सामग्री पर जाएँ

ललितागमः (संप्रोक्षणविधिमात्रम्)

विकिस्रोतः तः
ललितागमः
[[लेखकः :|]]

ललितागमः

(संप्रोक्षणविधिमात्रम्)


प्. १)

।। संप्रोक्षणम् ।।

ललितागमे संप्रोक्षणविधिः ।।

काली च दक्षिणे चैव पूजयेत्तु क्रमेण तु ।
दक्षिणद्वारवामे तु भृङ्गिणे तु समर्चयेत् ।। १ ।।

गणेशं दक्षिणे भागे तन्मानञ्च यजेद्बुधः ।
पश्चिमद्वारवामे तु वृषभाय नमोन्तकम् ।। २ ।।

स्कन्दस्य दक्षिणे भागे स्कन्देशाय नमो नमः ।
उत्तरद्वारवामे तु गौरीञ्चैव तु पूजयेत् ।। ३ ।।

तद्दक्षिणाय चण्डेशं नमोन्तादिमिति स्मृतम् ।
तत्तद्ध्यानमनुस्मृत्य अर्चयेत्तु गुरोत्तमः ।। ४ ।।

पश्चिमद्वारवामे तु महालक्ष्मीं प्रपूजयेत् ।
तत्वदृष्ट्या विशेषेणाक्षेपमथ शास्त्रकैः ।। ५ ।।

पा * * त विशेषेण विघ्नोच्चाटनकर्मणि ।
घण्टान्तु ताडयेद्धीमान् त्रि * कारं यथा कुरु ।। ६ ।।

इति द्वाराणि सं * प्य पश्चिमद्वारमाविशेत् ।
देहाल्यमध्यमे चैव अस्त्रमन्त्राणि पूजयेत् ।। ७ ।।

वास्तुब्रह्मविशेषेण तन्मन्त्रेण समर्चयेत् ।
यागमण्टपकं पूर्वे भूमितत्वेन पूजयेत् ।। ८ ।।

प्. २)

जलतत्वे नमोन्तञ्च तृणानां पूजयेत्ततः ।
अग्नितत्वे नमोन्तञ्च बन्धेषु यजनं क्रमात् ।। ९ ।।

वायुतत्वे नमोन्तञ्च वंशानां पूजयेत्ततः ।
नममाकाशतत्वञ्च स्थूणानां पूजयेत्ततः ।। १० ।।

चन्द्राय यजनञ्चैव विधानेन सुपूजयेत् ।
वासुकायां नमोन्तञ्च दर्भमाला सुपूजयेत् ।। ११ ।।

पूर्वादीनि समारभ्य दर्पणं पूर्णकुम्भयोः ।
तन्नाम्नेन समभ्यर्च्य पाद्यादीन्युपचारकैः ।। १२ ।।

वृषभं चामरञ्चैवा तन्नाम्ने [च] सुपूजयेत् ।
श्रीवत्सं स्वस्तिकञ्चैव तन्नाम्नेति पूजयेत् ।। १३ ।।

शंखदीपेन कर्तव्यं पूजयेत्तु स्वनामतः ।
एवं क्रमेण संपूज्य शुद्धतत्वेन भावयेत् ।। १४ ।।

आत्मदैवतमभ्यर्च्य विशेषार्घ्यञ्च कल्पयेत् ।
अस्त्रेण द्रव्यशुद्धिञ्च आत्मानं पूजयेत्ततः ।। १५ ।।

स्वदक्षिणे पा * * * * * न्तं गमं चैव तु ।
विन्यसेत् हस्तेन धर्मादिभिर्मन्त्रयेत् ।। १६ ।।

धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्चैव * त्मकम् ।
कर्णिकायै नमोऽन्तञ्च मन्त्राणाञ्च स्मरन् गुरुः ।। १७ ।।

मूर्ध्नि मध्ये विशेषेण विन्यसेत्तु विचक्षणः ।
अभिमन्त्रितपुंसञ्च ज्ञानखड्गञ्च सङ्गृहेत् ।। १८ ।।

प्. ३)

अस्त्रेण दश संख्याभिः अभिमन्त्रेण बुद्धिमान् ।
पञ्चगव्यक्रमेणैव साधयेत्तु विचक्षणः ।। १९ ।।

प्रोक्षयेत्पञ्चगव्येन अस्त्रमन्त्रं समुच्चरन् ।
तद्वैतञ्च विशेषेण परिधानाद्यलङ्कृतम् ।। २० ।।

नैज्यदेवासनं कल्प्यं उत्तराभिमुखस्थितः ।
निरीक्षणप्रोक्षणञ्चैव ताटनाभ्युक्षणं तथा ।। २१ ।।

खड्गेनोद्धारणञ्चैव पूरणञ्च समीरणम् ।
कुट्टनं सेचनञ्चैव मार्जनं लेपनं तथा ।। २२ ।।

कलारूपञ्च कल्याथ त्रिसूत्रीबन्धनं दृढम् ।
पू * ना रेखया चैव चतुष्पद्वीनि त्रिक्षिपेत् ।। २३ ।।

वज्रीकरणमेवोक्तं शम्बरेण तु मन्त्रतः ।
फालचन्दनसिद्धास्यैः भस्मदूर्वाक्षतान् कुशान् ।। २४ ।।

द्रव्यपञ्च समादाय विकरान्यस्त्रमुच्चरन् ।
कुशकूर्चञ्च संग्राह्य वर्धन्या मूर्ध्नि विन्यसेत् ।। २५ ।।

तदूर्ध्वे स्थण्डिलं कल्प्य तोये हेमादिकुम्भयेत् ।
वामे तु वर्द्धनीञ्चैव पश्चिमाननमेव च ।। २६ ।।

वृषभाय नमोन्तेन कुम्भे आसनमर्चयेत् ।
कुम्भे मूर्ध्नि च विन्यस्य शिवं साङ्गञ्च पूजयेत् ।। २७ ।।

व्यालासननमोन्तञ्च वर्धन्याञ्च चलासनम् ।
पाशुपतास्त्रमूर्ती च पूर्ववद्ध्यानसंयुतम् ।। २८ ।।

प्. ४)

इति ललितागम वचने पाशुपतास्त्रमन्त्रम् ।

ओं श्रीं ह्रीं ग्लीं क्लीं ऐं सौं पशु हुंफट् स्वाहा ।

इति पाशुपतास्त्राय नमः ।

श्री स्थलपाण्ड्यन् ।

श्री स्थलीश्वराय नमः ।।