लघुवाक्यवृत्तिः
स्थूलो मांसमयो देहो सूक्ष्मः स्याद्वासनामयः ।
ज्ञानकर्मेन्द्रियैः सार्धं धीप्राणौ तच्छरीरगौ ॥ १॥
अज्ञानं कारणं साक्षी बोधस्तेषां विभासकः ।
बोधाभासो बुद्धिगतः कर्ता स्यात्पुण्यपापयोः ॥ २॥
स एव संसरेत्कर्मवशाल्लोकद्वये सदा ।
बोधाभासाच्छुद्धबोधं विविच्यादतियत्नतः ॥ ३॥
जागरस्वप्नयोरेव बोधाभासविडम्बना ।
सुप्तौ तु तल्लये बोधः शुद्धो जाड्यं प्रकाशयेत् ॥ ४॥
जागरेऽपि धियस्तूष्णींभावः शुद्धेन भास्यते ।
धीव्यापाराश्च चिद्भास्याश्चिदाभासेन संयुताः ॥ ५॥
वह्नितप्तजलं तापयुक्तं देहस्य तापकम् ।
चिद्भास्या धीस्तदाभासयुक्तान्यं भासयेत्तथा ॥ ६॥
रूपादौ गुणदोषादिविकल्पा बुद्धिगाः क्रियाः ।
ताः क्रिया विषयैः सार्धं भासयन्ती चितिर्मता ॥ ७॥
रूपाच्च गुणदोषाभ्यां विविक्ता केवला चितिः ।
सैवानुवर्तते रूपरसादीनां विकल्पने ॥ ८॥
क्षणे क्षणेऽन्यथाभूता धीविकल्पाश्चितिर्न तु ।
मुक्तासु सूत्रवद्बुद्धिविकल्पेषु चितिस्तथा ॥ ९॥
मुक्ताभिरावृतं सूत्रं मुक्तयोर्मध्य ईक्ष्यते ।
तथा वृत्तिविकल्पैश्चित्स्पष्टा मध्ये विकल्पयोः ॥ १०॥
नष्टे पूर्वविकल्पे तु यावदन्यस्य नोदयः ।
निर्विकल्पकचैतन्यं स्पष्टं तावद्विभासते ॥ ११॥
एकद्वित्रिक्षणेष्वेवं विकल्पस्य निरोधनम् ।
क्रमेणाभ्यस्यतां यत्नाद्ब्रह्मानुभवकाङ्क्षिभिः ॥ १२॥
सविकल्पजीवोऽयं ब्रह्म तन्निर्विकल्पकम् ।
अहं ब्रह्मेति वाक्येन सोऽयमर्थोऽभिधीयते ॥ १३॥
सविकल्पकचिद्योऽहं ब्रह्मैकं निर्विकल्पकम् ।
स्वतःसिद्धा विकल्पास्ते निरोद्धव्याः प्रयत्नतः ॥ १४॥
शक्यः सर्वनिरोधेन समाधिर्योगिनं प्रियः ।
तदशक्तौ क्षणं रुद्ध्वा श्रद्धालुर्ब्रह्मतात्मनः ॥ १५॥
श्रद्धालुर्ब्रह्मतां स्वस्य चिन्तयेद्बुद्धिवृत्तिभिः ।
वाक्यवृत्त्या यथाशक्ति ज्ञात्वाद्धाभ्यस्यतां सदा ॥ १६॥
तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।
एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ १७॥
देहात्मधीवद्ब्रह्मात्मधीदार्ढ्ये कृतकृत्यता ।
यदा तदायं म्रियतां मुक्तोऽसौ नात्र संशयः ॥ १८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ लघुवाक्यवृत्तिः संपूर्णा ॥