तं संस्थाप्य सर्वान् रसान्सर्वमन्नं चैकत उद्धृत्यान्नपत इत्यनयैव कुमारमन्नं प्राशयेत्॥
इ/3.15.2ऊ
षोडश खण्डः
इ3.16.1ऊ
तृतीयस्य वर्षस्य भूयिष्ठगते चूडाः कारयते॥1॥
दे0। जन्मनः प्रभृति यस्तृतीयो वर्षस्तस्य भूयिष्ठभागे गते सति चूडाकर्म कर्तव्यं। अर्धमवधिं कृत्वा सप्तमो मासो भूयानष्टमस्तु भूयिष्ठः। तस्मिन्गते नवमे मासि कर्तव्यं।
दक्षिणास्नानादिकमपि। न स्वयं पित्रा कर्तव्यमिति णिचोक्तम्॥
ब्रा0। तृतीये वर्षे चूडाः पञ्चमे वेति शङ्गलिखितौ। तृतीयस्य वर्षस्य मासाष्टकेऽतीते भूयिष्ठमित्याहुः॥
आ0। जन्मप्रभृति तृतीयस्य वर्षस्य भूयिष्ठेऽष्टममासि गते चूडाः शिखाः कारयते। विद्वानपि पिता अन्येन कत्र्रा विदुषा॥
इ/3.16.1ऊ
इ3.16.2ऊ
दक्षिणतः कपुजा वसिष्ठानाम्॥2॥
दे0। कपुजा चूडा। सा वसिष्ठगोत्रसंभूतानां दक्षिणे शिरसो भागे कर्तव्या॥
आ0। तावदुच्यते यादृशीः शिखाः। दक्षिणतः शिरसो दक्षिणे भागे एका कपुजा शिखा वसिष्ठानां। येषां वसिष्ठप्रवरस्तद्गोत्राः सर्व एव वसिष्ठाः। चतसृषु पक्षिकास्वाधीताः॥
इ/3.16.2ऊ
इ3.16.3ऊ
उभयतोऽत्रिकश्यपानाम्॥3॥
दे0। उभयेः शिरसो दक्षिणोत्तरभागयोरत्रिगोत्रे कश्यपगोत्रे च जातानां शिखा कर्तव्या॥
आ0। शिरस उभयतः पार्·ातोऽत्रिप्रवराणां कश्यपप्रवराणां च॥
इ/3.16.3ऊ
इ3.16.4ऊ
मुण्डा भृगवः॥4॥
दे0। भृगुगोत्रजाः मुण्डा निःशिखाः कर्तव्याः॥
आ0। सर्वे शिर अशिखाः। सप्तस्वपि पक्षिकास्तु॥
इ/3.16.4ऊ
इ3.16.5ऊ
पञ्चचूडा अग्निरसः॥5॥
दे0। आङ्गिरसगोत्रे ये जातास्ते पञ्चचूडाः कर्तव्याः॥
आ0। पञ्चशिखा अङिगरसः पञ्चदशविधा अपि॥
इ/3.16.5ऊ
इ3.16.6ऊ
वाजिमेके॥6॥
दे0। वाजिमेके इच्छन्त्याङ्गिरसानां। वाजिः केशपंक्तिः॥
आ0। वाजिमेके मन्यन्ते। केशपंक्तिमङ्गिरसां चूडापंकिं्त वा॥
इ/3.16.6ऊ
इ3.16.7ऊ
मङ्गलार्थ शिखिनोऽन्ये॥7॥
दे0। ये कथितास्तेभ्याऽन्येऽगस्त्यवि·ाामित्रादिगोत्रजास्ते शिखिनो भवन्ति। किमर्थं। मङ्गलार्थं। निःशिखत्वं त्वमङ्गलधर्मोऽरिष्टहेतुः। तथा च पठन्ति। अमेध्यमेतच्छिरोऽशिखं। यत्र बाणाः संपतन्ति कुमारा विशिखा इवेति निन्दावादः। यन्मूलं शिखाकर्मस्मरणम्॥
आ0। सशिखा अपि भवन्त्युक्तव्यतिरिक्ता वि·ाामित्रागस्त्याः। मङ्गलं धर्मस्तदर्थं। यतः पठ¬ते। अमेध्यं वा एतच्छिरो यदशिखम्॥
इ/3.16.7ऊ
इ3.16.8ऊ
यथाकुलधर्मं वा॥8॥
दे0। कुलधर्मानतिक्रमेण वा एकशिखत्वादि कर्तव्यं। कुलाचाराणामपि धर्मत्वेन स्मरणात्----
येनास्य पितरो याता येन याताः पितामहाः।
तेन यायात्सतां मार्गे तेन गच्छन्न रिष्यति॥
इ/3.16.8ऊ
इ3.16.9ऊ
शुद्धपक्षस्य पुण्याहे पर्वणि वा यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा। आयमगात्सविता क्षुरेणोष्णेन वाय उदकेन एहि। आदित्या रुद्रा वसवः सचेतसः सोमस्य राज्ञो वपत प्रचेतस इत्युष्णा अपोऽभिमन्त्रयते॥6॥
ब्रा0। अत्राज्यं हविः। आज्यभागान्तं हुत्वा आयमगादित्युष्णा अपोऽभिमन्त्रयेत्॥
शुद्धपक्षस्येति व्याख्यातं। आज्यभागान्तं हुत्वा आय0.....ऽभिमन्त्रयते॥
इ/3.16.9ऊ
इ3.16.10ऊ
उष्णाश्च शीताश्च समेत्य सर्वा बृहस्पतिः सविता सत्यधर्मा तदनुमन्यताम्॥ आर्ददानव इत्यभ्युन्देत्। आद्र्रदानवः स्थ जीवदानवः स्थोन्दतीरिहैनमवताप उन्दन्तु जीवसे दीर्घायुत्वा वर्चस इति॥10॥
दे0। उष्णाश्चेत्यादिना वर्चस इत्यन्तेनाभ्युन्देत्। उन्दीक्लेदने। माणवकस्य शिरोऽभिमन्त्रिताभिरद्भिः प्रक्षालयेदित्यर्थः॥
ब्रा0। उष्णाश्च शीताश्चाद्र्रदानव इति च वर्चस इत्यन्तानुमन्त्रितोदकेन कुमारस्य केशान् क्लेदयेत्। उन्दन्तीरिहैनमवतेत्येव प्रयोगः॥
आ0। उष्णाश्च शीताश्चेत्यादिना दीर्घायुत्वायय वर्चस इत्यन्तेनाभ्युन्देच्छिरो माणवकस्य॥
इ/3.16.10ऊ
इ3.16.11ऊ
दक्षिणे केशान्त ओषधे त्रायस्वेति दर्भमन्तर्धाय स्वधित इति क्षुरेणाभिनिधाय येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान्। तेन ब्राहृाणो वपतेदमद्यायुष्माञ्जरदष्टिर्यथासदयमसौ। येन धाता बृहस्पतरेग्नेरिन्द्रस्य चायुषेऽवपत्। तेनास्यायुषे वप सुश्लोक्याय स्वस्तये॥ येन पूषा प्रजापतेरग्नेः सूर्यस्य चायुषेऽवपत्। तेनास्यायुषे वप सुश्लोक्याय स्वस्तये॥ येन भूयश्च रात्री ज्योक्पश्या च
सूर्यम्। तेनास्यायुषे वप सुश्लोक्याय स्वस्तय इति प्रदक्षिणां प्रतिदिशं प्रतिमन्त्रं दर्भक्षुरकर्म॥11॥
दे0। शिरसो दक्षिणभाग ओषधे त्रायस्वैनमिति मन्त्रेण दर्भमन्तर्धाय स्वधिते मैनं हिंसीरित्यनेन क्षुरेणाभिनिधायावष्टभ्य सदर्भान् केशान्येनावपदित्यादिभिश्चतसृभिरनुष्टुब्भिर्दक्षिणभागादारभ्य प्रदक्षिणं यथा भवति तथा प्रतिदिशं प्रतिमन्त्रं दर्भक्षुरकर्म कर्तव्यमृत्विजा। आद्यथा दक्षिणभागे द्वितीयया पश्चिमभागे तृतीययोत्तरÏस्मश्चतुथ्र्या त्वग्रे॥
ब्रा0। ततो दक्षिणतः शिरसि प्रागग्रं दर्भं केशान्तर्हितमोषधे त्रायस्वैनमिति निदधाति। स्वधित इति केशेषूपरि क्षुरं प्रागग्रमेव। येनावपदति किंचिन्मात्रं वपति। असौशब्दस्थाने कुमारस्य प्रथमान्तं नाम। यथा। जरदष्टिर्यथासदयं विष्णुशर्मा। प्रपततो मा ते केशाननुगादिति सुह्मत् परिगृह्णाति।
ततः पश्चार्धे एवमेव दर्भक्षुरावुदगग्नौ निधाय येन धातेति वपेत्। उत्तरतश्चैवं प्रागग्रौ दर्भक्षुरौ निधाय येन पूषेति वपेत्। पूर्वार्धं एवमेवोदग्रौ निधाय येन भूयश्चेति क्षुरकर्म॥
आ0। दक्षिणे केशान्ते दक्षिणतः केशान्मूले। ओषधे त्रायस्वैनमिति दर्भमन्तर्धाय विविच्य केशान्। स्वधित इति क्षुरेणाभिनिधाय दर्भे। येनावपदिति त्रिष्टुभा नामान्तया वपति सदर्भान्केशान्। प्रथमान्तं माणवकस्य नाम । प्रथमान्तं माणवकस्य नाम। ततः पश्चार्धे शिरस ओषधे त्रायस्वैनमिति दर्भेणान्तर्धानं। स्वधित इति क्षुरेणाभिनिधानं। येन धाता बृहस्पतेरिति वपनं। एवमुत्तरतः। येन पूषेति तु वपनं। एवं पुरस्ताद्दर्भक्षुरकर्म येन भूयश्चेत्यनुष्टभा वपनं। तदेताश्चतरुा ऋचः पठिताः॥
इ/3.16.11ऊ
इ3.16.12ऊ
यत्क्षुरेण वर्तयता सुपेशसा वप्तर्वपसि केशान्। शुन्धि शिरो मास्यायुः प्रमोषीरिति लौहायसं क्षुरं केशवापाय प्रयच्छति॥12॥
दे0। यत्क्षुरेणेत्यादियजुषा नापिताय क्षुरं ददाति। लोहायसमिति शास्त्रान्तरजातिविशेषस्य संज्ञा नापितः प्रसिद्धः। अन्ये तु क्षुरग्रहेणेनैव लोहत्वस्य सिद्धत्वास्तुत्यर्थं लोहग्रहणं चेत्याहुः। अतितैक्ष्ण्यादिगुणभाजा प्रशस्ततमेनेत्यर्थः॥
आ0। एहऋत्विङ्मन्त्रवत्कृत्वा नापिताय क्षुरं प्रयच्छति यत्क्षुरेणेति यजुषा। लौहायसं न ताम्रायसम्॥
इ/3.16.12ऊ
इ3.16.13ऊ
मा ते केशाननुगात्तेज एतत्तथा धाता दधातु ते। तुभ्यमिन्द्रो बृहस्पतिः सविता वर्च आदधुरिति प्रपततोऽनुमन्त्रयते॥13॥
दे0। अनया पुरस्ताद्बृहत्या केशान्पततः अनुमन्त्रयते॥
इ/3.16.13ऊ
इ3.16.14ऊ
ब्रा0। मा ते केशानिति प्रपततः केशान् कुमारमीक्षमाणो जपति॥
सुह्मत्परिग्राह्रानुप्यमानान्हरितगोमये समवचिनोति॥14॥
दे0 सुह्मदैव पतन्तः केशा ग्राह्रा इति नियमः। तानुत्यमानान्मुण्डामानान्पततः हरितगोमयेन संमिश्रीकृत्य पिण्डीकरोति क्वचिदाचारः॥
ब्रा0। सुह्मत्तानाद्र्रगोमये एकीकृत्य स्थापयति॥
आ0। उप्त्वानुप्यमानं प्रपततः सुह्मद्गृह्णाति। एवं सुह्मत्परिग्राह्रा भवन्ति। स च सुह्मद्धरितगोमये। आद्र्रगोमये। समवचिनोति। मिश्रयित्वा पिण्डं करोति॥
इ/3.16.14ऊ
इ3.16.15ऊ
उप्त्वाय राज्ञो वरुणस्य केशान्सोमो धाता सविता विष्णुरग्निः। तेभ्यो निधानं बहुधान्वविन्दन्नन्तरा द्यावापृथिवी अवस्युरिति प्रागुदीचीं हियमाणाननुमन्त्रयते॥15॥
दे0। जनया वै·ादेव्या त्रिष्टुभा मित्रेण प्रागुदीच्यां दिशि नीयमानन्केशाननुमन्त्रयते कर्ता॥
ब्रा0। वपने समाप्ते उप्त्वाय राज्ञ इति प्रागुदीचीं दिशं सुह्मदा नीयमानाननुमन्त्रयते॥
इ/3.16.15ऊ
इ3.16.16ऊ
अरिक्ते पर्याश्रेषयत इति श्रुतिः॥16॥
दे0। अरिक्ते दूर्वालतावनस्पतिप्रभृतौ शीतप्रदेशे समाश्लेष्यते केसान्मित्रमिति श्रुत्या प्रतिपादितं। श्रुतिमूलमेतत्कर्मेति प्रदर्शितं। यत्र बाणा निष्पतन्ति कुमारा विशिखा इवेत्यादिना॥
ब्रा0। तानूषरे लतादिबहुलं शुचौ देशे वलित्वा सुह्मत्स्थापयति। आज्येनाग्नेय्या वै·ादेव्या वा प्रधानम्॥
आ0। अरिक्ते पर्याश्लेषयते। सुह्मदोऽयमुपदेशो यदरिक्तसमाश्लेषणं। इह चाङ्गानां दर्शनात्प्रधानस्य चादर्शनाद्देवताप्रज्ञायमाना आग्नेय्या यजेद्वै·ादेव्या वा। सत्यपि विकल्पे वै·ादेव्या युक्तं धातृप्रभृतीनां देवतानां प्रदर्शनात्। एवविधानात् स्विष्टकृदाज्येनापि भवत्युभयार्थत्वात्॥
इ/3.16.16ऊ
इ3.16.17ऊ
कत्र्रे वरं ददाति॥17॥
दे0। ऋत्विजे वरं दक्षिणा यथाशक्ति ददाति यजमानः। चतुर्वर्षा गौर्दक्षिणात्रेत्याहुः॥
ब्रा0। स्विष्टकृति हुत होमकत्र्रे वरदानम्॥
आ0। षष्ठौही चतुर्वर्षा गौर्वर इत्युच्यते॥
इ/3.16.17ऊ
इ3.16.18ऊ
पक्ष्मगुणं तिलपशलं केशवापाय प्रयच्छति॥18॥
दे0। सूक्ष्मैरुणीगुणैर्वेष्टितं तिलपात्रं नापिताय ददाति॥
ब्रा0। संस्थिते केशग्रथनयोग्यं नीललोहितादिसूत्रं कौमारं तिलमाषकृसरे च नापिताय प्रयच्छति॥
आ0। पक्ष्मगुणमौर्णगुणवेष्टितं तिलपूर्णं शरावं च केशवापाय नापिताय प्रयच्छतीत्याख्यातनिर्देशः।
न तु लिघौलिङी। तस्मान्नायं ददाति वत्स्यः। तेनात्रात्पूर्वं दानं न भवति। ददातिसादृश्यात्पात्राय चतुर्थी॥
इ/3.16.18ऊ
इ3.16.19ऊ
सर्पिष्मदन्नं ब्रााहृणान्भोजयेत्॥19॥40॥(3।16 )
दे0। गतार्थम्॥
ब्रा0। धृतबहुलं ब्रााहृणानाशयेत्॥
दे0। चूडाकरणेऽङ्गनिर्देशात्प्रधानानभिधानाप्रधानमाज्येनाग्रैय्या वै·ादेव्या वा कर्तव्यमित्याहुः। यद्धोपसमाधायत्यनेनाज्यभागान्तरमुक्तं तदेव प्रधानं। येषां त्वग्निसंस्कारमात्रमुपसमाधानं तेषां पूर्वं प्रधानम्॥
आ0। केचिद्यथोक्तमुपसमाधायेत्येतदाज्यभागान्तं व्याचक्षते। जयप्रभृतिभिर्जुह्वति पुनर्जयादिहोमः। जयादीनेव प्रधानं मन्यन्ते। ते प्रष्टव्याः। उपसमाधानशब्देनाज्यभागान्तत्वं सिद्धं।
तैर्देवताप्रज्ञायमानेत्यस्य विषयो वक्तव्यः। दक्षिणाग्नेरेकोल्मुकमुपसमाधायेत्वाज्यभागान्तं प्राप्नोति। तस्मादुपसमाधानशब्देनाग्नेर्योग्यताकरणमुच्यते। समाधानं
तावत्स्थापनं तत्समीपे। अन्यच्च होमसाधनसंज्ञं क्रियते। इत्युपशब्दार्थः। यथोक्तशब्देन सेतिकर्तव्यता कंसमन्त्रकमुच्यते। अग्नेर्लक्षणसमाधानमारभ्य यावदाज्येनेक्षणमुपसमाधानं। जयप्रभृतिभिर्हुत्वेत्यनेन तन्त्रमुपलक्षयति। प्रभृतिशब्दो ह्रधस्तमुपलक्षयति गुरु सूत्रकरणात्। तस्माद्यथैवास्माभिव्र्याख्यातं तथैव साधीयः॥
इ/3.16.19ऊ
इति लौगाक्षिसूत्रे गृह्रपञ्चिकायां तृतीयोऽध्यायः॥
चतुर्थोऽध्यायः
[सम्पाद्यताम्]प्रथम खण्डः
इ4.1.1ऊ सप्तमे वर्षे ब्रााहृणस्योपायनम्॥1॥
दे0। जन्मनः प्रभृति सप्तमे वर्षे गर्भाष्टमे ब्रााहृणस्योपायनमाचार्यसमीपगमनमेखलाबन्धनसंस्कारः प्रधानभूतः। तस्मिन्हि सति श्रुतिस्मृत्यधिकारी भवत्युत एव द्वितीयं जन्म स्मर्यते--
प्रथमं मातृतो जन्म द्वितीयं मौञ्जिबन्धनात्।
अत्रास्य माता सावित्री पिता त्वाचार्य उच्यत इति॥
आ0। सप्तमे वर्षे ब्रााहृणस्योपायनं जन्मावधिं कृत्वा। उपायनमुपनयनं मोञ्जीबन्धनं बटुकरणं व्रतबन्ध इ त्यनर्थान्तरं। ब्रााहृस्येति प्रागप्युपयनाद्ब्रााहृणोऽसौ शूद्रेण हि समस्तादित्ययमर्थवाद एव ब्राहृभिव्र्याहारप्रतिषेधापरम्॥
इ/4.1.1ऊ
इ4.1.2ऊ
नवमे राजन्यस्य॥2॥
दे0। आवेष्ट¬धिकरणनयेन राजा क्षत्रियः। तस्यापत्यं राजन्यः क्षत्रियदारकः। तस्य जन्मप्रभृति नवमे गर्भाद्दशमे उपायनम्॥
इ/4.1.2ऊ
इ4.1.3ऊ
एकादशे वैश्यस्य॥3॥
दे0। समानं पूर्वेण॥
इ/4.1.3ऊ
इ4.1.4ऊ
आ षोडशाद्ब्रााहृणस्यानतिक्रम आ द्वाविंशाद्राजन्यस्या चतुर्विंशाद्वैश्यस्य॥4॥
दे0। सर्वत्राभिविधावाङ्। ब्रााहृणस्य षोडशवर्षान्तं यावदुपायनकालानतिक्रमः। एवं द्वाविंशान्तं यावत्क्षत्रियस्य। आ चतुर्विंशाद्वैश्यस्य॥
आ0। सप्तमाद्वर्षादारभ्य यावत् षोडशस्तावदुपनयनकाल इत्यर्थः। केवलं प्रथमकल्पानुकल्पापकल्पकृतो विशेषः। न च प्राक् षोडशाद्वर्षात्क्रियमाणे किंचित्प्रायश्चित्तं। आ इत्यभिविधौ व्याप्तिन्यायात्। द्व्यधिका वैश्यस्येति गौतमवचनाद् द्व्याविंशतिद्व्यधिका पूर्णा चतुर्विंशतिर्भवति। तेन यावच्चतुर्विंशतिस्तावद्वैश्यस्यानतिक्रमः। उपनयनकालोऽस्या षोडशादुपनयनकालो ब्रााहृणस्य नातिक्रामति। सप्तदशे प्राप्ते त्वतिक्रमः। एवमा द्वाविंशादा चतुर्विंशाद्राजन्यवैक्ष्ययोः। अत ऊध्र्वमतिक्रमः। अतिक्रमे सति प्रायश्चित्तं। येषां द्विजानां सावित्री नानूच्यते यथाविधि। तांश्चरयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत्॥
इ/4.1.4ऊ
इ4.1.5ऊ
स्नातोप्तकेशे यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चक्रतुस्त्वापसस्त्वा व्यतन्यत धियोऽवयन्नव ग्रा अमृजम्। सहरुामन्तां अभितोऽददन्ताशीतीर्मध्यमवयन्नुनारीरित्यहतं वासोऽभिमन्त्रयते॥5॥
दे0। स्नातश्चासावुप्तकेशो मुण्डितशिरास्तस्मिन्माणवके उपस्थिते सति। यथाविध्युपसमाधानं वह्निसंस्कारमुद्धतसिक्तोपलिप्तभूविशेषे स्थापनं परिसंवहनं पर्युक्षणं परिस्तरणं च कृत्वाज्यं चोपनिधाय विलाप्य संवीक्ष्य दण्डमेखलादिकं यथोपयोदमानीयोपनेता जयप्रभृतिभिर्ऋतुनक्षत्राद्यन्तैः हुत्वा रेवतीस्त्वेत्यादिकया शक्वर्याहतमभुक्तं नवं वासो हस्ते निधायाभिमन्त्रयते॥
ब्रा0। शुद्धपक्षस्य पुण्याहे कुमारं कृतकेशवपनमाप्लावितमलंकृतमाचार्य आत्मनो दक्षिणत उदङ्मुखं प्राङ्मुखं वोपवेश्य यथोक्तमुपसमाधाय परिसमूह्र पर्युक्ष्य परिस्तीर्य वसनादिकं संनिधाप्य पात्राणि प्रयुञ्ज्यात्। प्रोक्षणीः साधयित्वा तानि प्रोक्ष्याज्यं संस्कृत्य चतुर्गृहीतमुद्धृत्याधारादाज्यभागान्तं हुत्वा रेवतीस्त्वेत्यहतमधोवासोऽभिमन्त्रयते॥
आ0। एवं कालं विधाय शुद्धपक्षादौ स्नातोप्तकेशे माणवके। अत्र क्रमस्याविवक्षा। तेन पूर्वमुप्तकेशः पश्चात्स्नातः स्नातोप्तकेशे। आचार्यस्य दक्षिणमूरुं प्रत्युपविष्टे यथोक्तमुपसमाधाय। उद्धतावोक्षितेऽÏग्न समाधाय। परिसमूह्र पर्युक्ष्य परिस्तीर्याज्यं निरुप्याधिश्रित्यावेक्ष्य वासो दध्यश्ममेखलाजिनपूर्वमुपसंनिधाय जयप्रभृतिभिर्हुत्वा। आधारादाज्यभागान्तं हुत्वेत्यर्थः। रेवतीस्त्वा व्यक्ष्णन्नित्यनया शक्वर्याहतमनध्युषितं वासोऽनुमन्त्रयेत्॥
इ/4.1.5ऊ
इ4.1.6ऊ
देवीर्देवाय परिधे सवित्रे परिधत्त वर्चस इमं शतायुषं कृणुत जीवसे कमिति परिधापयति॥6॥
दे0। अनेन यजुषा वासः परिधापयति।....एष मन्त्रस्त्रयाणां वर्णानां परिधापने साधारणोऽधोवाससः। उत्तरीयं वक्ष्यतेऽजिनम॥
ब्रा0। देवीर्देवायेति प्राङ्मुखं परिधापयति। मन्त्रमाहाध्वर्युः परिधत्ते माणवकः॥
आ0। देवीर्देवायेत्यनेन यजुषा कमित्यन्तेन परिधापयत्याचार्यः। परिधत्ते माणवकः। कृष्णाजिनमुत्तरीयं भविष्यति तेनैतद्वस्त्रपरिधानं। अर्तं वासो न प्रतिषिध्यते। आशिष्टाप्रतिषिद्धं तत्॥
इ/4.1.6ऊ
इ4.1.7ऊ
जरां गच्छ परिधत्स्व वासोच्सोऽभूरापीवानभिशस्तिपावा। शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व। परीमं सोमं तेजसे महे श्रोत्राय दध्मसि। यथैनं जरसं नयज्ज्योक्छ्रोत्राय जागरज्ज्योक्छ्रोत्रेऽधि जागरदिति ब्रााहृणस्य। परीममिन्द्रमोजसे महे क्षत्राय दध्मसि। यथैनं जरसं नयज्ज्योक् क्षत्राय जागरज्ज्योक् क्षत्रेऽधि जागरदिति राजन्यस्य। परीमं मनुमायुषे महे पोषाय दध्मसि। यथैनं जरसं नयज्ज्योक् पोषाय जागरज्ज्योक् पोषेऽधि जागरदिति वैश्यस्य। परीदं वासोऽधिथाः स्वस्तये भवापीवानभिशस्तिपावा। शतं च जीव शरदः सुवीरो वसूनि चोग्रो विभजस्व जीवन्निति परिहितवाससमनुमन्त्रयते योगे योगे युवा सुवासा इति चैताभ्याम्॥7॥
जरा गच्छेत्यादिभिःपरिहितवाससमनुमन्त्रयते इत्यादित्यदर्शनः। न त्वेवमाचारः आचार्याणां नापि मन्त्रलिङ्गमेवमिति योऽन्यथा कार्या। एकैकस्यासाधारण इत्येकैकस्य वाससः परिधापने मन्त्रत्रयं। तत्र देवीर्देवायेत्येको वर्णत्रयसाधारणः। जरां गच्छेति द्वितीयः साधारणः परिधापने। परीममित्यादीनां त्रयाणां यथाक्रममेकैकस्य साधारण इत्येकैकस्य त्रयः परिधापने मन्त्राः॥
ब्रा0। जरां गच्छ परीमं सोमं परीदं वासो योगे योगे युवा सुवासा इति पञ्चभिः परिहितवाससं ब्राहृचारिणमनुमन्त्रयते। परीमं सोममित्यस्या- स्थाने परीममिन्द्रमिति राजन्यस्य। परीमं मनुमिति वैश्यस्य॥
आ0। ततो जरां गच्छेति पञ्चभिः परिहितवाससमनुमन्त्रयते माणवकं। अनुमन्त्रणं नाम तच्चक्षुस्तन्मना मन्त्रं ब्रावीति। द्वितीया वर्णव्यवस्थायाः प्रयोगः। परीमं सोममिति ब्रााहृणस्य द्वितीया। परीममिन्द्रमिति राजन्यस्य। परीमं मनुमिति वैशस्य। तृतीयाद्याः सर्वेषाम्॥
इ/4.1.7ऊ
इ4.1.8ऊ
अग्निमभिदक्षिणमानीयेह्रश्मानमातिष्ठाश्मेव त्वं स्थिरो भव। कृण्वन्तु वि·ो देवा आयुष्टे शरदः शतमिति दक्षिणेन पदाश्मानमास्थापयति॥8॥
दे0। योगे योगे इत्यनेन युवा सुवासा इत्यनेन मन्त्रेण अÏग्न लक्षणीकृत्य प्रदक्षिणं यथा भवति तथा माणवकमानीय एह्रश्मानमातिष्ठेति मन्त्रेणाश्मानं दक्षिणेन पदा आस्थापयति अधिष्ठापयत्याचार्यः॥
ब्रा0। ततो वाससः परिधाननिमित्तमाचमनं ब्राहृचारिणं कारयित्वा यज्ञोपवीतं परमं पवित्रमिति ब्राहृसूत्रं परिधापयति। यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्। आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः। आचार्य एवैतं मन्त्रमाह। यज्ञस्योपवीतमसि यज्ञस्य त्वोपवीतेनोपनह्रामीति यदा स्वयं परिदध्यात्। ततः कृताचमनं
पवित्रपाणिमग्निमभिदक्षिणमानीयेह्रश्मानमिति प्राङ्मुखं दक्षिणेन पदाश्मानमास्थापयति॥
आ0। ततः परिहितवाससमनुमन्त्रितं यज्ञोपवीतिनमग्निमभिदक्षिणमानीय यज्ञोपवीतं परिधापयति। मैत्रायणीयके। उप्तकेशः स्नातोऽलंकृतो यज्ञोपवीत्याचार्यसमीप उपविशति। तत्र प्रागपि वासः परिधानाद्यज्ञोपवीति। एह्रश्मानमातिष्ठेत्यश्मानमाक्रमति दक्षिणेन पदा॥
इ/4.1.8ऊ
इ4.1.9ऊ
मम व्रते ह्मदयं ते ददामि मम चित्तमनु चित्तं ते अस्तु। मम वाचमेकव्रतो जुषस्व बृहस्पतिस्त्वा नियुनक्तु मह्रमिति नाभिदेशादूध्र्वं पाणिनोन्माÐष्ट॥9॥
दे0। मम व्रत इत्यादिना मन्त्रेण नाभेरारभ्य शिखान्तं यावद्ब्राहृचारिण आचार्य उन्माÐष्ट॥
ब्रा0। मम व्रत इति पाणिनोध्र्वाङ्गुलिना नाभिदेशादारभ्योध्र्वमा शिरस उन्मÐष्ट॥
आ0। मम व्रत इत्यनया त्रिष्टुभा........तमाचार्य उन्माÐष्ट शोधयति॥
इ/4.1.9ऊ
इ4.1.10ऊ
दधिक्राव्ण इति त्रिर्दधि भक्षयित्वा ब्राहृचर्यमागामुष मा नयस्वों भूर्भुवः स्वरिति वाचयति॥10॥
दे0। ब्राहृचारी वक्ति तामाचार्यो वाचयति ब्राहृचर्यमित्यादि स्वरित्यन्तं। किं कृत्वा। आचान्तो ब्राहृचर्यमित्यादि ब्राहृचारी पठति गुरुपाठितः सन्निति तात्पर्यम्॥
ब्रा0। दधिक्राव्ण इति त्रिर्दधि प्राशयित्वा। ततः कृताचमनं ब्राहृचर्यमागामुप मा नयस्वेति
वाचयित्वार्षादिकं स्मृत्वा कृतपादोपसंग्रहणं प्रत्यङ्मुखं पश्चादग्नेर्दर्भेष्वासीनं प्रणवं व्याह्मतीश्चाध्यापयति॥
आ0। दधिक्राव्ण इत्यनया त्रिर्दधि भक्षयति। ब्राहृचर्यमागामिति व्याह्मत्यन्तं वाचयति। अध्यापयतीत्यर्थः॥
इ/4.1.10ऊ
इ4.1.11ऊ
इयं दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनती म आगात्। प्राणापानाभ्यां बलमाभजन्ती सुखा देवी सुभगा मेखलेयम्। ऋतस्य गोप्त्री तपस्तरुत्री घ्नती रक्षः सहमाना अरातिम्। सा नः समन्तमनुपरेहि भद्रे भर्तारस्ते मेखले मा रिपाम॥ श्रद्धाया दुहिता तपसोऽधि जाता स्वसर्षीणां मन्त्रकृतां बभूव। सा मा मेखले परिरेहस्व मयि धेहि तप इन्द्रियं चेति वाचयन्मेखलामावधानीते॥11॥
दे0। इयं दुरुक्तादित्यादिकौ त्रिष्टुभौ वाचयन्नाचार्यो मेखलामाबध्नीत। ब्राहृचारी वक्ति गुरुर्वाचयति॥
ब्रा0। तत इयं दुरुक्तात्परिबाधमानेति वाच्यन्मेखला त्रिः प्रदक्षिणमापध्य॥
आ0। तत इयं दुरुक्तादिति तिरुात्रिष्टुभो माणवको वक्ति। आचार्यो वाचयन्मेखलामाबध्नीते॥
इ/4.1.11ऊ
इ4.1.12ऊ
मौञ्जीं त्रिवृतं ब्रााहृणाय प्रयच्छति मौवीं धनुज्र्यां राजन्याय सौत्रीं वैश्याय॥12॥
दे0। मौञ्जीं सप्तमुञ्जनिर्मितां त्रिवृतां त्रिगुणवेष्टितां बिभ्रद्द्विजस्तु नवकं। तत्र त्रिवृता यूपं परिवीयेत्यादौ
रज्जोस्त्रिगुणायां त्रिवृच्छन्द त्रिवृत्स्तोम इत्यादौ त्रिवृच्छब्दो नवके। इहापि रज्जोस्त्रिगुणायां त्रिवृच्छब्दः। तथा सदाचारात् तेन भ्रान्त्या केचिन्नवगुणां मेखलां व्याचक्षते। मूर्वो नाम तृणविशेषः। तस्य विकारो मौर्वी। तां धनुज्र्यां धनुषः प्रसार्यं गुणं राजन्याय प्रयच्छति। सौत्रीं वैश्यस्य। सामान्याभिधानेऽपि स्मृत्यनुसारेण कर्पाससूत्रमयीमादौ प्रयच्छति ततो बध्नीयादिति क्रमो बोद्धव्यः॥
आ0। किंभूतां। मौञ्जीं सप्तमुञ्जां त्रिवृतां त्रिगुणां त्रिः परिवृतां च ब्रााहृणाय प्रयच्छति। पूर्वं ददाति पश्चात्तु वाचयन्नाबध्नीते। त्रिवृच्छब्दो नवके सर्वत्र वेदे। शुष्कमीमांसकास्तु स्तोमविषयं नवकमिच्छन्ति। तेऽनधीतवेदत्वात्पदार्थानभिज्ञत्वाच्चावधीरणीयाः। यतो मेखलामधिकृत्य श्रुतिः। त्रिवृद्भवति त्रिवृता वै स्तोमेनेति मेखलां गतं त्रिवृत्त्वं स्तोमे नवकेन स्तूयते। तथा नवाश्रिमभिचरणीयां कुर्यात्त्रिवृद्द्वज्र इति। मौर्वी मूर्वा गुच्छविशेषः श्रीपर्वतादौ प्रसिद्धः। तत्कृत्या ज्या धनुर्गुणः राजन्याय धनुषः अपनीय। सौत्रीं वैश्यस्य सत्यपि विशेषे शणसूत्रकृताम्॥
इ/4.1.12ऊ
इ4.1.13ऊ
चित्तस्य समोऽसि दैव्यो ग्रन्थिरसि मा विरुांस इति ग्रÏन्थ कृत्वा मित्रस्य चक्षुर्धरुणं बलाय तेजो यशस्वि स्थविरं समृद्धम्। अनाहनस्यं वसनं चरिष्णु परीदं वाज्यजिनं दधेऽयमिति वाचयन्ननैणेयं
चर्म ब्रााहृणाय प्रयच्छति वैयाघ्रं राजन्याय रौरवं वैश्याय॥13॥
दे0। चित्तस्य समोऽसीत्यनेन मन्त्रेण मेखलाग्रन्थि कृत्वा। शिखावद्यथाकुलप्रसिद्धि। त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वेत्यादिस्मरणात्। मित्रस्येत्यादि वाचयन्नैणेयं कृष्णमृगस्य संबन्धिचर्म ब्रााहृणाय प्रयच्छति राजन्याय व्याघ्रचर्म रुरुचर्म वैश्याय। मेखलग्रन्थौ चर्ममदाने च त्रयाणां साधारणौ मन्त्रौ।
ब्रा0। चित्तस्य समोऽसीति त्रिगुणं प्रवरसंख्यया वा ग्रÏन्थ करोति। द्विप्रवरादीनां मन्त्रावृत्तिः। मित्रस्य चक्षुरिति वाचयन्नजिनं परिधाप्य।
आ0। चित्तस्य सप्तोऽसीति ग्रÏन्थ कृत्वाचार्यः त्रिवृत्तं। अनेकमपि प्रवरव्यवस्थायाः। स्मृते तथा च मनुः-
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा॥
मित्रस्य चक्षुरित्येतां त्रिष्टुभं वाचयन्नेणेयं चर्म ब्रााहृणाय प्रयच्छति।
एणी कृष्णशारी। तस्यास्चर्मैणेयं। रैरवं रुरुचर्म वैश्याय। तदुत्तरीयम्॥
इ/4.1.13ऊ
इ4.1.14ऊ
तच्चक्षुरित्यादित्यमुपस्थापयति॥14॥
ब्रा0। तच्चक्षुरिति वाचयित्वादित्यमुपस्थापयति॥
आ0। उपस्थापयति। माणवक उपतिष्ठते॥
इ/4.1.14ऊ
इ4.1.15ऊ
को नामाम्नीत्युक्तेऽभिवादने प्रोक्तेऽसा अहं भो इति प्रत्याह॥15॥
दे0। गुरुराह को नामासीति। क इति प्रजापतिनाम। तथा च ब्रााहृणं। को नामासीति प्रजीपतिर्वै को नामेति। वेदग्रहणाभिमुखत्वात्प्रजापतिरिवासीति स्तुतिच्छलकेन। साक्षाद्धि प्रश्नोऽयं प्रतिवचनविधानात्। गुरुणा पृष्टः शिष्योऽभिवादयते। स्वनामोच्चारणेन असावित्युक्ते नाम प्रतीयात्। विष्णुमित्रोऽहमभिवादये भो इति ब्राहृचारिणाभिवादितो गुरुः प्रत्यभिवादनमाह। प्लुतान्तप्रतिवादे प्रश्न इति स्मृतेः। आयुष्मानेधि सोम्य विष्णुमित्रा इति स्मृतेरपि। आयुष्मानेधि सोम्येति वक्तव्योऽन्त्याक्षरे प्लुत इति॥
ब्रा0। ततः को नामासीत्याचार्येणोक्तः पदावुपसंगृह्राभिवादये देशर्माहं भोः इत्येवं प्रत्याह। आयुष्मान्भव सोम्य देवशर्मानित्येवं प्रत्यभिवादनम्॥
आ0। को नामासीत्याचार्येणोक्ते अभिवादने प्रोक्ते। अभिवादय इत्युक्ते असावित्यत्र स्वनामोक्त्वा। अहं भो इति प्रत्याह। को नामासीत्याचार्यः पृच्छति। माणवकः अभिवादये यज्ञशर्मा अहं भो इति प्रतिवक्ति। अत्राचार्यः प्रत्यभिवादयेदिति स्मृतेः। आयुष्मान्भव सोम्य देवशर्माम्॥
इ/4.1.15ऊ
इ4.1.16ऊ
देवस्य ते सवितु प्रसवेऽ·िानोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्राभ्यसा उपनयेऽसौ। सविता ते
हस्तुमग्रहीदग्निराचार्यस्तव। कस्त्वा कमुपनयेऽसौ काय त्वा परिददामि। कस्य ब्राहृचार्यसि। प्राणस्य ब्राहृचार्यस्मीति प्रत्याह॥16॥
दे0। आचार्यो ब्राहृचारिणो दक्षिणं हस्तं दक्षिणेन हस्तेन विवाहोक्तविधिना गृह्णाति। देवस्य त इत्यादिना हे ब्राहृचारिन् विष्णुमित्र अहमाचार्यो हरिशर्माभिधानस्त्वामुपनये इति शिष्यं स्वनाम्र संबोध्य स्वनामोच्चार्य गृहीतहस्तो गुरुब्र्रावीति। एकोऽसाविति शब्दः शिष्यसंबोधनं द्वितीय आचार्यनामोपलक्षणार्थः। सविता...........परिदधामि। गृहीतहस्त एवाचार्य आह। कस्य.......प्रत्याह। कस्य प्रजापतेब्र्राहृचार्यसीति भाङ्गिप्रश्ने आचार्येण कृते सति शिष्यः प्रत्याह प्राणस्य ब्राहृचारी अस्मि भवामीत्युपगम्य भङ्ग्यैव प्रत्युत्तरं। प्राणो हि प्रजापतिरेव जगत्सूत्रभूतः। तथा च श्रुतिः-हरणगर्भः पुरुषो महांस्त्वं प्राणो जगत्सूत्रमनादिरिन्द्रः। बोधः शुचिर्धर्मतदन्तरात्मा तथा विधाता जगतोऽस्य देवेति॥
ब्रा0। ततः प्रत्यभिवादनादनन्तरं देवस्य त इति दक्षिणेन नीचा हस्तेनोत्तानं दक्षिणं साङ्गुष्ठं ब्राहृचारिहस्तं गृह्णाति। अत्रासौशब्दस्थाने संबुद्ध्यन्तं नाम सर्वत्र ब्राहृचारिणो ग्राह्रं। यथा। देवस्य ते सवितुः प्रसवेऽ·िानोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णामि देवस्वामिन्। उपनये देवस्वामिन्। अत्रासौशब्दे स्वं नामाचार्यो गृह्णातीति केचिद्वदन्ति। मीमांसकास्तु नैतन्मन्यन्ते। ततः सविता ते हस्तमग्रहीदित्यादिगृहीतहस्त एवाचार्यो वक्ति। कस्त्वा कमुपनये देवदत्त इत्येव प्रयोगः॥
आ0। देवस्य ते सवितुः प्रसव इति माणवकस्य हस्तं गृह्णाति दक्षिणेन दक्षिणं परिभाषातः। असावुपनये इत्यत्राचार्यः स्वकं नाम गृह्णाति ततो माणवकस्य संबुद्ध्यन्तं। यथा। हस्तं गृह्णामि
मैत्र उपनये मैत्र। गृहीतहस्त एवामाचार्यो वक्ति सविता ते हस्तमग्रहीदिति। ततः काय त्वा परिदधामि कस्य ब्राहृचार्यमीत्याचार्येणोक्ते प्राणस्य ब्राहृचार्यस्मीति प्रतिवक्ति॥
इ/4.1.16ऊ
इ4.1.17ऊ
प्रजापतये त्वा परिददामि। देवाय त्वा सवित्रे परिददामि। बृहस्पतये त्वा परपिददाम्यसौ। देव सवितरेष ते ब्राहृचारी तं गोपायस्व दीर्घायुः स मा मृत। अग्निपुत्रैष ते। वायुपुत्रैष ते। सूर्यपुत्रैष ते। विष्णुपुत्रैष ते। ब्राहृपुत्रैष ते ब्राहृचारी तं गोपायस्व दीर्घायुः स मा मृत। ब्राहृचार्यसि। अपोऽशान। कर्म कुरु। दिवा सा सुषुप्सीः। बाह्रं यच्छ॥17॥
दे0। असावित्याचार्यनाम प्रदर्शनार्थं।.....इदानीं गृहीतहस्तमेनमनुशास्ति। ब्राहृचार्यसि.....यच्छ। गुरुराह॥
ब्रा0। प्रजापतये त्वा परिददामीति नवभिः सानुषङ्गैर्गृहीतहस्त एव देवताभ्यः परिददाति। प्रजापतये त्वा देवाय त्वा बृहस्पतये त्वेति त्रयः। बृहस्पतये त्वा परिददामि विष्णुदत्तेत्येवं प्रयोगः। देव सवितरेव तेऽग्निपुत्र वायुपुत्र सूर्यपुत्र विष्णुपुत्र ब्राहृपुत्रेति षट्। ततो ब्राहृचार्यसीति पञ्चभिरनुशास्ति। बाढमिति प्रत्याह॥
आ0। ततः प्रजापतये त्वा परिदधामीति नवभिः सानुषङ्गैः परिददाति देवताभ्यः। गृहीतहस्त एव यतो हस्ते गृहीत्वा लोके रक्षार्थं परिधीयते। असौशब्दस्थाने सर्वत्र माणवकस्य नाम संबुद्ध्यन्तं। अग्निपुत्र वायुपुत्र सूर्यपुत्र विष्णुपुत्र ब्राहृपुत्र इतेत्येषङ्गानुषङ्गः आद्यास्त्रयः। ततः
पञ्चभिरनुशास्ति। ब्राहृचार्यसि। इदानीं ब्राहृचारी भवसि देवदत्त। प्रागुपनयनात्कामाचारवादभक्ष आसीः। अद्यप्रभृति नियमवान्भवसीत्यर्थः। तदुक्तं। उपनयनप्रभृति व्रतचारी स्यादिति। अपोऽशान। अद्यप्रभृति उपस्पर्शनं कुरु। नित्यं शुचिर्भव। कर्म कुरु। नैत्यकं शुश्रूषा पयनमग्नीन्धनभैक्षचरणादि च। दिवा मा सुषुप्सीरिति दिवास्वप्रतिषेधः। वाचं यच्छेति। अमृतामपि प्रियां चारुवर्ती
वाचं मा वोचः। अत्र प्रत्येकं बाढमित्युपगमः॥
इ/4.1.17ऊ
इ4.1.18ऊ
मेधां मह्रमिति वाचयति। मेधां मह्रमङ्गिरसो मेधां सप्तर्षयो ददुः। मेधामग्निश्च वायुश्च मेधां धाता ददातु॥ मेधां मे वरुणो राजा मेधामग्निर्ददातु मे। मेधामिन्द्रश्च सूर्यश्च मेधां देवी सरस्वती॥ या मेधा अप्सरःसु गन्धर्वेषु च यन्मनः। दैवी मनुष्ये या मेधा सा मामाविशतादिह॥ शरीरं मे विचक्षणं वाङ्मे मधुमद्दुहे। निशामितं निशामये मयि श्रुतम्॥ यन्मेऽनूक्तं तद्रमतां शकेयं यदनुब्राुवे। प्रियाः श्रुतस्य भूयास्म मेधया संविधीमहि॥ अवृधमहमवृधस्त्वमसौ सोम्य प्राणस्त्वं मे गोपाय ब्राहृण आणी स्थ श्रुतं मे मा प्रहासीदिति॥18॥
दे0। मेधां मह्रमित्यादिकाः पञ्चर्चः षष्ठं यजुः शिष्यो वक्ति गुरुर्वाचयति। अत्र चतुर्थी उष्णिक् शिष्टा अनुष्टुभः। अवृधमहमित्यादि षष्ठं यजुः॥
ब्रा0। अनुशासनानन्तरं मेधां मह्रमिति षडृग्याजुषाणि वाचयति॥
आ0। एवमनुशिष्टं मेधां मह्रमिति षडृग्यजुषाणि वाचयति॥
इ/4.1.18ऊ
इ4.1.19ऊ
एताभिरेव चतसृभिरनुप्रवचनीयाञ्जुहुयाद्यजुषोत्तमां छन्दोभ्यः स्वाहेति क्रतुनामधेयेन यथोपाचरितः क्रतुर्भवत्येवं सर्वाणि वेदोक्तानि॥19॥
दे0। अनुप्रवचनं प्रयोजनं येषां ते अनुप्रवचनीया होमा इत्यन्वर्थसंज्ञा। अनु उत्तरकालं हि सावित्र्याः प्रवचनं ब्राहृचारी कारयिष्यते गुरुणा। अनुप्रवचनमर्हन्तीत्यनुप्रवचनीयाः। अत्र हि मन्त्रानुपाध्यायो वक्ति शिष्योऽनुप्रवक्ति। अनुप्रवचनीयसंज्ञकान्होमानेताभिरेव प्रकृताभिश्चतसृभिर्ऋग्भिः कपिञ्जलाधिकरणन्यायेनाद्याभिर्जुहुयात्। तेन चत्वारो होमाः। पञ्चममाह। युजुषोत्तमामवृधमित्यादिना यजुषोत्तममाहुतिं पञ्चमीं जुहुयादिति केचित्। अन्ये त्वाहुः । अत्र पक्षे पञ्चमस्या ऋचो विनियोगभावं प्राप्नोति। उत्तमामिति स्त्रीलिङ्गनिर्देशो न युज्यते। प्रखृतस्यानुप्रवचनीयस्य पुंस्त्वात्। तदपेक्षयोत्तममिति प्रसङ्गात्। न चाहुतिशब्दः प्रकृतोऽस्ति। तस्मादुत्तमामृचं यजुषा सह संयोज्य पञ्चममनुप्रवचनीयं जुहुयादित्यर्थः। षष्ठमनुप्रवचनीयहोममाह। छन्दोभ्यः स्वाहेति। क्रतुनामधेयेन......वेदोक्तानि। क्रतुरिह कर्म। कर्मनामधेयेन जुहुयात्। एष सप्तमोऽनुप्रवचनीयहोमः। कथं क्रतुनामधेयेन होतव्यं। यथोपाचरितः क्रतुर्भवति। येन प्रकारेण प्रकृतं कर्मोपचरितमिष्ठं भवति तथा होतव्यं। चतुर्थीयोगेन स्वाहाकारेण चाभिधानशक्तियोगिना कर्मनामधेयेन। उपायनाय स्वाहेति। एवं सर्वाणि वेदोक्तानि। अनेनैव प्रकारेण सर्वाणि वेदोक्तानि कर्माणि स्वनामधेयेन छन्दोभ्यः स्वाहेति हुत्वा होतव्यानि। त्रैविद्यकाय स्वाहेत्यादिप्रकारेण॥
ब्रा0। तत एताभिरेवाज्येन पञ्च प्रधानाहुतीर्जुहुयात्। यन्मेऽनूक्तमिति पञ्चमीमवृधमहमिति यजुषा
संधाय। छन्दोभ्यः स्वाहेति षष्ठी। उपायनाय स्वाहेति सप्तमी। ये के च ज्मेत्यष्ठमी॥
आ0। अनुप्रवचनयोजनान्होमान्वाचयित्वा जुहुयादित्यर्थः। यजुषोत्तमाम्। उत्तमामृचं यजुषा सह संधाय जुहुयात्। अत्र पञ्च ऋचः षष्ठं यजुः। तत्र चतसृभिर्ऋग्भिश्चतुरो होमान्कृत्या पञ्चमीमृचं यजुषा संधाय पंञ्चमं होमं जुहुयादित्यर्थः। ये यजुषोत्तमामाहुतिं व्याचक्षते स्त्रीलिङ्गनिर्देशात्ते पञ्चमीमृचमुत्सृजन्ति। न चाहुतिशब्दः प्रकृतः यः स्त्रीलिङ्गेनोपस्थाप्यते। चतसृभिरित्यृचः प्रकृताः। तस्मादुत्तमासृचं यजुषा सहेत्येष एवार्थः यजुषेति सहार्थे तृतीया। एवकारः कर्मोपसंग्रहार्थीयः। एता एव वाचयेदेताभिरेव होमः। सूत्रकारः सर्वत्र द्वितीये प्रयोगे एवकारं करोति। यथा। एतयैवाभिजुहोतीति। अत्र चतुथ्र्युष्णिक्। पञ्चम्यानुष्टुभा यन्मेऽनूक्तमित्यनया मेधया संवृधीमह्रवृधमिति। यजुः संधीयते। एवं पञ्च हुत्वा छन्दोभ्यः स्वाहेति षष्ठो होमः। क्रतुनामधेयेनेति न सप्तमः। क्रतुः कर्म। कर्मनामधेयेन। यथोपाचरितः। येनैव नाम्ना क्रतुरुपाचरित उक्तः तेनैव नाम्ना जुहोति। उपायनाय स्वाहेति। उपायनशब्देनोपाचरितः। सप्तमे वर्षे ब्रााहृणस्योपायनमिति।अत्र देवताप्रज्ञायमाना द्रव्यदेवतानभिधानात्
तस्माद्वै·ादेव्याष्टमो होमः।.....एवं सर्वाणि वेदोक्तानि। होमद्वयमेवातिदिश्यति। छन्दोभ्यः स्वाहेत्येकः क्रतुनामधेयेन च। वेदोक्तानि। यथा। चातुर्हौतृकाय प्रवग्र्यव्रताय चेत्यादि। सर्वातिगदेशे सर्वं प्राप्नोति दधिभक्षसंस्थापनमार्जनपरिदानवाचनादीनि केन वार्यन्ते भवन्तु चेत्। इति व्रतं पुनरुपनयनप्रसङ्गादिति प्रसङ्गाः। ब्राहृचर्यमागामुप मा नयस्वेति च केन वार्यते। तस्माद्धोमद्वयमेवातिदिश्यत इति माधवरातपादा मन्यन्ते। मेखलादीनि यथा व्रतेषु प्रवन्ति तथा तत्रैव दर्शयिष्यामः॥
इ/4.1.19ऊ
इ4.1.20ऊ
पश्चादग्नेर्दर्भेषु प्राङासीनः प्रत्यङ्ङासीनाय तत्सवितुरिति सावित्रीं त्रिरन्वाह पच्छोऽर्धर्चशः सर्वामन्ततो यश्च मेधाकामः स्यात्॥20। ।
दे0। पश्चादग्नेर्दर्भेषूपविष्टः प्राङ्मुखो गुरुः प्रत्यङ्मुखायाचार्यसंमुखोपविष्टाय शिष्याय सावित्रीं सवितृदेवतां तत्सवितुरित्यादिकां गायत्रीं त्रीन्वारानन्वाह। ब्राहृणायेति ज्ञेयं। उपलक्षणमेतत्। राजन्यवैश्ययोर्हि सावित्र्यावन्ये स्मृति सदाचाराभ्यां बोद्धव्ये। अदब्धेभिः सवितरिति राजन्यस्य। वि·ाा रूपाणीति वैश्यस्य कथमन्वाह। पच्छः। पादं पादं पच्छः। प्रथमोच्चारणे पादशो ब्राूयात्।द्वितीयानूच्चरणेऽर्धर्चशः। अर्धमृचोऽर्धर्चशः। अन्ते अन्ततः सर्व। तृतीयोच्चारणे यथाशक्त्यनुसारं सर्वामृचमनुब्राूयात्। यश्च मेधां शिष्यस्य कामयतेऽसौ पच्छोऽर्धर्चशः सर्वामन्ततोऽनुब्राूयात्। तत्सवितुरिति व्याख्यातं। अदब्धेभिः......ईशत॥ वि·ाा रूपाणि विराजति। एते यथासंख्यं राजन्यवैश्ययोरनुब्राूयात्॥
ब्रा0। ततः पश्चादग्नेर्दर्भेषु प्रागग्रेष्वर्षादिकमनुस्मृत्य यथोक्तं सावित्र्यनुवचनं। तां सकृत्समस्योत्तमतोऽन्वाहेति ब्रााहृणदर्शनादन्ततोऽर्यर्चेऽनुवाचनादौ पादेनार्धेन चाध्यस्येत्। वि·ाामित्र ऋषिः। गायत्रं छन्दः। सविता देवता। उपनयने विनियोगः। आं तत्सवितुः। तां सवितुरिति त्रिष्टुभा राजन्यमुपनयेत्। वि·ाा रूपाणीति जगत्या विश्यमिति गृह्रान्तरम्॥
आ0। पश्चादग्नेर्दर्भेष्वन्वाह। एतत्प्रवचनं यदर्थमनुप्रवचनीया होमा उच्यन्ते। पश्चादग्नेर्दर्भेषु
प्राङासीनः प्राङ्मुख उपविष्टः प्रत्यङ्मुखायासीनायाचार्याभिमुखाय ब्राहृचारिणे सावित्रीं तत्सवितुरिति प्राक्प्रदर्शितां त्रीन्वारानन्वाह निगदतीत्यर्थः। प्रणवव्याह्मतयः पूर्वा एवानूक्ताः। कथं त्रिरन्वाह। पच्छः पादशः पूर्वं पादं पादं विभज्य। ततोऽर्धर्चशः। सर्वां संहितामन्ततः तृतीये रूपे। यश्चान्तोऽपि मेधाकामः। प्रज्ञामिच्छन्। स्यात्सोऽप्येव स्वाध्यायकाले। निष्कामस्तु प्रकृत्या॥
इ/4.1.20ऊ
इ4.1.21ऊ
पालाशमेकसरं दण्डं नवनीतेनाभ्यज्य तस्य छायायां वाचयति सुश्रुवः सुश्रवा असि यथा त्वं सुश्रुवा अस्येवं मा सुश्रुवः सौश्रवसं कुरु। यथा त्वं सुश्रवो देवानां वेदस्य निधिगोपोऽस्येवमहं ब्रााहृणानां ब्राहृणो वेदस्य निधिगोपो भूयासमिति॥21॥
दे0। पलाशस्यायं पालाशः। तद्दण्डमेकसरमवान्तरशाखारहितमृजुं सत्वचमव्रणं नवनीतेनाभ्यज्य स्वहस्तेन गृहीत्वा गुरुस्तस्य दण्डस्य संबन्धिन्यां छायायां शिष्यं व्यवस्थाप्य सुश्रव इत्यादि पाठयति॥
ब्रा0। सावित्र्युपदेशादनन्तरं नवनीतेनाग्रादारभ्य दण्डं सर्वतोऽभ्यज्य तच्छायोपविष्टाय सुश्रुवः सुश्रवा असीति वाचयित्वा प्रयच्छति॥
आ0। पालाशं पर्णे दण्डमेकसरं विशाखं सत्वक्कमृजुमव्रणं नवतीतेनाञ्जयित्वा सूक्षयित्वा यूपवदर्वाचीनमाचार्योऽभ्यज्य तस्य दण्डस्य छायायां स्थितं ब्राहृचारिणं वाचयति सुश्रुवः सुश्रुवा असीत्यादि निधिगोपो भूयासमित्यन्तम्॥
इ/4.1.21ऊ
इ4.1.22ऊ
पालाशं दण्डं ब्रााहृणस्य प्रयच्छत्या·ात्थं राजन्याय नैयग्रोधं वैश्याय॥22॥
दे0। एवं प्रकृतं दण्डं पालाशं ब्रााहृणाय ब्राहृचारिणोऽनुवचनान्ते प्रयच्छत्याचार्यः। अ·ात्थो वटः। वैश्याय न्यग्रोधसंबन्धिनं प्रयच्छति॥
आ0। ततः पालाशं दण्डं ब्रााहृणाय प्रयच्छति तमेवं संस्कृतं। पुनः पालाशग्रहणात्क्षत्रियवैश्ययोः पालाशच्छायायामेव स्थितयोः न तु प्रातिस्विकदण्डच्छायागतयोः क्षत्रियवैश्ययोः पालाशच्छायागतयोर्वचने मन्त्रगतो ब्रााहृणशब्दो न विरुध्यते। ब्राहृरूपत्वाद्ब्राहृचारिणः। यथा। अथ यत्कृष्णाजिनी दण्डी मेखल्युपवीति च भवति तद्ब्राहृणो रूपमिति। क्षत्रियवैश्याभ्यामा·ात्थनैयग्रोधावेव दीयेते। वाचनमात्रं तयोः पलाशे। तदेतदुक्तं पालाशं दण्डं ब्रााहृणाय प्रयच्छत्या·ात्थं राजन्याय नैयग्रोधं वैश्यायेति॥
इ/4.1.22ऊ
इ4.1.23ऊ
स्मृतं च म इति वाचयति। स्मृतं च मेऽमृतं च मे तन्मे उभयव्रतम्। निन्दा च मे अनिन्दा च मे तन्मे उभयव्रतम्। विद्या चा·ो अविद्या च मे तन्मे उभयव्रतम्। श्रद्धा च मे अश्रद्धा च मे तन्मे उभयव्रतम्। सत्यं च मे अनृतं च मे तन्मे उभयव्रतम्। मृतं च मे अमृतं च मे तन्मे उभयव्रतम्। श्रुतं च मे अश्रुतं च मे तन्मे उभयव्रतम्। व्रतं च मे अव्रतं च मे तन्मे उभयव्रतम्॥ यद्ब्रााहृणस्य ब्राहृणि व्रतं यदग्रेः सेन्द्रस्य सप्रजापतिकस्य सर्षिकस्य सपितृकस्य समनुष्यस्य समनुष्यराजन्यस्य
सगन्धर्वाप्सरोजनस्कस्य ससर्पेतरजनस्कस्य सौषधिवनस्पतिकस्य सह ग्राम्यैः पशुभिरारण्यैश्च साकाशस्य सप्रकाशस्य सातीकाशस्य सानूकाशस्य सह यन्म आत्मन आत्मनि व्रतं तन्मे सर्वव्रतम्॥ इदमहमग्रौ समिधमभ्यादधाम्यग्रे सर्वव्रतो भवामि॥23॥
दे0। ......मन्त्रलिङ्गादहमित्यनेन समिधमग्नौ प्रक्षिपति॥
ब्रा0। ततो गृहीतदण्डं स्मृतं च म इत्यादि सर्वव्रतो भवामीत्यन्तं प्रत्यङ्मुखमेव वाचयति। अस्मिन्नवसरे भैक्षं चरतीत्युपाध्यायाः। स्वस्तिवाच्य भिक्षादानसंपूर्वमप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायनी वा। तत ऋतुतिथियागादि संस्थापयेत्॥
आ0। ततो गृहीतदण्डं स्मृतं च मे इति वाचयत्यग्रे सर्वव्रतो भवामीत्यन्तं। अत्र समिदानं मन्त्रवर्णाद्ये कुर्वन्ति ते न्यायानभिज्ञाः। यस्मान्मन्त्रगतो भावशब्दो न विनियोजक इति युक्तमेतत्॥
इ/4.1.23ऊ
इ4.1.24ऊ
अधीते हैतेषां वेदानामेकं द्वौ त्रीन्सर्वान्वा यमेवं विद्वानुपनयत इति श्रुतिः॥24॥
दे0। अधीत हेत्यादिकमुपनेतृस्तुत्यर्थं। य एवं विद्वान्मन्त्रब्रााहृणज्ञः सन्नुपनयते स एवोपनेतृत्वेऽधिकृतो नान्यः। स हि यमुपनयते स एतेषां प्रसिद्धानां वेदानामनन्तशाखायुक्तानां मध्ये यथेच्छमेकं द्वौ त्रीन्वा अधीते सर्वशाखाखचितान्। हशब्द इतिहासे। अतोऽनेन संस्तुतत्वात् श्रौतमुपनयनं संस्कारान्तरवत्स्मार्तं। अत एवोपनयनसमर्था अवश्यं कुर्वन्तीति केचित्। तदसत्। स्मार्तस्यापि अनुमितश्रुतिमूलत्वादप्रत्यक्षं तत्र विधिरिति केचित्। अर्थवादेऽपि समानता। यदपि भणति मन्त्रगतो न विधायक आख्यातशब्द इति कृत्वा नेदमहमिति एतेन समित्प्रक्षेपः कर्तव्य इति
तदप्यमीमांसकभणितं। आख्यातस्याविधायकत्वेऽपि लिङ्गात्प्रक्षेपसिद्धः॥
आ0। अधीते हैतेषामित्यर्थवादोपन्यासः। विद्वत्कर्तृस्तुत्यर्थः। एतद्ब्रााहृणार्थविदुषोपनयनं कर्तव्यं न तु कर्मपद्धतिपरिज्ञानमात्रेण। यमेवं विद्वानुपनयते सोऽवश्यं वेदाध्यायी भवतीति श्रुतेः॥
इ/4.1.24ऊ
इ4.1.25ऊ
कत्र्रे वरं ददाति॥25॥
दे0। उपनेत्रे दक्षिणां ददाति ब्राहृचारिणः स्वामी पिता तदभावे ज्येष्ठभ्रात्रादिः॥
ब्रा0। स्विष्टकृति हुते वास आचार्याय वरं ददाति॥
आ0। ब्राहृचारिपिता तावति स्वामी कर्तव्यः॥
इ/4.1.25ऊ
इ4.1.26ऊ
अहःशेषं स्थापयेत्॥26॥
दे0। नोपवेशयेत्। नापि संचारयेत्॥
ब्रा0। अहःशेषं ब्राहृचारी नोपविशेत्। अन्यत्र भोजनाचमनावश्यकेभ्यः॥
आ0। दिनशेषं नोपविशेदित्यर्थः। अर्थविरुद्धेषु कालेषु॥
इ/4.1.26ऊ
इ4.1.27ऊ
व्याख्यातं ब्राहृचर्यम्॥27॥41॥(4।1)
दे0। ब्राहृचर्यमुपक्रम एवोपनयनप्रभृति व्रतचारी स्यादित्यादिनोक्तं। अतो न भूय उच्यते॥
ब्रा0। उपनयनप्रभृति व्रतचारी स्यादित्यग्नीन्धनान्तेन व्याख्यातं ब्राहृचर्यम्॥
आ0। मार्गवासाः संहतकेश इत्यारभ्याग्नीन्धनान्तं। तदुक्तमुपनयनप्रभऋति व्रतचारी स्यात्। श्रुतिग्रहणादुपनयनस्य प्राधान्यं दर्शयति। तेनान्येषां संस्काराणाभावे एतदवश्यं कर्तव्यं। तथा च गौतमः। यस्य खलु संस्काराणामेकदेशोऽप्यस्ति स ब्राहृणः सायुज्यं गच्छतीति॥
इ/4.1.27ऊ
द्वितीय खण्डः
इ4.2.1ऊ
त्रैविद्यकम्॥1॥
दे0। तिसृषु विद्यासु वेदत्रयात्मिकासु भवं ग्रहणं प्रयोजनं वा व्रतं तत् त्रैविद्यकं। वक्ष्याम इति शेषः॥
आ0। तिसृषु विद्यासु भवं त्रैविद्यकं वेदत्रयार्थमित्यर्थः। व्याख्यास्याम इति शेषः। तदेव व्याख्यातं ब्राहृचर्यं। तत् त्रैविद्यकं वेदत्रयाध्ययनार्थम्॥
इ/4.2.1ऊ
इ4.2.2ऊ
आचार्यस्य विधिः॥2॥
दे0। यं प्रति कथ्यते सोऽप्रबुद्धो ब्राहृचारी तेन व्यर्थ उपदेश इत्याशंक्याह। आचार्यस्य विधिः।
आचार्येणानुष्ठितव्य इत्यर्थः॥
आ0। तच्चाचार्यस्य विधिः आचार्येणानुष्ठापयितव्यं। तथा चोक्तं
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः।
आचारमग्निकार्यं च सन्ध्योपासनमेव च॥
अष्टवर्षे ब्रााहृणमुपनयेतेत्याचार्यकरणकामो ब्राहृलोकावाप्तये आत्मनः शिष्यानुपनीयाध्यापयेत्। अत आचार्याधीनस्य त्रैविद्यकब्राहृचर्यम्॥
इ/4.2.2ऊ
इ4.2.3ऊ
यो वेदमधीते पुरस्ताच्चोपरिष्टाच्चांहोमुग्भिः समिधोऽभ्यादध्यात्॥3॥
दे0। अध्ययनस्यारम्भे समाप्तौ चांहोमुग्भिस्तिरुाः समिधोऽग्नावभ्यादध्यात्। स्वाहाकारशून्यं प्रक्षेपमात्रं कुर्यादित्यर्थः। अन्यथा जुहुयादिति ब्राूयात्। अंहसः पापाद्विमोचयन्तीत्यंहोमुचो मन्त्राः॥
ब्रा0। त्रैविद्यकमाज्यं हविः। यथोक्तमुपसमाधायाज्यभागान्तं हुत्वा दक्षिणत उपविष्टस्य ब्राहृचारिणो वसनमेखलाचर्मदण्डानां मन्त्रानावर्तयेत्। यद्देवा देवहेडनं यदि दिवा यदि जाग्रदित्यंहोमुचो वाचयन्समिदाधानं कारयित्वाग्ने व्रतपते वायो व्रतपते सूर्य व्रतपत इत्युपस्थापयति। अग्ने व्रतपते व्रतमालभे तत्ते प्रब्रावीमि तच्छकेयं तेनघ्र्यासं। वायो......। सूर्य.......तेनध्र्यासं। ततो ये के च ज्मेति वै·ादेव्या। छन्दोभ्यः स्वाहा। त्रैविद्यकाय
स्वाहेति प्रधानाहुतित्रयं हुत्वा। पश्चादग्नेर्दर्भेषु प्राङासीनः प्रत्यङ्ङासीनार्ये भूर्भुवः स्वः
सावित्रीमनूच्यार्षादिकं स्मृत्वेषे त्वेति त्रीननुवाकानन्वाह ऋक्संहिताद्यं सूक्तं सामसंहिताद्यं साम। ऋचं वाचयित्वा नमो ब्राहृण इति परिधानीयां त्रिरन्वाह॥ तत ऋतुतिथियागादि समापयेत्॥
आ0। यो वेदमधीते ब्राहृचारी स मिधोऽभ्यादध्यात्। नाध्यापकः। आचार्यस्य विधिरिति वचनात्प्राप्तः। एते त्वाज्येन व्रतहोमाः। यस्मात्प्रवग्र्यव्रतादौ स्थालीपाकेन होम इति वक्तव्ये यत्स्थालीपाकेन व्रतहोमा इत्युच्यते ततो ज्ञायते सर्वेषु वेदव्रतेषु व्रतहोमैर्भवितव्यमिति। तत्र स्थालीपाकेनेति वचनादिहाज्येन ते भवन्ति। चातुर्हौतृके जयप्रभृतिग्रहणात् तस्य चास्य च त्रैविद्यकस्यान्येषां चारण्यानां शुक्रियादीनां वेदव्रतस्य समानत्वादेकयोगक्षेमत्वात्सर्वाणि व्रतानि तन्त्रवन्त्येवेति। नात्र तन्त्रवत्त्वाशङ्कात्र कार्या। सर्वव्रतानां स्वाधम्र्यानुमापकेन व्रतहोमग्रहणेनैव
तन्त्रवत्त्वे सिद्धे चातुर्हौतृके जयप्रभृतिवचनं तेजोऽन्नाद्यवीर्यकल्पहविःष्वपि तन्त्रवत्त्वाय। एतेनैव न्यायनानुक्तहोमेऽपि विहितसमीदाधानमात्रेतिकर्तव्यता के त्रैविद्यके तन्त्रवत्त्वं सिद्धं। अन्ये तु। एवं सर्वाणि वेदोक्तानि व्रतानीति वचनादविरुद्धोपयनधर्मातिदेशात् मुख्यत्रैविद्यकाख्यवेदव्रतग्रहणोपक्रमहोमस्य तद्वतन्त्रं वा मेखलाजिनदण्डानां च मन्त्रवृत्तिः सिद्धा। समिद्दानां त्विह विशेषचादितं वृतोपायनाति चोतिदेशात् उक्तं व्रतोपायनविमोचनमित्येव वर्णयन्ति। तथापि किं न छिन्नं सर्वथा तावत् त्रैविद्यकोपक्रमस्य तन्त्रवत्त्ववादिनो निरस्ताः। त्रैविद्यके तन्त्रं प्रदश्र्यते। आचार्यो यथोक्तमुपसमाधायाज्यभागान्तं कृत्वा दक्षिणमूरुं प्रत्युपविष्टस्य ब्राहृचारिणो वासोमेखलाचर्मदण्डानां मन्त्रानावत्र्यांहौमुग्भिः यद्देवा देवहेडनमिति तिसृभिः समिध आदापयित्वा। कृच्छ्रोक्तं व्रतोपायनमग्ने व्रतपते.....तेनाध्र्यासमित्यनुषङ्गान्तं कारयित्वा। तत आज्येन त्रिकादिभिर्होमांश्चतुर्गृहीतैर्यथोक्तान्हुत्वा छन्दोभ्यः स्वाहा त्रैविद्यकाय स्वाहेति चतुर्गृहीतं हुत्वा।
ततः पश्चादग्नेः प्राङासीनः प्रत्यङ्ङासीनाय मार्गवासा भवेत्याद्यग्नीन्धनान्तं ब्राहृचर्यमादिश्यार्षस्मरणपूर्वमिषे त्वेत्यादित्रयीमन्त्रानाहादितरुाीननुवाकान्यजुर्वेदात् कस्त्वा युनक्तीति चानुवाकार्धं। तत ऋतुतिथ्याद्याश्रावितान्तं संस्थापयेत्। अनन्तरमुपाकृत्य ग्राम्यमध्ययनं यावदुत्सर्गः। एतद्धोमकर्मसमिद्दानयुक्तं वेदाध्ययनस्य पुरस्तादुपरिष्टाच्च समवन्ते। तत्र व्रतविमोचनं विशेषः। मन्त्रे प्रवम्र्यव्रतं चरिष्यन्मेखलाजिनदण्डेषु मन्त्रानावर्तयेदिति वचनाद्विद्यामानानां वसनादीनां मन्त्रावृत्तिरेव सर्वव्रतेषु। तथा च मनुः-
यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला।
यो दण्डो यच्च वसनं तत्तत्तस्य व्रतेष्वपि॥
इहापि पितृचरणवृद्धाः स्मरन्ति-
वसनं मेखलां चर्म दण्डं समिधमेव च।
व्रतालम्भं प्रधानं च कुर्यात्सर्वत्र तेष्वपि॥
इ/4.2.3ऊ
इ4.2.4ऊ
उक्तं व्रतोपायनविमोचनम्॥4॥42॥(4।2)
दे0। व्रतस्योपायनं ग्रहणं मोचनं च परित्यागः। तद्द्वयमपि दर्शपौर्णमासयोरुक्तं। तथा च तत्रत्यं सूत्रं। पाणी प्रक्षाल्य दक्षिणेऽग्नेस्तिष्ठन्ब्राूयादग्ने व्रतपते वायो व्रतपते सूर्य व्रतपत इति॥
आ0। उक्तं व्रतोपायनं व्रतोपालम्भो दर्शपूर्णमासकृच्छ्रादिषु समाप्तौ च विमोचनम्॥
इ/4.2.4ऊ
तृतीय खण्डः
इ4.3.1ऊ
तश्चातुर्हौतृकम्॥1॥
दे0। चित्तिः रुाुगित्यादयो मन्त्राश्चतुर्होतार उच्यन्ते। तेषु भावं चातुर्होतृकम्॥
ब्रा0। चातुर्हौतृकमन्यत्राधीतमिह श्रोत्रियाः पठन्ति॥
आ0। चातुर्हौतृकमन्यत्रोक्तमिह प्रयोगप्रस्तावाय श्रोत्रिया पठन्ति। अथातश्चातुर्हौतृकं व्रतमुपक्रम्यते। अथशब्देन
चातुर्हौतृकं व्रतमुपक्रम्यते। अङ्गफलाधिकारार्थश्चाथशब्दः। अतः शब्दो हेत्वर्थे॥
इ/4.3.1ऊ
इ4.3.2.ऊ
ब्राहृचारिकल्पेन व्रतमुपैति॥2॥
दे0। तद्ब्राहृचारिकल्पेन व्रतचारिधर्मौपदेशिना वेदव्रतभागेन चोदितमुपेयात्॥
आ0। ब्राहृचारिकल्पेन मार्गवासाः संहतकेश इत्यादिना व्रतमुपैति। समिद्दानादिना व्रतोपायनं करोति। व्रतमध्यवस्यतीत्यर्थः। चातुर्हौतृकस्य ग्राम्यत्वमेव नारण्यत्वं। अविशेषेण च वेदव्रतत्वं सर्वेषां। तथा च संस्कारपंक्तौ गौतमः प्राह। चत्वारि वेदव्रतानि चतुर्होतारः शुक्रियोपनिषदरुणानीति॥
इ/4.3.2ऊ
इ4.3.3ऊ
संवत्सरमष्टौ मासांश्चतुरो मासान्वा॥3॥
दे0। संवत्सरमेतद्व्रतमुपेयादिति मुख्यः कल्पः। अष्टौ चतुरो मासान्वेत्यनुकल्पः॥
आ0। भूयस्त्वाल्पत्वापेक्षः कालविकल्पः॥
इ/4.3.3ऊ
इ4.3.4ऊ
शुद्धपक्षस्य पुण्याहे पर्वणि वा यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा पूर्वेणाÏग्न दर्भस्तम्भं निहत्य ब्रााहृणं दक्षिणत उपवेश्य हिरण्यवर्णा इति चतसृभिः समिधोऽभ्यादध्यात्॥4॥
दे0। हुत्वेत्यन्तं व्याख्यातं। अग्नेर्यः पूर्वदेशस्तत्र दर्भस्तम्भं निहत्याधीतवेदमन्यं ब्राहृचारिणमग्नेर्दक्षिणभागं उपवेश्याग्नेः पश्चार्धे व्यवस्थितः स हिरण्यवर्णा इत्यादिभिश्चतसृभिश्चतरुाः समिधोऽभ्यादध्यात्॥
ब्रा0। चतुर्होतृभ्यश्छन्दोभ्यश्चातुर्हौतृकाय जुष्टं निर्वपामीति यावकान्नाद्यपायसानाम् एकतमस्य निर्वापः। आज्यभागान्ते पूर्वेणाÏग्न सलोष्टगोमये षट्पञ्चाशद्दर्भांकुरैब्र्राहृप्रकृतिं दर्भस्तम्भं निहत्य ब्राहृाणं दक्षिणत उपवेश्याभ्यच्र्यान्यांश्च विप्रान्संनिधाय वसनमेखलाचर्मदण्डेषु मन्त्रानावत्र्य हिरण्यवर्णा इति चतसृभिः समिधोऽभ्यादध्यात्। हिरण्यवर्णाः शुचयः पावकाः। यासां देवाः। यासां राजा। शिवेन मा॥
आ0। शुद्धापेक्षोऽत्रोपक्रमकालः। जयप्रभृतिभिर्हुत्वेत्याज्यभागान्तं तन्त्रं दर्शयति। सिद्धेऽपि
व्रतहोमसंभावात्स्थालीपाकत्वात्तन्त्रवत्त्वे तेजोर्वीर्यकल्पे। हविषोऽत्र तन्त्रत्वं मा भूदिति। एवमाज्यभागान्तं हुत्वाचार्यो वासोमेखलाजिनदण्डमन्त्रानावत्र्य। पूर्वेणाÏग्न दर्भस्तम्भं निहत्य
दक्षिणतोऽग्नेरासनलम्भेन सहोपनिषदाद्यान्वाधानं कुर्यात्। कथं। ब्राहृचारिणं हिरण्यवर्णा इति चतसृभिश्चतरुाः समिधो दापयित्वा॥
इ/4.3.4ऊ
इ4.3.5ऊ
नित्ये व्रतोपायने ब्रााहृणा व्रतपतय इति चतुर्थम्॥5॥
दे0। यदेतत्प्रस्तुतं ब्राहृचारिणो मित्यमवश्यकर्तव्यं व्रतग्रहणं तत्र ब्रााहृणा व्रतपतयो व्रतमालभे तद्धः प्रब्रावीमि तच्छकेयं तेनाध्र्यासमिति चतुर्थं मन्त्रं कुर्यात्। त्रयस्तु पूर्वं व्याख्याता एवात्रापि स्थिताः। अग्ने व्रतपते। वायो व्रथपते। सूर्य व्रतपत इति॥
आ0। अत्र नित्ये प्राकृते व्रतोपायने स्थिते आवापभूतं ब्रााहृणा व्रतपतय इति व्रतमालभेत। तद्धः प्रब्रावीमि तच्छकेयं तेनघ्र्यासमिति चतुर्थं मन्त्रमावपेत्॥
इ/4.3.5ऊ
इ4.3.6ऊ
अथ व्रतहोमांश्चतुर्गृहीतैश्चतुर्होतृभिराज्येन तेजस्कामो यावकेन पशुकामोऽन्नाद्येन वीर्यकामः पयसि स्थालीपाकं श्रपयित्वा ब्राहृवर्चसकामः॥6। ।
दे0। अथ व्रतहोमान्वक्ष्याम इति शेषः॥
ब्रा0। ततश्चित्तिः रुाुक्। पृथिवी होता। अग्निर्होता। वाग्घोता। महाहविर्होता। छन्दोभ्यः स्वाहा।
चातुर्हौतृकाय स्वाहेति सप्तप्रधानाहुतयः॥
आ0। अथ चतुर्गृहीतैरावापस्थानत्वादेव चतुर्गृहीतसिद्धः क्वचित्रुावा अपि भवन्ति व्रतहोमाः। युक्तं च तदुभयाम्नायसंस्कारत्वादस्य चातुर्हौतृकव्रतस्य। तत्रामी गुणफलाधिकाराः। आज्येन तेजस्कामः। यावकेन यवमयेन पशुकामः। सिद्धवदन्नाद्यनिर्देशः। अन्नाद्येन तण्डुलेन वीर्यकामः। पयसि स्थालीपाकं श्रपयित्वा ब्राहृवर्चसकामो जुहुयात्। पयोऽत्र श्रपणार्थीयं। तस्मिन् श्रृतेन स्थालीपाकेन ब्राहृवर्चसंवृत्तस्वाध्यायसंपतिं्त यः कामयते स जुहुयात् चतुर्गृहीतैश्चतुर्भिर्होतृभिः। पञ्चहोत्रनन्तरमत्र षड्ढोत्रा होमः॥
इ/4.3.6ऊ
इ4.3.7ऊ
मनसैकैकं हुतमनुमन्त्रयते॥7॥
दे0। श्रपयित्वैकैकं चतुर्होतारं हुतं मन्त्रं मनसानुमन्त्रयते। मन्त्रागममनुसंदधीत मन्त्रद्वारेणेत्यर्थः॥
ब्रा0। मनसा त्वत्र मन्त्रोच्चरणं। एकैकामाहुतिं हुत्वैतैरेव मन्त्रैरनुमन्त्रयते॥
आ0। मनसै0.........मन्त्रयत इति याजमानमुक्तं। तच्चैतैरेव चतुर्होतृभिर्यथा हुतं। ते च ब्राहृचारिणा संस्कार्येण न तावदधीताः। तस्मादाचार्येण क्रियमाणेऽनुमन्त्रणे ब्राहृचारिणा मनोनिवेशमात्रं कर्तव्यं। तदर्थत्वात्संस्कारकरण इति भावः। ततश्छन्दोभ्यः स्वाहा चातुर्होतृकाय स्वहेत्याहुतीर्हुत्वा॥
इ/4.3.8ऊ
इ4.3.9ऊ
यद्वेदव्रतं तदत्र व्रतम्॥8॥
दे0। यद्वेदविहितं व्रतं तत्परिपूर्णमस्त्वित्यत्र मम व्रतमिति वाचयेत्॥
ब्रा0। ततः प्रत्यङ्ङासीनं ब्राहृचार्यसीति पञ्चभिरनुशास्य। ब्राहृचार्यसि। अपोऽशान। कर्म कुरु। दिवा मा सुषुप्सीः। वाचं यच्छ॥
आ0। यद्वेदव्रतं त्रैविद्यकव्रतादेशनं तदत्रापि कर्तव्यं। मार्गवासा भव संहतकेश भव भैक्षेणाचार्याधीनवृत्तिरित्यग्नीन्धनान्तं व्रतादेशनं विधाय॥
इ/4.3.8ऊ
इ4.3.9ऊ
विकाराननुक्रमिष्यामो न चतुर्भिः सहासीत न चतुर्णां समक्षं भुञ्जीत न चतुर्भिः सह भुञ्जीतैकतमो वा॥9॥
आ0। न चतुर्भिः सह भोक्तव्यं. नैकतमेनाप्यासितुं युक्तं न वा भोक्तव्यमित्येवमनुशास्य चतुर्होतृननूच्य। ऋतुतिथ्याद्याश्रावितान्तं संस्थाप्य ततो यावद्व्रतं चतुर्होतृमन्त्रब्रााहृणसमाम्नायमुभयत्राधीतमध्यापयेत्॥
इ/4.3.9ऊ
इ4.3.10ऊ
एवमपवर्गे॥10॥
दे0। अपवर्गः समाप्तिः॥
ब्रा0। तत्र तु प्रधानादनन्तरं समिदाधानं व्रतविमोकश्च। नात्र व्रतादेशो न चतुर्होतृमन्त्रवचनं। अग्ने व्रतपते व्रतमचारिषं तदशकं तत्ते प्रब्राूमस्तन्नो गोपाय। वायो व्रतपते। सूर्य व्रतपते। ब्रााहृणमा व्रतपतयो व्रतमचारिषं तदशकं तत्ते प्रब्राूमस्तन्नो गोपाय। एवमत्रोहः।
आ0। अध्ययनग्रहणान्ते एतद्धोमकर्म पूर्वोक्तमपि कुर्यात्। किंतु तत्रायं विशेषः। न व्रतालम्भः। वासोमेखलाजिनदण्डमन्त्रान्वाचयित्वा दर्भस्तम्भं पूर्वतो निधाय गोमये लोष्टे षट्पञ्चाशद्दर्भाङ्कुरैब्र्राहृप्रकृतिं कुर्यात्। ब्रााहृणं दक्षिणत उपवेश्य। चतुर्गृहीतैश्चतुर्होतृहोमं कृत्वानुमन्त्रणं। छन्दोभ्यश्चातुर्हौतृकायेति च हुत्वा। न व्रतादेशनं। न प्रवचनं। अपवर्गे स्थितः पूर्ववद्धिरण्यवर्णा इति चतसृभिः समिधो दापयित्वाग्ने व्रतपते
व्रतमचारिषमित्यादिना ब्रााहृणा व्रतपतय इति चतुर्थेन व्रतं विमुच्य॥
इ/4.3.10ऊ
इ4.3.11ऊ
वास आचार्याय ददाति वरं दक्षिणत आसीनाय॥11॥॥43॥(4।3)॥
ब्रा0। स्विष्टकृति हुते वास आचार्याय ददाति वरं दक्षिणतोऽग्नेरासीनाय॥
आ0। तत ऋतुतिथ्यादि। स्विष्टकृदन्ते वास आचार्याय वरं दक्षिणत आसीनाय दद्यात्। आश्रावितान्तं संस्थापेत्॥
इ/4.3.11ऊ
चतुर्थ खण्डः इ4.4.1ऊ षोडशे वर्षे गोदानमग्रौ वा समासे॥1॥
दे0। जन्मनः प्रभृति षोडशे वर्षे वर्तमाने ब्राहृचारिणा गोदानसंशं व्रतं कर्तव्यं। यस्त्वरितं दारस्वीकारार्थी अस्मादूध्र्वं स्नात्वा दारकर्मोच्यते। यस्तु सर्वकालं वेदमधीत्य विवाहं चिकीर्षति तस्योपनयनादारभ्य षोडशे वर्षे गोदानं। त्रिवेद्यां चिकीर्षति तस्योपनयनादारभ्य षोडशे वर्षे गोदानं। त्रिवेद्यां ह्मष्टाचत्वारिंशद्वर्षाणि ब्राहृचर्यं चरणीयमति पक्षः। तदेकवेदग्रहणे षोडश संवत्सरा भवन्ति त्रिभागेन। यस्य त्यापत्कल्पे न षोडशवर्षं भवत्युपनयनं तस्याग्नौ समाप्ते गोदानव्रतमग्न्यध्ययने समाप्त इत्यर्थः। योऽपि वेदैकदेशमधीत्य सिरुाासति तस्याप्येष पक्षोऽग्नौ समाप्त इति॥
आ0। षोडशे वर्षे गोदानं नाम संस्कारः। अग्नौ वा समाप्ते। बह्विष्टके हिरण्यगर्भान्ते पठित इत्यर्थः। नैतद्वेदव्रतं केशवापनमेवास्मिन्काले विधीयते। गोदानशब्देन च शिरसश्चत्वारो भागा उच्यन्ते गृह्रान्तरेषु। तथा च दक्षिणे गोदान एतत्कर्मेति। गवि भूमौ दीयत इति गोदानं स्वपतः शिरोङागम्॥
इ/4.4.1ऊ
इ4.4.2ऊ
तद्व्याख्यातं जातकर्मणा॥2॥
दे0। तच्चैतत्केशान्तिकापरपर्यायं गोदानव्रतं जातकर्मणमा व्याख्यातं। शिखाकर्मणेत्यर्थः। अत्रापि
ह्रुपसमाधानादिक्षुरकर्मान्तं समम्॥
आ0। आयमागादित्यारभ्य यावदरिक्ते पर्यशेषय इत्यन्तम्॥
इ/4.4.2ऊ
इ4.4.3ऊ
दर्भेष्वासीनं दर्भानध्यधिकृत्य हिरण्यं चाभिषिञ्चत्यग्निकीभिर्वा राजसूयिकीभिर्वा या आपो दिव्या इति द्वाभ्याम्॥3॥
दे0। कृतशौचार्थस्नानमग्नेः पश्चात्प्राङ्मुखं दर्भेषूपविष्टं ब्राहृचारिणं या आपो दिव्या इति द्वाभ्यामभिषिञ्चति। आग्निकीभिरद्भिर्यदिवा राजसूयिकीभिः। तत्राग्नेय्यो वहन्त्यानद्यादिप्रभवामन्त्रलिङ्गात्। सूर्यतेजः प्रबन्धाश्च सरस्वत्यादिप्रभवास्तु राजसूयिक्यः। राजसूये राजाभिषेकार्थमाम्नानात्। किं कृत्वाभिषिञ्चति। दर्भान्हिरण्यं चाध्यधिकृत्य। ब्राहृचारिणः शिरसि दर्भांस्तदुपरि सुवर्णं विधायेत्यर्थः॥
ब्रा0। सर्वान्नं हविष्यं क्षीरोदकाभ्यां पितुं नु स्तोषमित्यनुवाकेन संयूय तस्यौदुम्बरेण रुाुवेण जुहोति वाजस्य नु प्रसव इति चतुर्दशभिः। यस्य नु जुहुयात्तदग्नीषोमीत्यस्येध्मेऽपिप्रोक्षेच्छेष उदकमासिच्य तेनाभिषिञ्चति॥
आ0। ततः शौचार्थं स्नानं कृत्वा दर्भेषूपविष्टं दर्भांश्चाध्यधिकृत्य शिरसि दर्भेषूपरि हिरण्यं च कृत्वाभिषिञ्चत्याग्निकीभिरद्भिर्या उपधाने याभिः कुम्भेष्टका गृह्रन्ते वहन्तीभिः प्रसन्नाभिः स्थावराभिः परिमन्थिनीभिः कूप्याभिर्वहत उच्छ्रिताभिरित्येवं षड्विधाभिः। न तु क्षीरोदकेन।
तथानभिधानात्। राजसूयिकीभिर्वा
क्षत्रियं। या आपो दिव्या इति द्वाभ्यां। अभिषिञ्चतीति मन्त्रविधानात्। यदि होमषष्ठेन
क्षीरोदकेनाभिषेकः स्यादाग्निकेनेत्यवक्ष्यत्। न चाभिषेकमन्त्रेणान्नहोमो वितत आक्षिप्यते। राजसूयिक्यः सारस्वत्वादयः॥
इ/4.4.3ऊ
इ4.4.4ऊ
एवं राजानं सावीर्हि देवेति चानुवाकेन यथोक्तमक्रत्वज्यानिम्॥4॥44॥ (4।4)
दे0। एवमेव राजानं क्षत्रियमभिषिञ्चेदिति समन्तस्य मन्त्रद्वयस्य विनियोगात्तस्यातिदेशः। विशेषमाह। सावीर्हि.......0ज्यानिं। सावीर्हि देव प्रथमाय पित्रे वष्र्माणमित्यादिनानुवाकेननान्यद्यथोक्तं कवचसंनहनादि कुर्यात्। किं सर्वं। नेत्याह। अक्रत्वज्यानिं। क्रतुर्मृत्युसवः। ज्यानिरत्यर्थत्यागादिकृत आयासः। तद्वर्जं। अनुवाकनिर्दिशाद्धि तल्लिङ्गादेतावपि प्राप्नुत इति सिध्यते॥
ब्रा0। सावीर्हि देवेति चानुवाकेन मृत्युसवे यथोक्तं कवचसंनहनादि। अभिषेकादनन्तरमाग्नेय्या वै·ादेव्या वा प्रधानं। ऋतुतिथियागादितन्त्रसमाप्तिः। वरो दक्षिणा॥
आ0। ताभिरेव राजानं। अभिषिञ्चेदिति शेषः। सावीर्हि देवेति चानुवाकं यथोक्तं। यथोक्तं कर्म कुर्यात्। कवचसंनहनादि। अक्रत्वज्यानिं। क्रतुर्मृत्युसवाख्यः। यत्रैतत्कर्माभिहितं तत्संबन्धं यत्कर्म। ज्यानिश्च तत्रास्ति। भ्रातुव्यकुलीनायोपविष्टायेषुमसित्वा तस्माज्ज्यानिं द्रव्यापहारं हानिमिति। तद्वर्जं। अन्यत्र वसनमेखलादि न किंचिद्भवति। न वा पुनरपवर्गे करणं। तथावचनाभावात्। अन्ये
त्वाज्यभागान्तं हुत्वा आयमागादित्यन्तमरिक्ते पर्यश्रेषय इत्यन्तं कृत्वा स्नात्वा वसनादिदण्डान्तं। ततो यथोक्तोऽभिषेक आग्निकीभिः। ततो वै·ादेव्या चतुर्गृहीतं हुत्वा। छन्दोभ्यः स्वाहा गोदानाय स्वाहेति च हुत्वा। ऋतुतिथ्याद्याश्रावितान्तं संस्थापयेत्। गोदानास्य गृह्रान्तरेषु व्रतत्वदर्शनत्वान्नात्रापवर्गोऽध्ययनाभावादिति॥
इ/4.4.4ऊ
पञ्चम खण्डः
इ4.5.1ऊ अथैकाग्रेः समाधानम्॥1॥
दे0। व्रतसमाप्त्यनन्तरमधीतेन स्नात्वा विवाहः कर्तव्यः। कृतविवाहस्य पाकयज्ञा आम्नाताः। ते चाग्नौ क्रियन्ते। जीवत्पितृकस्य वैवाहाग्नौ विकल्पः। तं जीवत्पितृको यदा न धारयते तदा तेनाग्न्यन्तरमुत्पादनीयमवश्यं पितृप्रमयेऽग्न्यन्तरार्जनं पैतृकाग्न्युपशमनपूर्वकमित्युपशमनमाह। पितरि प्रेते एक एवासहायः शिष्यते पैतृकोऽग्निः। तस्यैकाग्नेः समाधानं प्रतिपत्तिकर्म कर्तव्यं पुत्रेणैव न तु पुरोहितप्रभृतिभिः। अपरा व्याख्या। एक एवाग्निः पतृको यस्यास्तीति न तु वैवाहनः स्वयं वृत्तः स एकाग्निः गृहस्थः प्रमीतपितृकः समाधानशब्दस्तन्त्रेण द्वयमाह। पूर्वाग्नेस्त्यागमावसथाग्नेराहरणं। यतः सम्यगाधानभर्जनमपि। अनेकार्थत्वाद्धातुनिपातनमेतदेव स्फुटयितुमाह॥
ब्रा0। आहिताग्नेः प्रमीतस्य त्रेताग्निदाहादूध्र्वं गृह्राग्निप्रतिपत्तिविधानमथैकाग्नेः समाधानमिति कण्डिकायामुक्तं। तत्पद्धतिराहिताग्निसंस्कृतावेवास्माभिरुक्ता॥
आ0। सर्वव्रतान्ते स्नास्यत् गां प्रकारयेदित्यादि स्नानमुक्तं। स्नातस्य न विवाह उक्तः। एवं च माणवकस्य संस्कारा उक्ताः गर्भाधानादयो विवाहापर्यन्ताः। विवाहेऽन्तरकालं पाकयज्ञानुष्ठानात्तच्चाग्निसाध्यं। तत्र जीवपितृकस्याग्नौ विकल्पः। वैवाहनमÏग्न गृह्णाति न गृह्णाति वा। तदुक्तं। भार्यादिरग्निर्दायादिर्वा। एवं येन जीवति पितरि जापातणिजाभावे वैवाहनेन गृहीतः स द्वितीयेनापि दायकालेनाहतो वक्ष्यमाणेतिकर्तव्यतया। तस्य परमेष्ठिमरणेऽवश्यमग्निर्जनं नियम्यते। तदर्थमाह। अथैकाग्नेः समाधानं। एकाग्निर्गृह्राग्निः। तस्य समाधानमर्जयित्वा लक्षणस्थापनं वक्ष्याम इति वाक्यशेषः। तत्राथशब्दो मङ्गलार्थः॥
इ/4.5.1ऊ
इ4.5.2ऊ
परमेष्ठिमरणे पुत्रस्याग्निसमाधानम्॥2॥
दे0। परिमेष्ठी स्वामी। पितात्र। तस्य प्रमये पुत्रेणैवाग्नेः समाधानं शमनं कर्तव्यमित्युक्तार्थम्॥
आ0। पुत्रस्य। कदा। परमेष्ठिमरणे। परमेष्ठी पिता माता च। एतयोरन्यतरस्य प्रमये पुत्रस्यैकाग्नेः समाधानं विधीयते। परित्यागे पुत्रस्येव नियमो नÐत्वजां। ऋत्विजः परिधानीयमन्त्यकर्म कुर्वन्त्याहवनीयादिभिः। एकाग्नेस्तु प्रतिपत्तिः पुत्रस्यैव नियम्यते॥
इ/4.5.2ऊ
इ4.5.3ऊ
सर्वानुपवासयेत्॥3॥
दे0। ऋत्विग्बन्धून्सर्वान्। उप समीपेऽग्नेः वासयेद्रात्रिम्॥
आ0। स पुत्रः पितरि मृते एकाग्नेन्त्यकर्मसंस्कारेण दग्ध्वा तां रातिं्र सर्वानुपवासयेत्। ज्ञातीनृत्विजश्चैकाग्नेः समीपं स्थापयेत्॥
इ/4.5.3ऊ
इ4.5.4ऊ
तमÏग्न प्रज्वालयेदाकालमुपव्युषम्॥4॥
दे0। उषा रात्रिः। विगता उषा स यत्र व्युषः। प्रभातकालः। तस्य समीपमुपव्युषं आदित्योदयकालं यावत्। तत्र प्रकृतमेकाÏग्न ज्वालयेत्। संदीपयेत्। यावह्रुष्ठा रात्रिस्तावदÏग्न प्रज्वालयेदिति संबन्धः॥
आ0। उपव्युषं यावह्रुष्टा रात्रिः॥
इ/4.5.4ऊ
इ4.5.5ऊ
माषकणमन्थेनौदुम्बरेण कंसेनाÏग्न शमयेद्धिरण्यपाणिं सवितारं वायुमिन्द्रं प्रजापतिम्। देवाँ अङ्गिरसो हवामह इमं क्रव्यादं शमयन्त्वग्निमिति॥5॥
दे0। उदकमिश्रमाषचूर्णसंपादितेन मन्थेनौदुम्बरकंसपात्रनिक्षिप्तेन तमÏग्न शमयेत्॥
आ0। ततो माषकणमन्थेन। माषकणा मासचूर्णः तैर्भन्थः। क्षीरमिश्चैर्भवति। तेन। औदुम्बरेण
ताम्रेण कंसेनाÏग्न प्रकृतं समापयेत् शमयतीत्यर्थः। हिरण्यपाणिमित्यनया विराट्पङ्क्त्या॥
इ/4.5.5ऊ
इ4.5.6ऊ
काशानामूते कटे भस्म समोप्य प्रस्थापयेत् क्रव्यादमÏग्न प्रहिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः। इहैवायमितरो जातवेदा देवेभ्यो द्रव्यं वहतु प्रजानन्निति॥6॥
दे0। काशानां तृणविशेषाणां संबन्धिनि ऊते ग्रथिते कटे समारोप्य तत्प्रशमितैकाग्निभस्म स्थापयेत् शमयेत् क्रव्यादमग्निमिति त्रिष्टुभा। काशानां मूढकट इति वा पाठः। तत्र समुञ्जसमूलाग्रतृणनिर्मिताकारो मूढकटः॥
आ0। ततः काशानां तृणविशेषाणां भूताकारे कटे भस्म समोफ्य प्रस्थापयेत्। शमयेत्। क्रव्यादमग्निमित्यनया त्रिष्टुभा। इहैवायमपरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन्नित्यनेन लिङ्गेनाकृतविवाहस्याप्यग्न्यर्जनमिच्छन्ति। पुत्रस्य नित्यवदाम्नानात्। लिङ्गप्रभवं चेदम्॥
इ/4.5.6ऊ
इ4.5.7ऊ
निर्दग्घमिति दक्षिणापरस्यां दिशि चतुष्पथे निधायोपधानं सीसं च तस्मिन्नध्यधिमार्जयन्ते सीसे मलिम्लुचामहे शीष्र्णा चोपबर्हणे। क्रव्यादः समया मृष्ट्वा तं प्रेत सुदानव इति॥7॥
दे0। निर्दग्धमिति मन्त्रेण दक्षिणपरस्यां दिशि नैर्ऋत्यां दिशि पश्चिमदिगन्तराले यश्चतुष्पथस्तत्र निधाय स्थापयित्वा काश कटनिहितं भस्म। उपधानसीसशब्दाभ्यां च यज्जीवतः पितुः शिरोऽवष्टम्भनं गण्डुकादुकमासीत्.........॥
आ0। निर्दग्धमित्यनेन सेधान्तेन नैर्ऋत्यां दिशि चतुष्पथस्तत्र सभस्मानं भूतकटं निधाय उपधानं च तत्रैव
उपबर्हणं यत्पितुरस्वस्थस्यासीच्छिरोधानं सीसं च यत्कित्। पतद्ग्रहमित्येक। तस्मिन्नध्यधिमार्जयन्ते तृतीये मलिम्लुचामह इत्यनया त्रिष्टुभा। अप उत्सिञ्चन्ति ज्ञातयः सपुत्रा ऋत्विजश्च॥
इ/4.5.7ऊ
इ4.5.8ऊ
अपास्मदेत्विति चतसृभिरुपस्थाय शं नो देवीरित्युपस्पृश्य प्रतीपमायन्तः पदानि लोभयन्ते
नडैर्वेतसशाकया वा मृत्योः पदं लोभयन्त इति। मृत्योः पदं लोभयन्तो यदीमो द्वाधीय आयुः प्रतरं दधानाः। आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियास इति॥8॥
दे0। शं नो देवीरित्यनयोदकोपस्पर्शनं कुर्युः सर्वे। ततो भस्मकटसीसप्रदेशात्प्रतीपमायन्तः प्रत्यावर्तमानाः पदानि लोभयन्ते सर्वे पादप्रतिबिम्बानि नाशयन्ति। लोपयन्त्युत्पुंसयन्ति। कैः। नडैः दीर्घैः बाहुभिः वीतसशाखया या द्राघीयस्या सपर्णया सामध्र्याश्चात्र सीसभस्मसांमुख्येन प्रत्यावर्तमानं सप्ताष्टौ वा पदानीति गम्यते। मृत्योः पदमित्यादि मन्त्रप्रतीकः॥
आ0। अपास्यदेत्विति चतसृभिरुपस्थाय निर्ऋति। शं नो देवीरित्युपस्पृश्य। स्नानमेवात्रोपस्पर्शनं। प्रतीपायन्तः। प्रतिमुखा आयन्त आगच्छन्तः। पदानि। पांसु.....णविन्यासाः। तानि लोभयन्तः योपयन्तः विनाशयन्त इति यावत्। केन। नडैः नडशाखाभिर्विरूढकप्रायैर्वेतसशाखया वा। वेतसो वञ्जुलकः। एकवचनं प्रत्येकापेक्षया। मृत्योः पदं लोभयन्ति इत्यनया त्रिरष्टुभा सप्तमात्राणि
पदानि। स्वानि स्वानि पदानि। साप्तपदीनं सख्यमिति दर्शनात्॥
इ/4.5.8ऊ
इ4.5.9ऊ
अत्रैव शाखां निदध्युः॥9॥
दे0। अनन्तरं वेतसशाखां नडमुष्टीश्च अत्रैव प्रकृतसीसभस्मकटे निदध्युः प्रक्षिपेयुः॥
आ0। निदध्युः त्यजेयुः॥
इ/4.5.9ऊ
इ4.5.10ऊ
अनङ्वाहं पुरस्कृत्य व्रजन्त्यनड्वाहं प्लवमिति। अनङ्वाहं प्लवमन्वारभध्यं स वो निर्वक्षद्दुरितानि वि·ाा। आरोहत सवितुर्नावं हिरण्मयीं षङ्भिरूर्मिभिरमृतत्वं तरेमेति॥10॥
आ0। अनङ्वाहं पुरस्कृत्य गृहाद्रजन्तम् अनङ्वाहं प्लवमिति॥
इ/4.5.10ऊ
इ4.5.11ऊ
प्रत्यागतानक्षतधूममुपस्पश्र्य गवाग्निना च प्रदक्षिणमÏग्न त्रिः परियन्ति परीमे गामनेषतेति। परीमे गामनेपत पर्यग्निमह्मषत। देवेष्वक्रत श्रवः क इमाँ आदधर्षतीति॥11॥
दे0। प्रत्यागतान्गृहान्प्राप्तान्वान्धवादीन्। ये च गृहे स्थितास्तानपि। अक्षतधूममनवहतयवादिबीजधूममुपस्पर्शयन्ते। ये भस्मकटेन सह गताः स्वयं चोपस्पृशन्ति। उपस्पृश्य हस्तेऽग्निमादाय प्रकृतेन गवा यत्राग्नौ भूमिष्ठे अक्षतधूमः कृतः तत्प्रदक्षिणं यथा भवति
तथा त्रिः परियन्ति। पर्यावृत्य भ्रमन्ति। परीमे गामनेषतेत्यादिकयर्चा॥
आ0। ततो गृहान्प्राप्याक्षतधूममनवहतानां सर्वबीजानां धूमं संस्पर्शयति शरीरेण नासिकया वा कश्चिद्गृहे स्थितः। णिजुपदेशात्। अग्निमन्यं भूमौ प्रज्वाल्य अन्यं चादाय गवा प्रकृतेनानङुहाग्निना च प्रदक्षिणमÏग्न त्रिः परियन्ति परीमे गामनेषतेत्यनया॥
इ/4.5.11ऊ
इ4.5.12ऊ
उदपात्रेऽश्मानं हिरण्यं चावधायाथैनानभिममर्शयन्ते ऽश्मन्वतीरिति। अश्मन्वती रीयते
संरभध्वमुत्तिष्ठत प्रचरता सखायः। अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजानिति॥12॥45॥(4।5)
दे0। उदकेन पूर्णपात्रेऽश्मानं हिरण्यं सर्वबीजानि वदरान्निधाय अनन्तरमेनान् ज्ञातादीन्संस्पर्शयति स्वयं च स्पृशन्ति। अश्मन्वती रीयत इति त्रिष्टुभा॥
आ0। तत उदपात्रेऽश्मानं हिरण्यं चादायाथैतान् प्रकृतानृत्विजो ज्ञातीश्चाभिमर्शयन्ते। अश्मन्वती रीयत इति त्रिष्टुभा। यदुक्तं परिधानीयान्ते माषान्हिरण्यं लवणान्सर्वबीजान्यश्मानं हिरण्यं चादायेत्यश्महिरण्यसर्वबीजानामिहोपयोगः॥
इ/4.5.12ऊ
षष्ट खण्डः इ4.6.1ऊ शुचिर्भूतः पितृभ्यो दद्यात्॥1॥
दे0। परमेष्ठिप्रमयनिमित्ते ब्रााहृणादीनां दशरात्रादिना यथास्वमशौचे शुद्धे सति परमेष्ठिने श्राद्धं कुर्यादÏग्न साधयेदिति तात्पर्यार्थः। यद्यपि च परमेष्ठिनः श्राद्धं मासिकाद्येकोद्दिष्टं तथाप्यसावस्यादिश्राद्धमनेकोद्दिष्टं तत्रैवाग्नौ कर्तव्यमुपान्तस्याग्नेस्त्यागाभावादिति तदभिप्रायं पितृभ्य इति बहुवचनं। सर्वं हि पाकयज्ञादिकमुच्यते। अभार्येणापि वाग्निरुत्पादनीयः श्राद्धादिसंसिद्ध्यर्थं। ततश्चेतरो विवाहः कर्तव्यः अवश्यकर्तव्यसिद्धये। एवं तावदादित्यदर्शनप्रभृतयो व्यवस्थिताः। प्रायेण त्वार्यावर्तनिवासिनामविवाहानां प्रमीतपितृकाणां लौकिकाग्नावेव प्रथमश्राद्धानि विधाय सपिण्डीकरणादूध्र्वं विवाहं विधायाग्निपरिग्रहेऽन्तरा निरीक्ष्यते। तत्राप्यनादरं न विदधति सन्तः सिद्धवदग्नौ श्राद्धकर्तव्यतामुक्त्वौपसदाग्न्याधानमाह॥
ब्रा0। येन वैवाहिकोऽग्निस्तत्कालं दायकाले वापि नाह्मतस्तेन मातापितृप्रमये शौचान्त्यदिने पूर्वेद्युः कर्म कृत्वा ·ाः शुचिना भूतेनानेन विधिना गृह्रान्त्याधेयं कर्तव्यं। स औपसदाग्निस्तस्मिन्प्रथमश्राद्धं तÏस्मश्च पाकयज्ञाः। तदुक्तं-
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही।
दायकालाह्मते वापि श्रौतं वैतानिकाग्निषु॥
असद्द्वितीयेनापि विवाहोन्मुखेनानेन विधिना पित्रोः प्रमये श्राद्धार्थमग्निराधेयः। तस्मिन्नित्यनैमित्तिककार्याण्या विवाहात्। तस्मिन्नेवोद्वाहविवाहकर्म॥
आ0। आशौचव्यपगमे शुचिः संपन्नः पितृभ्यो दद्यात्। परमेष्ठिने श्राद्धं कुर्यादित्यर्थः। बहुवचनं
पिण्डपितृयज्ञादिसर्वपाकयज्ञप्रदर्शनपरं श्राद्धार्थमुत्पादिताग्नेस्त्यगो मा विज्ञायीति। कथं पितृभ्यो दद्यात्। अग्निमार्जयित्वेत्यर्थः॥
इ/4.6.1ऊ
इ4.6.2ऊ
औपवस्त्रं भुक्त्वा कुतश्चिदग्निमानीय तं जागरयीतोपशयीति च॥2॥
दे0। उपवस्तुरशनमौपवस्त्रं। तत्पुनव्र्रत्यं हविष्यान्नं शाकमाषलवणमांसवर्जं। व्रीहियचपयोघृतप्रभृतिभिर्भुक्त्वा स चासद्वितीय कुतश्चिदनिषद्धाच्छावादिच्यतिरिक्तात् तमÏग्न लौकिकमानीय समिन्धेदिन्धनविशेषैः। औपवस्त्रभोजनं तु दशम्यामेव ह्रेकादश्यां श्राद्धं भवति। एकादश्यां त्वौपवस्त्रे द्वादश्यां श्राद्धं स्यात्। तं जागरयीतः वैश्यन्तं रक्षेदित्यर्थः।उपशयित च। ऋत्विग्बान्धवसहितस्तमुप समीपे शयीतेत्यर्थः। चशब्दाद्गार्हपत्यगर्तोपलेपनार्थोपढौकितं पार्थिवसंभारशब्दवाच्योषशर्करावराहविहतावाल्मीकवपासिकतानां पयसां मिश्रीकरणं समुच्चीयते॥
आ0। औपवस्त्रं भुक्त्वा। उपवासन्त्वनशनं। औपस्त्रमशाकादिहविष्यं। अत्रास्नातस्याप्रकृतविवाहस्याप्यग्न्यर्जनकाला एषः। श्राद्धं तावदवश्यमसद्वितीयेनापि कर्तव्यं। अत्राष्टकाङ्गं नाÏग्न विनोपपद्यते। न च साक्षात्पत्न्यपेक्षाग्न्यर्जनेऽस्ति। न च श्राद्धार्थस्योत्पन्नस्याग्नेस्त्यागः। न चौपवस्त्रं भुक्त्वेत्यत्र पर्वणि भार्यामुपवस्येतिवदुपदेशः। तस्मादसद्वितीयस्यापि विवाहोन्मुखस्यावश्यमाधानं। कुतश्चिदग्निमानीय यत्र
दीप्यमानमपरिगृहीतं तं जागरयीत। इन्धनेदानेन। उपशयीत च। चशब्दात्पार्थिवान्संभारानद्भिः
संसृजति॥
इ/4.6.2ऊ
इ4.6.3ऊ
उपकाश उपशान्ते भस्मोद्धृत्य॥3॥
दे0। उपकाशे प्रकाशकाले त्वप्रकाशे रजन्यन्ते। उपशान्ते तस्मिन्नग्नौ। ततोऽग्न्यगाराद्रार्हपत्यसदृशगर्भाद्भस्मन उद्धरणं। अपसरणं। कृत्वा॥
आ0। तत उपकाशकाले प्रभाते। उपशान्तेऽग्नौ भस्मोद्धृतत्याग्न्यायतनात्॥
इ/4.6.3ऊ
इ4.6.4ऊ
पार्थिवान्संभारान्पुर्वया न्युप्य॥4॥
दे0। ऊषादीन्सिकतापर्यन्तान्पार्थिवसंभारान् न्युप्य। गर्ते प्रक्षिप्य। पूर्वया ऋचा। सप्त हि पठिताः। तासां या पूर्वा उत्समुद्रादिति तया॥
आ0। पार्थिवानूषशर्करवराहविहतवात्मीकपासिकतालक्षणान्। पूर्वयात्र सप्तानां च या पूर्वा उत्समुद्रादिति। तया न्युप्य॥
इ/4.6.4ऊ
इ4.6.5ऊ
उत्तरया व्यूह्र॥5॥
दे0। षडुत्तरा भवन्ति। तत्राविशेषेऽपि सर्वान्त्यमन्त्यवर्णाद्गृह्रते। यत्पृथिव्या अनामृतमित्यादिका।
इयत्यग्र आसीरित्यादिरुत्तरा इत्यन्ये॥
आ0। गार्हपत्योद्धृतसदृशे लक्षणे उत्तरया यत्पृथिव्या आनामृतमित्यनया व्यूह्र। उपलिप्याग्निक्षेत्रम्॥
इ/4.6.5ऊ
इ4.6.6ऊ
तमपरेण यथोत्पादितमुत्पाद्य॥6॥
दे0। तस्य गर्तस्यापरेण पश्चार्धे यथोत्पादितमुत्पाद्य। गार्हपत्यवदुत्पाद्येत्यर्थः। करणेन कर्तव्यता मन्त्रैस्तैरेवोत्पाद्येत्यर्थः। करणेन कर्तव्यता मन्त्रैस्तैरेवोत्पाद्येत्यर्थः। यथैवा·ात्थीभ्यां शमीगर्भाभ्यामरणिभ्यां मन्त्रविशेषादिभिश्च गार्हपत्य उत्पाद्यते तथैवायमौपनिषदो गृह्राग्निरावसथ्यः॥
आ0। तमपरेण तस्य पश्चार्धे यथोत्पादितमुत्पाद्य गार्हपत्यवदरणिभ्यां तैरेव मन्त्रैस्तथैवेति। अत्र चतुर्होतृवचनमपि भवति। तदन्तर्गतत्वात्॥
इ/4.6.6ऊ
इ4.6.7ऊ
जानुदघ्नं धारयित्वादधाति भूर्भुवरङ्गिरसामिति पूर्वेण सुगार्हपत्य इति च। सुगार्हपत्यो विनुदन्नरातीरुषामुषां श्रेयसीं श्रेयसीं नः। दीर्घायुत्वाय शतशारदायाधीयस्व महते सौभगायेति॥7॥
दे0। तमरणिनिर्मन्थनोत्पन्नं समिद्धमÏग्न जानुपरिमाणं धारयित्वा भूर्भुवः स्वरित्याधानमन्त्राणामायोगपठितत्वादाद्येन सुगार्हपत्येन चादधातीत्यर्थः। जानुदघ्नं संक्षिप्य धारयित्वादधातीति यावत्॥
आ0। जानुदघ्नं धारयित्वादधाति भूर्भुवः स्वरङ्गिरसामिति पूर्वेण सुगार्हपत्य इत्ययं मन्त्रः। एष आधानमन्त्रः। भूर्भुवः स्वरङ्गिरसामित्येतत्पूर्वः। मन्त्रद्वयान्तेनादधातीत्यर्थः॥
इ/4.6.7ऊ
इ4.6.8ऊ
सहिरण्या वानस्पत्याः समिध आधाय॥8॥
शनिहतवृक्षपलाशसमिधश्च सं त्वमग्न इति। ततः परिसमूह्र पर्युक्ष्य परिस्तीर्य बाहिस्तन्त्रिकमाज्यमुत्पाद्य रुाुक्रुाुवौ संमृज्य सप्त ते अग्न इति चतुर्गृहीतपूर्णां रुाुचं जुहुयात्। एवं द्वितीयां सान्नां मनसा प्रजापतये स्वाहेति। तत आग्नेयेन स्थालीपाकेन पशुना वा यजेत। भुवो यज्ञस्येति स्थालीपाकस्य यागः। पशुविधिर्नामधेयकरण उक्तः॥
इ/4.6.8ऊ
सप्तम खण्डः
इ4.7.1ऊ
एष औपसदोऽग्निर्वैवाहनो वा॥1॥
दे0। एष अनन्तरोक्त आहवनीयधर्मक आहितो वैवाहनो वा दक्षिणाग्न्याकृतिः। उभयेऽप्यौपसदः। अन्वर्थसंज्ञेयं। उपसीदन्त्यस्मिन्नित्युपसत् आवसथः। तत्रभवः औपसदः। वाशब्दो विकल्पार्थः। तेन
समुच्चयाभावः। संव्यवहारार्थमौपसदसंज्ञा। औपसदेऽग्नौ सायं प्रातरित्यादि। वैवाहनस्य। विवाहकर्मण्येव संस्कार इतरस्य त्रेताया इवाधानम्॥
आ0। एष इत्यौपसदोऽग्निः सर्वनाम्ना परामृश्यते। योऽयमनयेतिकर्तव्यतयाहित एष औपसदोऽग्निर्भवति। यौगिकेयं संज्ञा। उपसीदन्त्यस्मिन्नित्युपसत् आवसथः। तत्रभव औपसदः। संव्यवहारार्थं संज्ञा। औपसदेऽग्नौ सायं प्रातरित्येवमादिषु। वैवाहनो वा। औपवसथः। स विवाहेनैव संस्कृतः। नष्टे दुष्टे वाग्नौ पुनः संस्कारः। स चाज्यभागान्ते पावमानीभिर्होमः। नान्यत् दभ्पत्योः संस्कारत्वात्। अस्य पुनर्निर्मन्थनादि सर्वम्॥
इ/4.7.1ऊ
इ4.7.2ऊ
तस्मिन्पाकयज्ञाः॥2॥
दे0। भवन्तीति वाक्यशेषः। औपसदे प्रथमश्राद्धार्थमाहिते पाकयज्ञाः। न तु लौकिके गर्भाधानादिसंस्कारत्वात्स्थालीपाकेन निर्वत्र्याः यज्ञाः पाकयज्ञाः अष्टकाद्याः॥
आ0। भवन्तीति शेषः। इहाग्नये स्थालीपाकेनेति प्रसङ्गः प्रथमश्राद्धे चाष्टकाहोमः। तेन पाकयज्ञानामितकर्तव्यतोच्यते। तथा श्राद्धार्थमाहिते सर्वपाकयज्ञानुष्ठानम्॥
इ/4.7.2ऊ
इ4.7.3ऊ
तेषामुक्तमुपसमाधानम्॥3॥
दे0। यदुक्तमुपसमाधानं तदेव तेषां पाकयज्ञानां। किमुक्तं। पञ्चदश्यामौपवरुां भुक्त्वा व्रतचारिणौ स्यातां। ·ाो भूते प्रातर्होमं कृत्वा बर्हिः संनह्र समिधौ चोद्धतावोक्षितेऽÏग्न साधयित्वा परिसमूह्र परिस्तीर्याग्नेरुपसमाधानं विभूरसीत्यनुवाकेन। त्रिभिः स्तरैः परिस्तरणं वैश्रवणीयदर्शनात्। सर्वसंभारढौकनमुपसमाधानमित्यपि व्याचक्षते। इष्टिविकारत्वादैष्टिको विध्यन्तः संनिपत्योपकारको नष्टः। अथाधानं तु नेष्यते गृह्राग्नौ प्रायाजानुयाजाचारादुपकारिणः अन्वाधामुद्धारः। उपयामं कृत्वोत्तरतः संस्तीर्य पात्राणि प्रयुनक्ति कृष्णाजिनमुलूखलं स्थालीं मेक्षणमुपयामं रुाुवं रुाुचमाज्यधानीं हविष्याश्चापरेणाग्निमासादयेत्। तांश्च निर्वपेत् .... अग्नये अग्नीषोमाभ्यामिति पौर्णमास्यामग्नये इन्द्राग्निभ्यामित्यमावस्यायां। .. गृह्रे हि तस्यै तस्यै देवताथै चतुरो मुष्टीन्निर्वपतीति दृश्यते॥
व्र0। पूर्वेद्युः प्रागौपवस्त्राशनाद्देवताग्रहणमिमा मया ·ाो यष्टव्या इति। यो वै देवताः पूर्वेद्युर्गृह्णाति तस्य ·ाो भूते यज्ञमागच्छन्तीति श्रुतिः। पूर्वेद्युः परिसमूह्र पर्युक्ष्य यष्टव्यदेवताकीर्तनं। यथा। अग्निरग्नीषोमा इति पौर्णमास्यां। बुभूषतो वैष्णव उपांशुयाजः। अग्निर्विष्णुरग्नीषोमाविति। अग्निरिन्द्राग्नी इत्यमावस्यायां। ... सायमारण्यं दम्पती अश्नीतो माषवर्जं येन च प्रातर्यक्ष्यमाणः स्यात्तत्सायं नाद्यात्। प्रातर्हुतेऽग्नौ ऋतं त्वेत्येतैः परिसमूह्र पर्युक्ष्य परिषिच्य। ... ·ाो भूते याग
इष्यते। अथ प्रणीतपात्रमनुमन्त्रणं। अस्माकमग्ने ... अग्ने तवोतिभिः। .. ऋतं त्वा सत्येन परिसमूहामि। सत्यं त्वर्तेन परिसमूहामि। ऋतसत्याभ्यां त्वा परिसमूहामि॥ ऋतं त्वा सत्येन पर्युक्षामि।
सत्यं त्वर्तेन प0। ऋतसत्याभ्यां त्वा प0॥ ऋतं त्वा सत्येन परिषिञ्चामि। सत्यं त्वर्तेन प0।
ऋतसत्याभ्यां त्वा परिषिञ्चामि॥ ... त्रिभिः स्तरैः संस्तीर्य। ... धूरसीति पर्युक्षणमन्त्रः। कया नश्चित्र इति परिस्तरणमन्त्रः। पूर्व ईशानपर्यन्ता नैर्ऋत्यान्ताश्च दक्षिणाः। वायव्यान्ता उदीच्यः स्युस्तदन्ता वारुणाः स्तराः। तदुक्तं वैश्रवणीयदर्शने ऋक्सामसंहीतायां। चतुर्भिर्मन्त्रैर्दर्भास्तरणं। ... उत्तरतः संस्तीर्णे पात्राणि द्वन्द्वं प्रयुनक्ति दर्भोपयामं शूर्परुाुचं दर्भकृष्णाजिनमुलूखलमुसलं दर्भपात्रे चरुमेक्षणं दर्भाज्यधानी रुाुक्रुाुवौ आधारसमिधौ। व्रीहीन्यवान्वोपसाद्य पाणी प्रक्षाल्य सशूर्पां रुाुचमादायाग्नौ प्रतिताप्य चतुर्भिर्मुष्टिभिः रुाुचं पूरयित्वा सावित्रादिना यथादैवतं निर्वपति॥
आ0। तेषामुक्तमुपसमाधानं। प्रोक्तं परिभाषासु तावत्। उद्धतावोक्षितेऽग्निसादनं। ततो होमः। दर्शपूर्णमासप्रकृतयः पाकयज्ञाः। तेष्वावृदुपचारस्तूष्णीमिति। उक्तसंकीर्तनं विशेषविधानार्थं। उपसमाधानं द्रव्याणां समभ्याशीकरणं। केचिदग्निलक्षणे समाधाय मनुष्वदित्यन्वादधाति शर्कराग्निषु तत्पर्यन्तमुपसमाधानं दृष्टमिति वदन्तः। तदयुक्तं। तत्र पशुबन्धसिद्धमनूचितं यज्ञान्यहोमार्थं तत्रान्वाधानं लिङ्गप्रकरणैर्विनियुक्तं। इह तन्नोपदेशेन नाप्यतिदेशेन॥
इ/4.7.3ऊ
इ4.7.4ऊ
यथाचरितं च पवित्रसंस्करणाज्यनिर्वपणग्रहणाधिश्रयणोत्पवनमवेक्षणं च॥4॥
दे0। यथाचरितं मन्त्रवदित्यर्थः। अवेक्षणं पत्न्यापि। तत्राछिन्नाग्रौ समौ प्रादेशमात्रौ दर्भौ पवित्रकं। यथोक्तमुपसमाधानमिति तत्र तत्रोक्तं। हविष्यान्नेन चरुस्थालीं पूरयित्वा अमुष्मै इति संकल्प्यावहत्य निष्पूय चरौ पवित्रान्तर्हिता अपो निषिच्य तण्डुलादिकं निक्षिप्यावधानेनानास्त्रावितान्त ऊष्मपक्वं
चरुं श्रपयित्वाभिधार्योदगुद्धास्योदगभिधार्याधारसमिधावादधाति। विष्णोर्मनसा पूते स्थः। देवो वः सवितोत्पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः। पवित्राभ्यामुदकमुत्पूय ते नैव तूष्णीं हविष्यान्पात्राणि च प्रोक्षति॥ आज्यधान्यां पवित्रान्तर्हितायामाज्यं निर्वपति पृश्न्याः पयोऽसि तस्य तेऽक्षीयमाणस्य पिन्वमानस्य पिन्वमानं निर्वपामि॥ देवेभ्य आज्यं निरुप्य गृह्णाति पञ्चानां त्वा वातानां धत्र्राय गृह्णामि। पञ्चानां त्वा सलिलानां ध0 गृ0। पञ्चानां त्वा पृष्ठानां ध0 गृ0 पञ्चानां त्वा दिशां ध0 गृ0। पञ्चानां त्वा पञ्चजनानां ध0 गृ0। भूरस्माकं हव्यं देवानामाशिषो यजमानस्य चरोस्त्वा पञ्चबिलस्य धत्र्राय गृह्णामि। धामासि प्रियं देवानामनाधृष्टं देवयजनं देवताभिस्त्वा देवताभ्यो गृह्णामि। अधिश्रयति। इषे त्वा। अदब्धेनेति पत्न्यवेक्षते। ऊर्जे त्वेति पुनरधिश्रयति। अग्नेर्जिह्वेति पवित्रेणोत्पुनाति। हविरसीत्यनेन वीक्षते। अवेक्षणं वेति योगविभागात्पत्न्या अप्यवेक्षणं वा ज्ञायते। अन्यथैकः एव योगोऽभविष्यत्। मेत्रायणीयायां च स्फुटमेवाभिहितं पत्न्यवेक्षणम्॥
ब्रा0। विष्णोर्मनसेति दर्भपवित्रमुन्मृज्य समावच्छिन्नासौ दर्भौ प्रादेशमात्रौ पवित्रीकरोति। ताभ्यां देवो व इति अङ्गुष्ठकनिष्ठकाभ्यामुत्तानाभ्यां पाणिभ्यामुदगग्नौ दर्भावादाय प्राचीनमुदकमुत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीं। सावित्रादिना यथादेवतं प्रोक्षति। देवस्य त्वा भवितुः....... अग्नये इन्त्राग्निभ्यां जुष्टं प्रोक्षामि। अग्नयेऽग्नीषोमाभ्यां जुष्टं प्रोक्षामि। पात्राणि च तूष्णीं। न्यञ्चि
पात्राणि प्रयुनक्त्युत्तानानि प्रोक्षति। ततो व्रीहीनवहन्ति। त्रिः सुफलीकृत्वा निस्तुषान्करोति। उत्पूयापोऽधिश्रयति। प्रक्षाल्य तण्डुलान्पवित्रान्तर्हितानावपति। प्रक्षाल्याग्रतो मेक्षणवदधाति। उल्मुकेन त्रिः परिहरति।.......पञ्चानां त्वा.....देवताभ्यो गृह्णामीति गृहीत्वा।....पत्न्यवेक्षणमिह न भवति। दक्षिणतः पत्नीमुपवेश्य। ऊर्जे त्वेत्यग्न्या
अधिश्रयति।......पवित्रेणोत्पुनात्युदकोत्पवनवत्।......हविरसीति यजमानो वीक्षते॥
आ0। यथाचरितं च पवित्रसंस्करणं। तेषामुक्तमिति चशब्देनानुकृष्यते। तूष्णींप्राप्ते मन्त्रविधानं। अच्छिन्नौ समौ प्रादेशमात्रौ दर्भौ पवित्रकं। विष्णोर्मनसेत्युन्माÐष्ट एतावन्मात्रं। नापां संस्करणं। आज्यनिर्वपनादि यथाचरितं मन्त्रवदित्यर्थः। अवेक्षणं चेति योगविभागात्पत्न्याप्यवेक्षणं मैत्रायणीये स्फुटमस्ति। निर्वापं परिसंचष्टे। न च गृहे निर्वापशब्दोऽस्ति यत्सावित्रेण क्रियते। अत्र यत्र हविश्चोदना तत्र तत्र शब्दान्तरेण चत्वारि हवींष्यासादयेति तेन मन्त्रवती निर्वापशङ्का न कार्या। एतत्तद्यथोक्तसमाधानं तत्र तत्रोक्तं। हविष्मत्सु चरुस्थाली पूरयित्वा अमुष्मा इति संकल्प्यावहत्य पवित्रान्तर्हितासेचनावपनमेक्षणावधानेनानवस्त्रावितान्तरोऽमुष्मै पक्वं श्रपयित्वा
श्रुतमभिधार्योद्वास्योद्गभिधार्याधारसमिधावादधाति॥
इ/4.7.4ऊ
इ4.7.5ऊ
प्रागाज्यभागाभ्यामुक्ता आधारौ॥5॥
दे0। रुाुक्रुाुवौ प्रतिताप्य समुन्मृज्य रुाुचि चतुर्गृहीतं गृहीत्वाघारसमिधावाधाय चरुमभिधार्योदग्दर्भेषूद्वास्याभिधार्योपयामपाणिः प्रजापतये स्वाहेत्युत्तरार्थेऽग्नेः संततं दीर्घं प्राञ्चं प्रज्वालितायां समिध्याघारयति। रुाुवेण तिष्ठन् चतुर्गृहीतेन दक्षिणमाधारमाघारयति ऊध्र्वो अध्वरो दिविस्पृगहुतो यज्ञो यज्ञपतेरिन्द्रवान्बृहद्भाः स्वाहा॥
आ0। अत्र दार्शपौर्णमासिके सर्वस्मिस्तन्त्रे प्राप्ते आघारग्रहणमन्यपरिसंख्यानार्थं। तेन
प्रयाजादीन्परिसंचष्टे। आघारावेव भवतो नान्यÏत्कचित्। आधारहोमयोर्नाम च धार्मग्राहिकत्वेन सधर्मकावेवाघारौ भवतः। प्रथमं रुाुवेण दीर्घं प्राञ्चं संततं मनसा। एवं रुाुचा द्वितीयं चतुर्गृहीतेन तिष्ठन्नूध्र्वो अध्वर इति॥
इ/4.7.5ऊ
इ4.7.6ऊ
युक्तः पुरस्तादिति पञ्चभिराज्यस्य जुहोति॥6॥
दे0। आज्यस्येति द्वितीयार्थे षष्ठी। अवयवावयविसंबन्धे वाज्यस्यांशं जुहोतीत्यर्थः। आज्यग्रहणादप्यौषधिद्रव्यं प्रधानमस्तीति ज्ञापयति॥
आ0। अभिधानाच्च युक्तः पुरस्तादिति पञ्चभिराज्यस्य जुहोति। आज्यग्रहणं पाकयज्ञेष्वन्यत्पक्वमौषधं प्रधानं यथा कर्मास्त्येवेति ज्ञापयति॥
इ/4.7.6ऊ
इ4.7.7ऊ
आयुषः प्राणमिति सन्तनीर्जुहोति॥7॥
दे0। आयुषः प्राणमित्येकादश नाभेर्भौवनस्य॥
आ0। आयुषः प्राणमिति संतनीर्जुहोति। तृतीयासंबद्धो जुहोतिरिह नानुवर्तते इति पुनर्जुहोतीग्रहणं जयादिष्वप्यनुवर्तते॥
इ/4.7.7ऊ
इ4.7.8ऊ
जयाभ्यातानान्राष्ट्रभृतश्च॥8॥
दे0। येन कर्मणेत्सेत्तत्र जयाञ्जुहुयादितीहापि विनियोगः।........त्रयोदश जयाः। अभ्यातानहोमश्चतुर्दशः। जयाभ्यातानाञ्जुहोतीत्यनुषङ्गः।.......राष्ट्रभृतश्च। अत्रापि जुहोतीत्यपेक्षते। राष्ट्रभृत्संज्ञया प्रसिद्धास्त्रयोदशाहुतयः॥
आ0। जयाभ्यातानाश्च तान्जयाभ्यातानामाकूतं च स्वाहेति जयास्त्रयोदश। अत्र मैत्रायणीयानामेव चतुर्थी भवति। तत्र देवतानामधेयेन होमः। इह च वाक्येन पदद्वयेन यत्र वाक्येन होमस्तत्र चतुर्थी न भवति। क्वचिदपि यथा। अग्निर्वृत्राणीति। अभ्याताना बृहस्पतिपुरोहिता इति प्रवादः। राष्ट्रभृतो ऋताषाडिति। अत्र त्रयोदशाहुतीः षड्भिः पर्यायैद्र्वादश विभज्य विभागश्च प्रतिपर्यायं द्वयोर्वाक्ययोरादी पठ¬ते। द्वे च समाप्ती। यथासंख्येन संबन्धस्तेषामत्र रूपोदाहरणं। ऋताषाहुतधामाग्निर्गन्धर्वः स न इदं ब्राहृक्षत्रं पातु तस्मै स्वाहा वट्। तस्यौषधयोऽप्सरसो मुदा नाम ताभ्यः स्वाहा वडिति। एवं सर्वत्र। नात्र ऊहो वाक्यप्रक्षेपो वा कर्तव्यः। स नो भुवनस्य पत इति त्रयोदशी। अत्र वि·ाा आशा इत्यनेन होमशङ्का न कार्या। विज्ञानमात्रत्वादेवमस्यैषापि सपत्नीको विदितो भवतीत्यर्थः। षण्णां मिथुनशब्दो दृश्यते। मिथुना आहुतयः प्रजात्यै द्वादशेति स नो भुवनस्य पत इति राष्ट्रभृत्त्वादिहाग्नौ होमः। अन्यत्रवचनाद्रथमुखादौ॥
इ/4.7.8ऊ
इ4.7.9ऊ
वात्र्राघ्नावाज्यभागौ॥9॥
दे0। राष्ट्रभृदनन्तरं वात्र्राघ्नावाज्यभागौ जुहोति। उभयत्र चोभौ पौर्णमास्याममावास्यायां च। अन्येषु पाकयज्ञेषु आज्यमेव भागो ययोस्तावाज्यभागावग्नीषोमौ।.. ... आज्यशब्दो अत्रापि धर्माणां ग्राहकः तेन चतुरग्रहीतेन होमः। आग्नेयस्याग्नेयी याज्यानुवाक्ये द्वितीयस्य सौमी। अन्ये त्वाहुः न याज्यैवानुवाक्या भवितुमर्हति। अनुवाक्यया प्रैषः याज्यया हविः प्रक्षेपः। तत्र गायत्र्योऽनुवाक्याः त्रिष्टुभो याज्या इति प्रायिकः। अत एवात्र वात्र्रघ्नशब्दोऽनुवाक्ययाग्राहैक इत्याहुः। तथा चोक्तं। यत्र वृत्तस्तत्रानुवाक्येति। अग्निर्वृत्राणि.....आहुतः। त्वं सोमासि......क्रतुः। ......एतदाज्यभागान्तं कर्मोपसमाधानशब्देनोच्यत इत्याहुः। अग्निमुपसमाधायेत्याज्यभागान्तं हुत्वेत्यर्थः॥
आ0। आज्यभागशब्दोऽयं धर्मग्राहकः। तेन चतुर्गृहीतेनाग्निर्वृत्राणीत्युत्तरतः। तथा त्वं सोमासीति दक्षिणतः। वात्र्राघ्नशब्देनानुवाक्यायै चोदिते। तेनानुवाक्यया होमः सर्वत्र ज्ञायते। दयति यत्रर्चस्तत्रानुवाक्य होमः सर्वत्र ज्ञायते। दयति यत्रर्चस्तत्रानुवाक्य इत्येवं केचित्। अन्ये पुनराहुः। याज्यया हविः प्रक्षेपो दृष्टः समाचारश्च आ हिमवत आ कुमारीभ्यो याज्यया होमः। यदुक्तं। गृह्रकारः सर्वत्रानुवाक्याश्चोदयति। तदनैकान्त्रिकं याज्या अपि चोदयति। यथा। वपद ते विष्ण उप ते गा ये ते अर्यमन् प्र तद्विष्णुरित्येवमाद्याः॥
इ/4.7.9ऊ
इ4.7.10ऊ
स्विष्टकृदाज्यभागा अन्तरेणावापः॥10॥
दे0। उक्तयोराज्यभागयोर्भविष्यतः स्विष्टकृतश्च मध्ये आवापः कर्तव्यः। आवापशब्देन
स्थालीपाकयज्ञा आग्नेयादय उच्यन्ते।.....अथवा स्विष्टकृदाज्यभागान्तरेणावापः प्रधानकर्मणां कर्तव्य इत्यध्याहारेण पूरयितव्यम्॥
ब्रा0। स्विष्टकृदाज्यभागा अन्तरेण प्रधानं। उपस्तीर्य मध्यात्पूर्वार्धाच्चावद्यति संहताभ्यामङ्गुलिभ्यामङ्गुष्ठेन चाङ्गुष्ठपर्वमात्रमवदानमवद्येत्। पश्चात्तृतीयं पञ्चावत्तिनोऽवदायाभिधार्य यतोऽवत्तं तच्चाभिघारयेदयात्तयामतायै। स्विष्टकृतेऽवदाय न प्रत्यभिघारयेन्न हि ततः परमाहुतिं यक्ष्यन्भवतीति। भुवो उभा वामिन्द्राग्नी इत्यमावस्यायां। प्र तद्विष्णुरित्याज्यप्रधानं। इत्यमावस्यायां प्रधानाहुतयः। ये के च ज्मेति अनुक्तप्रधानदेवतानां सर्वत्र होमः। भुवो आन्यं दिवो युवमेतानीति तिरुाः पौर्णमास्यां। तासामान्यामित्याज्यस्य चतुर्गृहीतेन॥
आ0। आवापो नाम देवताद्रव्यविशेषः। तदाज्यभागौ कृत्वा प्राक् स्विष्टकृतोऽन्तराले भवति। एतत्तन्त्रं साधारणमाज्यभागान्तं स्विष्टकृदादि च॥
इ/4.7.10ऊ
इ4.7.11ऊ
नामधेयेन देवतां यजेत तद्देवतया वर्चाग्रेयीं वोहेदग्रीषोमीयामैन्द्राग्नीं वा द्विदेवतेषु वै·ादेवीं बहुदेवतेषु॥11॥
दे0। आग्नेयस्थालीपाकस्याग्नये स्वाहेति नामधेयेन जुहुयात्पर्वणि स्थालीपाकस्याग्नये स्वाहा अग्नीषोमाभ्यां स्वाहेति। तद्देवतयः ऋचेति पक्षान्तरमूहविधानाद्दक्षक्षोधिमतर इत्याहुः।.....आग्नेये स्थालीपाके तावदाग्नेयी युक्ता यदा न नामधेयेन यागः देशकालकुलभेदे
नागविनायकग्रामयक्षप्रभृतीनां यागाः प्रसिद्धाः यद्देवताभिधानसमर्था वेदे मन्त्रा नाम्नाताः तेष्वपीष्टेषु दर्शपूर्णमासयोरिति नयेनातिदेशप्राप्ता आग्नेयादिमन्त्राः स्मार्तदिष्वेवोहनीयाः। तस्माद्दक्षु नोहेदिति। ऋक्षूहनिषेधाद्बहुवचनमर्थवत्। तत्रैकदेवतेष्वग्नीषोमीयमैन्द्राग्नीं वा प्रकृतौ। बहुदेवतेषु तु वै·ादेवीं। वि·ोदेवप्रकाशनसमर्थामतिदेश प्राप्तामृचमूहेत्॥
आ0। अत्र देवताहुविर्विशेषो विधीयमानोऽन्तराल उच्यते। कथं। नामधेयेन देवतां यजेत। तद्देवतया वर्चा आग्नेयीं वोहेत्। यत्र नामधेयेन देवतायागः तत्र ऋक्षूहः। किमर्थं। ऊहः किलागतिकागतिः। अमन्त्रत्वात्। ऊहविधानाज्ज्ञायते ऋक्। ऋक्षु आचार्यस्याभिप्रेतरतः। विदधाति च होमार्थमृचः। यत्रेयं व्यवस्था इह जातिकुलाचारव्यवस्थया उच्चावचा देवतायागाश्चोदिता भवन्ति। तत्र नागविनायकादीनां लोके यागानामृग्वेदे न
पठ¬ते। तत्रोहः। समानाक्षरं नाम लभ्यते तत्र नामधेयेनैव। यथा। पञ्चहस्ताय स्वाहेति। न पुनर्विद्यमानास्वृक्षु नामधेयेन यागः।
इ/4.7.11ऊ
इ4.7.12ऊ
ऋतुतिथिनक्षत्रदेवताश्च यजेत॥12॥
दे0। षडृतवस्तांस्तदधिष्ठातृभूताश्च देवता नामधेयेन यजेत। एवं तितीस्तदधिष्ठातृभूताश्च देवता यजेत। तथा नक्षत्राण्य·िान्यादि तद्देवताश्च। ताश्च शान्तिविमोकमन्त्रेषु पठिताः व्याख्यातश्च प्रधानदेशावाप्राधान्यमिति विज्ञेयम्॥
ब्रा0। ओं अग्नये स्वाहा वसन्ताय स्वाहा। इन्द्राय स्वाहा ग्रीष्माय स्व0। मरुद्भ्यः स्व0 वर्षाभ्यः
स्व0। वि·ोभ्यो देवेभ्यः स्व0 शरदे स्व0। मित्राय स्व0 हेमन्ताय स्व0। मित्रावरुणाभ्यां स्व0 हेमन्तशिशिराभ्यां स्वाहा॥ ओं ब्राहृणे स्वाहा प्रतिपदे स्वाहा। त्वष्ट्रे स्व0। द्वितीयायै स्व0। जनर्दनाय स्व0 तृतीयायै स्व0। यमाय स्व0 चतुथ्र्यै स्व0। सोमाय स्व0 पञ्चम्यै स्व0। कुमाराय स्व0 षष्ठ¬ै स्व0। मुनिभ्यः स्व0 सप्तम्यै स्व0। वसुभ्यः स्व0 अष्टम्यै स्व0। पिशाचेभ्यः स्व0 नवम्यै स्व0। धर्माय स्व0 दशम्यै स्व0। रुद्रेभ्यः स्व0 एकादश्यै स्व0। गविभ्यः स्व0 द्वादश्यै स्व0। कामाय स्व0 त्रयोदश्यै स्व0। भूतेभ्यः स्व0 चतुर्दश्यै स्व0। पितृभ्यः स्व0। अमावास्यायै स्व0। वि·ोभ्यो देवेभ्यः स्व0 पूर्णपञ्चदश्यै स्वाहा॥ ओं अग्नये कृत्तिकाभ्यः स्वाहा। प्रजापतये स्व0 रोहिण्ये स्व0। मरुद्भ्यः स्व0 इन्वकाभ्यः स्व0। रुद्राय स्व0 बाहवे स्व0। अदितये स्व0 पुनर्वसवे स्व0। ब्राहस्पतये स्व0 तिष्याय स्व0। सर्पेभ्यः स्व0। आश्लेषाभ्यः स्व0। पितृभ्यः स्व0 मघाभ्यः स्व0। भगाय स्व पूर्वाभ्यः फाल्गुनीभ्यः स्व0। अर्यम्णे स्व0 उत्तराभ्यः फल्गुनीभ्यः स्व0। सवित्रे स्व0 हस्ताय स्व0। त्वष्ट्रे स्व0 चित्रायै स्व0। वायवे स्व0 निष्ट¬ायै स्व0। इन्द्राग्निभ्यां स्व0 विशाखार्य स्व0। मित्राय स्व0 अनूराघेभ्यः स्व0। इन्द्राय स्व0 ज्यैष्ठायै स्व0। निर्ऋतये स्व0 भूलाय स्व0। अद्भ्यः स्व0 पूर्वाभ्योऽषाढाभ्यः स्व0। वि·ोभ्यो देवेभ्यः स्व0 उत्तराभ्योऽषाढाभ्यः स्व0। विष्णवे स्व0 अ·ात्थाय स्व0। वसुभ्यः स्व0 श्रविष्ठाभ्यः स्व0। वरुणाय स्व0 शतभिषजे स्व0। अजैकपदेभ्यः स्व0 पूर्वेभ्यः प्रोष्ठपदेभ्यः स्व0। अहिर्बुध्न्याय स्व0 उत्तरेभ्यः प्रोष्ठपदेभ्यः स्व0। पूष्णे स्व0 रेवत्यै स्व0। अ·िाभ्यां स्व0 अ·ायुग्भ्यां स्व0। यमाय स्व0 अपभरणीभ्यः स्वाहा॥
आ0। यजेत। रुाुवेणैव। न यजतिशब्दाश्चतुर्गृहीतेन जुहोति। यजन्याः परस्परानुवादात्। जयोर्योजयेदितिवत्। एतत्सर्वप्रधानानां साधारणं। ऋतुश्च तिथिश्च नक्षत्रं च तेषां देवता ऋतुतिथिनक्षत्रदेवताः। चशब्दादृतुतिथिनक्षत्राणि न नामधेयेन यजेत। केचिदृतुश्च तिथिनक्षत्रदेवताश्च चशब्दान्नक्षत्रं विगृह्रते। तेऽपि वृत्तिविशेषेण दोषान्न मुच्यन्ते। तस्माहत्वादीन्सदेवतान्यजेत। तथा च मैत्रायणीयानां गृह्रे। ऋतुमिष्ठ्वा ऋतुदेवतां यजेत। नक्षत्रमिष्ठ्वा नक्षत्रदेवतां यजेत। तिथिमिष्ठ्वा तिथिदेवतां यजेत। ऋतुतिथीनां देवताः पराशरादिभ्योऽवगन्तव्याः॥
इ/4.7.12ऊ
इ4.7.13ऊ
प्राक् स्विष्टकृत उपहोम गावोऽयं यज्ञ आ नः प्रजां। धूर्मिरुपधूर्मिश्च हुत्वेडामन्न इति स्विष्टकृतम्॥13॥
दे0। इह गाव इत्यादय उपहोमाः। तेषां स्विष्टकृतः पूर्वत्वं नियम्यते।.......इडामग्न इति स्विष्टकृतं यजेतेत्यनुषङ्गः। इह गाव इत्यादीनुपहोमान्हुत्वा मध्यात्पूर्वार्धाच्चावदाय स्विष्टकृतं यजेतेडामग्न इति मन्त्रेण॥
ब्रा0। तत उपहोमः। इह गाव इति तिरुाः। उपस्तीर्योत्तरार्धाद्धविपो हविषोऽग्नये स्विष्टकृते च सकृत्स्थवीयांसमवदाय द्विरभिधार्य प्रचरति। नातः प्रत्यभिधारयेदुत्तरार्धपूर्वार्धे संसृष्टात्स्विष्टकृतः। इडामग्न इति। हुते मेक्षणमनुप्रह्मत्य हविरुच्छिष्टमुद्धास्य॥
आ0। प्राक् स्विष्टकृत उपहोमः। अनुक्ता अपि प्राक् स्विष्टकृत एव भवन्ति। किं वचनेन।
स्विश्टकृद्भक्तत्वमुपहोमानामेकादशानामिह गाव इत्यादीनां ज्ञापयति।......इडामग्न इति स्विष्टकृतं जुहोति समवदायोत्तरार्धपूर्वार्धे॥
इ/4.7.13ऊ
इ4.7.14ऊ
त्वं नो अग्र इति द्वाभ्यां जुहुयादया भूरिति च सर्वप्रायश्चित्तानि मनो ज्योतिरिति सप्तभिः॥14॥
दे0। तत एतदाहुतिद्वयं जुहुयादित्यर्थः अया भूरिति च। जुहुयादित्यनुषज्यते॥
ब्रा0। त्वं नो अग्र इत्यादि मनो ज्योतिरिति सप्तान्ता द्वाविंशतिमाहुतीर्जुहुयात्। त्वं नो अग्रे (1) सत्वं नो अग्रे (2) अयाश्चाग्ने (3) भूः स्वाहा (4) भुवः स्वाहा (5) स्वः स्वाहा (6) भूर्भुवः स्वः स्वाहा (7) त्वं नो अग्ने (8) स त्वं नो अग्ने (9) न्यूनमतिरिक्ते जुहोमि स्वाहा (10) अतिरिक्तं न्यूने जुहोमि स्वाहा (11) समं समे जुहोमि स्वाहा (12) अनाज्ञातं यदाज्ञातं यद्यज्ञे क्रियते मिथः सर्वं तदग्ने कल्पय त्वं हि वेत्थ यथातथं स्वाहा (13) स्विष्टिश्च दुरिष्टिश्च ये यज्ञमभिरक्षितः। प्रयाजानन्या नः पातु यज्ञमन्याभिरक्षतु स्वाहा (14) आश्रावितमत्याश्रावितं वषट्कृतमवषट्कृतमननूक्तमत्यनूक्तं च यज्ञेऽतिरिक्तं कर्मणो यच्च हीनमग्निष्टानि प्रविदन्नतु कल्पयन् स्वाहा (15) ततो मनो ज्योतिरिति प्रायश्चित्तानि मनो ज्योतिर्जुषतां (16) त्रयÏस्त्रशत्तन्तवः (17) यन्मे मनश्छिद्रम् (18) वि·ाकर्मा हविरिदं जुषाणः (19) अयाश्चाग्नेऽसि (20) त्वं नो अग्ने (21) स त्वं नो अग्ने (22) आज्यशेषं रुाुचि चतुर्गृहीतवत्यासिच्य दर्भानग्नौ
प्रास्य वेद्यामूध्र्वस्तिष्ठन्संस्थितयजुर्जुहुयादाश्रावितमिति संततम्॥
आ0। त्वं नो अग्ने इति द्वाभ्यां जुहुयात्। अया भूरिति च। अयाश्चाग्ने भूः स्वाहेत्यनुवाकशेषं च शब्दात्सर्वप्रायश्चित्तानि मनो ज्योतिरिति सप्त प्रायश्चित्तानि प्राक् संस्थितयजुषो दृष्टानि। इह तथैवाश्रावितमित्यस्मात्पूर्वम्॥
इ/4.7.14ऊ
इ4.7.15ऊ
परिस्तरणान्यनुप्रहरेन्नानुप्रहरेदित्येके॥15॥
दे0। सूक्तवाक्येन प्रस्तरं प्रहरतीति प्रकृतावाम्नातं। तत्पाकयज्ञेषु केचिदिच्छन्तीत्यर्थः॥
आ0। परिस्तरणानि दर्भाननुप्रहरेत्। इह प्रतिपत्तिदर्शनात्परिस्तरणमस्तीति ज्ञायते। नानुप्रहरेदित्येक इति वक्तव्ये पुनराख्यातग्रहणं विकल्पस्य चतुर्भागावशेषतां ज्ञापयति॥
इ/4.7.15ऊ
इ4.7.16ऊ
इ4.7.17ऊ
एवं सर्वा देवताश्चेज्यानि च॥16॥47॥ (4।7)
दे0। सर्वा देवताः साधारणनाम्ना यजेत। इज्यानि च यष्टव्यानि यज्ञा इत्यर्थः। सर्वदेवताभ्यः स्वाहा। यज्ञेभ्यः स्वाहेति। इज्यानि हविष्यद्रव्याणि। सर्वाणि सर्वदेवतोद्देशेन प्रक्षिपेदित्यपि केचिह्राचक्षते॥
आ0। एवं सर्वा देवताश्च। यथा तिरुाो देवता यजति। इज्यानि च। यजतिशब्दचोदितान्युच्यन्ते।
यथा गोयज्ञस्य वरुणयज्ञस्येति। तत्रायं संक्षेपार्थः। स्थालीपाकशब्देन पाकयज्ञतन्त्रमुपस्थाप्यते। देवताद्रव्यशब्देन यज्ञशब्देन च। एतत्त्रितस्याभावे जयप्रभृतिभिरित्यनेन। तस्याप्यभावे यावदुक्तमेव। यथा इह प्रजा यासामूध इति॥
इ/4.7.16ऊ
इ/4.7.17ऊ
अष्टम खण्डः
इ4.8.1ऊ
षडाहुतं प्रतिपदि पुत्रकामो ब्राहृणाग्निः संविदान इति षड्भिगाज्यस्य जुहोत्युत्तराभिः षड्भिः स्थालीपाकस्य॥1॥
दे0। तस्मिन्पाकयज्ञा इत्युक्तं। द्विविधाश्च नित्यराम्यभेदेन पाकयज्ञाः। तत्र नित्याः पूर्वोक्ताः नियतकरणीयत्वात्। काम्यास्त्वधुनोच्यन्ते नियमकार्यत्वाभावात्।.......षडाहुतय आज्येन षट्
स्थालीपाकेनस्मिन्नित्यन्पर्थसज्ञा षडाहुतमिति। तच्च प्रतिपद्येव कुर्यात्। न जातु चित्पञ्चदश्यां। पुत्रकाम इत्यधिकारिनिर्देशः। ब्राहृणाग्निः संविदान इति षड्भिर्ऋग्भिः। यत्ते घ्नन्त्यप्सरस इत्यादिभिः स्थालीपाकेन जुहुयात्॥
ब्रा0। षडाहुते शुक्ले कृष्णे वा प्रतिपद्यग्नये रक्षोघ्ने जुष्टं निर्वपामीति निर्वापः। ब्राहृणाग्निः......इति षड्भिराज्येन। ये ते घ्न्त्यप्सरस......इति षड्भिः स्थालीपाकेन। तत ऋतुतिथिनक्षत्रदेवताश्च यजेत।
आ0। नित्यान्युक्त्या काम्यानि शूलगवपर्यन्तानि कथ्यन्ते। किमर्थमुच्यन्ते। अत्र पाकयज्ञा इति सर्वपाकयज्ञानां साधारणं तन्त्रमुक्तं। काम्यानां कामोत्पत्तिवशादनुष्ठानं कामोत्पत्तिश्चानियतकालानेतेषां ब्राूमः। नित्यानि विकृत्य निविशन्ते। अतस्तान्युच्यन्ते। पुत्राश्च महोपकारत्वादात्मनः पूर्वेषां चोष्यन्ते। अतः पुत्रकामः षडाहुतं नाम काम्यं पाकयज्ञं कर्म प्रतिपदि कुर्यात्। षडाहुतयो यÏस्मस्तत् षडाहुतं। प्रतिपदीति नियमो न पञ्चदश्यां। आज्यभागान्ते ब्राहृणाग्निः संविदान इति षड्भिर्ऋग्भिराज्यस्य चतुर्गृहीतैर्जुहुयात्। प्रधानत्वादुपांशुयाजवत्। उत्तराभिः षड्भिः स्थालीपाकस्य ये त घ्नत्यप्सरस इत्येवमादिभिः॥
इ/4.8.1ऊ
इ4.8.2ऊ
सौविष्टकृते त्रयोदशीमा॥2॥48॥(4।9)
दे0। सौविष्टकृते कर्मणि पुनस्त्रयोदशीमाहुतिं जुहुयात्। मेजमेष परापतेति मन्त्रो न त्विडामग्न इति॥
आ0। सौविष्टकृते यागे त्रयोदशीमृचं नेजमेषेत्येतां कुर्यात्। इडामग्न इत्यस्य निवृत्तिः॥
इ/4.8.2ऊ
नवम खण्डः
इ4.9.1ऊ नक्षत्रयज्ञेषु नक्षत्रदेवतानामृचस्ताभिर्यजेत। अग्निर्मूर्धा हिरण्यगर्भो मरुतो यन्मृडा नो रुद्र सुत्रामाणं तव श्रिये नमो अस्तु सर्पेभ्य आहं पितृन्सदा सुगो ये ते अर्यमंस्तत्सवितुर्य इमे द्यावापृथिवी वायुरग्रेगा इन्द्राग्नी रोचना मित्रो जनानिन्द्रः सुत्रामा यं ते देवी शं नो देवीर्वि·ो देवा ब्राहृ जज्ञानं वषट् ते विष्ण आ मे गृहा इमं मे वरुणोपप्रागादहिरिव भोगैः पूषा गा अन्वेतु नः प्र वां दंसांसि यमो दाधारेति प्रत्त्युचम्॥1।.49।.(4।9)
दे0। इहाधिकफलविशेषान्तराश्रवणाद्विधिप्रत्ययमात्रश्रुतेश्च नित्यत्वं केचिन्नक्षत्रदेवतायज्ञानां वदन्ति प्रतिपदि चानुष्ठानं। अन्ये तु फलवत्संनिधौ यत्फलं तदङ्गमिति फलवतो विवाहस्यानतिदूरे सूत्रकृता कर्तव्यतया प्रतिपादितत्वाद्गृहीतगर्भया वध्वा उपकारत्वेनाङ्गत्वमाहुः। अन्येऽन्यया कथयन्ति। सन्ति नक्षत्रेष्टयः आहवनीयसाध्यवदनकाम्याः। कार्त्तिकामावस्यायां कृत्तिकास्वग्नये कृतिकाभ्योऽष्टागपालमित्याद्याः। तत्र च युगपत्सर्वकामानवाप्नुयादिति सर्वकामसिद्धिः। फलवत्त्वेनाम्नाता एव गृह्राग्नावपि काम्यकर्मप्रस्तावेनोक्ताः पुरोडाशानां स्थानेऽत्र चरयो व्रीहिमया यवमया वा।.......तथा गृह्रान्तरं। तस्यै तस्यै चरव इति। अत एव काम्या अमीष्टयो गृह्राग्नौ कार्या ज्ञायन्ते। तुल्यनयनतया। अयं सूत्रार्थः। अष्टाविंशतिर्नक्षत्रदेवता वक्ष्यमाणाष्टाविंशल्लिङ्गिका ऋचः। ताभिर्नक्षत्रयज्ञेषु यजेत। कथं। प्रत्यृचं। ऋचमृचमिति तेन यागभेदो द्रव्यदेवतासंबन्धभेदनत्वात्॥
ब्रा0। नक्षत्रयज्ञस्य कृत्तिकायुक्तायाममावस्यायामारम्भोऽस्थूरिर्गृहपतिर्भूयासमित्यादयो नक्षत्रेष्ट¬र्थाः
कामास्तत्रोक्तानि हविंषि। आज्यभागान्तं हुत्वाग्निर्मूर्धेत्यादिभिर्यथादेवताभिः प्रधानम्॥
आ0। नक्षत्रयज्ञे नेहाधिकारे कश्चित्। न च कालो न च किंचिद्धविः न जाने। किमिदं। सन्ति नक्षत्रयज्ञाः नक्षत्रेष्टयः। तानिह गृह्रे सूत्रकारो विदधाति। तेष्वेककालेषु कार्तिक्यामावस्यायां कृत्तिकास्वग्नये
कृत्तिकाभ्योऽष्टाकपालमित्येतानि हवींषि। पुरोडाशस्थाने चरवः। अनेनैव न्यायेनान्या अपि काम्याश्चारायणीयायामुक्ताः गृह्रे कर्तव्या इति दण्डापूपिकयैव सिद्धं। तथा च गृह्रान्तरे काम्यानां स्थाने तस्यै तस्यै चरवास्तानेव कामानाप्नुवन्तीति। इह च एता वै रुचो नामेष्टय इत्युपक्रम्य अग्निरस्थूरि णौ गार्हपत्येन प्रजापतिः प्रजया पशुभिरिति अस्मान्नक्षत्रदेवताभ्यः फलश्रवणात्। नक्षत्रदेवतानामृचो वक्ष्यामः। ताभिर्यजेत नक्षत्रयज्ञं। प्रतिनक्षत्रमेकैवाग्नेयानुमतवर्जं। अग्निर्मूर्धेत्येवमाद्या अष्टाविंशतिः। प्रत्यृचं यागः। एवमिज्यानि चेत्यनेन पाकयज्ञतन्त्रम्॥
इ/4.9.2ऊ
दशम खण्डः इ4.10.1ऊ अथोपहारः॥1॥
दे0। अथशब्द आनन्तर्ये। हुतपाकयज्ञविधिरुक्तः। अनन्तरमहुतपाकयज्ञेषु वक्तव्ये सर्वाहुतपाकयज्ञप्रकृतिभूता उपहारा उच्यन्त इत्यर्थः। वैश्रवणीये ह्रुपहारा दृष्टाः। तेऽन्येषां प्रकृतयः।
ब्रा0। यथा नागविनायकदुर्गादीनां देशाचारप्रसिद्धं बलिकर्मापि कर्तुमुपक्रमते॥
आ0। उक्तमुपहारोऽहुतानां प्रकृतिरिति उपहारं च वक्ष्यति॥
इ/4.10.1ऊ
इ4.10.2ऊ
यथाचरितमन्नं साधयित्वा सावित्रेण देवतायै बलिं हरेत् ॥2॥
दे0। तथा चाचरतापि देशविशेषादिषु यथायथं प्रसिद्धाः अतो यथाचारं यथादेवतं चान्नं पायसकृसरापूपादिकं साधयित्वा दीपपुष्पधूपादिपूर्वकं सवितृदेवताकेनोहितचतुथ्र्यन्ताभिमतनामान्तेन विनायकायोपहारमित्यूहकल्पनया बलिमुपहरेत्॥
ब्रा0। तदा मिश्रापूपपायसमोदकादि साधयित्वोपहारोऽहुतानां प्रकृतिरिति वचनाद्वैश्रवणीयवदासनार्थं तस्यै तस्यै देवतायै विष्टरमास्तीर्य तल्लिङ्गैर्मन्त्रैर्नामधेयेनावाहनं कृत्वा पाद्याध्र्ये रुाजो गन्धांश्चोपह्मत्य देवस्य त्वा सवितुः प्रसवेऽ·िानोर्बाहुभ्यां पूष्णो हस्ताभ्यां विष्णवे बलिमुपहारामीति बलिमुपहरेति॥
आ0। देवतायै बलिं हरेदिति। ते शास्त्रचोदिताः लौकिकाश्च। तत्र विधिविशेष उच्यते। यथाचरितमन्नं साधयित्वा मिश्रापूपपायसमोदकादि आचारसिद्धं देवतार्थं साधयित्वा देवतायै आसनमुपकलप्य तÏल्लङ्गेन मनत्रेणावाहनं कृत्वा रुाजो गन्धांश्चोपह्मत्य धूपं प्रदाय यथाचरितमन्नमुपहरेत् सावित्रेण देवस्य त्वेत्यनेन मन्त्रेण पूष्णो हस्ताभ्यां पञ्चहस्ताय बलिमुपहारामीत्येवं प्रयोगः॥
इ/4.10.2ऊ
इ4.10.3ऊ
यथाचारं जपः॥3॥
दे0। आचारानतिक्रमेण जपाः। यस्यै देवतायै बलिरुपह्यियते तद्देवतैर्मन्त्रैर्जपाः कर्तव्या इत्यर्थः। अभिमतदेवतालिङ्गकमन्त्रालाभे तु लौकिकेन श्लोकादिनोपहारः कर्तव्यः॥
ब्रा0। यथाचारं जपा इति। तद्देवत्यान्मन्त्रान्देशाचारप्रसिद्धानि पौराणिकस्तोत्राणि जपेत्॥
आ0। तद्दैवतलिङ्गान्मन्त्राञ्जपेदित्यर्थः। विनायकादीनां लौकिकी स्तुतिः।
इ/4.10.3ऊ
इ4.10.4ऊ
उक्तः शेषः॥4॥50॥(4।10)
दे0। उपह्मतशेषेण ब्रााहृणान्भोजयेत्। आदित्यांश्चेत्यादिः शेषः॥
ब्रा0। वैश्रवणीयकर्मवदुपह्मतेन पायसादिनानेन च ब्रााहृणान्भोजयित्वा यथाशक्ति दक्षिणया च
तानभ्यच्र्योपह्मतशेषस्य स्वयं प्राश्नीयात्॥
आ0। अन्येनानेन च ब्रााहृणान्भोजयित्वेति। चशब्दादुपह्मतशिष्टेन च। उपह्मतशिष्टस्य स्वयं प्राश्नीयादिति नियमः॥
इ/4.10.4ऊ
एकादश खण्डः इ4.11.1ऊ अथ पशुकल्प उक्तः॥1॥
दे0। कल्पनं कल्पः विधिः। पशोः कल्पः पशुकल्पः। स उक्तः। क्वोक्तः। आधाने। आग्नेयेन स्थालीपाके न पशुना वा यजेतेति। सोऽयं नित्यपशूपहार उक्तः। अतश्च नित्यः। यथैव हि नवान्नेनाग्रायणमकृत्वा तद्भोजनमनुपन्नं तथा मांसेनानिष्ट्वा मांसलक्षणमप्ययुक्तमित्याहुः। अथशब्द आनन्तर्ये। तस्येतिकर्तव्यतां वक्ष्याम इत्यध्याहारः। तेनायं समूहार्थ हविःकल्पश्चोक्त एवाग्न्याधाने। तत्रेष्टिविकाराणां हविःकल्पने प्रकार उक्तः। अनन्तरं पशुविकारस्य पशुकल्पस्य प्रकारं वक्ष्यामः॥
आ0। उक्तमाग्नेयेन स्थालीपाकेन पशुना वा यजेत। तथा द्वौ पशु उपाकरोतीत्यादि। तत्र पशावितिकर्तव्यतोच्यते। अथ पशुकल्प उक्तः। दर्शपूर्णमासविकाराणां पाकयज्ञानां तन्त्रमुक्तं। इदानीं पशुविकाराणां तन्त्रमुच्यते। पशोः कल्पः पशुकल्पः। स उक्तः। अथ पशुकल्पः। यूपाहुतिमिति। अत्र विकारं विवक्षुः प्रकृतिमापादयति। आद्रापोद्वापलक्षणाः। तान्वक्ष्यामः विकारेषु यथाचोदितमिति वचनाद्यावदुक्तमेव भवति यच्च विधीयते तत्पशुकल्पवद्भवति॥
इ/4.11.1ऊ
इ4.11.2ऊ
पूर्वेण शाखां निहत्य॥2॥
दे0। पूर्वेण मूलसूत्राणामुक्तः। स उक्त एवेह यथोक्तः पूर्वेणाधिकारवाक्येन तत्र तत्र यथा
नवेनानर्चिता ह्रस्य पशुहवेन नवाग्नय इति अतोऽसौ मत्स्यपशुना यजितेति तथेत्याद्युक्तमग्नये पशुना यजेत पुनः पूर्वेण शाखां निहत्येति सूत्रभेदो यथान्यैः कृतः यथा पूर्वस्मिन्पक्षे तस्य पूर्वेणेति स्यात्। पूर्वेणाग्निमिति च नाधीतं न चोपयुज्यते। उक्तः पूर्वेणेति सिद्धत्वात्। पशुग्रहणाच्छाग एव। शाखावचनात्तक्षणादयो यूपधर्मा न भवन्ति तत्स्थाने प्रयुक्तायाः शब्दान्यत्वात्॥
आ0। पूर्वेणाÏग्न। शाखां निहत्य यूपस्थाने॥
इ/4.11.2ऊ
इ4.11.3ऊ
तÏस्मस्तूष्णीं सर्वं यन्न लुप्तार्थम्॥3॥
दे0। तस्मिन्पशौ तद्वद्विक्रियमाणेऽपि यदुच्यते तत्तूष्णीं सर्वं भवति। सर्वं यत्कर्तव्यं तत्तूष्णीममन्त्रकं कुर्यात्। यन्न लुप्तार्थं। लुप्तार्थं तत्तूष्णीमपि न भवति यथा शाखायां तक्षणम्॥
आ0। सर्वं तूष्णीं। यदुपाकरणादि इह चोद्यते तदमन्त्रकं कुर्यादित्यर्थः॥
इ/4.11.3ऊ
इ4.11.4ऊ
देवताहोमवर्जम्॥4॥
दे0। यद्देवतासंबन्धं तत्समन्त्रकं। देवतानाम्नावकर्तव्यं होमश्चेत्यर्थः॥
आ0। देवताशब्दं वर्जयित्वा होमांश्च वर्जयित्वा॥
इ/4.11.4ऊ
इ4.11.5ऊ
प्रागाज्यभागाभ्यां दर्भेण पशुमुपाकरोति प्रोक्षति पाययति पर्यÏग्न करोति॥5॥
दे0। परिसमूहनादि राष्ट्रभृदन्तं कृत्वा प्रागाज्यभागाभ्यां दर्भेण पशुमुपाकरोति तूष्णीं प्रोक्षति च तथा पाययति अपः पर्यÏग्न च करोति पशुं। दर्भग्रहणं शाखानिवृत्त्यर्थं। प्रागाज्यभागाभ्यामुपाकरणीयहोमौ प्रजापतेर्जायमान इति। ततो दर्भेण पशूपाकरणं शाखान्ते प्रत्यङ्मुखं पशुमुपस्थाप्य। रशनादानं तूष्णीं। ऋतस्य त्वेत्यादाग्नये जुष्टं बध्नामीति पूरितेन दक्षिणेऽर्धशिरसि पशुं बध्नाति छागम्॥
आ0। प्रागाज्यभागाभ्यां परिसमूहनादिराष्ट्रभृदन्तं कृत्वा दर्भेण पशुमुपाकरोति तूष्णीं। प्रोक्षति उरसि सर्वतश्च। पाययति अपः। पर्यÏग्न करोति॥
इ/4.11.5ऊ
इ4.11.6ऊ
घृतमवघ्राप्यापांव्या जुहोति॥6॥
दे.। पशुं घृतमवघ्राप्य। अपाव्यसमाख्याता आहुतीर्जुहोति तेनैव घृतेन प्रजानन्त इति पञ्चभिः॥
आ0। घृतमवघ्राप्य। अपाव्य जुहोति प्रजानन्त इति पञ्चभिः। उपकारणीयौ होमौ न भवतः अचोदितत्वात्॥
इ/4.11.6ऊ
इ4.11.7ऊ
उल्मुकं हरति॥7॥
दे0। येन पर्यग्निकरणं कृतं तदेवोल्मुकं हरति श्रपणार्थम्॥
आ0। पशुश्रपणार्थम्॥
इ/4.11.7ऊ
इ4.11.8ऊ
दर्भमास्तृणाति॥8॥
दे0। दर्भस्तरणं तूष्णीं करोति॥
आ0। प्रत्यगग्रम्॥
इ/4.11.8ऊ
इ4.11.9ऊ
तस्मिन्यथोक्तं संज्ञापयति॥9॥
दे0। तस्मिन्दर्भे संज्ञापयन्ति। मारयन्ति। बहुवचनेन नासिकादिग्रहणादिना प्रत्यक्शिरसमुदक्पादमित्यादि ज्ञायते॥
आ0। तस्मिन्दर्भे। यथोक्तं प्रत्यक्शिरसमुदक्पादं। बहुवचनमनियमार्थं। अन्येऽपि संज्ञापयन्ति॥
इ/4.11.9ऊ
इ4.11.10ऊ
संज्ञप्ते यथोक्तमद्भिः प्राणायतनानि स्नापयति॥10॥
दे0। प्रमापिते सति प्राणस्य शरीरस्य वायोर्यान्यायतनानि मुखादीनि तानि स्नापयति।
यथोक्तग्रहणात्पत्न्या स्नापनं ज्ञायते॥
आ0। संज्ञप्ते प्रमापिते। यथोक्तमद्भिः प्राणायतनानि स्नापयति। यथोक्तग्रहणान्मन्त्रवत्। पत्नी चोदकहस्ता च पत्न्यादित्यमुपतिष्ठते। नमस्त आतानेत्यादि समद्भ्य इति भूम्यां शेषमित्यन्तं प्राणायतनानां स्नापनम्॥
इ/4.11.10ऊ
इ4.11.11ऊ
उत्खिद्य वपां शाखां विशाखां च प्रच्छाद्य चरमेऽङ्गारे वपां निगृह्रान्तरा शाखाग्नी हुत्वाभिधार्य
श्रपयति॥11॥
दे0। ततो नाभिक्रोडयोर्मध्याद्वपामुत्खिदति खङ्गेन। देवताभिधानत्वादग्नये जुष्टमवकृन्तामीति मन्त्रेण। उत्खिद्य च वपाश्रपण्यां शाखायां प्रच्छादयति। ततश्चरमेऽङ्गारे वपां निगृह्णाति। उत्तरभागे सर्वान्ते योऽवस्थितोऽङ्गारस्तत्र निदधातीत्यर्थः। ततस्तां शाखाया अग्नेश्च मध्येन हरति। दक्षिणभागमानीयोदङ्मुखोऽभिधार्य श्रपयति॥
आ0। उत्खिद्य वपां देवताभिधानत्वात् मन्त्रेण यथा अग्नये जुष्टमवकृन्तामीति। विशाखामविशाखां च वपाश्रपण्यौ तथा प्रच्छाद्य। उदगग्नेश्चरमेऽङ्गारे सर्वबहिः स्थिते वपां निगृह्र निधाय। अन्तरा शाखाग्नी शाखाग्न्योर्मध्येन नीत्वा दक्षिणतोऽग्नेस्ततोऽभिधार्य श्रपयति॥
इ/4.11.11ऊ
इ4.11.12ऊ
श्रृतां दर्भेषूदगग्रेषु निधायाज्यभागपरिवप्यौ हुत्वा वपां देवताया उपनामयेदुप्यपरिवप्यौ हुत्वा संन्दर्भे वपाश्रपण्या अग्ना अनुप्रह्मत्यापोहिष्ठीयाभिर्मार्जयित्वोक्तान्यवदानानि प्राक् स्विष्टकृतो देवतायै बलिं हरेत्॥12॥
दे0। श्रृतं दर्भेषूदगग्रेषु निदधाति। तदनन्तरमाज्यभागौ जुहोति। ततः परिवप्यसंज्ञकावन्वर्थकौ होमौ जुहोति। तत्र जातवेदो वपया गच्छेत्येकः। देवेभ्यः स्वाहेति द्वितीयः। रुाुवेणाज्येन। तदनन्तरं वपां देवताया उपनामयेत्। अयमर्थः। जुह्वां वपामुपस्तीर्य दक्षिणतोऽसिना सकृदवदाय देवतायै दद्यात्तन्नामधेयेन तद्देवतया वर्चा। उप्यपरिवप्यौ हुत्वा संदर्भे वपाश्रपण्यावग्नावनुग्रह्मत्यापोहिष्ठीयाभिर्मार्जयित्वा उक्तान्यवदनानि प्राक् स्विष्टकृतो देवतायै बलिं हरेत्। उप्यो नाम होमः। परिवप्यश्च दर्शितं जातवेदो वपया गच्छेति देवेभ्यः स्वाहेति। तौ हुत्वा प्रतिपत्त्यर्थं वपाश्रपणार्थे दर्भसहिते वपाश्रपण्या अग्नौ क्षिपति तूष्णीं। तत आपोहिष्ठीयाभिर्मार्जनं तत्रैव करोति। चात्वप्लस्य लुप्तार्थत्वे पात्राभावात्। तदनन्तरं प्रकृतौ यथाचोदितानि ह्मदयादीन्यवदानानि स्विष्टकृतः पूर्वं बलिमुपहरेत्। तत्र ह्मदयस्य शूले पाकः शिष्टानां स्थाल्यां। द्विर्द्विरवदाय होमो ह्मदयादिभ्यः। तानि ह्मदयजिह्वाक्रोडमध्यदक्षिणबाहुपार्·ाद्वयगुदश्रोणिभेदोमध्यानि। ततः पुरोडाशस्थाने यथादेवतमुपहारेषु चरुमोदकादीनामन्यतमः कार्यः॥
आ0। श्रृतं च दर्भेषूदगग्रेष्ववस्थाप्याज्यभागौ हुत्वा ततः परिवप्यौ जुहोति। जातवेदो वपयेत्येका देवेभ्यः स्वाहेति द्वितीया। ततः परिवप्यौ यौगिकी संज्ञा। वपां देवताया उपनामयेत् उपनतां संबद्धां कुर्यात्। नामधेयेन तद्देवतया वर्चा। उप्यपरिवप्यौ हुत्वा। उप्यो नाम होमः। त्वामु त्य इत्यनया।
ततः परिवप्यौ देवताभ्यः स्वाहा जातवेदो वपयेति च। सदर्भे वपाश्रपण्या अनुप्रह्मत्य वपाधानैर्दर्भैः
सह आपोहिष्ठीयाभिर्मार्जयते। उक्तान्यवदानानि शूले ह्मदयं जिह्वाक्रोडस्येत्येवमादीन्येकादशोखायां श्रपयित्वा तेभ्यो द्विर्द्विरवदाय देवतायै जुहोति। ततः पशुपुरोडाशस्थानीयं यथाचरितमन्नं साधयित्वा लोकाचारप्रसिद्धं यथा विनायकस्य मोदकाः आदित्यस्यापूपाः विष्णोः पायसं यथाचरितं वा.....। प्राक् स्विष्टकृतो देवतामावाह्र रुाजो गन्धांश्चोपह्मत्य धूपं प्रदाय सावित्रेण पशुदेवतायै बलिं हरेत्। बलिहरणमेव न होमः। ततस्त्र्यङ्गात्स्विष्टकृतं जुहोति। सव्यायाः श्रोणेर्दक्षिणस्य कपिललाटस्य गुदस्येति सकृत्सकृतं समवदायेडामग्न इति। तत्र समाप्तिः॥
इ/4.11.12ऊ
इ4.11.13ऊ
यथाचारं जप उक्तः शेषः॥13॥51॥ (4।11 )
दे0। गतार्थम्॥
ब्रा0। पशुकल्पे रशनापशुशिरोबन्धनवपाकर्तनमन्त्रादिदेवतोद्देशापाध्यहोमपशुनिषेधनादिनिष्कृतिहोमादिवर्जं पाकयज्ञाबृदुपचारवच्छौतपाशुबन्घिकं सर्वं कर्म तूष्णीमनर्थलुप्तं। अत्रेतिकर्तव्यतोच्यते। ग्रामान्निष्क्रम्य गार्हपत्यसंमित आयतन उद्धतावोक्षितेऽग्निमासाद्य परिसमूह्र पर्युक्ष्य परिस्तीर्याग्नेः पूर्वोत्तरे चतुरश्रायां वेद्यां विष्टरमास्तीर्य तत्र पशुदेवतामभ्यर्चयेत्। ततोऽग्नेः पूर्वार्धेऽवटं शाखार्थं खनयेत्। आहरेदाज्यपात्राणि।
काष्र्मर्यमय्यौ वपाश्रपण्यौ रशनां द्विगुणां द्विव्यामां प्लाक्षीमध्यवदानीयां स्वधितिं कुम्भीं स्थलं शाखां प्रक्षालितं पशुं पन्नदन्तमव्यङ्गं यवमतीः पृषदाज्यार्थं दधि चर्वर्थान्व्रीहीने येन चार्थः। उत्तरतः संस्तीर्णे आज्यपात्राणि प्रयुज्य प्रोक्षण्युपयामं रुाुकरुाुवौ दर्भे यूषपात्रं विष्णोर्मनसा देवो वा तानि प्रोक्ष्याज्यं साधयित्वा दधि च निर्वपति। ....रुाुक्रुाुवौ संसृज्य चतुर्गृहीतमुद्धृत्यं निरुप्ते दधि घृतमासिच्य। तस्य प·ाभिधारणं वनस्पतिं च यजति। आस्तीर्णं रुाुचं निधायाघारसमिधा आधाय रुाुवं दक्षिणा रुाुचो निदधाति। ततो मूलमध्याग्रदेशेषु यवमतीभिः शाखां प्रोक्षति। गर्तेऽपो यवमतीश्च प्रसिच्य तं दर्भैरास्तीर्य तेषु घृतमासिच्य शाखामग्रात्प्रभृत्यर्धं समां गर्ते निहत्य परिस्तीर्य वेदिमुदक्तृलमासनमास्तीर्य तत्रोपविश्याघारादिराष्ट्रभृदन्तं जुहुयात्। ततः प्रजापतेर्जायमान इति द्वाभ्यामुपाकरणीयौ। हुत्वा दर्भेण पशुमुपाकरोति प्रत्यङ्मुखं शाखान्तेऽवस्थाप्य। रशनां तूष्णीमादाय ऋतस्येति दक्षिणेऽर्धशिरसि बध्नाति यथादेवतं। शाखायां तूष्णीं नियुज्य प्रोक्षति पाययति। उल्मुकेन त्रिः परिह्मत्य पशुमाज्यमवघ्राप्यापाख्या जुहोति प्रजानन्त इति पञ्चभिः। वपाश्रपण्यौ दर्भाश्चादाय प्रमुच्य शाखायाः पशुमुदञ्चं नयत्युल्मुकमग्रतो हरति। वपाश्रपणीभ्यां पशुमभिनिधाय संदीपयत्युल्मुकं। स पशुश्रपणः। तस्माद्दक्षिणा प्रत्यगग्रं दर्भमास्तृणाति। तस्मिन्प्रत्यक्छिन्नरसमुदक्पादं पशुं संज्ञापयन्ति। दक्षिणापादं पितृभ्यः। संज्ञप्यमान उपावृत्य पृषदाज्यमीक्षते इह प्रजा इति आ संज्ञापनात्। संज्ञप्ते यस्माद्भीषान्यसद इति प्रतिपशु पञ्चदश प्रायश्चित्ताहुतीर्जुहोति। तत एतश्रृङ्गया वपाश्रपण्या रशनां परिह्मत्याभ्युक्षत्येकश्रृङ्गां। यथोक्तमद्भिः प्राणायतनानि स्नापयति। उदकहस्ता पत्न्यादित्यमुपतिष्ठते नमस्ते आतानेति। अनर्वेति गच्छति। देवीराप इत्युदकमभिमन्त्र्य तेन पशोः प्राणायतनानि स्नापयति प्राणं त इति
यथालिङ्गं। समद्भ्य इति भूम्यां शेषं। एवं पत्न्या प्राणायतनेषु स्नापितेष्वन्तरा नाभिक्रोडौ
दर्भमन्तर्धायासिना छित्त्वा सव्ये पाणौ दर्भाग्रं निधाय दक्षिणेन लोहितेनोक्तं दर्भमुपासिच्य पाष्ण्र्या निर्मृजति। उत्खिद्य वपां शाखां विशाखां च प्रच्छाद्याद्भिरवोक्ष्य। अधिपशुलोहितां करोति। अमुष्मै त्वा जुष्टमवकृन्तामीति यथादेवतमवकृन्तति। अपिधाय पशोश्छिद्रं......दर्भाग्रमग्नौ प्रास्य चरमेऽङ्गारे वपां निगृह्रान्तरा शाखाग्नी हत्वाभिधार्य श्रपयति। श्रृतं दर्भेषुदगग्रेषु दक्षिणत एव निधाय स्वस्थान उपविश्याज्यभागौ वात्र्रघ्नौ हुत्वा जातवेदो वपया देवेभ्यः स्वाहेति रुाुवेण परिवप्यौ जुहुयात्। ततो वपां देवताया उपनामयेत्। उपस्तीर्य हिरण्यशल्कमधिन्यस्य पूर्वेण शाखां दक्षिणा गत्वासिना वपां सकृदवदाय तेनैव प्रत्येत्योपरिष्टाच्च वपाया हिरण्यशल्कं निधाय द्विरभिधार्य नामधेयेन तद्देवतया वर्चा जुहुयात्। हुतायां त्वामु त्य इत्युप्यं स्वाहा देवेभ्यो जातवेद इति च परिवप्यौ जुहुयात्। द्विपशा उप्यपरिवप्यानामावृत्तिः। ततोऽन्तरा शाखाग्नी सदर्भे वपाश्रपण्या आनीयाग्ना अनुप्रह्मत्यापो हि ष्ठेति तिसृभिर्मार्जयते। उक्तानि ह्मदयादीन्यवदानानि पशुबन्धे। तानि स्थाल्यां श्रपयति शूले ह्मदयमसंभिन्ने वृक्का अनीनीडिते गुदे। गर्तं खात्वा तस्मिन्नूवध्यं कुर्यात्। श्रप्यमाणेष्ववदानेषु पशुपुरोडाशस्थानीयं चर्वर्थं पात्रशेषं प्रयुनक्ति। यद्देवत्यः पशुस्तद्देवत्यो व्रीहिमयश्चरुः। पाणीं प्रक्षाल्य सशूर्पां रुाुचमादाय सावित्रादिना यथादेवतं निर्वपति। प्रोक्षणीः साधयित्वा सावित्रादिना यथादेवतं प्रोक्षति। तूष्णीं पात्राणि प्रोक्ष्य कृष्णाजिनमुलूखलमादाय व्रीहीनवहन्ति। प्रक्षाल्य तण्डुलान्पवित्रान्तर्हितानावपति। प्रक्षाल्याग्रतो मेक्षणमवदधाति। उल्मुकेन त्रिः परिह्मत्य बलिहरणार्थं तूष्णीमुपचरितं स्थालीपाकं श्रपयेत्। श्रृते पशौ पशुचरुणा प्रचरति।
श्रृतमभिधार्योदगुग्वास्यालंकृत्य पात्र्यां सादयत्यभिधार्य वेद्यां बर्हिष्यासाद्य चाभिधारयति। रुाुच्युपस्तीर्य मेक्षणेनावदायाभिधार्य चरुं प्रत्यभिधार्य नामधेयेन तद्देवतया वर्चा जुहुयात्। इष्टे स्विष्टकृतमÏग्न सुदीमित्यग्नये स्वाहेति वा। मेक्षणमनुप्रह्मत्य। ततो दर्भोपयामः पृषदाज्यस्य रुाुवेण प्रगृह्र स्थलाद्धृदयमभिधारयति। पशुं चान्तरा शाखाग्नी हत्वा दक्षिणतोऽग्नेर्दर्भेषु निदधाति। रुाुचि यूषपात्रे चोपस्तीर्य प्लाक्षामग्रेऽसिना ह्मदयस्यावद्यति प्रान्ताज्जिह्वाया उत्सादतो द्वितीयं क्रोडस्य कपिललाटस्य पार्·ायोर्यक्रो वृक्कयोर्गुदस्याणीयस्य श्रोणेर्मेदसो हिरण्यं च यूषपात्रे स्वधित्यन्तर्हिते यूषमासिच्याभिधार्यवदानानि वसां च नामधेयेन तद्देवतया वर्चा जुहुयात्। यद्यर्धर्चेऽनूक्ते यूषार्धं जुहोति घृतं घृतपावान इति हुतेषु प्रधानावदानेषु शेषं दिशः प्रदिश इति। यदि नामधेयेम पुरस्ताच्चोपरिष्टाच्चावदानानां वसाहोमः। ततः पृषदाज्यस्य सकृच्चतुर्वावदाय वनस्पते रशनयेति हुत्वा। तत ऋतुतिथियागादि परिते दूडभो रथ इत्यन्तं हुत्वा। प्राक् स्विष्टकृतः पशुदेवतायै मधुपर्कपूर्वं सावित्रेण बलिमुपहरेत्। यथाचारं तल्लिङ्गमन्त्रं जपेत्। ततः सव्यायाः श्रोणेर्दक्षिणस्य कपिललाटस्य गुदस्य स्थवीयस इति
सौविष्टकृतानां सकृत्सकृत्समवदाय द्विरभिधार्या देवानामिति जुहुयात्। हविरुच्छिष्टमुद्वास्य त्वं नो अग्र इत्यादि तन्त्रसमाप्तिः। यानावह यदद्य त्वा यज्ञ यज्ञं गच्छ देवा गातुविद इति चतसृर्ऋग्भिः पूर्णां जुहुयात्। उक्तः शेष इति शूलकर्मादि। शमिता शूलं पराचीनतीक्ष्णं निखाय तस्मिन्सपत्नीका मार्जयन्ते धाम्नो धाम्न इति द्वाभ्यां। सुमित्रा न इत्युपस्पृश्य द्वीपेराज्ञ इत्युपस्थायानपेक्षमाणा आयान्ति समिधः संचिन्वावाः। एधोऽसीत्यग्नौ समिधमादधाति। समिदिति द्वितीयां तेजोऽसीत्यÏग्न तेजो मयि धेहीत्यात्मानं। तूष्णीं पत्नी॥
इ/4.11.13ऊ
द्वादश खण्डः
इ4.12.1ऊ
अथ शूलगवः॥1॥
दे0। अथशब्दो नित्यात्पशुकल्पाद्विवक्षितस्य कामस्यानन्तर्यमाह। नित्यं पशुतन्त्रमुक्तं। अनन्तरं काम्यं वक्ष्याम इत्यर्थः। शूलगव इति कर्मनाम। शूले सर्वाण्यवदानानि पश्यन्तीत्यत्र गौरपि च पशुरित्यर्चकं नाम। अवदानहोमान्तत्वं च छागपक्ष एव। गोः पुनरुत्सर्ग एव लोकविरोधात्॥
आ0। शूलगव इति कर्मनामधेयम्॥
इ/4.12.1ऊ
इ4.12.2ऊ
सर्वेभ्यः कामेभ्यः॥2॥
दे0। कामयन्त इति कामः स्वर्गादिफलविशेषाः। तादथ्र्ये चतुर्थीपर्यायेण सर्वकामसिद्धिर्न समुच्चयेनेति योगसिद्ध्यधिकरणे व्यवस्थितम्॥
ब्रा0। शूलगवस्य प्रजापशुभूत्यादिकामानामेकतममिच्छन्ननुष्ठानं। कालस्य चानियमः॥
आ0। सर्वेभ्यः कामेभ्यः क्रियते प्रतिकामं प्रयोगः॥
इ/4.12.2ऊ
इ4.12.3ऊ
शरदि वसन्ते वा॥3॥
दे0। कालविकल्पार्थमेतन्नियमः स्यादित्येके॥
इ/4.12.3ऊ
इ4.12.4ऊ
अनियमः स्यादित्येके॥4॥
दे0। एके पुनः कालनियमं नानुमन्यन्ते। तेन यदा कदा चित्कर्तव्यः शूलगवः॥
आ0। अनियमो वा कालस्य स्यात्॥
इ/4.12.4ऊ
इ4.12.5ऊ
गवां मध्य उत्तरतो ग्रामस्य वेद्याकृतिं कृत्वा शाखाभिः परिवार्यातष्टं यूपं तूष्णीमुच्छ्रयन्ति॥5॥
दे0। ग्रामस्योत्तरदेशे गवां मध्ये वेद्याकृतिं कृत्वा पाशुकीमेव वेदि चतुरश्रां कृत्वेत्यर्थः। तां वेदिं वृक्षशाखाबिः परिवृत्य। अतष्टं तक्षणरहितं यूपमुच्छ्रयन्ति। यूपशब्दस्य संस्कारशब्दत्वान्मन्त्रे प्राप्ते तदपवादस्तूष्णीमिति। उच्छ्रयन्तीति बहुवचनेनेतिनोच्छ्रियणस्य नियतकर्तृकत्वाह॥
ब्रा0। गवां मध्ये उत्तरतो ग्रामस्य यावदर्थं चतुरश्रां वेदि कृत्वा यज्ञियवृक्षशाखाभिरूध्र्वाग्राभिः परिधाय॥
आ0। गवां मध्ये कर्तव्यः। गवामस्थिरत्वाद्गोष्ठप्रायो देशो लक्ष्यते। उत्तरतो ग्रामस्य वेद्याकृतिं कृत्वा। चतुरश्रां वेदिं कृत्वा। आकृतिग्रहणादमन्त्रकां। तां च शाखाभिर्वाक्र्षीभिः परिश्रित्यातष्टं यूपं
तूष्णीमुच्छ्रयन्त्यग्नेः पूर्वार्धे। यूपशब्दस्य संस्कारवचनात्तूष्णीं ग्रहणम्॥
इ/4.12.5ऊ
इ4.12.6ऊ
तमपरेण यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा भवाय शर्वायेशानाये·ाराय पशुपतयेऽधिपतय इति गामुपाकरोति पशुं वा॥6॥
दे0। तं यूपमाश्रित्यापरेण पश्चिमभागे यथोक्तमुपसमाधानादिकमाज्यभागान्तं कृत्वा। जयप्रभृतिभिर्हुत्वेति स्थालीपाकतन्त्रमन्त्रराष्ट्रभृत्पर्यन्तमुपलक्षयति। भवाय त्वामुपाकरोमीति शर्वाय त्वामुपाकरोप्रित्यादिना मन्त्रषट्केनोपकल्पयामीत्यन्तेन गामुपाकरोति। पशुं वा छागम्॥
ब्रा0। तमपरेणोद्धतावोक्षितेऽग्निमासाद्य परिसमूह्र पर्युक्ष्य परिस्तीर्य वेद्यां कलशेषु विष्टरेषु वा भयादीनभ्यच्र्य पशुकल्पवत्तन्त्रं प्रवर्तयेत्। नात्र शाखां निहन्त्यतष्टं तु बैल्वं खादिरं पालाशं वा यूपमरशनमस्वरुमचपालं यथाकालं तूष्णीमुच्छ्रयन्ति। उपाकरणीयौ हुत्वा गामजं वोपाकरोति ऋतस्य त्वा देव हविः पाशेन प्रतिमुञ्चामि भवाय शर्वाय ईशानाय ई·ाराय पशुपतयेऽधिपतये जुष्टमिति रशनयार्धशिरोबन्धनम्॥
आ0। तं यूपमपरेणाÏग्न यथोक्तमुपसमाधायेत्याज्यावेक्षणादिराष्ट्रभृदन्तं तन्त्रमुपलक्षयति पाशुकं। प्रागाज्यभागाभ्यां दर्भेण भवाय शर्वायेशानाये·ाराय पशुपतयेऽधिपतये त्वामुपाकरोमीति गामुपाकरोति। पशुवत्प्रोक्षत्युरसि सर्वतश्च। तूष्णीमुपाकरणादि सर्वत्र। पाययन्यपः। पर्यÏग्न करोति। घृतमवघ्नाप्य। अपाव्या जुहोति प्रजानन्त इति पञ्चभिः । देवताहोमवर्जं ।
उपाकरणीयहोमौ न भवत अचोदितत्वात् । हुत उल्मुकं हरत्युत्तरस्यां दिशि पशुश्रपणार्थं । निवध्यमानाय प्रत्यगग्रं दर्भमवास्यति । तस्मिन्दर्भे यथोक्तं प्रत्यक्शिरसमुदक्पादं बहुवचनेनान्येऽपि संज्ञापयन्ति । संज्ञप्ते प्रमापिते यथोक्तग्रहात्पन्ती समनत्रकमद्भिः पशोः प्राणायतनानि स्नापयति । कथं । उदकहस्ता पत्न्यादित्यमुपतिष्ठते । नमस्त आतानेत्यादि शमद्भ्य इत्यादिना भूम्यां शेषमित्यन्तेन । ततोऽध्वर्युरुत्खिद्य वपां देवताभिधानत्वान्मन्त्रेणैव भवाय शर्वायेशानाये·ाराय पशुपतयेऽधिपतये जुष्टमवकृन्तामीति विशिखामविशाखां च वपाश्रपण्यौ वपया प्रच्छाद्योदगग्नेश्चरमेऽङ्गारे सर्वबहिःस्थिते वपां निगृह्र निधाय । अन्तरा यूपाग्नी ह्मत्वा दक्षिणतोऽग्नेस्ततोऽभिधार्य श्रपयति । शृतं च दर्भेषूदगग्रेषु पश्चादग्नेरवस्थाप्य यथेतं प्रत्येत्य रुाुचाज्यभागौ हुत्वा ततः परिवप्यौ जुहोति । जातवेदो वपयेत्येका । देवताभ्यः स्वाहेति द्वितीया । ततो देवताभ्य उपनामयेत्सकृदेव । तां वपामनुद्धृत्य नामषट्केन जुहोति भवाय शर्वायेशानाये·ाराय पशुपतयेऽधिपतये स्वाहेति । तत उप्यपरिवप्यौ हुत्वा । उप्यो नाम होमः । त्वामु त्ये दधिर इत्यनया । ततः परिवप्यौ । देवताभ्यः स्वाहा । जातवेदो वपयेत्येषः । एते रुाौवाः । ततः संदर्भे चपाश्रपण्या अग्ना अनुप्रह्मत्य वपाधारैर्दर्भैः सहेत्यर्थः । तत उत्तरतोऽग्नेरापेहिष्ठीयाभिरध्वर्युर्मार्जयते । उक्तान्यवदानानि । शूले ह्मदयं जिह्वायाः क्रोडस्येत्येवमादीन्येकादशोखायां श्रपयित्वा तेभ्यो द्विर्द्विरवदाय देवताभ्यो जुहोति भवाय शर्वायेशानाये·ाराय पशुपतयेऽधिपतये स्वाहेति । नेह वनस्पतियागः न च पृषदाज्यमस्ति विकारेषु यथाचोदितमिति वचनात् । तत ऋतुतिथ्याद्युपहोमान्तम् ॥
इ/4.12.6ऊ
इ4.12.7ऊ
प्रतिनाम प्रतिद्रव्यं प्रत्यनुवाकमिति षट् पुरोडाशानेककपालांस्तूष्णीमुपचरिताञ्श्रपयित्वा प्राक् स्विष्टकृतः षड्लोहितबलीन्पात्रेषु दर्भेषु वा कल्पयित्वा नमस्ते रुद्र मन्यव इति
षड्भिरनुवाकैरुपतिष्ठत ईशानं त्वा शुश्रुमेति च सर्वत्रानुषति ॥ 7 ॥
दे0 । प्रतिनाम प्रतिद्रव्यं च पाशदानानि । द्रव्यं द्रव्यं प्रतिद्रव्यं । अनुवाकाः षडØद्राभिधानाः । अनुवाकमनुवाकं प्रत्यनुवाकं । इतिशब्दोऽधिकरणप्रधानः । इह यद्वपावदानादिकं कर्म प्रधानं तत्प्रतिद्रव्यं क्रियमाणं प्रतिनाम प्रत्यनुवाकं च कर्तव्यं । तथा षड्भिरनुवाकैर्यथासंख्यमेकैकेन भवादिनामशब्देन युक्तैर्विपर्यायाः षड्ढोमाः । तथा ह्मदयादिभ्य एकैकस्माद्द्विर्द्विरवदाय समुदायं कृत्वैवमेव षडुपहाराः । एकैकस्मिन्कपाले निवृत्तान् षट् पशुपुरोडाशांस्तूष्णीं मन्त्रव्यतिरेकेण निर्मिताञ्श्रपयित्वा स्विष्टप्रकृतः पूर्वं बलिषट्कमेकैकेन पुरोडाशेन भिन्नभिन्नपात्रस्थेन भिन्नभिन्नदर्भस्थेन वा पशुलोहितालिप्तेन कल्पयेत् । देवस्य त्वा सवितुः प्रसवेऽ·िानोर्बाहुभ्यां
पूष्णो हस्ताभ्यां भवाय जुष्टं कल्पयामीत्यादयः कल्पेन षण्मन्त्राः । कल्पयित्वा च नमस्ते रुद्र मन्यव इति षड्भिरनुवाकैरुपस्थानं कृत्वा बलिं हरेत् । ईशानं त्वा शुश्रुमेति च सर्वत्रानुषजति । ईशानं चेति वाक्यशेषमनुवाकषट्केन संबन्धयतीत्यर्थः । ततस्त्रिभ्येऽङ्गेभ्यः सकृत्सकृत्समवदायाग्नये स्वाहेति स्विष्टकृतं यजति । पूर्वोक्तमन्त्रेणेत्येके । अनेनैव च समाप्तिः । ततो वपाश्रयणी सदर्भे पूर्ववदग्नौ प्रहरति प्रोक्षति चापोहिष्ठीयाभिः ॥
व्र0 । अत्र षट् पुरोडाशानेककापलप्रमाणान्यथाकालं श्रपयेत् । प्राक् स्विष्टकृतः षट् लोहितबलीन्
षट् च तान्पुरोडाशान्भवादिभ्यः षड्भ्यः प्रतिनामैकैकं सावित्रेणओपह्मत्य नमस्ते रुद्र मन्यव इति षड्भिरनुवाकैरेकैकेनानुषङ्गेनोपतिष्ठते । यथा । सावित्रादिना भवाय बलिमुपहरामीति । रुधिरबलिं पुरोडाशं च पातरेषु दर्भेषु वोपह्मत्य नमस्ते रुद्र मन्यव इत्नुवाकेन ईशानं त्वेति च तिसृभिरुपतिष्ठते । एवमेव शर्वायोपह्मत्य नमो हिरण्यबाहव इति सानुषङ्गेणोपस्थानं । ईशानायोपह्मत्य नम इषुकृद्भ्य इत सानुषङ्गेण । ई·ारायोपह्मत्य नमोगिरिशायेति सानुषङ्गेण । पशुपतय उपह्मत्य नमः सृत्यायेति तद्वत् । अधिपतय उपह्मत्य नमो वः किरिकेभ्य इति सानुषङ्गेण । ततः पशुस्विष्टकृत् ॥
आ0 । ततः षट् पुरोडाशानेककपालांस्तूष्णीमुपचरितान्श्रपयित्वा पशोर्लोहितं गृहीत्वा लोहितमिश्रान्पुरोडाशान्प्राक् स्विष्टकृतो देवताभ्यः षड्भिर्नामभिर्नामस्कारान्तैः रुाजो गन्धांश्चोपह्मत्य धूपं प्रदाय दीपं च दत्वा प्रतिनाम बलिमुपहरेत्प्रत्यनुवाकं च जपः । अत्र षट् नामानि पुरोडाश लोहितामिश्राः षट् चानुवाकाः । तेषां प्रतिनाम प्रतिद्रव्यं प्रत्यनुवाकं चतुरुपहारकर्म । तत्रोदाहरणं । यथा । लोहितमिश्रं पुरोडाशं पात्रे गृहीत्वा देवस्य त्वेत्यादिना पूष्णो हस्ताभ्यां भवाय बलिमुपहरामीति । दर्भेषु चोदगग्नेः कल्पयित्वा नमस्ते रुद्रेत्यनुवाकेनोपस्थानं । ईशानं त्वेत्यनुषङ्गः प्रत्यनुवाकान्ते । ततो द्वितीयं सलोहितं पुरोडाशं देवस्य त्वेत्यादिना पूष्णो हस्ताभ्यां शर्वाय बलिमुपहरामीति कल्पयित्वा नमो हिरण्यवाहव इत्यनुवाकेन ईशानं त्वेत्यनुषङ्गान्तेनोपस्थानं । एवं प्रतिनाम प्रतिद्रव्यं प्रत्यनुवाकं षट् कर्माणि । ततस्त्र्यङ्गात्स्विष्टकृतं । स्विष्टकृदन्ते च यथाश्रद्धं कत्र्रे ब्रााहृणेभ्यश्च दक्षिणादानं । ततस्तन्त्रसमाप्तिः ॥
इ/4.12.7ऊ
इ4.12.8ऊ
प्रभूतान्ब्रााह्णान्भोजयन्ति ॥ 8 ॥
दे0। यथाशक्ति ब्रााहृणान्मांसेन भोजयन्ति॥
ब्रा0। षण्णमेतेषां प्रीणनाय बहुब्रााह्णभोजनम्॥
इ/4.12.8ऊ
इ4.12.9ऊ
नापक्वं ग्रामं प्रवेशयन्ति॥9॥
दे0। अपक्वमपि ग्रामं न प्रवेशयन्ति। का कर्ता। पक्वस्येति केचित्। अपरे तु पक्वस्य ग्रामप्रवेशनमिच्छन्ति कदाचित्॥
आ0। नापक्वं मांसं ग्रामं प्रवेशयन्ति। पक्वस्य तु न दोषः॥
इ/4.12.9ऊ
इ4.12.10ऊ
शिष्टं भूमावर्पयन्ति सचर्म॥10॥
दे0। मुच्यमानं पक्वमपक्वं भूमौ प्रक्षिपन्तीत्यर्थः। सचर्म चर्मणा सह॥
ब्रा0। पक्वशिष्टं सचर्म भूमावर्पयन्ति तत्रैव॥
आ0। शिष्टं यत्पक्तुं न शक्यते तच्चर्मणा सह भूमावर्पयन्ति॥
इ/4.12.10ऊ
इ4.12.11ऊ
अनपेक्षमाणा आयान्ति॥11॥52॥ (4।12)
दे0। यज्ञस्य भूमिमपश्यन्तो ग्राममागच्छन्तीत्यर्थः॥
आ0। अनपक्षमाणा देवयजनं गृहानायन्ति॥
इ/4.12.11ऊ
त्रयोदश खण्डः
इ4.13.1ऊ
औपसदेऽग्नौ सायं प्रातरग्निहोत्रदेवताभ्यो जुहुयात्॥1॥
दे0। औपसदेऽग्निरुक्तः। एष औपसदोऽग्निस्तस्मिन्पाकयज्ञा इति। स च गार्हपत्यधर्म इत्यग्निहोत्रादिसदृशैस्तत्र कर्मभिरुक्तं भवितुमतस्तस्य जागरणायाग्निहोत्रादिसदृशानि कर्माणि तत्रोच्यन्ते। तान्येवैतानीति भ्रमणीयं देवताग्रहणात्कालाभिधानाच्चाग्निहोत्रादिके सति तद्रूपाकृष्टत्वादेव देवताकालाद्व्यर्थं तदुपदानं। तस्मिन्नग्निहोत्रं जुहुयादित्येतावता सिद्धिः देवताग्रहणादेव च नामधेयेन होतव्यं न मन्त्रेण। अग्निहोत्रदेवतास्त्वग्निसूर्यप्रजापतयः। अग्नये स्वाहेति सायं सूर्याय स्वाहेति प्रातः। प्रजापतये स्वाहेत्युभयत्र मनसा। अर्थाक्षिप्तं द्रव्यं सादृश्याद्दधिघृतादयो यवादीनामन्यतमं तदभावे तण्डुलाः॥
ब्रा0। औपसदेऽग्नौ सायमम्नः सूर्ये निम्रुक्ते होमकालेऽनुदिते निशान्ते प्रातः। उदये न सायमाहुतिरतिपद्यतेऽस्तमये न प्राप्तः। आहुत्यपिपत्तावतिक्रान्तहोमं हुत्वाग्नये पथिकृते चरुं
निरुप्याग्ने नयेति प्रधानं। एवमेव त्र्युत्क्रमातिपत्तौ। उभयातिपत्तौ तु ज्वलत्यग्नये तन्तुमते चरुं निरुप्य त्वं न स्तुन्तुरिति यजेत्। उपशान्ते तु यथापूर्वं संस्काराणमनेकातिपत्तौ परिसंख्ययातिक्रान्तहोमान्हुत्वाग्नये शुचयेऽग्नये पवमानायाग्नये तन्तुमतेऽग्नयते पथिकृत इति चतुभ्र्यश्चरुं निरुप्योदग्ने शुचयस्तवाग्ने पवस्व त्वं नस्तन्तुरग्नये नय सुपथेति यजेत्॥ अथ सायंप्रातर्होमे परिसमूह्र पर्युक्ष्य चातुष्कोष्ठैः स्तरैः परिस्तीर्य पयो यवागुं वाधिश्रित्य रुाुवं संमृज्य......दर्भोपयामः रुाुवेणाग्नये स्वाहा प्रजापतये स्वाहेति सायमाहुतिद्वयं जुहुयात्। सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातर्दीर्घौ प्रथमां परिमण्डलं। तस्याः पूर्वार्धे मनसा प्राजापत्यां भूयसीं द्वितीयां च। ततः परिस्तरणानि नीत्वाÏग्न मुञ्चेत्। पयोयवाग्वोरभावे व्रीहीन्यवांस्तण्डुलान्वा। त्रिः प्रक्षाल्योल्मुकेनाभिधार्य पाणिना दैवतीर्थेन जुहुयात्॥
ब्राा0। औपसदग्रहणमाहिताग्न्यर्थं । आहिताग्नेरन्यकृतत्वात् पिण्दपितृयज्ञं न प्राप्नोति। तत्प्राप्तय औपसदग्रहणं। अनाद्विताग्नेस्तु तस्मिन्पाकयज्ञा इत्यनेनैव सिद्धं। सायं प्रातरग्निहोत्रदेवताभ्यो जुहुयात्। देवताग्रहणं मन्6निवृत्यर्थं। तेन नामधेयेनेनैव होमः। अग्निः सूर्यः प्रजापतिश्चाग्निहोत्रदेवताः सायं प्रातव्र्यवस्थया॥
पसदग्रहणं। अनाद्विताग्नेस्तु तस्मिन्पाकयज्ञा इत्यनेनैव सिद्धं । सायं प्रातरग्निहोत्रदेवताभ्यो जुहुयात्.
देवताग्रहणं मन्त्रनिवृत्यर्थं । पयोयवाग्वोरभावे व्रीहीन्यवांस्तण्दुलान्वा। त्रिः प्रक्षाल्योल्मुकेनाभिधार्य पाणिना दैवतीर्थेन जुहुयात्॥
आ0। औपसदग्रहणमाहिताग्न्यर्थं । आहिताग्नेरन्यकृतत्वात् पिण्दपितृयज्ञं न प्राप्नोति। तत्प्राप्तय औपसदग्रहणं। अनाद्विताग्नेस्तु तस्मिन्पाकयज्ञा इत्यनेनैव सिद्धं। सायं प्रातरग्निहोत्रदेवताभ्यो जुहुयात्। देवताग्रहणं मन्6निवृत्यर्थं। तेन नामधेयेनेनैव होमः। अग्निः सूर्यः प्रजापतिश्चाग्निहोत्रदेवताः सायं प्रातव्र्यवस्थया॥
इ/4.13.1ऊ
इ4.13.2ऊ
पर्वणि भार्यामुपवास्य दर्शपूर्णमासदेवताभ्यो जुहुयात्॥2॥
दे0। दर्शपूर्णमासदेवताभ्योऽग्निविष्णुप्रजापत्यग्नीषोमेन्द्रेभ्यो जुहुयादेकस्मात्स्थालीपाकात्प्रतिदेवतं चतुरवत्तेनोपांशुयागं त्वाज्येनैव जुहुयात्। सांनाय्यं त्वपीतसोमस्य दर्शपूर्णमासयोर्नास्ति। का वार्ता। तत्सदृशेषु पाकयज्ञेषु। पर्वणीति कालविशेषविधिः भार्यामुपवास्येत्युत्को दण्डापूपिकया यजमानस्याप्युपवासः प्रतीयते। अपरेऽपरथाचक्षते। भार्यामुप समीपे वासयित्वा संनिधाप्य जुहुयात् । दर्विहोमवदपूर्वत्वादत्र पूर्वत्र च परतन्त्राभावः॥
आ0। पर्वणि भार्यामुपवास्य दण्डापूपिकया स्वयमुपोष्य। अथवा दर्शपूर्णमासप्रकृतित्वे औपवस्त्रमुभयोः प्राप्तं । तेन भार्यामुपवस्येति वचनात्तयोरौपवस्त्रमेव भवति न तु व्रतोपायनादि । अथवा भार्याया वियोगः पर्वणि न कर्तव्यः। तामग्निसमीपे वासयेदित्यर्थः। दर्शपूर्णमासदेवतासंकीर्तनं प्रागौपवस्त्राद्भवत्येवेति केचित्। दर्शपूर्णमासदेवताभ्यो जुहुयादविशेषेण या दर्शपूर्णमासदेवताः। उपांशुयाजश्च भवति।...........पुरोडाशयोः स्थाने तु चरुरेवैके मरुतां चरुमिति दर्शनात् । आज्यं हविरनादेश इति वचनादन्ये आज्येन दर्शदेवताहोमं मन्यन्ते। तदसत्।
अत पाकयज्ञास्तस्मिनपाकयज्ञा इति पाकयज्ञशब्दार्दर्शपूर्णमासपृकृतया च तत्प्रकृतिकत्वात्स्थालीपाको युक्ततरः। स चैक एव पक्वैकद्रव्यमात्रसाध्यत्वात्पाकयज्ञत्वाद्धविर्भेदो नात्र विवक्षितः॥
इ/4.13.2ऊ
इ4.13.3ऊ
नवस्याग्रायणदेवताभ्यो ऽज्यानीभिरभिजुहुयात्॥3॥
दे0। पर्वणीत्यनुवर्तते। नवस्यान्नस्याशं जुहुयात्। काभ्यः। आग्रायणदेवताभ्य। या आग्रायणे वैदिके देवतास्ताभ्य एव गृह्राग्नावपि जुहुयात्। ताः पुनरग्नेन्द्रो वि·ो देवा द्यावापृथिवी सोम इति। यवास्तु हविः। अज्यानीभिरिति मन्त्रनिर्देशः। तास्तु षट्। प्रत्यृचं होमश्चतुरवात्तेन रुाुवेणाभिघृतेन। पूर्वत्रापि तुल्यमेतत्॥
ब्रा0। अÏग्न परिसमूह्र पर्युक्ष्य परिषिच्य परिस्तीर्य। अग्नेन्द्रौ वि·ो देवा द्यावापृथिवी सोम इति शरदि चतरुाो नवाग्रायणदेवताः। इन्द्राग्नी वि·ो देवा द्यावापृथिवी इति तिरुाो ग्रीष्मे। सर्वेषां पृथक् चरवः। पयसि तु वै·ादेवः सौम्यः श्यामाकश्चरुः शरदि व्रीहीणामाग्रायणं ग्रीष्मे यवानां। सुकर्मणे ये के च ज्मा घृतवती या ते धामानीति चतरुाो हविषां शरदि याज्याः। शुचिं नु ये के च ज्मा घृतवती इति तिरुाो ग्रीष्मे। शतायुधायेति षड्भिः प्रधानादनन्तरमभिहोमः॥
आ0। पर्वणीत्यनुवर्तते। नवस्य हवींषि कृत्वाग्नेन्द्रौ वि·ो देवा द्यावापृथिवी सोम इति शरद्याग्रायणदेवताः। ग्रीष्मे पुनरिन्द्राग्नी वि·ो देवा द्यावापृथिवी इति। द्रव्यभेदाद्धविर्भेदः॥
इ/4.13.3ऊ
इ4.13.4ऊ
स्विष्टकृदनुमन्त्रणमुक्तं प्राशनं च॥4॥53॥ (4।13)
दे0। अग्निः प्राश्नात्विति हुतस्यानुमन्त्रणं। प्राशनं। उक्तमित्यनिषङ्गः। आग्रायणमुक्तमेव प्राशनं ग्राह्रं स्विष्टकृत्कालकं भद्रान्न इति व्रीहिश्यामाकानां भक्षणे मन्त्राः। एतमुत्यमिति यवानाम्॥
ब्रा0। इडामग्न इत्येवं स्विष्टकृतं हुत्वा। अग्निः प्राश्नात्वित्यनुमन्त्रणं शरदि। भद्रान्न इति नान्दीमुखश्राद्धादनन्तरं नवान्नप्राशनं। एतमुत्यमिति ग्रीष्मे।
आ0। स्विष्टकृदनुमन्त्रणमुक्तं। अग्निः प्राश्नात्विति व्रतस्यानुमन्त्रणं प्राशनं चोक्तम्॥
इ/4.13.4ऊ
चतुर्दश खण्डः
इ4.14.1ऊ
वै·ादेवस्य सिद्धस्य सर्वतोऽग्र्यस्य जुहोत्यग्नये सोमाय मित्राय वरुणायेन्द्रायेन्द्राग्निभ्यां वि·ोभ्यो देवेभ्यः प्रजापतयेऽनुमत्यै धान्वन्तरये वास्तोष्पतयेऽग्नये स्विष्टकृते च॥1॥
दे0। वै·ादेवस्य कर्तव्यतां वक्ष्याम इत्यध्याहारः। वि·ोभ्यो देवेभ्यः स्वाहेति वै·ादेवसंभवाच्छत्त्रिन्यायेन कर्मसमूहे वै·ादेवशब्दः प्रवृत्तिः अथवा वि·ो च ते देवा अग्न्यादयो वि·ो देवा देवता अत्रेति वै ·ादेवः अत्रौपसदेऽग्नवित्यनुवर्तते। देवादावौपसदाभावे लौकिकेऽपि भवति सर्वत्रार्यदेशे समाचारदवै·ादेवभोजननिषेधाच्च। स्मृतिषु प्रथिदिनं बि प्पञ्चयज्ञानुष्ठानं गृहस्थविहितं। पञ्च यज्ञाः पुनर्वक्ष्यन्ते। देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो
ब्राहृयज्ञ इति यदग्नौ जुहोत्यपि समिधं तद्देवयज्ञः संतिष्ठते। यत्पितृभ्यः स्वधा करोत्यद्भिस्तत्पितृयज्ञाः संतिष्ठते। यद्भूतेभ्यो बलिं ददाति तद्भूतयज्ञः संतिष्ठते। यत्स्वाध्यायमधीते तद्ब्राहृयज्ञः संतिष्ठते। यद्ब्रााहृणेभ्योऽन्नं ददाति तन्मनुष्ययज्ञः संतिष्ठते॥ औपसदेऽग्नौ सायंप्रातरपि वै·ादेवं
कुर्यादिति व्याचक्षते। सिद्धस्य सर्वतोऽग्न्यस्य जुहोतिति। भोजनाद्यर्थत्वेन सिद्धस्य न तु ष्यदेव। ब्राीह्रादेः अग्रस्याग्ने प्रथमं नुहुयात्ततो ब्रााहृणादिकं भोजयेत्। अग्न्यस्येति सप्तम्यार्थे व्यत्ययेन षष्टी। अन्ये व्याचक्षते। अग्रयस्य प्रधानव्रीह्रादेर्भूयांसमंशं गृह्णीयादिति। अग्र्यस्य ग्रहणेन दर्शितं सर्वग्रहणेनोपात्तस्य पुनरग्र्यग्रहणेन भूयस्त्वार्थमुपपादनात्। अन्यस्मात्तु सर्वतस्तावन्मात्रमुद्धर्तव्यं। ये त्वौपसदे सायंप्रातर्जागरणार्थं वै·ादेवं वदन्ति त एवं व्याचक्षते। सर्वस्माद्गृहस्थिताद्यदग्र्यमुत्कृष्टं सिद्धमप्रयासेन यवव्रीहितण्डुलादीनामन्यतमं तस्यांशेन जुहुयान्न त्वभिनिवेशं कुर्यात्। अमुनैवेति तर्हि होमान्दर्शयति। अग्नये.......स्विष्टकृत इति। अÏग्न परिसमूह्र पर्युक्ष्य परिस्तीर्य हविरभिधार्य। नानभिघृतं हविरस्तीति श्रुतेः। एता द्वादशाहुतीर्जुहुयात् केचिदाहुः। अग्नये सोमायेति स्विष्टकृतः प्रागाज्यभागान्तं लक्षयतीति तच्च सायन्तिकप्रायेनान्यत्राहेष्टदर्शनात् चतुर्थीनिर्देशात्स्वाहाकारान्तात् दर्शयति स्वाहाशब्दो निपातः संप्रदानं द्योतयति॥
ब्रा0। सायमाशे संसिद्धेऽन्ने भूतमन्नमिति पत्न्यान्येन केनचिद्वाप्युक्ते शुचिर्भूत्वा प्रतिजपति ओमित्युच्चैस्तस्मै नमस्तन्मा क्षा इत्युपांशुः। अथाÏग्न परिसमूह्र पर्युक्ष्य परिविच्य चातुष्कोटैः स्तरैः परिस्तीर्याग्र्यस्यान्नस्योद्धृत्याभिधार्य ह्रवदानमात्रा द्वादशाहुतीः पाणिना जुहुयात्। अग्नये
स्वाहेत्युत्तरतः सोमाय स्वाहेति दक्षिणतः। तयोर्मध्ये नव तिरुास्तिरुाः प्राचीरुत्तरार्धपूर्वार्धे स्विष्टकृत्॥
आ0। वै·ादेवस्येतिकर्तव्यतोच्यते। सिद्धस्य भोजनार्थं न तु तादथ्र्येन साधितस्य सर्वतोऽग्र्यस्य जुहोति। सर्वेषामन्नानां मिश्रापूपपायससक्तूनां यदग्र्यमन्नं तस्योदनादेर्जुहोति। परिसमूह्र पर्युक्ष्य परिस्तीर्यान्नहोमवद् ह्रवदानमात्रं अग्नये स्वाहा सोमाय स्वाहेति द्वादशभिः स्वाहाकारान्तैः परां परां जुहुयात्। केचिदग्नये सोमायेत्याज्यभागवदभितोऽग्नेः। स्विष्टकृच्चोत्तरपूर्वार्धे॥
इ/4.14.1ऊ
इ4.14.2ऊ
तक्षोपतक्षाभ्यामित्यभितः॥2॥
दे0। जुहोतीत्यनुषज्यते। चतुर्थीनिर्देशात्संप्रदानार्थीयो नमःशब्दोऽत्र सदाचाराद्गम्यते। तक्षाय नम
इत्युभयस्यां दिश्यमितोऽग्नेः पूर्वं प्रदक्षिणं कृत्वा प्रथमं पूर्वोत्तरकोणे ततः पूर्वदक्षिणे॥
ब्रा0। हुतशेषात्पात्रेषु दर्भेषु वावोक्षितेषु महामार्जारश्रवणप्रमाणादनूनान्यथास्थानं वाग्यतोऽमुष्मै नम इत्येवं षÏट्त्रशतं बलीन्हरेति। पिण्डवच्चैषां प्रतिमाप्रतिपत्तिरेकत्र चेत्कृत्स्ना भवन्तीतरेतरसंसृष्टाश्च। तक्षाय नम इत्यग्नेर्दक्षिणतः। उततक्षाय नम इत्युत्तरतः॥
आ0। ततो बलिहरणमुदकमवसिच्य हुतशेषात्। तक्षोपतक्षाभ्यामग्नेः पार्·ातो विभज्य नामनी। तक्षाय नम उपतक्षाय नम इति चतुथ्र्या नमस्कार उपस्थापितः। संप्रदानीयो ह्रेषः केचिद् द्वन्द्वदेवता एका मन्यन्तेऽग्नीषोमवत्। तन्न। इन्द्रान्तकास्पती अभ्य इति स्मृत्युक्तं। विभज्य सूत्रकारेण दर्शितम्॥
इ/4.14.2ऊ
इ4.14.3ऊ
पूर्वेणाग्निमम्बा नामासीति सप्त॥3॥
दे0। पूर्वेणाग्निमित्यनुषज्यते। अम्बा नामासि तस्यै ते नमः। दुला नामासि तस्यै ते नमः। नितत्नी नामासि तस्यै ते नमः। चुपुणीका नामासि तस्यै ते नमः। अभ्रयन्ती नामासि तस्यै ते नमः। मेघयन्ती नामासि तस्यै ते नमः। वर्षयन्ती नामासि तस्यै ते नमः।
ब्रा0। पूर्वेणाग्निमम्बा नामासीति सप्त गृहदेवताभ्यो बन्धुमत्यः सप्त भरद्वसोर्वसिष्ठस्येत्यार्षमनुस्मृत्य॥
आ0। पूर्वेणाग्निमम्बा नामासीति सप्त। ते अग्ने पूर्वस्यां दिशि। अत्राप्यम्बा नामासि नमस्त इति प्रयोगः॥
इ/4.14.3ऊ
इ4.14.4ऊ
गृह्राभ्यो नन्दिनि सुभगे सुमङ्गलि भद्रंकरोति रुाक्तिष्वभिदक्षिणम्॥4॥
दे0। गृहेभ्यो हिता गृह्रा देवताः।......रुाक्तिषु कोणेष्वग्नेरेताश्चतरुा आहुतीर्जुहुयात्। अभिदक्षिणं प्रदक्षिणं
यथा भवति पूर्वदक्षिणकोणादारभ्य। अपरे गृहरुाक्तिष्विति व्याचक्षते। तत्र प्रचुरप्रयोगदर्शनं शरणं। नन्दिनि तुभ्यं नम इत्यादिः प्रयोगोऽनुमन्तव्यः। प्रदर्शनार्थत्वादाह्वानस्य॥
ब्रा0। नन्दिन्यादीशानादिकोणचतुष्टये चतरुाः॥
आ0। ततो गृह्राभ्यो बलिहरणं नन्दिनि सुभगे सुमङ्गलि भद्रंकरीति रुाक्तिष्वभिदक्षिणं। नन्दिनि नमस्त इत्याग्नेय्यां। सुभगे नमस्त इति नैर्ऋत्यां। एवं प्रदक्षिणं रुाक्तिषु गृहकोणेषु॥
इ/4.14.4ऊ
इ4.14.5ऊ
स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभियश्चेति॥5॥
दे0। गृह्राभ्य इति यथायोग्यं सर्वत्रानुवर्तनीयं। ध्रुवासीति मन्त्रेण वास्तोप्पतीयकर्मणि दर्शितेन या स्थूणा संस्कृता प्रधानभूता गृहमध्ये तस्यां हिरण्यकेश्यै नमो वनस्पतिभ्यो नम इति बलिद्वयमुपहरेदिति केचित्। अन्ये तु यथासंख्यं व्यभिचारं मन्यमानाः स्थूणायामधिकरणभूतायां वनस्पतिभ्यो जुहुयात्। ध्रुवायां स्थाल्यां हिरण्यकेश्यै नम इति व्याचक्षते। स्थूणायां हि
वनस्पतिर्देवता वस्ति स्थाल्यां च हिरण्यकेशीलक्ष्मीः। गृहदेवतानां चामी होमाः॥
ब्रा0। श्रियै हिरण्यकेश्यै नमः वनस्पतिभ्यो नम इति बलिद्वयं मध्यमस्थूणायाम्॥
आ0। स्थूणायां ध्रुवायां मध्यमायां श्रिथै हिरण्यकेश्यै वनस्पतिभ्यश्चेति॥
इ/4.14.5ऊ
इ4.14.6ऊ
धर्माधर्मयोद्र्वरि मृँत्यवे च ॥6॥
दे0। धर्माय नमः। अधर्माय नमः इति गृहद्वारमध्ये आहुती जुहुयात्॥
ब्रा0। धर्मायाधर्माय मृत्यवे इति बलित्रये द्वारे॥
इ/4.14.6ऊ
इ4.14.7ऊ
उदधाने वरुणाय॥7॥
दे0। मृत्यवे नमः। जलपात्रे घटादिके जुहुयात्। उदकस्य उदसंज्ञायामित्युदधानशब्द उदधिवत्॥
ब्रा0। वरुणायेति मणिकसमीपे॥
आ0। उदधाने घटादौ वरुणायेति॥
इ/4.14.7ऊ
इ4.14.8ऊ
विष्णव इत्युलूखले॥8॥
दे0। वरुणाय नमो विष्णवे नम इति पिपिष्यधिकरणे बलिद्वयमुपहरेत्॥
इ/4.14.8ऊ
इ4.14.9ऊ
मरुद्भ्य इति दृषादि॥9॥
ब्रा0। मरुद्भ्य इथि पेषण्याम्॥
आ0। दृषदि पेषणशिलायाम्॥
इ/4.14.9ऊ
इ4.14.10ऊ
उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश्चेति॥10॥
दे0। वैश्रवणाय राज्ञे नमो भूतेभ्यो नम इति गृहस्योपरि बलिमुपहरेत्॥
ब्रा0। वैश्रवणादिबलिद्वयं गृहस्योपरि॥
इ/4.14.10ऊ
इ4.14.11ऊ
इन्द्रायेन्द्रपुरुषेभ्य इति पूर्वार्धे॥11॥
दे0। पूर्वार्धे गृहस्याग्नेर्वा॥
ब्रा0। इन्द्रायेति बलिद्वयं गृहस्य पूर्वार्धे॥
आ0। गृहस्यैव॥
इ/4.14.11ऊ
इ4.14.12ऊ
यमाय यमपुरुषेभ्य इति दक्षिणार्धे॥12॥
इ/4.14.12ऊ
इ4.14.13ऊ
वरुणाय वरुणपुरुषेभ्य इति पश्चार्धे॥13॥
इ/4.14.13ऊ
इ4.14.14ऊ
सोमाय सोमपुरुषेभ्य इत्युत्तरार्धे॥14॥
ब्रा0.। वरुणाय सानुगाय पश्चार्धे सोमायोत्तरतश्चान्यगृहेषु स्मृतिषु च श्रूयते। लौगाक्षिस्तु तथा नाह। प्रायणीयादौ सोमस्य यागः पश्चार्धे दृष्टः। प्रतीची दिक् सोमो देवतेत्यग्न्युपस्थाने श्रूयते। वरुणायेति द्वयमुत्तरार्धे॥
आ0। यमाय यमपुरुषेभ्य इति दक्षिमार्धे। एवमादि। स्पष्टमन्यत्। सोमः पश्चिमायामस्माकं दृश्यते। प्रतीची दिक् सोमो देवता। तथा प्रायणीये सोमः पश्चादिज्यते॥
इ/4.14.14ऊ
इ4.14.15ऊ
ब्राहृणे ब्राहृपुरुषेभ्य इति मध्ये॥15॥
इ/4.14.15ऊ
इ4.14.16ऊ
ऊध्र्वमाकाशाय॥16॥
दे0। आकाशाय नम इत्यूध्र्वं बलिमुपहरेत्॥
ब्रा0। आकाशाय नम इत्यूध्र्वं पश्यन्॥
आ0। ऊध्र्वां दिशमुत्क्षिपेदाकाशायेति॥
इ/4.14.16ऊ
इ4.14.17ऊ
स्थण्डिले दिवाचरेभ्यो भूतेभ्य इति दिवा॥17॥
दे0। शुचिभूभागे दिवा बलिमुपहरेत्॥
ब्रा0। दिवाचरेभ्य इति भूमौ दिवा वै·ादेवे॥
आ0। स्थण्डिले भूमौ दिवाचरेभ्यो भूतेभ्य इति दिना बलिं हरेत्॥
इ/4.14.17ऊ
इ4.14.18ऊ
नक्तंचरेभ्यो भूतेभ्य इति नक्तम्॥18॥
दे0।स्थण्डिल इत्यनुषज्येत। अत्र दिवा वै·ादेवे क्रियमाणे बलिमुपहरेद्रात्रौ तु नक्तंचरेभ्यो भूतेभ्य इति केचिद्व्याचक्षते। प्रयोगस्त्वीदृशः। दिवापि वै·ादेवं कुर्वाणाः कल्पयित्वा नक्तंचरेभ्यो भूतेभ्योऽपि स्थापयन्ति। रात्रौ च त्याजयन्ति। रात्रौ तु वै·ादेवो नोपितस्तत्रावश्यकर्तव्यः
क्रियमाणस्य किंचिद्वैकल्यमभ्युपनतमेव
एकान्तपराजयद्वारं संदेह इति नयेन॥
ब्रा0। नक्तंचरेभ्य इति सायं। इति षÏट्त्रशद्वलयः॥
आ0। यदा नक्तं रात्रौ नक्तंचरेभ्यो भूतेभ्य इति॥
इ/4.14.18ऊ
इ4.14.19ऊ
शेषं पितृभ्यः पिण्डान्निदधाति॥19॥
दे0। शिष्यत इति शेषः प्रदर्शिताहुतिबलिभ्यो मुच्यमानः। तं पिण्डीकृत्य पितृपितामहप्रपितामहेभ्यो
मातृपितामहीप्रपितामहीभ्यश्च ददाति॥
आ0। शेषं बलिहरणशिष्टं पितृभ्यः पिण्डान्विदधाति पिण्डपितृयज्ञवत्। निदधातीति प्रकृतिलिङ्गात्। सतिलमिति केचित्। सघृतमग्नौ जुहोति सोदकं बलिषु सतिलं पितृषु॥
इ/4.14.19ऊ
इ4.14.20ऊ
उदकलशमुपनिधाय स्वस्त्ययनं वाचयति॥20॥54॥(4।14)
दे0। अग्नेरात्मनश्च समीपे जलकलशं स्थापयित्वा स्वस्त्ययनं वक्ति बोधश्च मेत्यनुवाकं। वाचयतीति स्वार्थे णिच् रामो राज्यमकारयदित्यादिवत्। चारौदिकौ वात्र वाचिः। स्वस्त्यविनाश ईयते प्राप्यते येन तत्स्वस्त्ययनं। अत एव पुरुषसूक्तकनिक्रदत्प्रभृति वक्तव्यम्॥
ब्रा0। तत उदकपूर्णं कलशमुपनिधाय तत्र वरुणं यज्ञपुरुषं विष्णुं चाभ्यच्र्य बोधश्च मेति स्वस्त्ययनं। सायं शिरोगतौरेण मयूरवत्स्वस्त्ययनोपस्थाने। नृपाभिषेकेषु चेति प्रातिशाख्येषु दृष्टत्वास्वस्त्ययनस्य सर्वत्रोच्चैः प्रयोगः। तप्तः परिस्तरणानि नीत्वाÏग्न विमुच्येत्॥
आ0। तत उदकलशमुपनिधायाग्निवरुणप्रत्यक्षं स्वस्त्ययनं वाचयति बोधश्च मेत्यनुवाकं। अत्र स्वार्थे णिच्॥
इति लौगाक्षिसूत्रे गृह्रपञ्चिकायां चतुर्थोऽध्यायः॥
इ/4.14.20ऊ
पञ्चमोऽध्यायः
[सम्पाद्यताम्]प्रथम खण्डः इ5.1.1ऊ अथार्तवस्वस्त्ययनानि॥1॥
दे0। अथेत्यानन्तर्ये। ऋतावृतौ भवान्यार्तवानि कर्माणि वक्तव्यानि। स्वस्ति मङ्गल्यं। तदविनाश ईयते प्राप्यते यैस्तानि स्वस्त्ययनानि। तानि कानिचिन्नित्यान्यपि श्रावण्यादीनि। तेषामकरणे कालचोदितानामिति पाथिकृती भवती । कपोतनिलयशान्त्यदीनि स्वस्त्ययनान्येव॥
आ0। ऋतावृतौभवान्यार्तवानि कर्माणि स्वस्तिरीयते यैः तानि स्वस्त्ययनानि कानिचित्संस्कारत्वान्नित्यान्यप्यष्टकादीनि। कानिचित्स्वस्त्ययनानि अन्येन यथा कपोतनियला·ायुज्यादीनि। कानिचिदुभयरूपाणि यथा श्रावण्याग्रहायणी चैत्रे च स्वस्त्ययनानामकरणेनादृष्टदोषः। अत्र कालचोदितानामेवातिपत्तौ पाथिकृती॥
इ/5.1.1ऊ
इ5.1.2ऊ
श्रावण्यां चत्वारि हवींष्यासादयेदपूपं स्थालीपाकं धानाः सक्तूनुभयमक्षतानाम्॥2॥
दे0। चतरुाः पौर्णमास्यः श्रावणी आ·ायुजी आग्रहायणी फाल्गुनी। श्रवणेन युक्ता पौर्णमासी श्रावणी। तस्यां चत्वारि हवींष्यावापस्थाने निरुप्यासादयेदपूपादीनि। तत्रापूपो व्रीहीमयो घृतपक्वः यवमयस्तैलपक्वः फाल्गुन्यां
तैलपक्वस्य जुहोतीति लिङ्गात्। चतुष्र्वपि मातृवर्णिन्यः। अपूपे विष्णुः। चरौ रात्र्यः। धानासु
सक्तुषु च सर्पाः। उभयं धानाः सक्तवश्चाक्षतानामनवहतानां यवानाम्॥
ब्रा0। श्रावणस्य शुक्लपञ्चदश्यां चत्वारि हवींष्यासादयेत्। विष्णवे जुष्टं निर्वपामीति व्रीहीणामपूपार्थं निर्वापः। रात्र्यै जुष्टमिति स्थालीपाकार्थं सर्पेभ्यो जुष्टमिति द्विर्धानाः सक्त्वर्थं यवानां भृष्ट्वैतानर्धान्सक्त्वर्थं पिनष्टि। हविषामुदगुद्वासनाद्यव्यवायिना कार्यं।......अलं करणकाले पवित्रे पात्रे धाना उपवपति सक्तूंश्च॥
आ0। श्रवणेन युक्ता पौर्णमासी श्रावणी। विनापि श्रवणेन। तस्यां चत्वारि हवींष्यासादयेत्। कानि। अपूपं स्थालीपाकं धानाः सक्तूंश्च। एतद्वानासक्त्वाख्यमुभयमक्षतानां यवानामनवहतानाम्। चरुमिति वक्तव्ये स्थालीपाकग्रहणं पाकयज्ञतन्त्रनिवृत्त्यर्थं। सर्वत्र पाकयज्ञशब्दसामान्यात्॥
इ/5.1.2ऊ
इ5.1.3ऊ
वषट् ते विष्ण इत्यपूपस्य जुहोति रात्री व्यख्यदिति स्थालीपाकस्य नमो अस्तु सर्पेभ्य इति धानानां ये वाद इति सक्तूनाम्॥3॥
दे0। आज्यभागान्तं पूर्वान्मध्यांश्चावदाय प्रधानानुष्ठानं सर्वं जुहोति नमोदितः स्वाहाकारः। मन्त्रचतुष्टयस्य प्रतीकेनापूपादिहोमेषु विनियोगोऽनेन भणितः॥
ब्रा0। आज्यभागान्ते यथोक्ताभिश्चतसृभिर्वषट् ते विष्ण इत्याद्याभिः प्रधानाम्॥
आ0। .......रात्री व्यख्यदिति स्थालीपाकस्य। अवदाय मेक्षणेन। एवमादीनां चतुरवक्तं पञ्चावत्तं वा रुाुचा होमः। मध्यपूर्वार्धावदानं दर्शपूर्णमासप्रकृतत्वादागच्छति। यत्र यत्र जुहोतिशब्दस्तत्र तत्र
स्वाहाकारः॥
इ/5.1.3ऊ
इ5.1.4ऊ
येषु वा यातुधाना इति दव्र्यावटेषु सक्तूनाम्॥4॥
दे0। अवटेषु गर्तेषु। गव्र्या न तु रुाुचा। येषु वेति मन्त्रेण होमः। अभिधारः सर्वत्र ज्ञेयो नानभिघृतं हविरस्तीति॥
ब्रा0। ये वाद इति सक्तूनामग्नौ हुत्वा दर्वी रुाुग्वत्संमृत्य बर्हिषि निधायोपस्तीर्य तेषामेव सक्तूनामवदानधर्मेणावदायाभिधार्य सक्तून्प्रत्यभिधार्य येषु वा यातुधाना इत्युदगग्नेरवटे जुहोति। नावटे परिस्तरणमनग्ना अपरिस्तीर्ण इति हि परिभाषा। ऋतुतिथियागादितन्त्रसमाप्तिः॥
आ0। दव्र्या न रुाुचा अवटे गर्ते नाग्नौ। अविद्यमानेऽवटे स्वात्वाप्यवटे जुहोति॥
इ/5.1.4ऊ
इ5.1.5ऊ
उभयत्राखुराजाय बलिं हरेदाद्यन्तयोर्वा॥5॥55॥ (5।1)
दे0। उभयत्रेति। औपसदहोमेऽवटहोमे च अन्ये त्वाहुः। उभयत्र सायंप्रातर्होमकालो लक्ष्यते। यदुक्तं दिवाचरेभ्यो भूतेभ्यो दिवा नक्तंचरेभ्यो नक्तमिति वै·ादेवबलिहरणं। तत्र स्थाने सक्तुबलिरनेनोच्यते। चातुर्मासिको गृह्रान्तरे तथादर्शनात्। सावित्रेण देवस्य त्वेत्यादिनाखुराजाय बलिं हरामीत्यन्तेनैव बल्युपहारः। आद्यन्तयोर्वेति। श्रवणीफाल्गुन्येरिति केचित्। आद्यन्तयोर्हविषोरपूपसक्तुलक्षणयोराखुराजाय बलिं हरेदिति त्वन्ये॥
ब्रा0। श्रावण्यामेवं पाकयज्ञेनेष्ट्वा तूष्णीमुपचरितान्सक्तून्दर्वी च स्थाल्यां विहायसि शिक्ये निदध्यात्। तदहः प्रभृति मासचतुष्टयं तैः सक्तुभिर्दर्वीं पूरयित्वा सायं प्रातश्च देवस्येत्यादिनाखुराजाय बलिमुपहरामीन्युदगग्नेरवटे बलिमुपहरेच्छावण्याग्रहायण्योरेव परिसंख्यया श्रावण्यां सायं विंशत्यधिकं बलिशतमेकीकृतमुपहरेत्। आग्रहायण्यां प्रातर्यद्यधिमासो मासचतुष्टयमध्ये भवेत्तदा परिसंख्यया पञ्चाशदधिकं शतं। उभयत्रापि। नात्रोपस्तरणाभिघारणे होमाभावात्॥
आ0। उभयत्राखुराजाय बलिं हरेत्। सक्तूनां दव्र्येत्यनुवर्तते। क्व। उभयत्र। दधिसक्तुबलिहरणसामथ्र्याच्छाखान्तरीयं सायंप्रातः काले चातुर्मासिकं बलिहरणं वक्ष्यते। तेनोभयत्र सायं
प्रातरग्निहोत्रदेवताभ्य इत्यतः सूत्रात्। आद्यन्तयोर्वा श्रावण्याग्रहायण्योः। एते चतुर्णां मासामाद्यन्ते पौर्णमास्यौ॥
इ/5.1.5ऊ
द्वितीय खण्डः
इ5.2.1ऊ
आयूतिके कपोते भयार्ते सक्तुषु भस्मनि वा पदं दृष्ट्वा देवः कपोत इत्यष्टर्चेन स्थालीपाकस्य जुहोति॥1॥
दे0 प्रायेण वर्षासु कपोताः प्रोद्भवन्तीति श्रावणीप्रसङ्गेन कपोतनिलयशान्तिरुदिता। यूतिः
सङ्घः। तत्प्रतिषेधेनायूतिः सङ्घवियोगोऽभिप्रेतः। अयूतौ भवः आयूतिकः। सदा यः सङ्घचारी कपोतः सदैवात् श्येनादिनावागूर्य नियोजितो भीतो यदा गृहं प्रविशति तदेयं शान्तिरुच्यते। न तु केवलचारिणि दृष्टे निर्भयगृहदेवकुलादिनिवासिनि ग्रामकपोते तादृशे आयूतिकं कपोतं गृहसंबद्धं भयार्तं दृष्ट्वा गृहपतिः स्थालीपाकस्य जुहुयाद्देवः कपोत इत्याद्यष्टाभिर्ऋग्भिः। यदा स्वरूपेण कपोतं न पश्यति किं तर्हि। गृहाभ्यन्तरे भस्मनि सक्तुषु वा कपोतचरणप्रतिबिम्बमवलोकयति तदा जुहुयात्। यमदूतो हि कपोतः। तं प्रत्यक्षेणानुमानेन वा कृतसंनिधानं गृहे बुद्ध्वा महतो शिष्टस्य शान्तय इदं स्वस्त्ययनं कुर्यात्। क्वचिदायुतिकः सुस्पष्टः॥
ब्रा0। कपोतगृहप्रवेशसूचितदुरिष्टशान्त्यां देवेभ्यो जुष्ठं निर्वपामीति चरुनिर्वपः। देवः कपोतः
इत्यष्टाभिरग्निर्ऋषिरिति पावमान्यन्ताभिः प्रधानम्॥
आ0। आयूतिके कपोते। यूतिः सङ्घः। तद्विपरीतः अयूतिः। अयुतौ भव आयूतिकः। असहाय इत्यर्थः। असहायके कपोते श्येनादिना त्रसिते गृहे निलीने सति वक्ष्यमाणा शान्तिः कत्र्तव्या। यत्ते गृहकपोता वलभीषु सर्वदा वसन्ति ते यौतिका भयार्तश्चन तेष्वियं शान्तिः। अदृष्टेषु सक्तुषु भस्मनि वा कपोतपदं दृष्ट्वा तथापीयं कर्तव्या। मृत्युदूते हि कपोते निलीन सर्वत्राग्निदग्धपदानि दृश्यन्ते यत्रापि नोपविष्टः॥
इ/5.2.1ऊ
इ5.2.1ऊ
परीमे गामनेषतेति गां परिणयन्ति॥2॥
दे0। परिणयन्तीति बहुवचनेन गृहपतिव्यतिरिक्तस्यान्यस्याप्यत्र कर्तृत्वं
दर्शयति।.....अत्रापीष्ठिविकारत्वादाज्यभागान्तं कृत्वा स्थालीपकहोमः॥
व्र0। यस्मिन्गृहे कपोतपदं दृष्टं तं गां परिणयन्ति॥
आ0। परिणयम्ति यत्र निलीनो गृहे तत्रानेन मन्त्रेण॥
इ/5.2.2ऊ
इ5.2.3ऊ
सा दक्षिणा॥3॥56॥(5-2)
व्र0। तां होमान्ते ब्रााहृणाय दध्यात्॥
आ0 सैव कर्तुदक्षिणा। प्रायेण कपोता वर्षासु संचरन्त्यतो ऽस्मिन्नवसरे उक्ताः॥
इ/5.2.3ऊ
तृतीय खण्डः इ5.3.1ऊ आ·ायुज्याम·ाान्महयन्ति सर्वाणि च वाहनानि॥1॥
दे0। अ·ायुजा नक्षत्रेण युक्ता पैर्णमासी आ·ायुजी। तस्यां नृपतिप्रभृतीनामम·ाप्रभृतीनाम·ाादिस्वस्त्ययनमिदं कत्र्तव्यमुच्यते। अ·ाान्महयन्ति पूजयन्ति स्नानानुलेपालंकाकप्रभृतिभिः श्रृङ्गारयन्ति। सर्वाणि च करिकरभतुग्गप्रभृतीनि वाहनानि यथासंभवं
महयन्ति॥
व्र0। अ·ारथादिवाहनवतामा·ायुक्पौर्णमास्याम·ाादीनां नवविचित्रवस्त्रालंकारैचन्दनालंक्तकसिन्दूरादिस्थासकैश्च
पूजयेत्॥
आ0। अशवयुग्भ्यां युक्ता पौर्णमासी अशवयुजा युक्ता वा आ·ायुजी। तत्रा·ावतां नीराजनं स्वस्त्ययनम·ाानामुच्यते। आ·ाान्महयन्ति पूजयन्ति। वस्त्रालंकाकैश्चन्दनादिस्थासकैश्च। सर्वाणि च वाहनानि। हस्त्य·ातरमहिखरोष्ट्रादीनि च॥
इ/5.3.1ऊ
इ5.3.2ऊ
उत्तरतो ग्रामस्य वेदेयाकृतीं कृत्वा शाखाभिः परिवार्याहतैश्च वासोभिः सर्वरसैर्घटान्पूरयित्वा दिक्षु निदध्यात्सर्वबीजश्च पात्राण्यवान्तरदिक्षु॥2॥
दे0 ग्रामस्य या उत्तरा दिक् तत्रेष्टिविकारत्वादिष्टिवेदिसदृशीं चतुरश्रां वेदिं कृत्वा तां च शाखाभिरहितैश्च वासोभिः परिवार्य सर्वरसैर्मधुरादिभिरिक्षुरसप्रभृतिभिर्घटान्पूरयित्वा विदिक्षु पूर्वान्तरादिषु दध्यात्॥
आ0 उत्तरतो ग्रामस्येति व्याख्यात्। अहतैश्च वासोभिः परिवार्य सर्वरसैर्घटान्पूरयित्वा लवणमधुघृतादिभिर्दिक्षु निदध्याद्वेद्याः। सर्वबीजैश्च तिलयवादिभिः पात्राणि पूरयित्वा अवान्तररुाक्तिषु निदध्यात्॥
इ/5.3.2ऊ
इ5.3.3ऊ
मपरेण यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा तिरुाो देवता यजेत वरुणमग्निम·िानावा·ायुजी च॥3॥
दे0 तस्य च रचितोपचारस्यापरभागे यथोक्तमाज्यभागान्तं हुत्वा जयप्रभृतिभिश्च राष्ट्रभृदन्तैर्हुत्वा तिरुाो देवता यजेत नामधेयेन तद्देवतया वर्चा। कास्तास्तिरुाः। अÏग्न वरुणम·िानाविति। आ·ायुजीं चतुर्थीं। तां तु नामधेयेनैव आ·ायुज्यै स्वाहेति तल्लिङ्गमन्त्राभावात्। आज्यमत्र हविः॥
ब्रा0 वेदिं यथोक्तवत्कृत्वा तस्यां प्रधानदेवता अभ्यर्चयेत्। आज्यं हविरत्र। आज्यभागान्ते। वरुणाय स्वाहा। अ·िाभ्यां स्वाहा। आ·ासृज्यै स्वाहा। इति तिरुाः प्रधानाहुतयः। ऋग्भिर्दैवतद्देवताभिः॥
आ0 तमपरेण। तमेवंविध देशमपरेण। यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा तिरुाो देवता यजति। हविषोऽनपदेशादाज्येन। वरुणम·िानावा·ायुजीं च। च शब्दादा·ायुजीं नामधेयेन ऋचोऽभावात्॥
इ/5.3.3ऊ
इ5.3.4ऊ
इज्यमानेऽ·ाान्योजयन्ति सर्वाणि च वाहनानि॥4॥
दे0 यागे क्रियमाणेऽ·ाादीन्योजयन्ति पर्याणालंकारादिना॥
ब्रा0 इज्यमानेऽ·ाादिवाहनानि वाहका योजयन्ति॥
आ0 चतुर्गृहीतेन इज्यमानेऽ·ाान्योजयन्ति पर्याणदानादिना। सर्वाणि च वाहनानि च योजयन्ति॥
इ/5.3.8ऊ
इ5.3.5ऊ
प्रदक्षिणं देवयजनं कवचिनः त्रिः परियन्ति॥5॥
दे0। देवयजनं यागस्थानं वेदिः तस्याः परिहितकवचाः करितुरगप्रभृतयः प्रदक्षिणं भ्रमणत्रयं कुर्वन्ति॥
आ0।तेऽ·ाारूढाःकवचिनःप्रदक्षिणं देवयजनं त्रीन्वारान्परिगच्छन्ति॥
इ/5.3.5ऊ
इ5.3.6ऊ
प्रहर्षान्कुर्वन्ति॥6॥
दे0 प्रह्मष्टाः सन्तो घातादिकं कुर्वन्ति॥
आ0 प्रहर्षान् क्रोशान्कुर्वन्ति॥
इ/5.3.6ऊ
इ5.3.7ऊ
इ ष्टे यथार्थं संप्रयान्ति॥7॥
दे0। इष्टे यागनिवृत्त सति यथार्थं यथासंप्रयोजनं संयक् प्रह्मष्टः यान्ति यो यत्राधिकृतः स तं स्थानविशेषमनुसरतीत्यर्थः॥
इ/5.3.7ऊ
इ5.3.8ऊ
गौर्वासः कंसो हिरण्यं च दक्षिणा॥8॥
दे0। समस्तं च गवादि दक्षिणा॥
ब्रा0। यथोक्ता होमकत्र्रे दक्षिणा॥
आ0। गौः.......हिरण्यं च दक्षिणा कत्र्रे॥
इ/5.3.8ऊ
इ5.3.9ऊ
रसा बीजानि वासांसि॥9॥57॥(5।3)
दे0। दक्षिणेत्यनुषज्यते। रसा ये घटेषु कल्पिता बीजानि पात्रेषु वासांसि च वेदिवरणानि। तानि सर्वाण्येव दक्षिणा। उपयुक्तानां दक्षिणया प्रतिपत्तिः कर्तव्येत्यर्थः॥
आ0। रसा बीजानि वासांसि चान्येभ्यो यागविभागात्॥
इ/5.3.9ऊ
चतुर्थ खण्डः दे0 अस्यामेवा·ायुजां गोमतां स्वस्त्ययनमाह॥ इ5.4.1ऊ
अथ गोमतां विधिः॥1॥
दे0। उपसृष्टा गावो वसन्तीति लिङ्गात्सर्वमेतत्कर्म। गोस्वामिनामुपदिश्यते॥
आ0। गोमतामिदमुच्यते। गवां स्वस्त्ययनमेतत्। तस्मिन्नेवाहनि समागतासु तास्वेतत्सायं कार्यम्॥
इ/5.4.1ऊ
इ5.4.2ऊ
इह प्रजा यासामूधः पृषद·ाा घृतप्रतीक इति पृषातकस्य जुहोति॥2॥
दे0। पृषातकं पृषदाज्यं। तत्पुनर्दधिमिश्रितमाज्यं। अतश्च सांनाय्यधर्मकं। आज्यभागान्तं चोपसमाधानं कृत्वा विष्णोर्मनसेति पवित्रं कृत्वा। अग्नेर्जिह्वेति पृषातकमुत्पूय प्रधानयागोऽयं कर्तव्यः। मन्त्रवर्णिकाश्च देवताः।
स्त्विह प्रजा इत्यादिभिः प्रतीकैश्चत्वारो विनियुक्ताः। तैश्चतुर्भिश्चतरुा आहुतयः। गोमतां पृषातकेन प्रधानयागः। गोभ्यो लवणदानं। दधि घृतमिश्रं पृषातकमित्याचक्षते। हविरासादनकाले तूष्णीं दध्युत्पूय शीते भस्मन्यधिश्रिच्याज्यधान्या घृतमासिच्य चरुवदभिधार्यासादयति। आज्यभागान्ते.....चतरुाः प्रधानाहुतयः॥
आ0। घृतपयसी पृषातकं। तस्य जुहोति।
इ/5.4.2ऊ
इ5.4.3ऊ
अम्भः स्थेति लवणमभिमन्त्र्य गोभ्यो दद्यात्॥3॥
दे0। इत्यभिमन्त्र्याहुतिचतुष्ट¬ादनन्तरं गोभ्यो दद्यात्॥
ब्रा0 अम्भः स्थेति सहरुापोषं वः पुषेयमित्यन्तेन यथाशक्तिः चोभ्यो लवणं दद्यात्॥
इ/5.4.3ऊ
इ5.4.4ऊ
रौद्रीभिरभिजुहुयान्नित्याभिश्च॥4॥
दे0। मृडा नो रुद्रेति चतसृभी रौद्रीभिर्जुहुयात्। नित्याभिश्च। जुहुयादित्यनुषङ्गः। नित्याः परा ऋच इह गावोऽयं यज्ञ आ नः प्रजामिति तिरुा एव स्मर्यन्ते॥
ब्रा0। ततो मृडा नो रुद्रेति तिसृभिः रुाुवेणाज्येनाभिहोमः। इह गावोऽयं यज्ञ आ नः प्रजामिति नित्याभिश्च। तत ऋतुतिथियागादितन्त्रसमाप्तिः॥
आ0। नित्याभिश्च नित्यदाम्नाताः सर्वप्रधानानामिह गावोऽयं यज्ञ आ नः प्रजामिति लिङ्गात्तिरुा एव।
अन्यासां व्यपदेशान्तरमस्ति। धुर उपधुरः अष्टर्चे चेति। तस्मात्ता न भवन्ति॥
इ/5.4.4ऊ
इ5.4.5ऊ
दधिक्राब्ण इति पृषातकस्य प्राश्नाति॥5॥
दे0। दधिक्राब्ण इति मन्त्रेण पृषातकस्य शेषं प्राश्नाति॥
ब्रा0। इति हुतशेषस्य पृषातकस्य प्राशनम्॥
आ0। दधिक्राब्ण इति पृषातकस्य संस्थिते कर्मणि प्राश्नाति॥
इ/5.4.5ऊ
इ5.4.6ऊ
उपसृष्टा गावो वसन्ति॥6॥58॥(5।4)
दे0।वत्सैर्युक्ता गावस्तां रात्रीं वसन्ति।
ब्राा0।तदहः सवत्सा गावो पसन्ति।
आ0। उपसृंष्ठा वत्सेर्गावो वसन्ति।एतदपि सायंकरणे लिङ्गं। यावदुक्तो ऽयं होमः॥
इ/5.4.6ऊ
पञ्चम खण्डः
इ5.5.1ऊ
अथ वृषोत्सर्गः॥1॥
दे0। अथशब्दोऽधिकारार्थः। अथार्तवस्वस्त्ययनमध्येऽपि वृषोत्सर्गोऽधिकृतोऽनन्तरं बोद्धव्य इत्यर्थः॥
आ0। अथशब्द आर्तवस्वस्त्ययनपृथक्करणार्थः। गोप्रसङ्गेन कालप्रसङ्गेन चोच्यते वृषोत्सर्गः। गवां वृष उत्सृज्यते तेन वृषोत्सर्गः। सदा धर्मायैव पितृणां सहोपकारायेति स्मर्यते। एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्। यजेत वा·ामेधेन नीलं वा वृषमुत्सृजेत्। स्वगोष्ठे वोत्सृजेत्॥
इ/5.5.1ऊ
इ5.5.2ऊ
कार्तिक्यां पौर्णमास्यां रेवत्यां वा·ायुज्यस्य गवां मध्ये सुपमिद्धमÏग्न कृत्वा पौष्णं चरुं पयसि श्रपयित्वा पूषा गा अन्वेतु न इति पौष्णस्य जुहोति॥2॥
दे 0। कृत्तिकायुक्तश्चन्द्रो यस्यां भवति सा कार्त्तिकी पौर्णमासी। तस्यामा·ायुज्यस्य वा संबन्धिनि रेवतीनक्षत्रे कर्मेदं कर्तव्यमिति कालविकल्पः। कथं कर्तव्यमित्याह। गवां मध्ये स्वगोष्ठे समिद्धं दीप्तमÏग्न कृत्वा पूषदेवताकं चरुं पयसि श्रपयित्वा। आदित्यप्रायणीयचरुविकारं। पूषा गा अन्वेतु न इति पौष्णस्यावदानद्वयमुद्धृत्य जुहुयात्॥
ब्रा0। पूषा विष्टभागिति श्रुतिनिदर्शनात् अत्र पौष्णः पिष्टशालिमयश्चरुः॥
इ/5.5.2ऊ
इ5.5.3ऊ
इह रडिरिति हुत्वा॥3॥
दे0। इह रडिरित्याद्या दशाहुतीर्जुहुयात्प्रधानानन्तरम्॥
ब्रा0। इह रडिरिति रुाुवेण दशाहुतीर्जुहोति। इह रडिः स्वाहा॥1॥
इह रतिः स्वाहा॥2॥ इह धृतिः स्वाहा॥3॥ इह विधृतिः स्वाहा॥4॥ इह स्वधृतिः स्वाहा॥5॥ इह रन्तिः स्वाहा॥6॥ इह रमः स्वाहा॥7॥ इह रमतां स्वाहा॥8॥ इत्यष्टौ स्वाहाकारान्तः। अग्ने वेट्॥9॥ स्वाहा वट्॥10॥ इति यथापाठिताभ्यामेव। नात्र स्वाहाकारः॥
आ0। इह रडिरित्याज्यस्य जुहोति प्रतिमन्त्रं दशाहुतीः॥
इ/5.5.3ऊ
इ5.5.4ऊ
रुद्राञ्जपित्वा॥4॥
दे0। ततो रुद्राभिधानान् षडनुवाकाञ्जपेत्॥
ब्रा0। ततो नमस्ते रुद्र मन्यव इति षडनुवाकान्। सहरुाशीर्षेति षोडशर्चं पुरुषसूक्तं यद्देवा देवहेडनं यददीव्यननृणमहम् आयुस्ते वि·ातो दधद् वै·ाानराय प्रतिवेदयाम इति सूक्तं चतुष्टयं। कूष्माण्डानि च जपेत्॥
इ/5.5.4ऊ
इ5.5.5ऊ
जीववत्सायाः पयस्विन्याः पुत्रमेकरूपं द्विरूपं वा यो वा यूथं छादयेद्यूथे च तेजस्वितमः
स्यात्तमलंकृत्य चतरुाोऽष्टौ वा वत्सतर्यस्ताश्चालंकृत्यैतं युवानं पतिं वो ददाम्यनेन क्रीडन्तीश्चरथ प्रियेण। मा हास्महि प्रजया मा तनूभिर्मा राधाम द्विषते सोम राजन्निति॥5॥
दे0। अतिशयपत्ययार्थः आरम्भ उत्सृजोदित्यपेक्षया द्वितीया। ततोऽपि एकरूपं द्विरूपं वा एकरूपेति तस्माद्रोहितरूपं पशवो भूयिष्ठा इति श्रुतत्वात् रोहितवर्णं बह्वृचे चोक्तं। द्विहायनमेकहायनं वा नीलं बभ्रुं कपिलं चेति। द्विरूपत्वेऽपि बभ्रुं सप्तशुक्लैश्चन्द्रकैश्चित्रितं पुराणे चोक्तं।.......यो वा यूथं गोगणं छादयेत्। सर्वत्रोन्नत इत्यर्थः। यो वा यूथे तेजस्वितमः शौर्यकान्त्यादियुक्तः। तमलंकृत्य वरुामालाघण्टादिना। चतरुाोऽष्टौ वा वत्सतर्य इति विकल्पः। वत्सतर्योऽक्षतयुवत्यो दुहितरश्चतुर्वर्षाः। ता अपि पूर्ववदलंकृत्यैतमित्यादिमन्त्रेण॥
ब्रा0। जपादनन्तरमयस्कारो वृषभमङ्कयेत्। शूलेन दक्षिणं पार्·ां वामं चक्रेण। वामं पार्·ां शूलेन दक्षिणं
चक्रेणेति विष्णुस्मृतिदर्शनात्। अङ्कितं हिरण्यवर्णा इति चतसृभिरापो हि ष्ठेति तिसृभिः शं नो देवीरिति चाद्भिरकेवलाभिर्वत्सतर्यश्च स्नापयित्वा गन्धमाल्यादर्शकिङ्किनीसौवर्णश्रृङ्गरौप्यखुरमुक्तालाङ्गूलपट्टवस्त्रादिभिः सवत्सतरीकमलंकुर्यात्॥
आ0। यो वा यूथं प्रछादयेत् उच्चत्वेन। यूथे च तेजस्वितमः स्यात् वीर्यवत्तमो गवां समूहे। तमलंकृत्य समाचाराच्चक्रशूलाङ्कितं च कृत्वा चतरुाोऽष्टौ वा वत्सतर्यस्त्रिहायनास्ताश्चालंकृत्यानुमन्त्रयत्॥
इ/5.5.5ऊ
इ/5.5.6ऊ
तस्य दक्षिणे कर्णे पिता वत्सानामिति जपित्वोत्सृज्य प्राचीमुदीचीं वा दिशं प्रकालयित्वा सह वत्सतरीभिः सर्पिष्मदन्नं ब्रााहृणान्भोजयेत्॥6॥59॥(5।5)
दे0। तस्य वृषस्य दक्षिणे श्रोत्रे पिता वत्सानामिति जपेत्। मन्त्रलिङ्गादयमेव त्यागमन्त्रः। उत्सर्गसंकल्पं निर्वत्र्य वत्सतरीभिः सह प्राचीमुदीचीं वा दिशं प्रकालयेत् नयेत्। ततः सर्पिषा भूयसा युक्तं हविष्यमन्नं नाना प्रकारं ब्रााहृणान्यथाशक्ति भोजयेत्॥
ब्रा0। प्रागुदीचीं दिशं प्रकालयेत्। तत ऋतुतिथियागादितन्त्रसमाप्तिः। शोभनं वसनयुग्मं घृतपूरितं
कांस्यपात्रं रुक्मं च यथाशक्ति होमः कत्र्रे दद्यादयस्कारं च तोषयेत्। बहु सर्पिष्मदन्नं सदक्षिणं विप्रेभ्यो दद्यात्।
इ/5.5.6ऊ
षष्ट खण्डः
दे0। स्वस्त्ययनानन्तरमाह॥
इ5.6.1ऊ
अग्रहायाण्यामेतान्येव चत्वारि हवींष्यासादयेद्यानि श्रावण्यां यवमयस्त्वपूपः॥1॥
दे0 अग्रे हायनोऽस्य अग्रहायणी। अग्रे वा हायनोऽस्या अग्रहायणी। हायनः संवत्सरः। तस्याग्रे आरम्भे वा यस्या अग्रे पुरो हायनः सा आग्रहायणी। अग्रे हायनोऽस्या आग्रहायणी। सा तु मार्गशीर्षस्य पौर्णमासी। सैव संवत्सरस्याग्रे। तस्याः संवत्सरोऽग्रे चैत्रामावस्याया ह्रारभ्य तदन्त एव ज्योतिःशास्त्रे संवत्सरः प्रसिद्धश्चैत्रादिमासयुक्त इत्यादिव्यवहारात्। रूढत्वे दूरविप्रकर्षणे योगोऽप्यस्तीति निर्वचनं। पौर्णमास्यश्चकरुाः स्वस्त्ययनस्योक्ताः। श्रावण्या·ायुज्याग्रहायणी चैत्री चेति। तत्राग्रहायण्या चैत्रादिसंवत्सरः पुरः सा वा तस्य पूर्वा। तत्रैतान्येव चत्वारि हवींष्यासादयेद्यानि श्रावण्यामुक्तानि। विशेषमाह यवमयस्त्वपूपः। अपूपोऽत्र यवमयः स्थालीपाकस्तु व्रीहीमय इति शेषः। एवं चात्र त्रयो यवमयाः संपन्ना अपूपा धानां सक्तव इति॥
ब्रा0। मार्गशीर्षमासपौर्णमास्यामाग्रहायणी। तस्यां प्रातराखुराजाय बलिं समाप्य श्रावणीवदेव चत्वारि हवींषि। यवमयस्त्वपूपः॥
आ0। आग्रहायणमस्याः सा आग्रहायणी पौर्णमासी। तस्यां तान्येव चत्वारि हवींष्यासादयेद्यानि
श्रावण्यां। यवमयोऽपूप इति विशेषः। वरुणत्वात्॥
इ/5.6.1ऊ
इ5.6.2ऊ
एवा वन्दस्वेत्यपूपस्य जुहोति॥2॥
दे0। एवा वन्दस्वेत्यादिना मन्त्रेणापूपस्यावदानद्वयं जुहोति॥
ब्रा0। आज्यभागान्त एवा वन्देस्वेति यवापूपस्य जुहोति॥
इ/5.6.2ऊ
इ5.6.3ऊ
उप ते गा इति स्थालीपाकस्य॥3॥
दे0। गतार्थम्॥
ब्रा0। उप ते गा इवेति रात्रिदेवतस्य चरोः॥
इ/5.6.3ऊ
इ5.6.4ऊ
उक्तं घानासक्तूनाम्॥4॥
दे0। धानासक्तूनां यत्कर्म तदुक्तमेव श्रावण्यां। तथैव कर्तव्यता। नास्ति तत्र विशेषः॥
ब्रा0। नमो अस्तु सर्पेभ्य इति धानानां ये वाद इति सक्तूनां येषु वा यातुधाना इति दव्र्यावटेषु सक्तूनाम्॥
इ/5.6.4ऊ
इ5.6.5ऊ
अव ते हेड इति वारुणीभिरभिजुहुयान्नित्याभिश्च त्वामग्रे वृषभं चेकितानं संवत्सरस्य प्रतिमामिति च ॥5॥
दे0। नित्याभिश्च। जुहुयादित्यनुषङ्गः। एता अपि। इह गाव इत्याद्यास्तिरुाः। नित्याभिर्हुत्वा त्वामग्ने इति द्वाभ्यां जुहोति॥
ब्रा0। ततः रुाुवेणाष्टावाज्याहुतीः। अव ते हेड उदुत्तमं तत्त्वा यामीति तिरुाः। त्वामग्ने वृषभं संवत्सरस्य प्रतिमामिति द्वे। एवमष्टौ॥
इ/5.6.5ऊ
इ5.6.6ऊ
उदग्दशमास्तरणमास्तीर्य शिरस्त उदकं निधाय व्रीहियवानोप्याषोहिष्ठीयाभिः शय्यामभ्युक्ष्य त्रातारमिन्द्रमिति शमीशाखया शय्यां निर्माÐष्ट॥6॥
दे0। उदीच्यां दिशिं दशां यस्य भवन्ति तादृशमास्तरणं षटादिकमास्तीर्य भूमिशय्यायां प्रस्तीर्य यत्र
शिरस्तत्रोदकं निधाय तत्र च व्रीहियवान्प्रक्षिप्य शय्यामापोङिष्ठीयाभिस्तिसृभिरभ्युक्ष्य त्रातारमिन्द्रमिति शमीशाखया शय्यां निर्माÐष्ट शोधयति॥
ब्रा0। अस्मिन्दिने स्वापकाले चोदग्दशं स्तरणमास्तीर्येत्यादिविधिना संविशेत्॥
आ0। यत्र हेमन्ते शयितव्यमास्तीर्य प्रस्तरे तत्रोदग्दशमास्तरणं प्रच्छादनमास्तीर्य यत्र
शिरस्तत्रोदकं संनिधाय तत्र च व्रीहियवान्प्रक्षिप्य त्रातारमिन्द्रमिति तां निर्माÐष्ट शोधयति शमीशाखया॥
इ/5.6.6ऊ
इ5.6.7ऊ
ऐन्द्राग्नं वर्मेत्यहतं वासः परिधाय स्योना पृथिवीति दक्षिणेन पार्·ोण संविशति ज्योतिष्मतीत्यन्तेन॥7॥
दे0। ऐन्द्राग्नं वर्मेत्यादिना मन्त्रेणानुपभुक्तं हेमन्तयोग्यं वासः परिधाय ......विशति शय्यां दक्षिणेन पार्·ोन। सर्वानुवाकनिवृत्त्यर्थं ज्योतिष्मत्यन्तग्रहणम्॥
आ0। ऐन्द्राग्नं वर्मेत्यनयाहति वासो हैमनं प्रावरणं परिधाय प्रवृत्य स्योना पृथिवीति दक्षिणेन पार्·ोन संविशति शय्यायां। ज्योतिष्मतीत्यन्तेन। आद्यन्तग्रहणमनुवाकशेषो मा विज्ञायि॥
इ/5.6.7ऊ
इ5.6.8ऊ
अभ्युक्षणआदिसंवेशनान्तमेवं द्विरुत्तरम्॥8॥
दे0। उत्तरं द्विः कर्म कर्तव्यं। किं तत्। अभ्युक्षणादिविशत्येवं। एवं शब्दोऽन्तर्वचनं संवेशनमित्यर्थः॥
आ0। एवमुत्तरं कर्म द्विः कुर्यादभ्युक्षणादिसंवेशनान्तम्॥
इ/5.6.8ऊ
इ5.6.9ऊ
चैत्र्यामुद्रोहणमुपरिशय्या नात्र स्थालीपाको न शाखया निर्माÐष्ट॥9॥60॥(5।6)
दे0। एवंशब्दः संबन्धनीयः। एवमेव चैत्र्यां पौर्णमास्यां कर्म कर्तव्यं यथाग्रहायण्यामुक्तं। एतावांस्तु विशेषः। अत्रोपरिशय्या। अभूमौ खट्वायामित्यर्थः। अस्मादेवाग्रहायण्यां भूमौशय्या गम्यते। अथ
एवोद्रोहणं। ऊध्र्वरोहनं आरोहणं। अत एवोद्रोहणमित्यन्वर्थं नामास्य कर्मण इष्टं। अयमपरो विशेषः। नात्र स्थालीपाकः। नापि शमीशाखया निमार्जनं। परिशिष्टं तु सकलमाग्रहायण्या तुल्यम्॥
ब्रा0। चैत्र्यां यवमयोऽपूपो धानाः सक्तव इति त्रीणि हवींषि। नात्र रात्रिदेवतश्चरुः। आग्रहायणीवदेवैषां यागोऽभिहोमश्च। तथैव च शयीत नात्र त्रातारमिन्द्रमिति शमीशाखया निमार्जयेत्॥
आ0। एतदेव चैत्र्यां कर्मोद्रोहणाख्यं। तत्र विशेषः। उपरिशय्या खट्वादौ। इह तु भूमौ। स्थालीपाको न भवति शाखामार्जनं च। स्योना पृथिवीति शयनमुपरिशयनेऽपि भवति यस्मात्पृथिव्या अनुमन्त्रणमेतत्पृथिवी च सर्वेषामधारः। अहतं वासोऽत्राशु सूक्ष्मतरं निवातकालीनं। उद्रोहणं ऊध्र्वरोहणं। उपरि वातायनादौ शयनमिति॥
इ/5.6.9ऊ
सप्तम खण्डः
इ5.7.1ऊ
तिरुाोऽष्टका पितृदेवत्याः॥1॥
दे0। तत्राष्टकाशब्दः कर्मसमुदायनाम राजसूयादिवत्। एकैकस्यां च कर्मत्रयं प्रतीयते। स्थालीपाककर्मैकं प्रधानं। आवाहनादिसंतर्पितब्रााहृणानुव्रजनपर्यन्तं द्वितीयं। आन्वष्टकं तृतीयं। आज्यभागान्ता त्वितिकर्तव्यता। स्थालीपाकादातिष्यकं तु पश्चात्॥
आ0। अष्टका इति कर्मनामधेयं। कर्मत्रयमष्टकाशब्देनोच्यते। होमः श्राद्धमन्वष्टक्यं च। ताश्च पितृदेवत्याः। श्राद्धप्रधाना इत्यर्थः। अथवा पशुपक्षे देवताभिधानं वपाच्छेदनादौ पितृभ्यस्त्वा जुष्टमवकृन्तामिति॥
इ/5.7.1ऊ
इ5.7.2ऊ
ऊध्र्वमाग्रहायण्यास्त्रयस्तामिरुाास्तेष्वष्टमीष्वष्टकायज्ञाः॥2॥
दे0। एवमाग्रहायण्या ऊध्र्वं ये त्रयः कृष्णपक्षाः पौषमाघफाल्गुनाख्याः। तेषु या अष्टम्यस्ता अष्टकायज्ञाः कर्तव्याः॥
आ0।ऊध्र्वमाग्रहायण्यस्त्रयो ये तामिरुााः पक्षास्तेषु पक्षेषु या अष्टम्यस्तास्वष्टमिष्वष्टकायज्ञाः कर्तव्याः। अष्टकायै यज्ञाः अष्टकायज्ञाः॥
इ/5.7.2ऊ
इ5.7.3ऊ
प्रथमां शाकेन द्वितीयां मांसेन तृतीयामपूपैः॥3॥
दे0। कुर्यादिति शेषः । हविष्यान्ननिवृत्ति-। आज्यभागान्ते च पवित्रशाखाद्या चतुरावत्र्तेन
होतव्यमष्टकायै स्वाहेति॥
दे0। अक्षोटफलमिश्रं तु मिश्रं लाजा च माक्षिकैः।
शाकसंज्ञमिति प्रोक्तं प्रथममष्टकाविधौ॥
आ0। शाकव्यञ्जनमन्वाहार्य इति वचनाच्छादकादयोऽन्वाहार्याः। न तैर्होमः। एवं पूर्वस्मिन्पक्षे आज्यभागान्तं
हुत्वा अष्टकायै स्वाहेति शाकादीनां होमः। ततः स्थालीपाकहोमः॥
इ/5.7.3ऊ
इ5.7.4ऊ
ऋतूनां पत्नीति षड् द्वे द्वे स्थालीपाकस्य जुहोति॥4॥
दे0। ऋतूनां पत्नीत्यादयः षडृचोऽनुवाकशेषभूताः। ताभ्यो निष्कृष्य द्वे द्वे ऋचौ प्रत्येकं स्थालीपाकस्य जुहुयादाज्यभागान्ते॥
आ0। तत ऋतूनां पत्नीति षडृचः अनुवाकशेषः। तासां द्वे द्वे स्थालीपाकहोमे तिसृणामष्टकानां नियुक्ते॥
इ/5.7.4ऊ
इ5.7.5ऊ
देवा ग्रावाण इति सर्वत्र तृतीया॥5॥
दे0। देवा ग्रावाण इत्यादिका यथा सर्वास्वष्टकासु भवति तेन तृतीययमृग्भवति। ततश्चैकैकत्र तिरुास्तिरुाो भवन्ति॥
इ/5.7.5ऊ
इ5.7.6ऊ
इयमेवेत्यनुवाकेन पञ्चभिः पञ्चभिरभिजुहुयात्॥6॥61॥(5।7)
दे0। स्थालीपाकेनेष्ट्वा इयमेवेत्यादिनानुवाकेन जुहुयात्। किं सकलेन सर्वत्रेत्याह। पञ्चभिः पञ्चभिः। इयमेवेत्यादिना पञ्चभिः प्रथमाष्टकायामभिजुहुयात्। पञ्च व्युष्टीरिति मध्ममायां। ऋतस्य धामेति तृतीयायां। अभिशब्द उपरिवचनः। हविषामुपरि जुहुयादित्यर्थः। आज्येनैता आहुतयः। अत ऊध्र्वमृतुतिष्यादिकम्॥
ब्रा0। आग्रहायण्या ऊध्र्वमृतूनां पत्न्यृतस्य धाम देवा ग्रावाण इति तिसृभिः प्रधानानीयमेवेति पञ्चभिः रुाुवेणाज्येनाभिहोमः। तैष्या ऊध्र्वं कृष्णाष्टम्यामेकाष्टकानानुजामनुजां देवा ग्रावाण इति तिसृभिः प्रधानं पञ्च व्युष्टोरिति पञ्चभिरभिहोमः। माध्या ऊध्र्वं कृष्णाष्टम्यामभून्नु नऋ प्रथमा ह देवा ग्रावाण इति तिसृभिः स्थालीपाकस्य होमः ऋतस्य पञ्चभिरभिहोमः॥
इ/5.7.6ऊ
अष्टम खण्डः
इ5.8.1ऊ
गवा चेदष्टका स्यात्पशुना वा तदुक्तम्॥1॥
दे0 चेच्छब्दो यद्यर्थे। स्थालीपाकेन गवा वा छागेन वाष्टका भवति। यदा गवा तदा स्थालीपाकस्थानेऽपि
गौस्त्यक्तव्या पित्रुद्देशेन ब्रााहृणाय दातव्येत्यर्थः। यदा तु छागेन तदान्दिशमाह तदुक्तमिति। आदावेव पशुकल्प इत्युक्तं। तदेव तन्त्रामह ज्ञेयमित्यर्थः। एतावांस्त्विह विशेषः। पितृभ्यस्त्वा जुष्टमवकृन्तामीति वपावकर्तनं कर्तव्यमिति॥
ब्रा0। यदि गवा पशुना वाष्टका स्यादष्टकाचरुहोमः पञ्चकाभिरभिहोमश्च निवर्तते। अयं द्वितीयोऽष्टकायज्ञकल्पः। पूर्वेण तु सहास्य विकल्पः। पशुतन्त्रं तु पूर्वमुक्तं। विशेषान्वक्ष्यामः। प्राचीनावीति दक्षिणाभिमुखः पितृकर्म कुर्यात्। ऋतस्य त्वेत्यत्र पितृभ्यो जुष्टमिति पितृभ्यो भागः सुवित इति प्रायश्चित्तहोमे। पितृभ्यस्त्वा जुष्टमवकृन्तामीति वपामवकृन्तति॥
इ/5.8.1ऊ
इ5.8.2ऊ
वह् वपामिति वपां जुहुयात्॥2॥
दे0। वह् वपां जातवेद इत्यादिना वपां जुहुयात्प्राचीनावीती दक्षिणामुखः॥
इ/5.8.2ऊ
इ5.8.3ऊ
पेश्योऽवदानस्थानेऽङ्गारिणीः कुर्यात्॥3॥
दे0। दीर्घमांसलताः पेश्यः। ता अवदानस्थानेभ्य उद्धृत्याङ्गारिणीः कुर्यात्। अङ्गारेषु पचेन्न स्थाल्यामित्यर्थः।
ब्रा0। दीर्घमांसपेशीरुद्धृत्यावदानस्थानेभ्योऽङ्गारेषु श्रपयेत्॥
इ/5.8.3ऊ
इ5.8.4ऊ
यथाकामं मज्जुका॥4॥
दे0। मज्जुका वपानिर्मितो यूपः। यथाकामं यथा संपद्यते तथा कार्येत्यर्थः। सा च स्थाल्यामेव पक्तुं शक्यते।
ब्रा0। यथाकामं तु यूपार्थमन्यन्मांसं स्थाल्यां श्रपयेत्॥
आ0। यथाकामं मज्जुका यूपः। तत्स्थाल्यां श्रपणं भवति नाङ्गारेषु॥
इ/5.8.4ऊ
इ5.8.5ऊ
ये समाना इति द्वाभ्यां स्थालीपाकस्य पेशीनां च जुहोति॥5॥
दे0। ये समाना इति द्वाभ्यां स्थालीपाकेन पेशीभिश्च यथासंख्यं जुहुयात्। ये समानाः समनसः पितर इति स्थालीपाकस्य ये समानाः समनसो जीवा इति पेशीनाम्॥
ब्रा0। ये समाना इति पशुचरुप्रधानहोमः॥
इ/5.8.5ऊ
इ5.8.6ऊ
स्विष्टकृद्धर्मेण वहान्नं वह मांसं जातवेदः पितृभ्य इति जुहुयात्॥6॥32॥(5।8)
दे0। वहान्नं जातवेद इति स्थालीपाकस्विष्टकृदिति वह मांसमिति त्र्यङ्गस्विष्टकृदिति। ऋतुतिथ्यादिकं पूर्ववत्॥
ब्रा0। वनस्पतिभिष्ट्वर्तुतिथियागादि च प्राक् स्विष्टकृतः पितृभ्यो बलिमुपह्मत्य तद्देवतांश्च मन्त्राञ्जप्त्वा वह मांसमिति स्विष्टकृद्धोमः। समिदाधानान्तं तुल्यमन्यत्। कलौ गोवधनिषेधादजः पशुरेव॥ इति विशेषाष्टकाः॥
आ0। स्विष्टकृद्धर्मेण स्विष्टकृत्काले वहान्नमिति स्थालीपाकात् वह् मांसमिति त्र्यङ्गात्। इडामग्न इति निवृत्ता। हुतशिष्टं मांसं श्राद्धे। इह गृह्रे यत्र यत्र गोवधस्तत्र तत्र कल्पितः पशु अन्यन्मांसं वा दृश्यते न गोवधो लोकसंक्रुष्टत्वादनुष्ठेयं मांसं लौकिकमपि भवति। अनुपाकृतं मांसं गोरेव प्रतिषिद्धं नाजस्य मेषस्य वा। तथा च हारीतः। ग्राम्यपशूनामश्रन्त्यजस्यावेः उपाकृतस्य च गोः। तेनानुपाकृतमांसानीति गोविषयमेव॥
इ/5.8.6ऊ
नवम खण्डः इ5.9.1ऊ दे0। अष्टकायज्ञादूध्र्वं श्राद्धमाह॥
हविरर्हानुपवेश्य॥1॥
दे0। हविः स्वधां श्राद्धभोजनमर्हन्ति ते हविरर्हाः। स्मृत्युक्ता वेदविदादयः पतितादिवर्जाः। प्रकृतकर्मयोग्याः। तानुपवेश्य वै·ादेवे द्वौ प्राङ्मुखौ पित्र्ये त्रीनुदङ्मुखानास्तीर्यदर्भासनेषु॥
आ0। श्राद्धं प्रस्तौति। होमं द्विप्रकारं विकल्पने सर्वास्वष्टकासु कृत्वा। हविर्येऽर्हन्ति हविषः श्राद्धं तत्र ये योग्याः तानुपवेश्य॥
इ/5.9.1ऊ
इ5.9.2ऊ
पितृनावाहयिष्यामीत्युक्त्वा॥2॥
दे0। ततः पितृनावाहयिष्यामीति ब्रााहृणेभ्योऽनुज्ञामर्थयते। पितृग्रहणप्राधान्यात्। तेनादौ वि·ोदेवानामावाहनादि कार्यम्॥
आ0। एवमुपवेश्य पितृनावाहयिष्यामीति च तान्पृच्छति॥
इ/5.9.2ऊ
इ5.9.3ऊ
अपयन्त्वसुरा इति द्वाभ्यां तिलैः सर्वतोऽवकीर्य॥3॥
दे0। तत आवाहयेति पङ्क्तिपावनैरनुज्ञातः पूर्वं वै·ादेवविषये अपयन्त्वसुरा इति द्वाभ्यां यवैस्तिलार्थं कुर्वीत वै·ादेवे न संशय इति परिशिष्टानुसारेण सर्वतो यवविकिरणेनासुरावकाशापसारं कृत्वोमासश्चर्षणीधृत इति वि·ाान्देवानावहयेत्। आवाहनमाह्वानं। अनन्तरं पित्र्येऽपयन्त्वसुरा इत्याभ्यामेव तिलानां सर्वदिक्कोणविकिरणेनासुरावकाशमपास्य॥
आ0। आवाहयेति तैरनुज्ञातः। अपयन्त्वसुरा इति द्वाभ्यां तिलैः सर्वतः श्राद्धभूमिं विकीर्यावाहयति॥
इ/5.9.3ऊ
इ5.9.4ऊ
एत पितर आगच्छत पितर आ मे यन्त्वन्तर्दधे पर्वतैरिति जपित्वा॥4॥
दे0। पितृनावाहयेदेत पितर इत्यादिभिश्चतुर्भिः। एतन्मन्त्रजप एव ह्रावाहनम्॥
आ0। जप एवावाहनम्॥
इ/5.9.4ऊ
इ5.9.5ऊ
यास्तिष्ठन्त्यमृता वाग्यन्मे मातेत्ययुग्भ्यः पाद्यमानीय॥5॥
दे0। ततो यास्तिष्ठन्तीति पञ्चभिः पाद्यं पादार्थमुदकं ब्रााहृणसंख्यया प्रतिपात्रमानयेत्। केभ्यः। अयुग्भ्यो ब्रााहृणेभ्यः। अयुग्मरूपेण ये त्रयः स्थिताः पित्र्ये तदर्थमित्यर्थः। प्रदर्शनार्थं चैतत्। तेन युग्भ्यामपि वै·ादेवाभ्यामघ्र्यपाद्यानयनम्॥
आ0। अयुग्ग्रहणेन च ज्ञायते युजोऽपि सन्तीति। यथा याज्ञवल्क्यः। दैवे युग्मान्यथाशक्ति पित्र्येऽयुग्मांस्तथैव च। तेनैवेविधेनेतिकर्तव्यता। बर्हिष्मत्स्वासनेषु प्राङ्मुखान्युग्मान्वि·ोभ्यो देवेभ्य
उपवेश्य। अयुग्मान्पितृभ्य उदङ्मुखान्। वै·ादेवे वि·ादेवानावाहयिष्यामीति तदनुज्ञातः ओभासश्चर्षणीघृत इत्याहूय यवैरन्ववकीर्य सयवमुदकं पाद्यमध्र्यं च दत्त्वा।.....अस्माकमपि परिशिष्टेषूक्तं। यवैस्तिलार्थं कुर्वीत वै·ादेवे न संशय इत्येतत्सूत्रकृता अयुग्भ्य इत्यनेन शब्देन दर्शितं। त्रिषु पात्रेषु पाद्यमानीय यन्मे मातेति पूर्वस्मिन्पात्रे यन्मे
पितामहीति द्वितीये यन्मे प्रपितामहीति तृतीयस्मिन्। केचिद्ब्रााहृणदर्शनात्तस्मात्त्रिरेकस्यापः प्रदीयन्त इति यथा कुर्वन्ति। नैतत्सूत्रकारेणोक्तं। न च तथा दशोदकं भवति॥ आनीतेन पाद्येन ब्रााहृणाः स्वयं पादाववनेनिजते मधुपर्कवत्॥
इ/5.9.5ऊ
इ5.9.6ऊ
उदकानि चानयेदेताभिरेव॥6॥
दे0। आनीय ब्रााहृणपात्रेषु सिञ्चेत् दक्षिणं पादमिति द्वाभ्यां। तत एताभिरेव पञ्चभिर्ऋग्भिरुदकान्यानयेत्। उदकानीति बहुवचनाल्लिङ्गात्पात्रभेदेनोदकमानयेदिह तत्साहचर्यात्पाद्येऽप्येवं। उदकानि त्वर्घार्हाः पुष्पतिलसुगन्धद्रव्यान्विता आपः॥
आ0। उदकानि गन्धोदकतिलैर्युक्तानि सौषधान्यघ्र्यार्थं। उदकानीति बहुवचनात्पात्रभेदः। ततोऽनुलेपनपुष्पधूपदीपप्रदानम्॥
इ/5.9.6ऊ
इ5.9.7ऊ
आदित्या रुद्रा वसव इत्येतान्समीक्ष्य॥7॥
दे0। अघ्र्यदानान्तरं ब्रााहृणान्समंकृत्वा वीक्षते॥
आ0। आदित्यादिबुदिं्ध ब्रााहृणेषु कुर्यादित्यर्थः॥
इ/5.9.7ऊ
इ5.9.8ऊ
अग्नौ करवाणीत्युक्त्वा॥8॥
दे0। ततोऽग्नौ करवाणीति ब्रााहृणान्पृच्छति॥
इ/5.9.8ऊ
इ5.9.9ऊ
अÏग्न परिस्तीर्य सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इत्यग्नौ हुत्वा॥9॥
दे0। कुर्वित्यनुज्ञातो दक्षिणाग्रैर्दर्भैः परिस्तीर्य दक्षिणाभिमुखः प्राचीनावीति सोमाय......अग्नये स्वधा नम इति प्रधानान्तेनाग्नावाहुतिद्वयं जुहुयात्। पुनरग्निग्रहणं पिण्डपितृयज्ञवद्भूमौ प्रक्षेपो मा विज्ञायि॥
आ0। पुनरग्निग्रहणं दैवाग्निनिवृत्त्यर्थम्॥
इ/5.9.9ऊ
इ5.9.10ऊ
ये मामकाः पितर एतद्वः पितरोऽयं यज्ञ इति तिसृभिः कल्पितान्नमभिमृशति॥10॥
दे0 तदनन्तरमेतद्व इत्यादिभिस्तिसृभिः कल्पितं पात्र एकोद्धृतमनेकदेशमभिमृशेत्। ततः स्तोकं
स्तोकं पात्रेषु दद्यात्। अन्ये तु पात्रेषु दत्तमिति मन्त्रलिङ्गात्पात्रेषु परिशिष्टव्यभिमर्शनमाहुः। यदि पात्रशब्देन भोजनधारा उच्यन्ते अथापि ब्रााहृणा उभयथातीतपरिवेशनक्रियमनुप्रतीयते पूर्वव्याख्यानेऽपि पात्रे देयं हविरिति लिङ्गमाहुः॥
आ0 केचित्पात्रेषु दत्तममृतं स्वधावदिति लिङ्गात्पात्रेषु दत्तमभिमृशेदित्याहुः। नैवं। पात्रे देयं हविरद्यमग्नेरित्यस्मादपि ब्रााहृणानामत्र पात्रशब्दः॥
इ/5.9.10ऊ
इ5.9.11ऊ
एषा वा ऊर्गामासु पक्वमिति क्षीरं घृतं वासिच्य॥11॥
दे0 क्षीरं घृतं वा वैकल्पिकं विसृष्टेऽन्ने आसिञ्चेत्। अन्ये तु वाशब्दं समुच्चयार्थं वर्णयन्ति। तेनैषा व ऊर्गिति क्षीरमासिञ्चेदामासु पक्वमिति घृतं मन्त्रलिङ्गात्। वैकल्पिकस्तु पक्षो रूढतरः। पक्वशब्दोऽपि क्षीरेऽपि हि युज्यते। तेन मन्त्रलिङ्गस्य विशिष्टम्॥
आ0। विकल्पः। न यथासंख्यं। न समुच्चयः। समुच्चये सत्यामासु पक्वमिति क्षीरप्रकाशिका घृतमस्यार्थम्॥
इ/5.9.11ऊ
इ5.9.12ऊ
अमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इति यथालिङ्गमनुमन्त्र्य भोजयेत्॥12॥
दे0। अमुष्मा इति सामाननिर्देशेन विशेषो लक्ष्यते। तेन पितृपितामहप्रपितामहनामानि चतुथ्र्यन्तानि प्रतीयन्ते सगोत्रसप्रवराणि। कठाय काश्यपगोत्राय पञ्चप्रवराय देवदत्ताय स्वधा नम इत्यादीनि भोजयेत्॥
आ0। अमुष्मै स्वधा नम इति त्रिरुच्चारणादेकवचनाच्च पितृनाम्ना पितामहनाम्ना प्रपितामहनाम्ना चानुनिर्देशः कर्तव्यः। यथा। देवदत्ताय स्वधा नमः। यज्ञदत्ताय स्वधा नमः। विष्णुमित्राय स्वधा नम इति च। एवं यथालिङ्गमामन्त्र्य भोजयेत्॥
इ/5.9.12ऊ
इ5.9.13ऊ
प्राश्नन्तु भवन्त इत्युक्त्वा यन्मे प्रकामादिति भुञ्जानान्समीक्ष्याहोरात्रैर्यद्वः क्रव्यात्स्वधां वहध्वमिति चैताभिः॥13॥
दे0। यन्मे प्रकामादित्यनेन यद्वः क्रव्यादित्यादिभिस्त्रिभिर्भुञ्जानान्समीक्षते समंकृत्वा ऋगपेक्षया त्वेताभिरिति निर्देशः॥
आ0। अनुजानीयात्प्राश्नन्तु भवन्ति इत्यनेन। ततो यन्मे प्रकामादिति चतुर्भिर्मन्त्रैर्भुञ्जानानव्यवहरतः प्रेक्षते। अस्मिन्नवसरे स्वाध्यायं श्रावयेपित्र्ये ब्राहृोद्याश्च कथाः कुर्यादिति॥
इ/5.9.14ऊ
इ5.9.15ऊ
पृथिवी दर्विरिति निपरणं कुर्यात्॥14॥
दे0। पृथिवी दर्विरित्यादिभस्त्रिभिस्त्रीन्पिण्डान्पितृपितामहप्रपितामहानां दक्षिणाग्रदर्भेषु कल्पयेत्
पूजयेच्च यथाचारम्॥
आ0। ततः पृथिवि दर्विरिति पिण्डनिर्वपणं कुर्यात् भुक्तशिष्टादन्नाद्रसव्यञ्जनात् यस्मादग्नौकरणं कृतं प्रधानभूतादोदनादेः सतिलात्तु।
पृथिवी दर्विरिति त्रिभिः पित्रे पितामहाय प्रपितामहाय। असौ शब्दस्थाने नामग्रहणं। गोत्रशङ्का न क्वचित्कार्यनभिधानात्॥
इ/5.9.14ऊ
इ5.9.15ऊ
येऽत्र पितरः प्रेता इति वासांसि निदध्यात्॥15॥
दे0। येऽत्र पितर इत्यादिना पिण्डानामुपरि वासांस्याच्छादनानि दद्यात्। तानि तु कर्पासतन्तुरूपाणि रूढानि॥
आ0। वासांसि निदध्याद्युगपत्त्त्रीणि वीरान्नः पितरो धत्तेत्यन्तेन। वासांसि सूत्रतन्तवः ऊर्णास्तूका वा कार्पासा वा॥
इ/5.9.15ऊ
इ5.9.16ऊ
ऊर्जं वहन्तीरित्यपः परिषिच्य॥16॥
दे0। पिण्डेषु परिषिञ्चेत्। ता अपि मन्त्रलिङ्गादन्नस्यन्दिनीः कुर्यात्॥
इ/5.9.16ऊ
इ5.9.17ऊ
मा मे क्षेष्ठेति सतृणमन्नमभ्युक्ष्य॥17॥
दे0। ततः सर्वाण्यन्नानि सदर्भेषु जलेनाभ्युक्ष्य मा मे नेष्ठेति सर्वाभ्युक्षणं त्वन्नमन्नमिति मन्त्रगताद्वीप्सनिर्देशाद्गम्यते॥
आ0। अभ्युक्ष्य निरवशेषं मन्त्रलिङ्गात्। ब्राहृाणो मे जुषन्तामन्नमन्नमिति वीप्सासाकल्यलिङ्गम्॥
इ/5.9.17ऊ
इ5.9.18ऊ
विषदमन्नमानीय कच्चित्संपन्नं भो इत्युक्त्वा तृप्यन्तु भवन्त इत्युक्त्वा॥18॥
दे0। विषदं निर्मलं सोदकप्रभृतिसकलं लेशमुद्धृतं पात्रे समाधाय कच्चित्संपन्नं भोरिति वदेत्। ततः संपन्नं ब्रााहृणैरुक्तं शेषमन्नं च प्रश्नस्योत्तरे इष्टेभ्यः इति च भणिते ये अग्निदग्धा ये जीवा इत्यनेन दक्षिणाग्रास्तीर्णदर्भोपरि सर्वसिद्धे जलेऽञ्जलिना दक्षिणामुखेन प्राचीनावीतिना प्रक्षिप्ते सति अनन्तरं तृप्यन्तु भवन्तिः पितर इत्यादि मन्त्रषट्कं पठेत् पितृपितामहाप्रपितामहमातृपितामहीप्रपितामहीतृप्तिलिङ्गं। अत एव मन्त्रलिङ्गान्निपरणास्वधानमस्कारप्रभृतिषु मात्रादीनां नामोच्चारणमूहितमन्त्रक्रियमाहुः॥
आ0। ततो विषदमन्नमानीय विषदं संश्लिष्टं विकिरेत्। उदकेनाप्लाव्य भूमौ दर्भेषुविकीर्य कच्चित्संपन्नं भो इत्युक्त्वा तृप्यन्तु भवन्त इत्युक्त्वा यथालिङ्गमामन्त्रणप्रतिवचनं श्रुत्वा॥
इ/5.9.18ऊ
इ5.9.19ऊ
तृप्तानाचामयित्वा यन्मे राम इति प्रदक्षिणं कृत्वा॥19॥
दे0। आचमनमाचामः। तं कृत्वाचामयित्वा प्रीतान्यन्मे राम इत्यादिनि प्रदक्षिणं यथा भवति॥
आ0। तृप्ताञ्जत्वा तत आचम्य यन्मे रामः शकुनिरिति प्रदक्षिणं कृत्वा। आवृत्तिमात्रमन्यस्यानुपदेशात्॥
इ/5.9.19ऊ
इ5.9.20ऊ
प्रत्येत्याभिरमन्तु भवन्त इत्युक्त्वा देवाश्च पितरश्चेत्यनुवाकशेषेणोपतिष्ठते॥20॥66॥(5।9)
दे0। ब्रााहृणानामुपस्थानं कुर्याद्दक्षिणां दत्त्वा॥
आ0। प्रत्येत्य यथाशक्ति दक्षिणां दत्त्वा। अभिरमन्तां भवन्त युद्दक्त्वा। अभिरता स्म इति प्रत्युक्तदेवाश्च पितरश्चेत्यनुवाकशेषेणोपतिष्ठते॥
इ/5.9.20ऊ
दशम खण्डः
इ5.10.1ऊ
द्वितीयस्य प्रथमोद्धृतं हविष्यैरुपसिच्य॥1॥
दे0। ह्रामुष्यायणस्य द्विधा श्राद्धं स्मृतिषूक्तं। परिगृहीतृगोत्रेण जनयितृगोत्रेण च कुर्यात् आवृत्त्या वा। तत्र यदा तन्त्रेण तदा प्रदाये निपरणे च मन्त्रोहः। अमुष्मै स्वधा नम इत्यत्र जनकप्रतिग्रहीत्रोर्नाम चतुर्थीद्विवचनान्तमुच्चारयितव्यं। देवदत्तयज्ञदत्ताभ्यां स्वधा नम इत्यादि। निपरणेऽप्यग्निरिव पृथिवीमुपजीवतं देवदत्तयज्ञदत्तौ ये च वामन्वित्यादि। आवृत्तिपक्षे परिग्रहीतु पूर्वं कृत्वा पश्चाञ्जनकस्य कुर्यात्। तत्र द्वितीयश्राद्धप्रकारोऽनेनोच्यते। द्वितीयस्येत्यत्र सूत्रे प्रकारं वक्ष्याम इत्यव्याहर्तव्यं। द्वितीयस्य जनकश्राद्धस्येतिकर्तव्यतां वक्ष्यामः। द्यामुष्यायणकर्तृकस्येत्यर्थः। अथवा द्विपितुर्वीजिनः श्राद्धं पृथग्वक्ष्याम इति व्याख्येयं। यद्वा एकोऽपि कृत्रिमपुत्रादिर्भिद्यते कुलद्वयसंबन्धभेदात्तत्र प्रतिग्रहीतुः श्राद्धे कृते जनकस्य श्राद्धं कुर्वाणः स एव द्वितीय उच्यते। तस्य द्वितीयत्वमापन्नस्य द्वितीयश्राद्धं वक्ष्याम इत्यर्थः एकसंघातेनैव या रसवती कृता ततः
प्रतिग्रहीतृश्राद्धकरणात्पूर्वमेवोद्धृत्य सर्वान्नं पृथक् स्थापयितव्यं सव्यञ्जनं। तच्चोपग्रहीतृश्राद्धानन्तरं हविष्यैः दधिक्षीरप्रभृतिरुपसिञ्चेत्॥
आ0। द्वितीयस्योक्त ह्रामुष्यायणस्य द्वे श्राद्धे कुर्यादिति। तत्र द्वितीयस्य श्राद्धस्येतिकर्तव्यतोच्यते।
अष्टकाहोमतन्त्रेण एकस्यां षड्क्तौ सत्यामिदमुच्यते। प्रथमोद्धृतं पूर्वमेवोद्धृत्य परिशिष्टादन्नादुद्धृत्य सव्यञ्जनं हविष्यैर्घृतादिभिरुपसिच्य अभिघृतं कृत्वा गुप्तं निधाय॥
इ/5.10.1ऊ
इ5.10.2ऊ
आवाहनादि सिद्धं संप्रदानम्॥2॥
दे0। तत अवाहनादि संप्रदानमनुवाकशेषेणोपस्थानान्तमन्येषु ब्रााहृणेषु कुर्यात्। सिद्धमित्यनेन पूर्वोक्तप्रकारं निर्दिशति। आवाहनाद्युपस्थानान्तं पूर्वोक्तमन्यूनातिरिक्तं पुनः कुर्यात्। स्थालीपाकादिकमेव तु तन्त्रेणोपकरोति। प्रथमोद्धृतहविष्यैः परिग्रहीतुः श्राद्धं कृत्वा ततः शेषाज्जनकस्यान्यैब्र्रााहृणैः श्राद्धं क्रियते। तत्रायमर्थः। प्रथमं परिग्रहीतृश्राद्धार्थमुद्धृतं यस्मात्तत्प्रथमोद्धृतं। तद्यातयामत्वदोषापसारणाय हविष्यैः क्षीरादिभिरुपसिच्य तत एवावाहनाद्युपस्थानान्तं सकलं सिद्धं पूर्वज्ञातमेवावृत्त्या कुर्यादन्यत् स्थालीपाकादि सकृत्कृतं मन्त्रेणोपकरोति॥
आ0। परिग्रहीतुः श्राद्धं कृत्वा ब्रााहृणान्विसृज्य ततोऽन्यानुपवेश्य जनयितुः प्रथमोद्धृतेनान्नेनावाहनादिसंप्रदानान्तं सिद्धं व्याख्यातं यत्तत्कुर्यात्॥
इ/5.10.2ऊ
इ5.10.3ऊ
पूर्वेण निपरणं व्याख्यातम्॥3॥64॥(5।10)
दे0। प्रवासदिवसकालभेदात्पूर्वेण निपरणं व्याख्यातमिति निपरणं यथादर्शितमेव कर्तव्यं। तत्र पूर्ववदूहः कर्तव्य इत्यर्थः॥
ब्रा0। पूर्वोक्तसूत्रानुगते द्वे श्राद्धं कुर्यादिति च प्रवराध्याय उक्तं। तत्रैव चैकश्राद्धविधिरुक्तः। एकश्राद्धे वा पृथगनुदिश्यैकपिण्डे द्वौ द्वावनुकीर्तयेत्परिग्रहीतारं चोत्पादयितारं चातृतीयपुरुषादिति।
एकश्राद्धे पिण्डमात्र एव। द्वौ। द्वावनुकीर्तनं ब्रााहृणेष्वघ्र्यपात्राणि च षडेव।......यत्रैकपिण्डे द्वौ द्वावनुकीर्तयेत्तत्र पिण्डपितृयज्ञश्राद्धाष्टकावै·ादेवपिण्डमन्त्राणामूहः। यथा। एतद्वां ततौ ये च वामनु। अग्निरिव पृथिवीमुपजीवतं। विष्णुमित्रसोमशर्माणौ गौतमवसिष्ठावेष वां पिण्डो ये चात्र वामनु। एषा वां स्वधा। एवमुत्तरयोरेवमेव पिण्डसपर्यादौ॥
आ0। नान्तरेणान्वष्टक्येन एतदपि निपरणं। अथवा श्राद्धं पृथगनुदिश्य। कथं वै·ादेविकं तावत्तन्त्रं। एकस्मिन्ब्रााहृणे द्वौ पितरौ द्वितीयस्मिन्द्वौ पितामहौ तृतीयस्मिन्द्वौ प्रपितामहौ च। यथा। अग्निरिव पृथिवीमुपजीवतं। देवदत्तयज्ञवत्तो ये च वामन्वेषा वां स्वधेति प्रयोगः। पिण्डपितृयज्ञे च एतद्वां ततौ ये चात्र वामन्विति॥
इ/5.10.3ऊ
एकादश खण्डः
इ/5.11.1ऊ
प्रातरन्वष्टक्यम्॥1॥
दे0। अष्टकाया अनु पश्चाद्भवमन्वष्टक्यमित्यान्वर्थिकेयं संज्ञान्वष्टक्यमिति। एतच्च केचिदष्टकाया अङ्गं वदन्ति केचित्तत्सदृशं विकारभूतं कर्मान्तरं। तत्रोभयथापि तत्कालत्वे प्राप्ते कालान्तरमाह। प्रातरिति। नवभ्यां कर्तव्यमित्यर्थः॥
आ0। नवभ्यामन्वष्टक्यम्॥
इ/5.11.1ऊ
इ5.11.2ऊ
एतेनैव धर्मेण संप्रदाय निपरणं कुर्यात्॥2॥
दे0। एतेनैव धर्मेण इति सर्वनाम्ना प्रकृतस्य द्वितीयस्य श्राद्धस्य परामर्शः। यथा द्वितीयश्राद्धे स्थालीपाकादिकं न क्रियते। संप्रदानाद्यावाहनाद्युपस्थानान्तमन्यूनातिरिक्तमनुष्ठीयते॥
आ0। एतेनैव धर्मेण संप्रदाय संप्रदानमेवातिदिश्यते न होमः। केचिद्योगविभागाद्धोममपीच्छन्ति। एतेनैव तदानीं धर्मेण संप्रदायेत्यतिरिच्ये। एतदन्तर्भावात्। तस्मात्संप्रदानमेवावाहनाद्यनुदेशनान्तं। संप्रदाय निपरणं कुर्यात्। कथं। निपरणप्रकार उच्यते॥
इ/5.11.2ऊ
इ5.11.3ऊ
षट्कर्षूः कुर्याद्दक्षिणायताः पूर्वापराः प्रादेशमात्रीश्चतुरङ्गुलपृथ्वीस्तावदन्तरास्तावदवखाताः॥3॥
दे0। कर्षूः खनिरुच्यते। षङ्गर्भाः कुर्यात्। दक्षिणायतः दक्षिणोत्तररेखया आयताः दीर्घाः। किंप्रमाणं दैघ्र्यमित्यपेक्षायामाह। प्रादेशमात्रीः प्रादेशप्रमाणाः। पूर्वापराः। पूर्वपश्चिमभावेन पंक्त्या
स्थिताः। चतुरङ्गुलपृथ्वीः। पार्·ातश्चतुरङ्गुलपरिमाणाः पूर्वपश्चिमरेखायाः। तावदन्तराः।
चतुरङ्गुलपरिमाणमेव समन्तरं व्यवधानं कर्तव्यं पंक्तिरूपेण निर्मितानां। तावदवखाताः। चतुरङ्गुलपरिमाणा एव ता अधः खननीयाः॥
ब्रा0। दक्षिणतः कर्षूः प्रत्यगपवर्गाः खनेत्तिरुाः पितृणां तिरुाो मातृणाम्॥
आ0। षट्कर्षूः कुर्यादित्यादि। केचित्प्रकृतं निपरणं कृत्वा षट्कर्षूः कुर्वन्ति। तदानीमेतेनैव धर्मेण निपरणान्तं कृत्वेत्यवक्ष्यत्। तस्मादित्थं निपरणं कुर्यात्। षट्कर्षूः कुर्यात्। किंभूताः। दक्षिणायताः। दक्षिणतो दीर्घाः। पूर्वापराः पूर्वादारभ्यापरसंस्थानाः। प्रादेशमात्रीः। चतुरङ्गुलास्ताराः। तावदन्तराः। चतुरङ्गुलव्यवहिताः। तावच्चाधस्तात्खाताः॥
इ/5.11.3ऊ
इ5.11.4ऊ
तासां दक्षिणतः खराः॥4॥
दे0। कर्तव्या इति शेषः। खराः वर्त्तिकास्थलानि। ते तासां कर्षूणां दक्षिणेषु भागेषु षट्कर्तव्याः॥
ब्रा0। तासां दक्षिणतस्तयैव मृदा षट् खराः॥
इ/5.11.4ऊ
इ5.11.5ऊ
तेष्वग्नीन्विह्मत्यावोक्ष्य कर्षूर्दक्षिणाग्रान्दर्भानास्तीर्य॥5॥
दे0। तेषु खरेषु जानुदध्नेष्वौपसदादुद्धृत्य विह्मत्य परिस्तीर्य पर्युक्ष्य परिसमूह्र चाग्नीन्
कर्षूश्चावोक्ष्यावसिच्य कर्षूषु दक्षिणाग्नान्दर्भानास्तीर्य॥
ब्रा0। तेषूद्धतावोक्षितेषु यज्ञोपवीत्यासादाङ्गे परिसमूहनपर्युक्षणे कुर्यात्।.......षष्ठ आसादिते प्राचीनावीति कर्षूरवोक्ष्य खराग्नीनां होमाङ्गे पुनश्च अप्रदक्षिणेन परिसमूहनपर्युक्षणे कुर्यात्। कर्षूषु दक्षिणाग्रान्दर्भान्समूलानास्तीर्य खरांश्च दक्षिणपश्चिमाग्रैः स्तृणाति॥
इ/5.11.5ऊ
इ5.11.6ऊ
पिण्डपितृयज्ञावृता पूर्वासु तिसृषु निधाय मज्जानमुपनिनीय दुग्धेनाभितः परिषिच्य ये चात्र रसाः स्युरेतद्भवद्भ्य इत्युक्त्वा तृप्यन्तु भवन्त इत्युक्त्वा॥6॥
दे0। उक्तस्य पिण्डपितृयज्ञस्यावृदितिकर्तव्यता। पृथिवी दर्विरित्यादिमन्त्रादिका पूर्वासु पूर्वदिन्वर्तिनीषु तिसृषु कर्षूषु त्रीन्पिण्डान् पितृपितामहप्रपितामहेभ्यो देवदत्तादिभ्यो मञ्जानं च पिण्डसमीपे यूषलक्षणं स्थापयित्वा। सर्वतश्च सर्वपिण्डान्दुग्धेन परिषिच्य। अन्येऽपि ये रसवत्यां सिद्धा रसाः सन्ति तैरपि पिण्डान्सर्वतः परिषिच्य। एतदन्नं भवद्भ्यः पितृपितामहप्रपितामहेभ्यो देवदत्तादिभ्य इत्युक्त्वा तृप्यन्तु भवन्तः पितर इत्युक्त्वा॥
ब्रा0। ततः प्रणयनक्रमेणैव षट्सु अपि खराग्निषु पिण्डपितृयज्ञवत्प्रत्येकमाहुतिद्वयं हुत्वा।........ततस्तान्मज्जानमुपनिनीय दुग्धेनाभितः परिषिञ्चति ये चात्र दधिमधुघृतादयो रसाः संनिहिताः स्युः। ततः पितृन्ध्यायन्नेतद्भवद्भ्यः तृप्यन्तु भवन्त इति कर्पूरीक्षमाणो वदेत्॥
इ/5.11.6ऊ
इ5.11.7ऊ
एवमपरासु स्त्रीभ्यो दद्यान्मज्जवर्जं सुरां तूषनिनीय मन्थेनाभितः परिषिच्य ये चात्र रसाः स्युरेतद्भवतीभ्य इत्युक्त्वा तृप्यन्तु भवत्य इत्युक्त्वा॥7॥
दे0। एवमपरास्वपरदिग्भागवर्तिनीषु तिसृष्ववशिष्टासु कर्षूषु स्त्रीभ्यो मात्रादिभ्यस्त्रीन्पिण्डान्पृथिवी दर्विरित्यादिप्रकारेण दद्यात्। एतावांस्तु विशेषः। मज्जानं तत्र नोपनिनयेत्। मज्जास्थाने सुरां विकृतयवरसरूपामुपनिनयेत् मन्थेन चोदकाविलीकृतसक्तुरूपेण सर्वतः परिषिञ्चेत्। अन्येऽपि ये रसास्तैरपि सिञ्चेत्। एतद्भवतीभ्यो मात्रादिभ्य इत्युक्त्वा तृप्यन्तु भवत्यो मातर इत्यादि चोक्त्वा॥
ब्रा0. ततः किंचिन्मात्रशेषं चरुशेषमुद्धृत्यैवमपरासु कर्षूषु मातृभ्यः पिण्डनिधानं।.......ततस्तान्मज्जवर्जं सुरामुपनिनीय गोर्दुग्धे सक्तूनोप्येषीकया प्रसव्यमानारभ्योपमथ्य तेन परिषिञ्चति ये चात्र मधुघृतादयो रसास्तैश्च॥
इ/5.11.7ऊ
इ5.11.8ऊ
प्रेष्याः पिण्डान्भक्षयेयुर्निषादा वाग्नौ वाप्सु वा ब्रााहृणान्वा भोजयेत्॥8॥65॥(5।11)
दे0 पिण्डानां प्रतिपतिं्त कुर्यात्कथं। प्रेष्या भृत्या अनुज्ञाताः सन्तः पिण्डान्भक्षयेयुः। धीवरा वा सुराशब्दार्थदूषितत्वात् अप्स्वग्नौ वा क्षेप्तव्याः। ब्रााहृणं वा भोजयेत्पिण्डान् ये सुरार्थशब्दसंस्पर्शेन न दूषिताः प्रथमास्त्रयः॥
ब्रा0 सुरालिप्तान्पिण्डान्प्रेष्या निषादा वाश्नीरन् अप्सु वा क्षिपेत्। इतरानग्नौ वा प्रास्येद्ब्रााहृणं वा
भोजयेत्॥
इ/5.11.8ऊ
द्वादश खण्डः
इ5.12.1ऊ
अथ प्रथमश्राद्धस्याष्टकया धर्मो व्याख्यातः॥1॥
दे0। अथशब्द आनन्तर्यार्थः। यदुक्तं। शुचिर्भूत्वा पितृभ्यो दद्यादिति। तत्राग्न्युत्पत्त्यनन्तरमेव प्रथमश्राद्धं क्रमप्राप्तमपि नोक्तं विकृतेः प्रकृतितन्त्रापेक्षितया प्रकृतितन्त्रपरिज्ञानं विना दुरधिगमत्वात्। अष्टकाविकाराणि हि सर्वश्राद्धानि। प्रकृतौ ज्ञातायां ज्ञायन्त इत्यष्टकानन्तरं शुचिभूतस्यैकादशेऽहनि प्रथमश्राद्धमधुनारोप्यते। किं च प्रथमश्राद्धस्यामङ्गलप्रायत्वेन लोके प्रसिद्धत्वात्प्रचुरपुरुषार्थाभिहिताग्न्याधानान्तरमभिधानं न कृतमित्यप्याहुः। अत एवाथशब्दो मङ्गलमति तन्त्रेण द्योतयतीति वर्णयन्ति। अतश्चायमर्थः। अथ प्रकृत्यधिगत्यनन्तरं प्राप्तप्रस्तावस्य प्रथमश्राद्धाभिधानस्य सामान्येनाष्टकया धर्मो व्याख्यात इतिकर्तव्यता विध्यन्त इत्येवं भावः प्रकार इति पर्यायः॥
ब्रा0। प्रेतैकोद्दिष्टेष्वृतूनां पत्न्यृतस्य धाम देवा ग्रावाण इत्यष्टकास्थालीपाकहोमः॥
इ/5.12.1ऊ
इ5.12.2ऊ
एकवन्मन्त्रानूहेत्॥2॥
दे0। एकोद्दिष्टत्वादतिदेशप्राप्तस्य मन्त्रगतस्य पितृनाम्नो बहुवचनान्तस्यैकवचनमूहेत्। एकेनार्थेन
तुल्यमेकवत्॥
इ/5.12.2ऊ
इ5.12.3ऊ
पेश्यः प्रातरित्यनियमः॥3॥
दे0। अष्टकायाः पशुपक्षे च पेश्योऽवदानस्थाने चोदिताः ता अतिदेशेन प्रथमश्राद्धे विकल्प्यमानप·ानुकम्पित्वेन प्राप्ताः सत्यो नियमभावविशिष्टभावा उच्यन्ते पेशीषु स्वेच्छा कर्तव्या न वेति।
पेशीद्वारेण च पशौ स्वेच्छोक्तिरियं विकल्पपक्षे हि पाक्षिको नियमः स्यात्। एवं प्रकृतावन्वष्टक्यं प्रातरुक्तं। तस्याप्यतिदेशेन नियमप्राप्तस्यानियम उच्यते।.
ब्रा0। यद्यपि शुरुक्तस्य विधे नियमस्त्वङ्गारश्रृतानां पेशीनां स्थाल्यामेवावदानानि प्रकृतिवदाश्रपयेच्छ्वोऽन्वष्टक्यस्य चानियमः॥
इ/5.12.3ऊ
इ5.12.4ऊ
तिरुाः कर्षूः कुर्यात्त्रिष्वग्निषु कृत्वैकैकं पिण्डमुत्सृज्य प्रथमामन्नस्य पूरयेद्दधिमध्विति द्वितीयां घृतमांसमिति तृतीयाम्॥4॥
दे0। त्रिष्वग्निषु यथाप्राप्तहोमान्कृत्वा पित्रुद्देशेनैकस्यां कष्र्वामेकैकं पिण्डं क्षिपेत्पृथिवी दर्विरिति मन्त्रेणावृत्तिभाजा। तत्र प्रथमामन्नस्य नानाप्रकारस्य हविष्यस्य भागेन पूरयेत्। द्वितीयां तु
दधिमध्विति पूरयेत्। निपातानामनेकार्थत्वात्। इति शब्दः करणशक्तिप्रधानोऽधिकरणशक्तिप्रधानान्तः शब्दवत् दधिमधुभ्यां द्वितीयां पूरयेदित्यर्थः। घृतमांसमिति तृतीयां पूरयेदिति समानं पूर्वेण। वपाक्षीरादिपरिषेकोऽपि प्रकृतिवत्॥
इ/5.12.4ऊ
इ5.12.5ऊ
एवं मासि मासि॥5।.
दे0। प्रतिमासमेषैव कर्तव्यता। नवश्राद्धानामित्यतिदेशार्थः॥
इ/5.12.5ऊ
इ5.12.6ऊ
एवं सांवत्सरिकम्॥6॥
दे0। संवत्सरे भवं सांवत्सरिकं। सपिण्डीकरणमप्येवमित्यतिदेशार्थः॥
इ/5.12.6ऊ
इ5.12.7ऊ
चतुर्थं पिण्डमुत्सृज्य त्रैधं कृत्वा पिण्डेषु निदध्यात्संसृजतु त्वा पृथिवी वायुरग्निः प्रजापतिः संसृज्यध्वं पूर्वेभिः पितृभिः सह। समाना वः सं वे मनांसीति॥7॥
दे0। सपिण्डीकरणे विशेषमाह। चतुर्थं...........निदध्यात्। अर्थात्पितृपितामहप्रपितामहानां दद्यात्। भागनिधाने मन्त्रानाह। संसृजत्वित्यनेन सहान्तेन समाना व इत्यादिना च त्रयेण प्रक्षिपेदेकैकत्रेत्यर्थः। तत्र शाखान्तरीया प्रथमा पठिता॥
इ/5.12.7ऊ
इ5.12.8ऊ
एवमुदकानि॥8॥66॥(5।12)
दे0। पाद्यान्यध्र्याणि च चतुर्थे पात्रे पिण्डवत्पितृपात्रेषु अनेनैव मन्त्रत्रयेण निदध्यादित्यतिदेशार्थः।......पश्चादावाहनाद्युपस्थानान्तं कृत्वान्वष्टक्यादिवत्॥
इ/5.12.8ऊ
त्रयोदश खण्डः
इ5.13.1ऊ
श्राद्धस्याष्टकया धर्मो व्याख्यातः॥1॥
दे0। अथेत्यानन्तर्यार्थः प्रकृतिज्ञानपूर्वकस्य विकृतिज्ञाने निदर्शितत्वात्। इतरस्य नान्दीमुखादेरमांससाध्यत्वपक्षो धर्म इतिकर्तव्यतादिपर्यायोऽष्टकया प्रथमया व्याख्यातः। प्रथमाष्टकाप्रकारत्वमेव व्यङ्क्तमाह।
ब्रा0। अथेतरस्येति पशुश्राद्धामावस्याश्राद्धे वर्जयित्वा प्रेतश्राद्धसपिण्डीकरणनान्दीमुखाब्दिकस्य कर्तव्यस्य॥ अथेतरस्य श्राद्धस्येत्युक्तव्यतिरिक्तसांत्वसरिकादभ्युदयिकादिश्राद्धादीनां प्रथमपञ्चकविधिः॥
इ/5.13.1ऊ
इ5.13.2ऊ
प्रथमेन पञ्चकेन॥2॥
दे0। आज्यमिति स्थितमेव॥
ब्रा0। अत्राभिहोमविहितपञ्चकनिर्देशात्तत्संबन्धस्थालीपाकहोम उपलक्ष्यते॥
इ/5.13.2ऊ
इ5.13.3ऊ
आवाहनादि सिद्धं संप्रदानम्॥3॥
दे0। संप्रदानमपि सिद्धमविचारितमेव। सर्वप्रकृतिविकृतिसाधारणत्वात्॥
इ/5.13.3ऊ
इ5.13.4ऊ
पूर्वण निपरणं व्याख्यातम्॥4॥67॥(5।13)
दे0। पूर्वेणाष्टकाप्रकारेण कर्षूकरणादिनेति विशेषेण व्याख्यातं कथितं पूर्वैः॥
इ/5.13.4ऊ
चतुर्दश खण्डः
इ5.14.1ऊ
अथेतरस्य पशुश्राद्धस्याष्टकया धर्मो व्याख्यातः॥1॥
ब्रा0। श्रोत्रिये गृहमागते मधुपर्कवत्तूष्णीं पशुं संज्ञप्य यच्छ्राद्धं तत्पशुश्राद्धम्॥
इ/5.14.1ऊ
इ5.14.2ऊ
मध्यमेन पञ्चकेन॥2॥
दे0। प्रधानहोम इति शेषः॥
इ/5.14.2ऊ
इ5.14.3ऊ
आवाहनादि सिद्धं संप्रदानम्॥3॥
दे0 गतार्थम्॥
इ/5.14.3ऊ
इ5.14.4ऊ
पूर्वेण निपरणं व्याख्यातम्॥4॥68॥(5।14 )
इ/5.14.4ऊ
पञ्चदश खण्डः इ5.15.1ऊ अथेतरस्य मासिमासिश्राद्धस्याष्टकया धर्मो व्याख्यातः॥1॥
दे0। इतरस्य प्रथममासव्यतिरिक्तस्यामावस्यादेस्तृतीयाष्टकया धर्मो व्याख्यातः। अस्य पिण्डान्वाहार्यमिति संज्ञा सिद्धा। पिण्डदानानन्तरं ब्रााहृणभोजनाहरणात्प्रधानादन्वर्थिकीयं संज्ञा॥
ब्रा0। मासिमासिश्राद्धस्यामावस्यानुपलक्ष्यते॥
इ/5.15.1ऊ
इ5.15.2ऊ
उत्तमेन पञ्चकेन॥2॥
दे0। तृतीयेन पञ्चकेनाज्यभागान्ते स्थालीपाकस्य होमः तृतीयाष्टकावत्॥
इ/5.15.2ऊ
इ5.15.3ऊ
आवाहनादि सिद्धं संप्रदानम्॥3॥
इ/5.15.3ऊ
इ5.15.4ऊ
पूर्वेण निपरणं व्याख्यातम्॥4॥39॥(5।15)
दे0। गतार्थं॥अन्ये तु पूर्वेण निपरणमिति सर्वत्रेदमर्थं व्याचक्षते । पूर्वेण पृथिवि दर्विरिति न तूत्तरभ्यामिति नियमार्थमेतत्। इदं त्वखिलार्यजनानुष्टानविपरीतं किं चैकोद्दिष्टत्वं चापतेदेवं । उक्तं हि । वसवः पितरो भूम्यदिपतयो रुद्रः पितामहा अन्तरीक्षपतयाः आदित्याः प्रदितामहास्तृतीयलोकाधिपतयः।तत्र पितृप्रकाश समर्थत्वात्प्रथममन्त्रस्य मन्त्रलिंङ्गबलेनैकोद्दिष्टत्वं प्राप्नोति। मुनिवचनबलेन त्वन्यत्र विनियोगो नास्ति क्षीणत्वादर्थापत्तेरन्यार्थत्वेनवचनस्योपपन्नत्वात्॥
इ/5.15.4ऊ
षोडश खण्डः दे0। एवं शुचिरभातः पितृभ्यो दद्यादितदि प्रसक्तानुप्रसक्तं निर्वत्र्य फाल्गुनीपाकयज्ञावशिष्टमाह॥ इ5.16.1ऊ
अथ फाल्गुन्यां तैलापूपस्य जुहोति ॥1॥
दे0। फाल्गुनिमासि पौर्णमासी । तस्यां तैलपक्वेन गोधूमादिमयेनापूपेन होमः कर्तव्यः । अथशब्दः श्राद्धानन्दरतां भणन् श्राद्धप्रकरणनिवृत्ति स्वस्त्ययनहविष्यत्वाद्योतनद्वारेण मङ्गलमभिद्योतयदि । अधूना जुहोति शब्द श्रवणात् पाकयज्ञा तन्त्राभावशङ्गानिवारणाय यज्ञप्रतीतये देवतामन्त्रं चापूपहोमं दर्शयति यज्ञहोमान्तत्वोपदर्शनाय ।
इ/5.16.1ऊ
इ5.16.2ऊ
अर्यमा देवता ये ते अर्यमन्निति ॥2॥
दे0। अपूपमन्त्रे अर्यमा देवता सम्बन्धश्च यवस्य शरीरं । ये ते अर्यमन्निति मन्त्रः॥
इ/5.16.2ऊ
इ5.16.3ऊ
अथेन्द्राण्याः॥3॥
दे0। जुहोतीत्यनुषज्यते । द्रव्यमन्त्रौ त्वत्र वक्ष्येते प्रकरणसमाप्तौ ॥
इ/5.16.3ऊ
इ5.16.4ऊ
प्रससाहिष इति तुण्डिलस्य जुहोति॥4॥
दे0। तुण्डो विद्यते यस्य स तुण्डिलो मध्योन्नतः पुरोडशाकृतिस्तण्डुलपिष्टादिपक्वः किलाटलोपिकादिर्वा तेन प्रससाहिष इति मन्त्रेण जुहोति॥
इ/5.16.4ऊ
इ5.16.5ऊ
गोलका रुद्रदेवत्याः॥5॥
दे0। गोलका यवमयव्रीहिमय गोल इति प्राकृतभाषया प्रसिद्धाः। ते रुद्रदैवत्याः कर्तव्याः। मन्त्रो हि रुद्रलिङ्गकोऽर्थात्॥
इ/5.16.5ऊ
इ5.16.6ऊ
अदितिद्यौरदितिरिन्द्राणि त्योत्योदनयोःशाकपललाक्तयोः। 6।70॥(5।16 )
दे0। पादद्वयोद्धृतावोदनौ । तयोरेकं शाकेनाभिज्य मिश्रीकृत्यादितिद्र्यौरदितिरन्तरिक्षमित्याहुतिं जुहुयात्। द्वितीयं तु पललेन तिलतण्डुलचूर्णादिर्मितेनाभ्यज्येन्द्राण्यः पूर्वोक्ताय इन्द्राणी पत्येत्यादिमन्त्रेण जुहुयात् । तदेवं पञ्च हवींषि॥
ब्रा0। अर्यमा इन्द्राणि इन्द्रः रुद्रः अदितिरिति पञ्च फाल्गुन्यदेवताः। पात्रप्रयोगकाले तैलशाकपललाक्तं तिलानुपसादयेत्। अर्यम्णे जुष्ठं निर्वपामीति तैलापूपस्य व्रीहीणां निर्वपेत् । इन्द्राण्यै जुष्टमिति स्थालीपाकस्य। इन्द्राय जुष्टमिति तुण्डिलस्य . रुद्राय जूष्टमिति गोलकत्र्रयस्य । आदित्यै जुष्टमिति स्थालीपाकस्य ।एवमेव प्रोक्षणं। तिलानां पिष्टानामग्नौ
तप्तानां निष्पिडितानां पृथक् तैलं कृत्वा तैलेन हविरासादनकाले ऽपूर्वमक्त्वासादयेत् । पललेनेन्द्राण्याश्चरुं कल्केनादित्या आज्याभागान्ते हुते ये ते अर्यमन्निति तैलापूपस्यवतारा प्रधानाहुतिः इन्द्राणि पत्येति पललाक्तस्य चरोः ।प्रससाहिष इति तुण्डिलस्य । मृडा नो रुद्रयती समवदाय गोलकानां ।
अदितिद्र्यौरिति कल्काक्तस्य चरोः। ततः तन्त्रसमाप्तिः॥
इ/5.16.6ऊ
सप्तदश खण्डः
इ/5.17.1ऊ
गावो भग इति द्वाभ्यां गोयज्ञस्य॥1॥
दे0। गवां प्रसूतानां स्वास्थ्यं पुनः सगर्भग्रहणाद्यर्था वसन्ते यज्ञो गोयज्ञः। अश्रुतद्रव्येषु चाज्यं हविः चतुर्गृहीतं यवव्रीहिनिर्मितं वा यवकादिदृष्टार्थेषु लोके स्वस्त्ययनेषु प्रवृत्त्यर्थत्वात्प्रायेण च रुाुवेण होम उपनयनादौ दृष्टार्थानि श्रावण्यष्टकादिप्रभृतीन्यदृष्टार्थान्यपि। अत्रैवावसरे प्रथमफलकर्मार्थं स्वस्त्ययनमाह॥
ब्रा0। गोयज्ञे गोमङ्गल्यमिति कश्मीरेषु प्रसिद्धः। गोयज्ञे च हलानि योजयन्ति प्रथमे वसन्ते हिमापगमे।
यज्ञशब्दोऽत्र तन्त्रं। गोमङ्गलयज्ञादीनां रात्रियज्ञादीनां सर्वेषामाज्यधान्या एवावदायाज्यप्रधानाहुतीर्यथोक्तं जुहुयात्। अत्र सर्वत्राज्यं हविः। आज्यभागान्ते चतुर्गृहीतेन प्रचारं। गावो भगो न ता अर्वेति गोमङ्गले प्रधानम्॥
इ/5.17.1ऊ
इ5.17.2ऊ
सीरा युञ्जन्तीति तिसृभिरायोजनीयस्य॥2॥
दे0। जुहुयात्सीरा युञ्जन्तीत्यादिभिस्तिसृभिर्ऋग्भिः॥
इ/5.17.2ऊ
इ5.17.3ऊ
प्रथमोत्तमाभ्यां युनक्ति॥3॥
दे0। सीरा जुहुयात्सीरा युञ्जन्तीति या प्रथमा गायत्री पूषा युनक्त्विति च योत्तमा द्विपदी त्रिष्टुपि ताभ्यां यागानन्तरं बलीवर्दान्युनक्ति यूपैः संयोजयन्तीत्यर्थः। युनक्तियोक्त्रवतीतिशब्दौ बलीवर्दानां यूपासंयोजने रूढौ॥
इ/5.17.3ऊ
इ5.17.4ऊ
मध्यमया फालम्॥4॥
दे0। युनक्त सीरेति मध्यमया फालं युनक्ति॥
इ/5.17.4ऊ
इ5.17.5ऊ
शुनं सुफाला इति प्रदक्षिणं द्वे कृषति॥5॥
दे0। शुनं सुफालेत्यादिकयर्चा प्रदक्षिणं कृत्वा द्वे सीते कृषन्ति॥
इ/5.17.5ऊ
इ5.17.6ऊ
लाङ्गलं पवीरवमित्यपरे॥6॥
दे0। लाङ्गलं पवीरवमित्यादिकयर्चान्ये द्वे सीते कृषन्ति॥
ब्रा0। सीरा युञ्जन्ति युनक्तः सीरा पूषा युनक्त्विति तिसृभिः। तदेव द्विपदा संतृतीया। प्रधानाहुतिषु हुतासु सीरा युञ्जन्ति पूषा युनक्त्वित्यनड्वाहौ युनक्ति। युनक्त सीरेति फालं। कर्षणं
यथोक्तवत्। कर्मणि समाप्ते घृतेन सीतेति चतुर्गृहीतेनाज्यस्य प्रधानं। ततस्तन्त्रसमाप्तिः। एतद्रीमङ्गलम्॥
इ/5.17.6ऊ
इ5.17.7ऊ
घृतेन सीतेति सीतायज्ञस्य॥7॥
दे0। घृतेन सीतेति मन्त्रेण सीतायज्ञस्य जुहुयात्। कार्त्तिकशुक्लद्वादश्यां यवबीजवपनोपक्रमाय सीतायज्ञस्यार्थेषु प्रसिद्धो यत्र वीरणादिमयो सीता कुमारी देवता विरच्यते॥
इ/5.17.7ऊ
इ5.17.8ऊ
या ओषधय इति बीजवपनीयस्य॥8॥
दे0। बीजवपनं यस्य य बीजवपनीयो यज्ञः। तस्य या ओषधय इति जुहुयात्। सीतायज्ञानन्तरमेवैष यज्ञस्ततो यवबीजवपनम्॥
ब्रा0।या ओषधया इति यदा बीजानि उप्यन्ते॥
इ/5.17.8ऊ
इ5.17.9ऊ
विमुच्यध्वमिति विमोचनीयस्य॥ 9॥
अत्रापि प्रयोजनार्थीयस्तद्धितः। विमुच्यध्वमित्यादिना विमोचनीययज्ञस्य जुहुयात्। सर्वबीजवपनसमाप्तावयं यज्ञः स्वस्तये॥
ब्रा0। विमुच्यध्वमिति यदा बलीवर्दाहले समाप्ते विमुच्यन्ते॥
इ/5.17.9ऊ
इ5.17.10ऊ
त्रातारमिन्द्रमिति द्वे पर्ययणस्य॥10॥
दे0। पर्ययणं खलप्राप्तानां व्रीहीणां क्षोदनं बलीवर्दचरणैर्गाहनं यत्र गाहिकेति प्रसिद्धिरार्याणां तत्प्रयोजनस्य यज्ञस्य त्रातारमिन्द्रमित्यादिना द्वयेन जुहुयात्। पर्याणे द्वे साधने इति तु सूत्रान्वयः॥
ब्रा0। त्रातारमिन्द्रमुग्रो जज्ञ इति च धान्यादिक्षोदनारम्भे॥
इ/5.17.10ऊ
इ5.17.11ऊ
एवं प्रथमोद्वपनस्य॥11॥
दे0। प्रथमोद्वपनं व्रीह्रादीनां नवनिष्पन्नमाद्यं वापं। तत्प्रयोजनस्य त्रातारमिति द्वे साधनभूते ऋचौ॥
ब्रा0। एताभ्यामेव प्रथमं खलादिधान्यं गृहं वा कोष्ठागारं नीयते। काष्ठागाराद्वा यदा वसन्त आनीयते॥
इ/5.17.11ऊ
इ5.17.12ऊ
उदुत्तमं मुमुग्ध्युदुत्तमं वरुणेति वरुणयज्ञस्य॥12॥
दे0। तडाकप्रतिष्ठाकालेऽयं वरुणयज्ञः॥
ब्रा0। उदुत्तममिति द्वाभ्यां नवखाततडाकादौ॥
इ/5.17.12ऊ
इ5.17.13ऊ
सं वरत्रान्हिरण्यकोशमवटमिति कूपयज्ञस्य॥13॥
दे0। नवकूपप्रतिष्ठाकालेऽयम्॥
ब्रा0। इति नवकूपप्रतिष्ठायाम्॥
इ/5.17.13ऊ
इ/5.17.14ऊ
प्र वां दंसांसीति मण्डपानाम्॥14॥
दे0। तमेव यज्ञं कृत्वा कूपसंस्कारार्थं मण्डपानं। यवमयानां हुत्वा शेषं भक्षयेदिति शेष इति माथुरप्रभृतयः। अन्ये मण्डपानामिति पाठं दृष्ट्वा व्याचक्षते किल मण्डमुदकमुच्यते। मण्डं पिबतीति मण्डपः सेतुर्नद्यादितरणोपायः। तस्य प्रतिष्ठार्थं यज्ञं कुर्यात्। प्र वां दंसांसीति मन्त्रेण होमान्तं। कश्मीरेषु च एतद्बाहुल्येन
कर्म दृष्टमित्यादित्यदर्शनमेव व्याख्यातम्॥
ब्रा0। मण्डपं सेतुप्रतिष्ठादिकं प्रासादिकं। प्र वां दंसांस्यतारिष्मेति चित्रमण्डपादिषु प्रतिष्ठायां। सेतुप्रतिष्ठायामित्यादित्यदर्शनभाष्यम्॥
इ/5.17.14ऊ
इ5.17.15ऊ
देवेभ्यो वनस्पत इति वनस्पतियज्ञस्य॥15॥
दे0। फलिततरुरोपणकालेऽयम्॥
ब्रा0। इति वृक्षरोपणे॥
इ/5.17.15ऊ
इ5.17.16ऊ
वनस्पते वीङ्वङ्ग इति रथयज्ञस्य॥16॥
दे0। नवनिर्मितरथारोहणार्थम्॥
ब्रा0। नवरथारोहणे॥
इ/5.17.16ऊ
इ5.17.17ऊ
धन्वना गा इति द्वाभ्यां धनुर्यज्ञस्य॥17॥
दे0। धनुषो ग्रहणकाले मासवेधकाले चायं क्षत्रियाणां प्रथमकल्पेन। एवं कृष्यकर्म वैश्यानामुक्तमिति ज्ञेयं। तेषामेव कृषिवृत्तिस्मरणात्। अनुकल्पेन त्वन्यत्र यदुक्तम्॥
ब्रा0। इति नवधनुग्र्रहणे॥
इ/5.17.17ऊ
इ5.17.18ऊ
रात्री व्यख्यदिति द्वाभ्यां रात्रियज्ञस्य॥18॥71॥(5।17)
दे0। जागरणसमयेऽयम्॥
ब्रा0। रात्री व्यख्यजुप ते गा इति रात्रिजागरणादौ॥
इ/5.17.18ऊ
अष्टादश खण्डः
इ5.18.1ऊ
समुपहतेऽद्भुते वा शान्त्यै शमीं शमुकं शाम्यवाकम·ात्थप्लक्षन्यग्रोधोदुम्बरं दूर्वां च प्राचीनप्रसृतानि षड् दर्भपिञ्जूलानि सुमनसश्चापामार्गं सर्वबीजानि सीतालोष्टं गोमयं हिरण्यं वल्मीकवपां चाद्भिः संसृजति सं वः सृजामीति द्वाभ्याम्॥1॥
दे0। सम्यगुपघातः समुपहतं। व्याधिदुर्भिक्षशत्रूदयादिभिः। तस्मिन्वेत्यद्भुते वा। अद्भुतमकालोत्थमुल्काधूमकेतुगगनाङ्गनपटहरणाकर्णदुःस्वप्नाद्यनिष्टसूचकं तÏस्मश्च सति। शान्त्यै शान्त्यर्थं। शम्यादीनि षोडश द्रव्याणि मृत्पिण्डात्मकेऽद्भिः सह संसृजति मिश्रयतीत्यर्थः। वानस्पत्यान्यन्तर्भावयतीत्यर्थः। पूर्वमेवोद्धृत्य प्रोक्षणकूर्चं कुर्यात्सदाचारात्। सीता हलविलेखिता भूमिः। तस्या लोष्टो मृत्पिण्डः। संमिश्रणं तु सं वः सृजामीति द्वाभ्यां मन्त्राभ्याम्॥
ब्रा0। अथ समुपहते देशविभ्रमादौ पुरुषकृतेऽद्भुते वा साक्षिस्पन्दनदुःस्वप्नदर्शनादौ दुष्टसूचक अध्यात्मिके दोष उपलक्षिते तन्निरासार्थं शमीशमुकादीन्षोडश सं वः सृजामि सं या व इत्यद्भिः संसृज्य॥
इ/5.18.1ऊ
इ5.18.2ऊ
या ओषधय इत्यनुवाकेन संयूयापास्मदेत्विति चतसृभिः संप्रोक्षणम्॥2॥
दे0। संयौत्यालोडयतीत्यर्थः। अपास्मदेत्वित्यादिभिश्चतसृभिर्ऋग्भिराज्यभागान्ते संप्रोक्षणं तावदेकं कुर्यात्। अथ कस्येदं प्रोक्षणं। ऋषभाजपुरुषरथगृहक्षेत्रप्रभृतेः तथा सदाचारात्। पारं पर्यवशायात आचारो वेदपूर्वकः प्रमाणं वेदसंयोगभाजामाचामनादिवत्॥
ब्रा0। या ओषधय इत्यनुवाकेन संयौति। ततः शम्यादिभिरपामार्गान्तैः कूर्चं कृत्वा तेनापास्मदेत्विति चतसृभिर्गृहाणि बहिरन्तश्च संप्रोक्षति। बाहिस्तन्त्रिकमाज्यमुत्पाद्य होमस्यात्र नाम्नानात्त्विकादिभिः रुाुवेणाहुतिचतुर्विंशतिः। दुरिष्टोपशान्त्यर्थं। यथाशक्ति ब्रााहृणभोजनम्॥
इ/5.18.2ऊ
इ5.18.3ऊ
देवाद्भुतेषु यन्नो भयमित्यष्टर्चेन स्थालीपाकस्य जुहोति यद्देवा देवहेडनमिति तिसृभिर्भद्रं कर्णेभिरिति चतसृभिरैन्द्राग्नं वर्मेति च॥3॥
दे0। देवाद्भुतेषु देवाश्रयेषु चन्द्रार्कादिदोषेषु भयनिमित्तेषु सत्सु यन्नो भयमित्यष्टाभिर्ऋग्भिः स्थालीपाकेनाष्टाहुतीर्जुहुयात्। तदनन्तरं यद्देवः इत्यादिभिस्तिसृभिस्तिरुा आहुतीः स्थालीपाकस्य जुहुयात्। तदनन्तरं भद्रं कर्णेभिरिति चतरुा अन्या आहुतीः स्थालीपाकस्य जुहुयात्॥
ब्रा0। देवाद्भुतेषु यन्नो भयमित्यष्टर्चनिर्दिष्टेषु दिव्यान्तरिक्षभौमेषु च लक्षितेषु भयेष्वलक्षितेष्वग्नये
यविष्ठायाग्नये वायवे सूर्याय वि·ोभ्यो देवेभ्य इन्द्राग्निभ्यामिति चरुं निरुप्याज्यभागान्तं हुत्वा॥
इ/5.18.3ऊ
इ5.18.4ऊ
उक्तं संप्रोक्षणम्॥4॥
दे0। अस्मिन्नेवावसरे पूर्वोक्तमेव अपास्मदेत्विति चतसृभिः संप्रोक्षणं द्वितीयं कुर्यात्॥
ब्रा0। पूर्ववत्संभारमिश्रीकरणादिसंप्रोक्षणान्तं कृत्वा यन्नो भयमित्यादिभिर्यथोक्ताभिः
षोडशभिर्ऋग्भिः षोडश प्रधानाहुतीर्जुहुयात्। ततोऽपास्मदेत्विति चतसृभिर्द्वितीयं संप्रोक्षणण्॥
इ/5.18.4ऊ
इ5.18.5ऊ
धूर्भिरुपधूर्भिश्च हुत्वा पुनः संप्रोक्षणम्॥5॥72॥(5।18)
दे0। स्थालीपाकानन्तरमृतुतिथ्यादयः प्रागुक्तनयेन स्विष्टकृदङ्गभूताः कर्तव्याः। ततो धुर उपधुरश्चान्या आहुतयः कार्याः। ततः स्विष्टकृदादितन्त्रं समापनीयं। ततस्तृतीयं प्रोक्षणं कर्तव्यमिति तात्पर्यतो ज्ञेयम्॥
ब्रा0। अग्निर्मूर्घेति चतसृभिरुप प्रयन्त्विति द्वाभ्यां कदाचन स्तरीरसीति च द्वाभ्यां रुाुवेण हुत्वा तृतीयं पूर्ववत्संप्रोक्षणं। तत ऋतुतिथियागादितन्त्रसमाप्तिः॥
इ/5.18.5ऊ
एकोनविंश खण्डः
इ5.19.1ऊ
राका होलाके॥1॥
दे0। होला कर्मविशेषः सौभाग्याय स्त्रीणां प्रातरनुष्ठीयते। तत्र होलाके राका देवता। मन्त्रलिङ्गात्। यास्ते राके सुमतय इत्यादि। अन्ये तु व्याचक्षते। एतत्सौभाग्यार्थं कर्म क्वचिद्देशे राकाशब्देन प्रसिद्धं क्वचिद्धोलाकशब्देन तथा देशविशेषे क्वचित्सुखकुमारी होलेत्युच्यते। अतः शब्दभेदादौपाधिकं भेदमाश्रित्य राका च होलाका चेति राकाहोलाके द्वन्द्वः। वक्ष्याम इत्यध्याहारः। राकाहोलाकापर्यायं कुमारीसुखार्थं यज्ञं विवाहोपक्रमप्रसिद्धानुष्ठानं वक्ष्याम इत्यर्थः। तमेवाह॥
ब्रा0। होलाको मध्यदेशे प्रसिद्धो यथा काश्मीरेष्वा·ायुज्यां रात्रौ गृहद्वारोपान्तेष्वग्निप्रज्वालनं। तत्राज्यभागान्तं हुत्वा यास्ते राक इति चतुर्गृहीतेन प्रधानाहुतिः। ततस्तन्त्रसमाप्तिः॥
इ/5.19.1ऊ
इ5.19.2ऊ
इन्द्राणीमासु नारिष्विति कुमारीणां यज्ञं यजेत्॥2॥
दे0। कुमारीणां सुखार्थं प्रसाधनस्थाने आज्यभागान्ते यज्ञं यजेदृत्विक् चतुर्गृहीतेनाज्येनेन्द्राणीमित्यादिमन्त्रेण। अत ऊध्र्वमृतुतिथ्यादि समानम्॥
ब्रा0। इन्द्राणीमासु नारिष्विति कन्यासंस्कारे पूर्तौ विधिः॥
इ/5.19.2ऊ
इ5.19.3ऊ
देवता अप्रज्ञायमाना आग्नेय्या यजेद्वै·ादेव्या वा॥3॥
दे0। इदानीं शास्त्रान्ते प्रकीर्णं यदवशिष्टं तदाह। देवता......0देव्या वा। यत्र कर्मणि देवताविशेषो न प्रज्ञायते मन्त्रब्रााहृणवाक्यशेषेभ्यो बहुदेवतानाम श्रुतिसंमोहितत्वेन तत्राग्नेय्या अग्निदेवतकया क्वचिद्वै·ादेव्या वा यजेत्। व्यवस्थितविकल्पेन। यथोपनयनचूडाकरणप्रभृतिषु। आज्यभागान्ते प्रधानस्थानेऽयमुपदेशः॥
ब्रा0। तत्र भुवो यज्ञस्येत्याग्नेय्या ये के च ज्मेति वै·ादेव्या वा प्रधानं यथा सीमन्तोन्नयनचूडाकर्मादिषु॥
इ/5.19.3ऊ
इ5.19.4ऊ
स्वस्तिपुण्योष्वनादेशे त्रिकाः॥4॥
दे0। स्वस्त्यविनाशः। तदर्थानि स्वस्त्ययनानि स्वस्तिशब्देनोच्यन्ते। पुण्यानि पावनानि संस्कारकर्माणि गर्भाधानान्नप्राशनप्रभृतीनि। तेषु देवताविशेषस्य यत्रानादेशोऽनुद्देशस्तत्र त्रिकाः प्रधानस्थाने कर्तव्याः। तद्द्योताश्च प्रधानेव ताः त्रिकाः। पुनश्चत्वारोऽनुवाकस्था बार्हस्पत्ययाम्यरौद्रवारुणास्तव श्रिय इत्यनुवाके पठिताः।.
ब्रा0। स्वस्तिपुण्यकर्मसु यत्र नाम्नातो होमस्तत्र बाहिस्तन्त्रकमाज्यमुत्पाद्य रुाुवेण त्रिकादिभिराहुतिचतुर्विंशतिर्यथा स्नातकव्रते॥
इ/5.19.4ऊ
इ5.19.5ऊ
महाव्याह्मतयोऽष्टर्चं चात्र कल्पयति। अग्निमूर्धेति चतरुा उपप्रयन्तो अध्वरमिति द्वे कदाचन
स्तरीरसीति द्वे धुरश्चोपधुरश्चोपधुरश्च॥5॥73॥(5।19)
दे0। स्पष्टोऽष्टानां विभागः। धुरश्चोपधुरश्च प्रधानस्थाने यष्टव्याः। शास्त्रान्ते मङ्गलार्थं धुरामुपधुरामभ्यासः। शास्त्रतदर्थप्रतिज्ञानार्थानुष्ठानावृत्तिर्हि परमं मङ्गलं तदन्त्या द्योत्यते। शास्रान्तेऽपि मङ्गलोपसंहार इष्यते॥
ब्रा0। ओं भूः स्वाहा। ओं भुवः स्वाहा। ओं स्वः स्वाहा। ओं भूर्भुवः स्वः स्वाहा॥ अग्निर्मूर्धेत्याद्या
धुरश्चोपधुरश्चाष्टावृचः पाकयज्ञमन्त्रेषु पठिताः। उपप्रयन्तो अध्वरमिति द्वे कदाचन स्तरीरसीति द्वे एताश्चतरुा उपधुरः॥
इ/5.19.5ऊ
इति लौगाक्षिसूत्रे गृह्रपञ्चिकाया पञ्चमोऽध्यायः॥
॥॥॥।